शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/कविवंशवर्णनम्

विकिस्रोतः तः
← विंशः सर्गः(शिशुपालवधवर्णनम्) शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)
कविवंशवर्णनम्
माघः
श्लोकानुक्रमणिका →


अथ कविवंशवर्णनम् । [प्रशस्तिश्लोकानां मल्लिनाथकृता टीका नोपलब्धेति वल्लभदेवकृतैवात्र लिख्यते।] सर्वाधिकारी सुकृताधिकारः श्री1वर्मलाख्यस्य बभूव राज्ञः । असक्तदृष्टिर्विरजाः सदैव देवोऽपरः सुप्रभदेवनामा ॥१॥ सर्वाधिकारीति ॥ श्रीवर्मलाख्यस्य राज्ञः श्रीवर्मलाभिधानस्य नृपतेः अखिलकर्मस्थानाधिकृतो महासेनापतिः सुप्रभदेवनामा बभूव सुप्रभदेवा- भिधानोऽभूत् । किंलक्षणः सुप्रभदेवनामा। सुकृते पुण्ये कर्म- ण्यधिकारो व्यापारो यस्य स तथा । धर्मेऽवसक्तः । यश्च सुकृत एवाधिकृतः स कथं सर्वाधिकारी । तथा अपरो देवः द्वितीयो राजेव । तत्सादृश्यात् । राजा हि सर्वाधिकारी भवति । अथवा अपरो देवो देवसदृशः । सुरा हि सुकृताधिकृताः, असक्तदृष्टयोऽनिमिषाः, विरजस्का निर्धूलयः । वृत्तमिदमुपजातिः ॥ १ ॥ काले मितं तथ्यमुदर्कपथ्यं तथागतस्येव जनः सचेताः। विनानुरोधात्स्वहितेच्छयैव महीपतिर्यस्य वचश्चकार ॥२॥ काले इति ॥ यस्य सुप्रभदेवस्य काले समये यद्वचनमुपदेशवाक्यं तन्म- हीपतिवर्मलाख्यश्चकार अकरोत् । कः कस्येव वचश्चकारेत्याह-तथागतस्य बुद्ध- भट्टारकस्य वचो यथा सचेताः प्राज्ञो जनोऽन्वतिष्ठत् । कथंचिन्मन्दादरश्चकार, नेत्याह-कुतः । अनुरोधाद्विना उपरोधभावमृते । कथं चकारेत्याह-स्वहितेच्छ- यैव स्वस्यात्मनो हितेच्छयानुकूलचिकीर्षया । यतोऽसौ सचेताः प्राज्ञः । किंलक्षणं वचः हितहेतुत्वमाह-मितं स्वल्पाक्षरम् । तथा तथ्यं सत्यम् । अपरं किंलक्षणं वचः । उदर्कपथ्यमायत्यां हितम् । 'उदर्कः फलमुत्तरम्' इत्यमरः । तथागतस्य बुद्धभट्टारकस्य सचेताः प्राज्ञो जनो मितं तथ्यमुदर्कपथ्यं वचो यथा स्वहितेच्छ- यैव करोति तत्रानुरोधात्कृत्वोभयतः किलेदमुक्तमिति ॥ २॥ तस्याभवद्दत्तक इत्युदात्तः क्षमी मृदुर्धर्मपरस्तनूजः । यं वीक्ष्य वैयासमजातशत्रोर्वचो गुणग्राहि जनैः प्रतीये ॥३॥ तस्येति ॥ तस्य सुप्रभदेवस्य दत्तक इति दत्तकाख्यस्तनूजोऽभवत् पुत्रो- ऽभूत् । किंलक्षणो दत्तकः । उदात्तो विपुलचित्तः । तथा क्षमी क्षमाशीलः । अपरं किंलक्षणो दत्तकः । अत एव मृदुरकठोरः । तथा धर्मपरः सुकृतैकसक्तः । यं दत्तकं जनैर्वीक्ष्य लोकैर्दृष्ट्वा वैयासं व्यासस्येदं कृष्णद्वैपायनोक्तमजातशत्रोर्युधिष्ठिरस्य पाठा०-१ श्रीधर्मनाभस्य', 'श्रीवर्मतालस्य'. ५२२ शिशुपालवधे गुणग्राहि गुणग्राहकं वचः प्रतीये वचनं प्रतिपन्नमङ्गीकृतं भवति । सत्यं गुणिनः पुरुषा (?) भगवता कृष्णद्वैपायनेन पार्थस्याधिकार्यस्य वचनं किंचिदुक्तम् । अत्र च दत्तकोऽयं निखिलगुणभाजनं निदर्शनम् । अन्यथा कथमेवंगुणोऽयं स्यात् । क्षमीति शमादित्वाध्दिनुण् । व्यासस्येदं वैयासं वचो भारतम् । वृद्धायभवादित्वादन्यत्र नरस्यासुलभः (?) । गुणान्गृह्णातीति गुणग्राहि । आख्यानकी वृत्तम् ॥३॥

सर्वेण सर्वाश्रय इत्यनिन्धमानन्दभाजा जनितं जनेन ।
यश्च द्वितीयं स्वयमद्वितीयो मुख्यः सतां गौणमवाप नाम ॥ ४॥

 सर्वेणेति ॥ यश्च दत्तकः स्वयमात्मना सर्वाश्रय इत्येवंभूतं नाम संज्ञान्तरम- वाप लेभे । किंलक्षणं द्वितीयं नाम । सर्वेणाखिलेन जनेन लोकेन आनन्दभाजा तुष्टेन सता जनितं कृतम् । अपरं किंलक्षणं नाम । गौणं गुणप्रवृत्तिनिमित्तभूतमागतमर्थानुगम् । सर्वेषामाश्रयत्वात् । यथा हि सर्वे तत्र द्विजदीनानाथातिथिमित्रबान्धवा विश्राम्यन्ति तथासौ सर्वाश्रयः । न तु तैलपायिकावन्नाममात्रेण । अत एवानवद्यमनिन्धं प्रशस्यं श्लाघ्यम् । किंलक्षणो यः । अद्वितीयः सर्वोत्कृष्टः । अविद्यमानो गुणादधिको गुणो यस्य (?) सोऽद्वितीयः इति कृत्वा । तथा सतां मुख्यः प्रधानोऽग्रणीः । सर्वं त्वेतद्विरुद्धमिवावभासते । तथा हि- हि द्वितीयं नाम विद्यते कथमसावद्वितीयो भवेत् । यश्च मुख्यः स कथं गौणमप्रधानं स्यात् । यस्य च लोकैरपरं नाम जनितं स कथं तत्स्वयं लेभे । अविरोधस्तु मुख्यः स्यादेव । इति नामस्वरूपमात्रावस्थाप्यमानस्य सर्वाश्रयस्य प्रातिपदिकार्थमात्रे सति कर्मत्वाभावाद्वितीयानुपपत्तिः । मुखमिव मुख्यः । 'शाखादिभ्यो यत्' । (५।३।१०३) विरोधालंकारः । इन्द्रवज्रा वृत्तम् ॥ ४ ॥

श्रीशब्दरम्यकृतसर्गसमाप्तिलक्ष्म
 लक्ष्मीपतेश्चरितकीर्तनमात्रचारु ।
तस्यात्मजः सुकविकीर्तिदुराशयादः
 काव्यं व्यधत्त शिशुपालवधाभिधानम् ॥५॥

 श्रीशब्देति ॥ तस्य दत्तकस्यात्मजोऽपत्यमद एतत्काव्यं शिशुपालवधाभिधानं शिशुपालवधनामकं काव्यं ग्रन्थरूपं व्यधत्तारचयत् । शिशुपालवध इत्यभिधानं यस्य तत्तथा । केन हेतुना । सुकविकीर्तिदुराशया । सुकवीनां श्रेष्ठविदुषां वर- रुचि-सुबन्धु-सोमनाथ-भवभूति-क्रीडानन्द-कालिदास-बिह्लण-भारवि-बाण-मयूरादीनां या कीर्तिः ख्यातिर्यशस्तत्र या दुराशा दुरभिलाषस्तया । महाकविकीर्तिलिप्सयेत्यर्थः । दुष्टत्वं त्वाशायाः स्वल्पबुद्धित्वेन सुकविकीर्तेरप्राप्यत्वात् । तथा च कालिदासः-'मन्दः कवियशःप्रार्थी गमिष्यास्युपहास्यताम् । प्रांशुलभ्ये फले मोहादुद्वाहुरिव वामनः ॥' (रघुवंशे १३) इति । किंलक्षणं काव्यम् । श्रीशब्दरम्यकृतसर्गसमाप्तिलक्ष्म । श्रीरित्ययं शब्दो ध्वनिर्मङ्गलवाचकत्वात् । तेन रम्यं कृतं मनोहरं विहितं सर्गाणां समाप्तौ अर्थादध्यायानां समापने लक्ष्म चिह्न यत्र तत्तथोक्तम् । अपरं किंलक्षणं काव्यम् । लक्ष्मीपतेः श्रीनारायणस्य कीर्तनमात्रचारु कीर्तनमात्रेण वर्णनमात्रेण चारु मनोज्ञम् । न त्वलंकारादिनेत्यनौद्धत्यकथनम् । भङ्ग्या तु सर्वेऽत्र काव्ये गुणाः सन्तीत्युक्तं भवति । श्रीरित्ययं शब्दः । मयूरव्यंसकादित्वात्समासः । यदि श्रीश्चासौ शब्दश्चेति कर्मधारयः केवलमेव । चरितकीर्तनमात्रमित्यस्वपदेन विग्रहः । सुप्सुपेति समासः । वसन्ततिलका वृत्तम् । उदात्तो मध्यमोऽलंकारः ॥ ५॥

इति कविवंशवर्णनम् ।

समाप्तम्।