शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/विंशः सर्गः(शिशुपालवधवर्णनम्)

विकिस्रोतः तः
← एकोनविंशः सर्गः(युद्धवर्णनम्) शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)
विंशः सर्गः(शिशुपालवधवर्णनम्)
माघः
कविवंशवर्णनम् →


विंशः सर्गः।

 अथ हरिशिशुपालयोयुद्धं वर्णयितुमुपोद्धातं करोति-

 मुखमुल्लसितत्रिरेखमुचैर्भिदुरभ्रूयुगभीषणं दधानः ।
 समिताविति विक्रमानमृष्यन्गतभीराहत चेदिराण्मुरारिम् ॥१॥

 मुखमिति ॥ इतीत्थं समितावाजौ । 'समित्याजिसमिद्युधः' इत्यमरः । विक्रमान्मुरारेः पराक्रमान् अमृष्यन्नसहमानः अत एव तिस्रो रेखास्त्रिरेखाः । 'दिक्संख्ये संज्ञायाम्' (२।१५०) इति समासः । ता उल्लसिताः क्रोधादुद्भूता यस्मिंस्तदुल्लसितत्रिलेखम् । क्वचित् 'त्रिलोकम्' इत्यपि पाठः । तथा भिदुरेण ग्रन्थिलेन भूयुगेन भीषणं भयंकरं उच्चैरुन्नतं मुखं दधानः चेदिषु राजते चेदिराट् । संपदादिभ्यः क्विप् । यद्वा चेदीनां राट् चेदिराट् । 'अन्येभ्योऽपि दृश्यते' (३।२।१७८) इति क्विप् । 'राजा राट् पार्थिवः क्ष्माभृत्' इत्यमरः । गतभीर्निर्भीकः सन् मुरारि हरिं आह्वत । अयमहं क्वासि मामभ्युपैहि इति स्पर्धया अमर्षादाकारयामासेत्यर्थः । विनाशकाले विपरीतबुद्धेर्दुर्वारत्वादिति भावः । 'स्पर्धायामाङः' (१॥३॥३१) इति ह्वयतेर्लुङि 'आत्मनेपदेप्वन्यतरस्याम्' (३।१।५४) इति च्लेरङादेशः । अत्रामर्षस्य विशेषणगत्या आह्वानहेतुत्वात्काव्यलिङ्गम् । सर्गेऽस्मिन्नौपच्छन्दसिकं वृत्तम् । वैतालीये गुर्वाधिक्यात् । तदुक्तं 'वैतालीयं द्विःस्वरा अयुक्पादे युग्वसवोऽन्ते गः', 'गौपच्छन्दसकम्' इति ॥१॥

 शितचक्रनिपातसंप्रतीक्षं वहतः स्कन्धगतं च तस्य मृत्युम् ।
 अभिशौरि रथोऽथ नोदिताश्वः प्रययौ सारथिरूपया नियत्या २

 शितेति ॥ अथ आह्वानानन्तरं शितचक्रनिपातं शितसुदर्शनप्रहारं संप्रतीक्षत इति शितचक्रनिपातसंप्रतीक्षम् । ईक्षतेः कर्मण्यण् । स्कन्धगतं मृत्युं वहतः तस्य चैद्यस्य रथः सारथिरूपया नियत्या विधिनेति रूपकम् । 'भाग्यं स्त्री नियतिर्विधिः' इत्यमरः । नोदिताश्वः प्रेरिताश्वः सन् अभिशौरि शौरिमभि । आभिमुख्येऽव्ययी- भावः । 'अव्ययादाप्सुपः' (२।४।८२) इति सुपो लुक् । प्रययौ प्रतस्थे ॥२॥

 अभिचैद्यमगाद्रथोऽपि शौरेवनि जागुडकुङ्कुमाभिताः ।
 गुरुनेमिनिपीडनावदीर्णव्यसुदेहस्रुतशोणितैर्विलिम्पन् ॥ ३ ॥

 अभीति ॥ अथ शौरेः कृष्णस्य रथोऽपि जागुडो देशविशेषः, तत्र यत्कुङ्कुमं तद्वदभिताम्रररुणैरित्युपमा । यावकेति पाठे यावकश्च कुङ्कुमं च ताभ्यामभि- ताम्ररित्यर्थः । गुरूणां नेमीनां चक्रधाराणां निपीडनेन नोदनेनावदीर्णेभ्यो व्यसूनां विगतप्राणानां देहेभ्यः स्रुतैः शोणितैरसृम्भिरवनिं विलिम्पन्नुपदिहानः सन् अभिचैद्यं चैद्यमभि । समासो व्यासो वा विकल्पात् अगात् । 'इणो गा लुङि' (२०४५) इति गादेशः ॥३॥

 स निरायतकेतनांशुकान्तः कलनिक्वाणकरालकिङ्किणीकः ।
 विरराज रिपुक्षयप्रतिज्ञामुखरो मुक्तशिखः वयं नु मृत्युः॥४॥

 स इति ॥ निरायतोऽतिदीर्घः केतनांशुकान्तः ध्वजपटाञ्चलो यस्य सः कलनिक्वाणैः मधुरस्वरैः करालाः कुशलाः प्रगल्भाः किङ्किण्यः क्षुद्रघण्टिका यस्य स तथोक्तः । 'नवृतश्च' (५।४।१५३) इति कप् । 'किङ्किणी क्षुद्रघण्टिका' इत्यमरः । स कृष्णस्य रथः रिपुक्षयस्य शिशुपालवधस्य प्रतिज्ञया मुखरो वाचालः अत एव मुक्तशिखो मुक्तकेशः विरराज । नाहमेनमहत्वा शिखाबन्धं करिष्यामी- त्युद्धोषयन्नित्यर्थः । स्वयं साक्षान्नु मृत्युरन्तकः किमित्युत्प्रेक्षा ॥ ५ ॥

 सजलाम्बुधरावानुकारी ध्वनिरापूरितदिङ्मुखो रथस्य ।
 प्रगुणीकृतकेकमूर्ध्वकण्ठैः शितिकण्ठैरुपकर्णयांबभूवे ॥५॥

विंशः सर्गः ।

५०१ सजलेति ॥ सजलो योऽम्बुधरः तस्यारवं गर्जितमनुकरोतीति तथोक्तः । तद्वद्गम्भीर इत्यर्थः । उपमालंकारः । आपूरितदिङ्मुखो व्याप्तदिगन्तो रथस्य कृष्णरथस्य ध्वनिः । ऊर्ध्वाः कण्ठा येषां तैरूद्धकण्ठैः । आकस्मिकघनरवलोभाद्विस्मयहर्षोन्नमितकंधरैरित्यर्थः । शितिकण्ठैर्नीलकण्ठैः प्रगुणीकृता अतितारीकृताः केका यस्मिन्कर्मणि तद्यथा तथा । 'केका वाणी मयूरस्य' इत्यमरः । उपकर्णयांबभूवे । मेघारवभ्रान्त्या दत्तकणैरित्यर्थः । एतेन भ्रान्तिमदलंकारो व्यज्यत इति वस्तुनालंकारध्वनिः ॥ ५॥ अभिवीक्ष्य विदर्भराजपुत्रीकुचकाश्मीरजचिह्नमच्युतोरः । चिरसेवितयापि चेदिराजः सहसावाप रुषा तदैव योगम् ॥६॥ अभीति ॥ चेदिराजः शिशुपालः । 'राजाहःसखिभ्यष्टच्' (५।४।९१)। विदर्भराजपुत्र्या रुक्मिण्याः कुचयोर्यकाश्मीरज कुङ्कुमं तच्चिह्नं यस्य तदच्युतोरः कृष्णवक्षः अभिवीक्ष्य चिरसेवितया चिरोपयुजापि । रुक्मिणीहरणात्प्रभृति संभृतयापीत्यर्थः । रुषा रोषेण तदैव तदानीमिवेत्युत्प्रेक्षा । सहसा योगं संबन्धमवाप । यथा कामी काम्यन्तरभोगचिह्नदर्शनोद्दीप्तः कान्तया संयुज्यते तद्वदित्यर्थः । परमार्थस्वरूप एव कोपो वैदर्भीकुचकुङ्कुमदर्शनादुद्दीपित इत्यर्थः । अत्र प्रकृतरुविशेषणसाम्यादप्रकृतकान्ताप्रतीतेः समासोक्तिः, उक्तोत्प्रेक्षा त्वङ्गमस्याः ॥ ६ ॥ जनिताशनिशब्दशङ्कमुच्चैर्धनुरास्फालितमध्वनन्नृपेण । चपलानिलचोद्यमानकल्पक्षयकालाग्निशिखानिभस्फुरज्यम् ७ जनितेति ॥ नृपेण चेदिपेन आस्फालितं संघट्टितं अत एव चपलानिलेन तीवानिलेन चोद्यमानस्य संवय॑मानस्य कल्पक्षयकालाग्नेर्या शिखा ज्वाला तया समाना तन्निभा इति नित्यसमासः । सा स्फुरन्ती दोधूयमाना ज्या मौर्वी यस्य तत्तथोक्तं धनुः जनिता उत्पादिता अशनिशब्दशङ्का यस्मिन्कर्मणि तत्तथोक्तं उच्चैस्तरामध्वनत् । अत्राग्निशिखानिभेत्युपमाया अशनिशब्दशङ्केति भ्रान्तिमतः आस्फालितमध्वनदिति पदार्थहेतुककाव्यलिङ्गस्य च सापेक्षत्वात्संकरः ॥ ७ ॥ समकालमिवाभिलक्षणीयग्रहसंधानविकर्षणापवगैः । अथ साभिसरं शरैस्तरस्वी स तिरस्कर्तुमुपेन्द्रमभ्यवर्षत् ॥८॥ समेति ॥ अथ धनुरास्फालनानन्तरं तरस्वी बलवान्स चैद्यः समकालमिवेत्युत्प्रेक्षा । अत्यन्तसंयोगे द्वितीया । अभिलक्षणीया दृश्या ग्रहो ग्रहणं संधानं मौर्व्या योजनं विकर्षणमाकर्षणमपवर्गों मोक्षश्च येषां तैः शरैः साभिसरं सानुचरमुपेन्द्रं हरिं तिरस्कर्तुमाच्छादयितुमभ्यवर्षत् ॥ ८ ॥ ऋजुताफलंयोगशुद्धिभाजां गुरुपक्षाश्रयिणां शिलीमुखानाम् । गुणिना नतिमागतेन संधिः सह चापेन समञ्जसो बभूव ॥९॥ पाठा०-१ 'चिरसंचितया' इति पाठः. २ शुद्धियोग". शिशुपालवधे ऋजुतेति ॥ ऋजुता अवक्रत्वं अकुटिलबुद्धित्वं च फलं शल्यं, श्रेयश्च तेन योगः शुद्धिलॊहशुद्धिनिर्विषत्वं च, अन्यत्र बाह्याभ्यन्तरशुद्धिस्तां भजन्तीति तद्भाजां गुरोर्महतः पक्षस्य कङ्कादिपत्रस्य, सहायस्य चाश्रयः आश्रयणमेषामस्तीति गुरुपक्षाश्रयिणां शिलीमुखानां शराणाम् । गुणिना ज्यावता नतिमागतेन आकर्षणाकुञ्चितकोटित्वं, विधेयत्वं च प्राप्तेन चापेन सह संधिः संबन्धः समञ्जसः साधीयान्बभूव । अबलवतां बलिनाननेण संधिरेवोचित इति भावः । अत्र प्रस्तुतचापशिलीमुखयोर्विशेषणसाम्यादप्रस्तुतारिविजिगीषुवस्तुप्रतीतेः समासोक्तिः । तच्च साम्यं वाच्यप्रतीयमानयोरभेदाध्यवसायात्सिद्धम् । न चात्र समानालंकारशङ्का कार्या । 'समानालंकृतिर्योगे वस्तुनोरनुरूपयोः' इत्यनुरूपयोरेव वस्तुनोर्योगेन तस्योपस्थानादित्यनुसंधेयम् । जिगीषुगुणयोगिनोरिह भेदात् ॥ ९॥ अविषह्यतमे कृताधिकारं वशिना कर्मणि चेदिपार्थिवेन । अरसद्धनुरुचकैदृढार्तिप्रसभाकर्पणवेपमानजीवम् ॥१०॥ अविषह्येति ॥ वशिना स्वतन्त्रेण चेदिपार्थिवेन अविषह्यतमे दुष्करे कर्मण्यरिजयव्यापारे कृताधिकारं कृतनियोगम् । नियुज्यमानमित्यर्थः । अत एव दृढयोरोः धनुष्कोट्योः प्रसभाकर्षणेन वेपमाना दोधूयमाना जीवा ज्या यस्य तत्, अन्यत्र दृढया. ताडनेन प्रसभाकर्षणेन च वेपमानः कम्पमानो जीवः प्राणो यस्येत्यर्थः । 'अर्तिः पीडाधनुष्कोट्योः' इत्यमरः । 'जीवः प्राणेऽस्त्रियां ना तु जन्तावात्मनि गीष्पतौ । त्रिषु जीवति मौव्या स्त्री' इति वैजयन्ती । धनुरुच्चकैररसत् अध्वनदाक्रन्दत् । यथा राज्ञा नियुक्तः पराधीनः बलादाकृष्यमाणः क्रोशति तद्वदित्यर्थः । अत्रापि प्रकृतविशेषणसाम्यादप्रकृतापराध्यधिकृतपुरुषप्रतीतेः समासोक्तिः ॥ १०॥ अनुसंततिपातिनः पटुत्वं दधतः शुद्धिभृतो गृहीतपक्षाः । वदनादिव वादिनोऽथ शब्दाः क्षितिभर्तुर्धनुषः शराः प्रसस्रुः ११ अन्विति ॥ अथाकर्षणानन्तरं क्षितिभर्तुश्चैद्यस्य धनुषः सकाशात् अनुसंतत्या पतन्तीत्यनुसंततिपातिनोऽविच्छेदवर्तिनः पटुत्वं लक्ष्यभेदपाटवं, वाचकत्वशक्तिं च दधतः शुद्धिभृतः लोहशुद्धिभृतः निर्विषा वा, अन्यत्र साधव इत्यर्थः । गृहीतपक्षाः स्वीकृतकङ्कादिपत्राः, अन्यत्र गृहीतनित्यत्वादिसाध्यार्थाः । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति वैजयन्ती । शराः वादिनः कथकस्य वदनाच्छब्दाः प्रतिज्ञाहेत्वादय इव प्रसस्रुर्निर्जग्मुः श्लिष्टविशेषणेयसुपमेति केचित् । श्लेष एव प्रकृताप्रकृतविषय इत्यन्ये ॥ ११ ॥ गवलासितकान्ति तस्य मध्यस्थितघोरायतबाहुदण्डनासम् । ददृशे कुपितान्तकोन्नमद्धयुगभीमाकृति कार्मुकं जनेन ॥ १२ ॥ गवलेति ॥ 'गवलं माहिषं शृङ्गम्' इत्यमरः । तद्वदसितकान्ति कृष्णवर्णं विंशः सर्गः। मध्ये स्थिता घोरा भीमा, आयता च बाहुदण्डो नासा नासिकेव यस्मिंस्तत्तथोक्तम् । कुपितत्यान्तकस्य मृत्योरुन्नतं यद्भूयुगं तद्वनीमा आकृतिर्यस्य तत्तस्य चैद्यस्य कार्मुकं जनेन ददृशे दृष्टम् । सभयविस्मयमिति भावः । उपमालंकारः॥१२॥ तडिदुज्ज्वलजातरूपपुङ्खैः खमयाश्याममुखैरभिध्वनद्भिः। जलदैरिव रंहसा पतद्भिः पिदधे संहतिशालिभिः शरौघैः ॥१३॥ तडिदिति ॥ तडिद्वदुज्जवला दीप्ता जातरूपस्य हेम्नः पुङ्खाः; कर्तर्यो येषां तैः । अयोवत् श्याममुखैः श्यामाग्रैरभिध्वनद्भिर्ध्वनिभिः स्वनत्पक्षैर्गर्जद्भिश्च रंहसा वेगेन पतद्भिर्धावद्भिः संहतिशालिभिः सङ्घवाहिभिः शरौघैर्जलदैरिव खमाकाशं पिदधे पिहितम् । कर्मणि लिट् । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यपेरकारलोपः । उपमालंकारः ॥ १३ ॥ शितशल्यमुखावदीर्णमेघक्षरदम्भःस्फुटतीव्रवेदनानाम् । स्रवदयुततीव चक्रवालं ककुभामौर्ण विषुः सुवर्णपुङ्खाः ॥ १४ ॥ शितेति ॥ सुवर्णपुङ्खाः सुवर्णकर्तरिकाः शराः शितैर्निशितैः शल्यमुखैः फलाग्रैः अवदीर्णा अवभिन्ना ये मेघास्तेभ्यः क्षरता स्रवता अम्भसा स्फुटा व्यक्ता तीव्रा वेदना यासां तासां ककुभां संबन्धि स्रवन्ती अस्रुततिरस्रुसंततिर्यस्य तदिव शरप्रहारवेदनया रुददिव स्थितमित्युत्प्रेक्षा । चक्रवालं 'मण्डलमौर्णविषुराच्छादयामासुः। ऊर्णोतेर्लुङीडागमे तस्य 'विभाषोर्णोः' (१॥२॥३) इति डित्त्वाभावपक्षे 'ऊर्णोतेर्विभाषा' (७।२।६) इति वृद्धिविकल्पात्पक्षे गुणः अजादित्वात् 'आटश्च' (६।१।९०) इति वृद्धिः ॥ १४ ॥ अमनोरमतां यती जनस्य क्षणमालोकपथानभासदां वा । रुरुधे पिहिताहिमद्युतिर्द्यौर्विशिखैरन्तरिता च्युता धरित्री ॥ १५ ॥ अमन इति ॥ विशिखैश्चैद्यबाणैः कर्तृभिः पिहिताहिमद्युतिस्तिरोहितार्का । अत एवामनोरमतां यती प्राप्नुवती । इणः शतरि 'उगितश्च' (४।१६) इति ङीप् । द्यौराकाशं जनस्य भौमलोकस्य आलोकपथादृष्टिमार्गात् क्षणं रुरुधे रुद्धा । रुधेः कर्मणि लिद । अत्र पथो रोधापायत्वात् 'ध्रुवमपाये-' (१।४।२४) इति अपादानत्वे पञ्चमी । तथान्तरिता च्युता तिरोहिता नष्टा अत एवामनोरमतां यती धरित्री नभःसदां वा आलोकपथाद्गुरुधे । वाकारो जनसमुच्चयार्थः । अत्र द्युधरित्र्योः प्रकृतयोरेव रोधाख्यतुल्यधर्मयोगात्तुल्ययोगिताभेदौ ताभ्यामेव जनस्य नभःसदां यथासंख्यान्वयाद्यथासंख्यालंकारः सापेक्षतया संकीर्यते ॥ १५ ॥ विनिवारितभानुतापमेकं सकलस्थापि मुरद्विषो बलस्य । शरजालमयं समं समन्तादुरु सञव नराधिपेन तेने ॥ १६ ॥ विनिवारितेति ॥ नराधिपेन सकलस्यापि मुरद्विषो हरेबलस्य सैन्यस्य विनिवारितो भानुतापो येन तदेकमद्वितीयं शरजालमयं बाणवृन्दात्मकं उरु शिशुपालवधे महत्सद्मेव सदनमिवेत्युत्प्रेक्षा । समं युगपत्समन्तात्तेने । कृतमित्यर्थः । तनोते: कर्मणि लिट् ॥ १६ ॥ इति चेदिमहीभृता तदानीं तदनीकं दनुसूनुसूदनस्य । वयसामिव चक्रमक्रियाकं परितोऽरोधि विपाटपञ्जरेण ॥१७॥ इतीति ॥ इतीत्थं चेदिमहीभृता चैद्येन तदानीं तत्काले दनुसूनुसूदनस्य दानवान्तकस्य हरेस्तदनीकं बलम् । 'वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । वयसां चक्रं पक्षिसङ्घ इव अक्रियाकं निश्चेष्टं यथा तथा विपा- टयन्तीति विपाटाः शराः । पचाद्यच् । तैरेव पारेण परितः सर्वतः अरोधि रुद्धम् । रुधेः कर्मणि लुङ् । उपमा ॥१७॥ इषुवर्षमनेकमेकवीरस्तदरिप्रच्युतमच्युतः पृषकैः । अथ वादिकृतं प्रमाणमन्यैः प्रतिवादीव निराकरोत्प्रमाणैः ॥१८॥ इष्विति ॥ अथानीकरोधनानन्तरं एकवीरो महाशूरोऽच्युतो हरिररिप्रच्युतं शत्रुगलितं तदनेकमपरिमितमिषुवर्ष पृषकैर्बाणैः वादिकृतं वादिना प्रयुक्तं प्रमाणमनुमान अन्यैः प्रमाणैः प्रत्यनुमानैः प्रतिवादीव निराकरोत् । 'इवेन सह समासो विभक्त्यलोपश्च' इति समासात्समासगता श्रौती पूर्णोपमा ॥ १० ॥ प्रतिकुञ्चितकूर्परेण तेन श्रवणोपान्तिकनीयमानगव्यम् । ध्वनति स धनुर्धनान्तमत्तप्रचुरक्रौञ्चरवानुकारमुच्चैः ।। १९ ॥ प्रतीति ॥ प्रतिकुञ्चितकूपरेण कुञ्चितकफोणिना । 'स्यात्कफोणिस्तु कूर्परः' इत्यमरः । तेन हरिणा श्रवणोपान्तिकं नीयमाना आकृष्यमाणा गव्या ज्या यस्य तत् । 'गव्यं गवां हिते गव्या ज्यायां क्षीरादिके त्रिषु' इति विश्वः । धनुः शार्ङ्गं घनान्ते शरदि ये मत्ताः प्रचुरा भूरयः क्रौञ्चास्तेषां रवमनुकरोतीति तदनुकारम् क्रौञ्चकूजितसदृशं यथा तथेत्यर्थः । 'कर्मण्यण्' । (३।२।१) उच्चैस्तारं ध्वनति स दध्वान । 'लट् स्मे' (३।२।११८) इति भूते लट् । स्वभावोक्त्युपमयोः संकरः॥१९॥ उरसा विततेन पातितांसः स मयूराञ्चितमस्तकस्तदानीम् । क्षणमालिखितो नु सौष्ठवेन स्थिरपूर्वापरमुष्टिराबभौ वा ॥२०॥ उरसेति ॥ तदानीं धनुष्कर्षणसमये विततेन विस्तारितेनोरसा उपलक्षितः पातितांसो नमितस्कन्धः मयूरवदञ्चितं मनोहरं मस्तकं यस्य सः । उन्नमितमूर्धेत्यर्थः । स्थिरौ दृढौ पूर्वापरौ अग्रिमचरमौ मुष्टी गृहीतलस्तकमौर्वीकौ पाणी यस्य स हरिः । सुष्टु भावः सौष्ठवं तेन सौष्ठवेन स्थानकपाटवेन हेतुना क्षणमालिखितो नु लिखित इव आबभौ वा बभासे किम् । नुशब्दो वितर्कार्थे । 'नु पृच्छायां वितर्के च' इत्यमरः । वाशब्दोऽपि तादृश इत्युत्प्रेक्षालंकारोऽयम् ॥२०॥ ध्वनतो नितरां रयेण गुर्व्यस्तडिदाकारचलद्गुणादसंख्याः । विंशः सर्गः। इषवो धनुषः सशब्दमाशु न्यपतन्नम्बुधरादिवाम्बुधाराः॥२१॥ ध्वनत इति ॥ ध्वनतो गर्जतः तडित इवाकारो यस्य स तडिदाकारः चलनात्तेजोमयत्वाचाचिरप्रभाकारश्चलन् गुणो मौर्वी यस्य तस्मात् । 'मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः । धनुषः शामत् गुर्यों महत्यः असंख्या अपरिमिता इषवोऽम्बुधरान्मेघात् अम्बुधारा इवाशु सशब्दं न्यपतन् । अत्रोपमानोपमेययोरेकलिङ्गतान्वयात् इषुशब्दो द्विलिङ्गोऽपि स्त्रीलिङ्ग एवं प्रयुक्त इति ज्ञापनाय गुर्व्य इति विशेषणम् ॥ २१ ॥ शिखरोन्नतनिष्ठुरांसपीठः स्थगयन्नेकदिगन्तमायतान्तः । निरवर्णि सकृत्प्रसारितोऽस्य क्षितिभतेव चमूभिरेकवाहुः ॥ २२ ॥ शिखरेति ॥ शिखरं शृङ्गमिवोन्नतं निष्ठुरं चांसपीठं यस्य स एकदिगन्तं एकदिग्भागं स्थगयन् आयताम्तो द्वाधिष्ठस्वरूपः । 'अन्तोऽध्यवसिते मृत्यौ स्वरूपे निश्चयेऽन्तिके' इति वैजयन्ती । सकृपसारितः न तु पुनःपुनरिति स्थैर्योक्तिः । अस्य हरेरेकबाहुः । चापरोपितो वामबाहुरित्यर्थः । चमूभिः क्षितिभर्तेव भूधर इव निरवर्णि । साधु निरीक्षित इत्यर्थः । 'निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः ॥ २२ ॥ तमकुण्ठमुखाः सुपर्णकेतोरिषवः क्षिप्तमिषुव्रजं परेण । विभिदामनयन्त कृत्यपक्षं नृपतेर्नेतुरिवायथार्थवर्णाः ॥ २३ ॥ तमिति ॥ अकुण्ठमुखाः निशितायाः प्रगल्भगिरश्च सुपर्णकेतोर्गरुडध्वजस्य हरेरिषवः परेणारिणा क्षिप्तं मुक्तमिषुव्रज अयथार्थवर्णा असत्याक्षराः कपटवचनाः । उभयवेतना इत्यर्थः । 'कृत्यज्ञेयो यथावर्णश्चारः प्रणिधिरेव च' इत्युत्पलमाला । नेतुर्नायकस्य जिगीषोर्नृपतेः । कृत्यपक्षममात्यादिभेद्यवर्गमिव । 'कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः' इत्यमरः । विभिदा भेदम् । 'षिद्भिदादिभ्योऽङ्' । (३।३।१०४) अनयन्त । 'स्वरितजितः-' (१॥३॥७२) इत्यात्मनेपदम् ॥ २३ ॥ दयितैरिव खण्डिता मुरारेविशिखैः संमुखमुज्वलाङ्गलेखैः । लघिमानमुपेयुषी पृथिव्यां विफला शत्रुशरावलिः पपात ॥२४॥ दयितैरिति ॥ उज्ज्वलाः स्फुटा अङ्गेषु लेखाचित्रलेखा नखरेखाश्च येषां तैः मुरारेर्विशिखैर्दयितैः प्रियैरिव संमुखं समक्षमेव खण्डिता नुन्ना, अन्यत्रावमानिता अत एव विफला विशल्या अलब्धकामा च । अत एव लघिमानमगुरुत्वं अल्पतां चोपेयुषी शत्रुशरावलिः पृथिव्यां पपात । अत्र प्रकृतशरावलिविशेपणसाम्यादप्रकृतखण्डितानायिकाप्रतीतेः समासोक्तिः । दयितैरिवेत्युपमाखण्डिताविशेषणान्तःपातित्वादङ्गमेव । अत एव तच्च विशेषणसाम्यं श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च भवतीत्युक्तं सर्वस्वकारैः 'ज्ञातेऽन्यासङ्गविकृते खण्डिताकषायिता' इति । साप्येवं पृथिव्यां पततीति भावः ॥ २४ ॥ 1 शिशु० ४३ शिशुपालवधे. प्रमुखेऽभिहताश्च पत्रवाहाः प्रसभं माधवमुक्तवत्सदन्तः । परिपूर्णतरं भुको गतायाः परतः कातरवत्प्रतीपमीयुः ॥ २५ ॥ प्रमुख इति ॥ पत्राणि वहन्तीति पत्रवाहाः पत्रिणश्चैद्यशराः । 'कर्मण्यण् (३।२।१)। माधवमुक्तवत्सदन्तैः शौरिक्षिप्तशरैः प्रसभं बलाव्यमुखे शल्याने वदने चाभिहताः खण्डिताः सन्तः अत एव कातरैः त्रस्तैस्तुल्यं कातरवत् । तुल्यार्थे वतिप्रत्ययः । परिपूर्णतरं गतायाः । यावद्गन्तव्यं गताया इत्यर्थः । भुवोऽन्तरालभूमेः परतः प्रतीपं प्रतिकूलमीयुः प्रापुः प्रत्यागताश्च । माधवान्तिकात्परावृत्य जग्मुरित्यर्थः । चकारः पूर्वश्लोकोत्तपतनसमुच्चयार्थः । केचित्खण्डितास्तत्रैव पेतुः । केचिन्मुखेषु प्रतिहताः । प्रतिनिवृत्ता इत्यर्थः । कातरवदिति तद्धितगता श्रौती पूर्णोपमा ॥ २५ ॥ इतरेतरसंनिकर्षजन्मा फलसंघट्टविकीर्णविस्फुलिङ्गः । पटलानि लिहन्बलाहकानामपरेषु क्षणमज्वलत्कृशानुः ॥२६॥ इतरेतरेति ॥ इतरेतरेसंनिकर्षजन्मा शराणां मिथःसंश्लेषोत्थः । जन्मोत्तरपदत्वायधिकरणोऽपि बहुंब्रीहिरिष्यते । फलसंघटनेन शल्यसंघटनेन विकीर्णा विस्फुलिङ्गा यस्य सः कृशानुरग्निर्बलाहकानाम् । वारि वहन्तीति बलाहकाः । पृषोदरादित्वात्साधुः । पटलानि लिहन्नास्वादयन् अपरेषु शत्रुषु 'समरेषु' इति पाठे समरेषु युद्धेषु क्षणमज्वलददीप्यत । अत्र शत्रुबलाहकानामग्निदाहाखादा- संबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ २६ ॥ शरदीव शरश्रिया विभिन्ने विभुना शत्रुशिलीमुखाभ्रजाले । विकसन्मुखवारिजाः प्रकामं बभुराशा इव यादवध्वजिन्यः ॥२७॥ शरदीवेति ॥ विभुना देवेन का शरश्रिया शरसंपदा करणेन शरदीव शत्रुशिलीमुखा अभ्राणीव तेषां जाले विभिन्ने सति विकसन्ति मुखानि वारिजानीव यासां ताः यादवध्वजिन्यः यदुसेनाः आशा दिश इव प्रकामं बभुः । अनेकैवेयमुपमा ॥ २७ ॥ स दिवं समचिच्छदच्छरौधैः कृततिग्मद्युतिमण्डलापलापैः । ददृशेऽथ च तस्य चापयष्ट्यामिपुरेकैव जनैः सकृद्विसृष्टा ॥२८॥ स इति ॥ कृतस्तिग्मद्युतिमण्डलस्यापलापो निह्नवो यैस्तैः । आच्छादितार्कमण्डलैरित्यर्थः । शरौघैर्दिवमाकाशं स हरिः समचिच्छदत् छादयति स्म । छादेः 'गौ चङ्युपधाया हस्वः' (७।४।१) 'सन्यतः' (७।४।७९) इत्यभ्यासस्येत्वम् । युक्तं चैतत् । लघुहस्तत्वादस्येत्याशयेनोत्प्रेक्ष्यते । अथास्मिन्नवसरे तस्य हरेश्चापयष्ट्यामिषुः सकृदेकदा विसृष्टा मुक्ता एकैव जनैर्ददृशे दृष्टा च । इषूणां पुङ्खानु- पुङ्खगमनाद्राधीयानेक एवेपुरेकदैव गच्छतीत्युत्प्रेक्षा । ईदृशलघुहस्तस्याकाशसंछादनं युक्तमिति भावः ॥ २८ ॥ पाठा०-१, 'परितः'. २ संनिघर्ष". विंशः सर्गः। ५०७ भवति स्फुटमागतो विपक्षान्न सपक्षोऽपि हि निर्वृतेर्विधाता । शिशुपालबलानि कृष्णमुक्तः सुतरां तेन तताप तोमरौधः ॥२९॥ भवतीति ॥ विपक्षाच्छत्रुकुलादागतः सपक्षः कङ्कादिपत्रवान्, सुहृच्च निर्वतेर्विधाता सुखकरो न भवति । हि यतः स्फुटम् । तेन कारणेन कृष्णमुक्तस्तोमरौघः शिशुपालबलानि सुतरां तताप ददाह । अतः शत्रुकुलादागतः स्वजनोऽपि न विश्वसनीय इत्यर्थः । सपक्षोऽप्यनिर्वर्तक इति विरोधेऽपिशब्दः । विपक्षादागत इत्यविरोधाद्विरोधाभासः ॥ २९ ॥ गुरुवेगविराविभिः पतरिषवः काञ्चनपिङ्गलाङ्गभासः । विनतासुतवत्तलं भुवः स्म व्यथितभ्रान्तभुजंगमं विशन्ति ॥३०॥ गुर्विति ॥ गुरुवेगविराविभिः गुरुणा वेगेन विरुवन्ति ध्वनन्तीति तथोक्तैः । रौतेणिनिः । शीघ्रवेगविराववद्भिः पतत्रैः पक्षरुपलक्षिताः काञ्चनेन पुङ्खलिप्तेन पिङ्गलाङ्गभासः, अन्यत्र काञ्चनवदिति विग्रहः । इषवः शौरिशराः विनतासुतवद्वैनतेयैस्तुल्यं व्यथिता भीषिता अत एव भ्रान्ता मूढा भुजंगमा यसिंस्तत्तथा भुवस्तलं पातालं विशन्ति स्म । तद्धितगता श्रौती पूर्णोपमा पातालपवेशासंबन्धातिशयोक्त्या संकीर्यते ॥ ३० ॥ शतशः परुषाः पुरो विशई शिशुपालेन शिलीमुखाः प्रयुक्ताः । परमर्मभिदोऽपि दानवारेरपराधा इव न व्यथां वितेनुः॥३१॥ शतश इति ॥ शिशुपालेन पुरोऽग्रे विशकं निःशकं शतशः प्रयुक्ताः क्षिप्ताः, उच्चारिताश्च परुषा निष्ठुराः परमर्मभिदोऽपि शिलीमुखाः शराः । शतशः अपराधाः पञ्चदशसर्गोक्ताः अभिशापा इव दानवारेहरेर्व्यथां दुःखं न वितेनुः । खलापकारा महतामकिंचित्करा इति भावः । समासगतोपमा ॥३१॥ विहिताद्भुतलोकसृष्टिमाये जयमिच्छन्किल मायया मुरारौ । भुवनक्षयकालयोगनिद्रे नृपतिः स्वापनमस्त्रमाजहार ॥ ३२ ॥ विहितेति ॥ नृपतिश्चैद्यो विहिता अद्भुता लोकसृष्टिरेव माया यस्मिंस्तस्मिन् भुवनक्षयकाले प्रलयकाले । न विदानीमिति भावः । उचिता योगनिद्रा यस्य मायया जयमिच्छन् किल । न तु जेष्यतीति भावः । स्वापयतीति स्वापनमस्त्रमाजहार । प्रयुक्तवानित्यर्थः । अनादिमायाधारे सकलभुवनसृष्टिसं. हारमहानाटकसूत्रधारे सर्वाद्भुतनिधाने सकलकलुपकषणपटुतराभिधाने पुराणैन्द्रजालिके भगवति हरावपि मायया जिगीश्हेत्यहो महानस्य व्यामोह इति भावः । अत्र हरिविशेषणैस्तस्य दुर्जयत्वसिद्धेः काव्यलिङ्गम् ॥ ३२ ॥ सलिलार्द्रवराहदेहनीलो विदधद्भास्करमर्थशून्यसंज्ञम् । प्रचलायतलोचनारविन्दं विदधे तद्धलमन्धमन्धकारः ॥ ३३ ॥ ५०८ शिशुपालवधे सलिलेति ॥ सलिलेनार्दो यो वराहदेहस्तद्वन्नीलः भासं प्रकाशं करोतीति भास्करः । 'दिवाविभा-' (३।२।२१) इत्यादिना टप्रत्ययः । तमर्थशून्या भास्करत्वरूपप्रवृत्तिनिमित्तशून्या संज्ञा भास्कराख्या यस्य तं विदधत् । सौरालोकमभिभवन्नित्यर्थः । अन्धं करोतीत्यन्धकारः स्वापनास्त्रप्रभवतमः । कर्मण्यण् । प्रचलानि निद्रापूर्णितानि आयतलोचनान्येवारविन्दानि यस्मिन्कर्मणि तत्तथा सूर्यतिरोधानेऽरविन्दमुकुलीभावस्यावश्यंभावादिति भावः । तद्वलं हरिसैन्यमन्धमपश्यं विदधे । निद्रां प्राविशदित्यर्थः । अत्रान्धमन्धेति सकृद्ध्यञ्जनयुग्मपौनरुक्त्याद्वृत्त्यनुप्रासभेदः । तस्य वराहदेहनीललोचनारविन्देत्युपमारूपकयोः संसृष्टिः ॥३३॥ गुरवोऽपि निषद्य यन्निददुर्धनुषि क्ष्मापतयो न वाच्यमेतत् । क्षयितापदि जाग्रतोऽपि नित्यं ननु तत्रैव हि तेऽभवनिषण्णाः ३४ गुरव इति ॥ गुरवो धीराः मापतयोऽपि धनुषि निषद्य शयित्वा निद्रुः सुषुपुरिति यत् एतत् धनुषि निद्राणं वाच्यं निन्द्यं न भवति । कुतः । हि यस्मात्ते क्षमापतयो जाग्रतोऽपि प्रबुद्धा अपि । जागतः शतरि अस्य 'जक्षित्यादयः षट्' (६।१।६) इत्यभ्यस्तसंज्ञा 'नाभ्यस्ताच्छतुः' (७।१।७८) इति नुम्प्रतिषेधः । क्षयितापदि । सर्वापन्निवारक इत्यर्थः । तत्रैव धनुषि नित्यं निषण्णाः संश्रिता अभवन्ननु । जागरेऽपि धनुरेकशरणानां स्वापे तदाश्रये न दोष इत्यर्थः । अत्र सदा धनुराश्रयवाक्यार्थस्यावाच्यताहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ३४ ॥ श्लथतां व्रजतस्तथा परेषामगलद्धारणशक्तिमुज्झतः स्वाम् । सुगृहीतमपि प्रमादभाजां मनसः शास्त्रमिवास्त्रमग्रपाणेः ॥३५॥ श्लथतामिति ॥ तथेति पूर्वोक्तधनुराश्रयणसमुच्चये यथा तेषां धनुराश्रयणं तथान्येषां धनुर्गलनं चाभूदित्यर्थः । श्लथतां प्रयत्नशैथिल्यं व्रजतः भजतः स्वां निजां धारणशक्तिं वाहनसामर्थ्य उज्झतः त्यजतः परेषां राज्ञाम् । 'अग्रं चासौ पाणिश्चेति' समानाधिकरणसमासः । हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदादिति वामनवचनात् । तस्मादग्रपाणेः सुगृहीतं सुष्ठु धृतमपि अन्यत्र स्वभ्यस्तमपि प्रमादभाजां गुणनिकाद्यवधानरहितानां मनसश्चित्तात् शास्त्रं विद्येव अस्त्रमगलदभ्रश्यत् । निद्रापारवश्यादित्यर्थः । इवेन सह समासात्समासगता श्रौती पूर्णोपमा ॥ ३५॥ उचितस्वपनोऽपि नीरराशौ स्ववलाम्भोनिधिमध्यगस्तदानीम् । भुवनत्रयकार्यजागरूकः स परं तत्र परः पुमानजागः ॥ ३६ ॥ उचितेति ॥ नीरराशौ समुद्रे उचितस्वपनोऽपि परिचितनिद्रोऽपि तदानीं सर्वनिद्रावसरे स्वबलाम्भोनिधिमध्यगः स्वसेनासागरमध्यगतः । 'बलपाथोनिधि' इत्यपि' पाठः । भुवनत्रयकार्ये त्रैलोक्यरक्षाविधौ जागरूकः प्रबुद्धः । 'जागरूकः' (३।२।१६५) इत्यूकप्रत्ययः । परः पुमान्परमपुरुषः परं केवलं हरिरेवेत्यर्थः । विंशः सर्गः। ५०९ 'परमव्ययमिच्छन्ति केवल' इति विश्वः । तत्र निद्राणलोके अजागः जागर्ति स्म । सर्वान्धकारहारिणो नित्यप्रकाशचिदात्मनः तत्रापि कार्यग्रस्तस्य कुतो निद्रेति भावः । जागर्तेलुङि तिप् । अदादित्वाच्छपो लुकि सार्वधातुकगुणे रपरे 'हल्ड्याप्-' (६|१|६८) इति तिलोपे च रेफस्य विसर्जनीयः । अत्र समुद्रनिद्रालोस्तत्रैव जागरे विरोधपरिहारमुखेन कार्यजागरूकत्वपरमपुरुषत्वयोर्विशेषणगत्या तात्त्विकजागरणहेतुकत्वाद्विरोधाभाससंकीर्ण काव्यलिङ्गम् ॥ ३६ ॥ अथ सूर्यरुचीव तस्य दृष्टावुदभूत्कौस्तुभदर्पणं गतायाम् । पटु धाम ततो न चाद्भुतं तद्विभुरिन्द्वर्कविलोचनः किलासौ॥३७ अथेति ॥ अथान्धकारव्याप्त्यनन्तरं तस्य हरेर्दृष्टौ चक्षुषि । तेजसीत्यर्थः । सूर्यरुचीव सूर्यतेजसीव । कौस्तुभो दर्पण इवेत्युपमितसमासः । सूर्यरुचीवेति लिङ्गात् । तं कौस्तुभदर्पणं गतायां प्रविष्टायां सत्यां ततः कौस्तुभात्पटु सर्वान्धकारद्रावणे समर्थं धाम तेज उदभूदुदगात् । तद्धामोद्भवनं न चाद्भुतम् । कुतः । असौ विभुर्भगवान् कर्केन्दू विलोचने यस्य स किल खलु । अतस्तञ्चक्षुषोः सूर्यात्मकत्वात्तदभिहतात्कौस्तुभाद्दर्पणादेरिव धाम प्रादुर्भावो व्यज्यत इत्यर्थः । अतो वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ३७ ॥ महतः प्रणतेष्विव प्रसादः स मणेरंशुचयः ककुभ्मुखेषु । व्यकसद्विकसद्विलोचनेभ्यो दददालोकमनाविलं बलेभ्यः ॥३८॥ महत इति ॥ स पूर्वोक्तो मणेः कौस्तुभस्यांशुचयः विकसन्ति उन्मीलन्ति विलोचनानि येषां तेभ्यो बलेभ्योऽनाविलं प्रसन्नमालोकं दर्शनं, तत्त्वज्ञानं च ददत्प्रतियच्छन् । महतो महात्मनः प्रसादोऽनुग्रहः प्रणतेषु भक्तेष्विव ककुभ्मुखेषु ककुभामग्रेषु व्यकसदमूर्च्छत् । पूर्णोपमा ॥ ३८॥ प्रकृति प्रतिपादुकैश्च पादैश्चलपे भानुमतः पुनः प्रसर्तुम् । तमसोऽभिभवादपास्य मूर्छामुपजीवत्सहसैव जीवलोकः ॥३९॥ प्रकृतिमिति ॥ प्रकृतिं स्वभावं प्रतिपादुकैः प्रतिपद्यमानैः । 'लषपतपद-' (३।२।१५४) इत्यादिना उकन्प्रत्ययः । 'न लोका-' (२।३।६९) इत्यादिना षष्ठीप्रतिषेधः । भानुमतोंऽशुमतः पादै रश्मिभिश्च पुनर्भूयः प्रसर्तुं चक्लुपे शेके । 'क्लपू सामर्थे' भावे लिट् 'कृपो रो लः' (८।२।१८) इति ऋकारस्थस्यापि रेफस्य लकारः । जीवलोकः प्राणिवर्गश्च तमसोऽन्धकारस्याभिभवात् । अभिभूतत्वादित्यर्थः । 'कर्तृकर्मणोः कृति' (२।३।६५) इति कर्मणि षष्ठी । सहसैव मूर्च्छामपास्य उदजीवदुदश्वसीत् । अत्रीजीवनस्यार्ककरप्रसारहेतुकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ३९॥ घनसंतमसैर्जवेन भूयो यदुयोधैर्युधि रेधिरे द्विषन्तः । ननु वारिधरोपरोधमुक्तः सुतरामुत्तपते पतिः प्रभाणाम् ॥ ४० ॥ घनेति ॥घनं सान्द्रं संतमसमन्धकारो येषु । 'अवसमन्धेभ्यस्तमसः' शिशुपालवधे. (५।२७९) इति समासान्तोऽच् प्रत्ययः । 'गत-' इति पाठे गतं संतमसं येषां तैः यदुयोधैर्यादवभटैर्भूयः पुनरपि जवेन युधि द्विषन्तो रेधिरे जिहिंसिरे । हता इत्यर्थः । राध्यतेः कर्मणि लिट् । 'राधो हिंसायाम्' इत्येत्वाभ्यासलोपौ । तथा हि-वारिधरोपरोधान्मेघापवरणान्मुक्तः प्रभाणां द्युतीनां पतिरकः सुतरामुत्तपत एव ननु प्रकाशत एव खलु । 'उद्विभ्यां तपः' (१॥३।२७) इत्यात्मने- पदम् । अत्र यदुयोधानां द्युतिपतेश्च वाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः । न चोपमानोपमेययोर्भिन्नवचनत्वदोषः । लोके चन्द्रार्कादीनामुपमानानामबहुत्वेऽपि चन्द्रानना इतिवत्प्रत्येकमौपम्यात् ॥ ४० ॥ व्यवहार इवानृताभियोगं तिमिरं निर्जितवत्यथ प्रकाशे रिपुरुल्बणभीमभोगभाजां भुजगानां जननी जजाप विद्याम् ॥४१॥ व्यवहार इति ॥ व्यवहारे न्यायवादे अनृताभियोगं मिथ्याभिशंसनमिव प्रकाशे कौस्तुभतेजसि तिमिरं प्रस्वापनान्धकारं निर्जितवति निरस्तवति सति अथैतन्निरसनानन्तरं रिपुश्चैद्य उल्बणान्महतो भीमांश्च भोगान् फणान्, कायांश्च भजन्तीति तद्भाजः । 'भोगः सुखे रुयादिभृतावहेश्च फणकाययोः' इत्यमरः । भुजगानां जननीमुत्पादिकां विद्यां मनं जजाप जपति स्म । भुजगास्त्रमाजहारेत्यर्थः । उल्बणेत्यत्र क्वचित् 'उत्फण-' इति पाठः । उपमालंकारः ॥ ४१ ॥. पृथुदर्विभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः । अभवन्युगपद्विलोलजिह्वा युगलीढोभयसृक्कभागमाविः ॥ ४२ ॥ पृथ्विति ॥ ततो भुजगास्वप्रयोगानन्तरं पृथुदर्विभृतः । महाफणाधारिण इत्यर्थः । अत एव 'दर्वीकरो दीर्घपृष्ठ' इत्यत्र दुर्वीरूपः फण एव करो हस्तो यस्य प्रहारादाविति व्याख्यातम् । आशीभिर्दष्ट्राभिः । 'आशी उरगदंष्ट्रायाम्' इति वैजयन्ती । अनारतमश्रान्तं विषं वमन्त उद्दिरन्तः फणीन्द्रा महासर्पाः विलोलेश्चञ्चलैर्जिह्वायुगैर्लीढावास्वादितावुभौ सृक्कभागावोष्ठप्रान्तदेशौ यस्मिन्कर्मणि तत्तथा । 'प्रान्तावोष्टस्य सक्कणी' इत्यमरः । आविरभवन् । अत्र 'उभादुदात्तो नित्यम्' (५।२।४४) इति नित्यग्रहणसामर्थ्यावृत्तिविषये उभशब्दस्य स्थानेऽप्युभयशब्दस्यैव प्रयोगः उभयपुत्र इत्यादिप्रयोगसिद्धेरिति कव्युक्तमस्माभिः प्रकटितं बहुधा संजीविन्यां घण्टापथे सर्वंकषायां च तत्र तत्र । स्वभावोक्तिरलंकारः ॥४२॥ कृतकेशविडम्बनैर्विहायो विजयं तत्क्षणमिच्छभिश्छलेन । अमृताग्रभुवः पुरेव पुच्छं वडवाभर्तुरवारि काद्रवेयैः ॥४३॥ कृतेति ॥ कृतकेशविडम्बनैः कााद्विहितकेशानुकारैः छलेन कपटेन विजयमिच्छुभिरभिलाषुकैः । 'विन्दुरिच्छुः' (३।२।१६९) इति उप्रत्ययान्तो निपातितः । 'न लोका-' (२।३।६९) इत्यादिना षष्ठीप्रतिषेधः । विहाय आकाशं तत्क्षणं काद्रवेयैः कद्रुपुत्रैः फणीन्द्रैः । 'स्त्रीभ्यो ढक्' (४।१।१२०) इति ढक् । पुरा पूर्वमिव अमृताग्रभुवोऽमृताग्रस्य वडवाभर्तुः उच्चैःश्रवसः पुच्छं अवारि [* उभशब्दस्थाने उभयशब्दप्रयोगसिद्धिस्तु रघुवंशे 'शय्यां जहत्युभयपक्षविनीतनिद्राः' (५।७२ ) इति श्लोकस्य सञ्जीविन्यां सम्यक्प्रतिपादिता वरीवर्ति । ] विंशः सर्गः] आवृतम् । वृतेः कर्मणि लुङ् । पुरा किल कद्रुविनतयोः कश्यपभार्ययोरुच्चैःश्रवसः पुच्छस्य काष्र्ण्यश्वैत्यविवादे विवादे दास्यपणे काद्रवेयैः स्वमातुर्विजयाय गृहीतबालाकारैरुचैःश्रवसः पुच्छाच्छादनं चक्रे इति कथा पुराणादनुसंधेया । उपमा ॥ ४३ ॥ दधतस्तनिमानमानुपूर्व्या बभुरक्षिश्रवसो मुखे विशालाः । भरतज्ञकविप्रणीतकाव्यग्रथिताङ्का इव नाटकप्रपञ्चाः ॥ ४४ ॥ दधत इति ॥ मुखे मुखभागे मुखसंधौ च विशालाः विस्तृता आनुपूर्व्या अनुक्रमेण तनिमानं तनुत्वं मुखादन्यत्र शरीरे उत्तरोत्तरं तनुत्वं दधतः, अन्यत्र प्रतिमुखादिसंधिषु गोपुच्छवत्संक्षिप्तत्वं दधानाः अक्षिश्रवसः सर्पाः भरतज्ञो नाट्यशास्त्रज्ञः । 'भरतो नाट्यशास्त्रेऽपि' इति विश्वः । तेन कविना प्रणीतं प्रकल्पितं यत्काव्यं कविकर्म लक्षणया काव्यार्थः कथावस्तु । ब्राह्मणादित्वात्यष्यञ् प्रत्ययः । तेन ग्रथिता गुम्फिता अङ्काः परिच्छेदरूपा अवान्तरसंदर्भविशेषा येषु ते तथोक्ता नाटकप्रपञ्चा नाटकविस्तारा इव बभुरित्युपमा । 'प्रबन्धा' इति क्वचित्पाठः । 'प्रत्यक्षनेतृचरितो बिन्दुबीजपुरस्कृतः । अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥ '(दशरूपके ३।३०,३१) इति अङ्कलक्षणम् । 'मुखं प्रतिमुखं गर्भोऽवमर्श उपसंहृतिः' (दशरूपके १।२४) इति संधयः ॥ ४४ ॥ सविषश्वसनोद्धतोरुधूमव्यवधिम्लानमरीचि पन्नगानाम् । उपरागवतेव तिग्मभासा वपुरौदुम्बरमण्डलाभमूहे ॥ ४५ ॥ सेति ॥ तिग्मभासा सूर्येण उपरागवता राहुग्रासवतेव । राहुग्रस्तेनेवेत्यर्थः । 'उपरागो ग्रहो राहुग्रस्ते विन्दौ च पूष्णि च' इत्यमरवचनं ग्रासस्याप्युपलक्षणम् । पन्नगानां सविषैः श्वसनैः फूत्कारैरुद्धतेनोरुधूमेन यो व्यवधिस्तिरोधानं तेन म्लाना निष्प्रभा मरीचयो यस्य तत् । अत एवौदुम्बरमण्डलाभं ताम्रपिण्डसच्छायम् । 'अथ ताम्रकम् । शुल्बं म्लेच्छमुखव्यष्टवरिष्ठोदुम्बराणि च' इत्यमरः । वपुरूहे ऊढम् । वहेः कर्मणि लिट् । यजादित्वात्संप्रसारणम् ॥ ४५ ॥ शिखिपिच्छकृतध्वजावचूडक्षणसाशङ्कविवर्तमानभोगाः । यमपाशवदाशुबन्धनाय न्यपतन्वृष्णिगणेषु लेलिहानाः ॥४६॥ शिखीति ॥ पुनःपुनर्लेहनशीला लेलिहानाः सः । लिहेर्यलगन्तात्ताच्छील्ये चानश्प्रत्यये 'गुणो यङ्लुकोः' (७४।८२) इत्यभ्यासस्य गुणः । 'लिहेलिटः कानजि ति वल्लभः । तदानीमभ्यासगुणानुपपत्तिः भूतार्थासंगतिश्च शिखिपिच्छैर्मयूरबर्हैः कृतेभ्यो ध्वजानामवचूडेभ्यः प्रकीर्णेभ्यः क्षणं साशङ्काः जीवन्मयूरभ्रान्त्या सभयाः अत एव विवर्तमानकायाः व्यावृतदेहाः सन्तः आशु वृष्णिगणेषु यादवसङ्घेषु बन्धनाय यमपाशैस्तुल्यं यमपाशवत् कालपाशवदित्युपमा । न्यपतन् । निपत्य बबन्धुरित्यर्थः ॥ ४६॥ पृथुवारिधिवीचिमण्डलान्तर्विलसत्फेनवितानपाण्डुराणि । दधति स भुजंगमाङ्गमध्ये नवनिर्मोकरुचिं ध्वजांशुकानि ॥४७॥ ५१२ शिशुपालवधे. पृथ्विति ॥ भुजंगमाङ्गमध्ये पृथोर्वारिधिवीचिमण्डलस्यान्तमध्ये विलसन्तः फेना इव वितानपाण्डुरद्युतीनि शुभ्रवर्णानीत्युपमा । ध्वजांशुकानि नवनिर्मोकरुचिं नवकञ्जुकशोभां दधति स्म । 'समौ क्ज्चुकनिर्मोकौ' इत्यमरः । निर्मोंकरुचिमित्यत्रान्यधर्मस्यान्यत्रासंबन्धेन निर्मोकस्येवेति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धनिदर्शना फेनपाण्डुरोपमयाङ्गेन संकीर्यते ॥ ७ ॥ कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः । व्यरुचजनता भुजंगभोगैर्दलितेन्दीवरमालभारिणीव ॥४८॥ कृतेति ॥ जनता जनसमूहः । 'ग्रामजन-' (४।२।४३) इत्यादिना सामूहिकस्तल्प्रत्ययः । शिरसि कृतो मण्डलबन्धो वलयीभावो यस्मिन्कर्मणि तत्तथा उल्लसद्भिः प्रत्युरसं उरसि उरसि । 'प्रतेरुरसः सप्तमीस्थात्' (५।४।८२) इति समासान्तोऽच्प्रत्ययः । विलम्बमानैर्विशेषेण लम्बमानैः भुजंगभोगैरहिकायैः दलितेन्दीवरमालभारिणी विकसितनीलोत्पलमालभारिणीवेत्युप्रेक्षा । व्यरुचध्यरोचिष्ट । 'धुन्यो लुङि' (१॥३।९१) इति विकल्पात्परस्मैपदम् ॥ ४८॥ परिवेष्टितमूर्तयश्च मूलादुरगैराशिरसः सरत्नपुष्पैः । दधुरायतवल्लिवेष्टितानामुपमानं मनुजा महीरुहाणाम् ॥ ४९ ॥ परिवेष्टितेति ॥ किंचेति चार्थः । मूलात् । पादमारभ्येत्यर्थः । ल्यब्लोपे पञ्चमी । आशिरसः शिरोन्तम् । अभिविधावाडिति विकल्पादसमासः । रतैरेव पुष्पैः सह वर्तन्ते इति सरत्रपुष्पैः । 'तेन सहेति तुल्ययोगे' (२।२।२८) इति बहुव्रीहिः । उरगैः परिवेष्टितमूर्तयो वेष्टिताङ्गा मनुजा आयताभिर्वल्लीभिर्लताभिर्वैष्टितानां महीरुहाणामुपमानं सादृश्यं दधुरित्युपमा ॥ ४९ ॥ बहुलाञ्जनपङ्कपट्टनीलातयो देहमितस्ततः श्रयन्तः । दधिरे फणिनस्तुरंगमेषु स्फुटपल्याणनिबद्धवर्धलीलाम् ॥ ५० ॥ बहुलेति ॥ बहुलाञ्जनस्य सान्द्रकज्जलस्य पङ्कपट्टः पङ्कघनस्तद्वन्नीलद्युतयः श्यामभासः । देहं शरीरमितस्ततः पुच्छपार्थादिस्थानेषु श्रयन्तो भजन्तः फणिनस्तुरंगमेषु स्फुटान्युज्वलानि यानि पल्याणेषु पल्ययनेषु निबद्धानि वर्ध्राणि वरत्राः । 'वर्ध्रं त्रपुवरत्रयोः' इति विश्वः । तेषां लीलां शोभां दधिरे दधुः । वर्धलीलामित्यत्रासंभवद्वस्तुसंबन्धा निदर्शनोक्तलक्षणा ॥ ५० ॥ प्रसृतं रभसादयोभिनीला प्रतिपादं परितोऽभिवेष्टयन्ती । तनुरायतिशालिनी महाहेर्गजमन्दुरिव निश्चलं चकार ॥५१॥ प्रसृतमिति ॥ अयसा अयोवत् अभिनीला पादेषु प्रतिपादम् । विभक्त्यर्थेऽव्ययीभावः । अभिवेष्टयन्ती आयत्या आयतेन दीर्घेण शालते या सा आयतिशालिनी महाहेर्महोरगस्य तनुर्वपुरन्दूः शृङ्खलेव । 'अन्दूस्तु शृङ्खलायां स्त्री' इति वैजयन्ती । रभसाप्रसृतं प्रचरन्तं गजं निश्चलं चकार । उपमा ॥ ५५ ॥ पाठा०-१°धामधारिणी', - । विंशः सर्गः। ५१३ अथ सस्मितवीक्षितादवज्ञाचलितैकोनमितभ्रु माधवेन । निजकेतुशिरःश्रितः सुपर्णादुदपप्तन्नयुतानि पक्षिराजाम् ॥ ५२ ॥ अथेति ॥ अथ नागपाशबन्धनानन्तरं माधवेन कृष्णेनावज्ञया अकिंचिकरत्वादनादरेण चलिता प्रेरिता एका उन्नमिता उत्क्षिप्ता च धूर्यस्मिन्कर्मणि तत्तथा । 'गोस्त्रियोरुपसर्जनस्य' (१।२।४८) इति हस्वत्वम् । सस्मितं चैद्यचापत्न्यदर्शनात्समन्दहासं वीक्षितात् निजकेतुशिरःश्रितः निजध्वजाग्रस्थितात् । श्रयतेः क्विप् । सुपर्णात्पक्षिणां राजः राजानः तेषां पक्षिराजां पक्षिराजानां गरुत्मताम् । 'राजा राद पार्थिवः' इत्यमरः । 'अन्येभ्योऽपि दृश्यते' (३।२।१७८) इति क्विप् । अयुतानि अयुतसंख्या उदपप्तन्नुत्पेतुः । 'पुषादि-' (३।१।५५) इति लुङि च्लेरडादेशः । 'पतः पुम्' (७।४।१९) इति पुमागमः । 'उदभूवन्' इति पाठे 'भुवो वुक्' (६।४।८८) इति वुगागमः । माधवस्य सुपर्णवीक्षणावस्थोचितभूविक्षेपादिचेष्टाविवरणात्स्वभावोक्तिः । तदुक्तं दण्डिना-'नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावोक्तिश्च जातिश्च' इति । 'जातिक्रियागुणद्रव्यस्वभावाख्यानमीदृशम्' इति च ॥ ५२ ॥ द्रुतहेमरुचः खगाः खगेन्द्रादलघुदीरितनादमुत्पतन्तः । क्षणमैक्षिपतोचकैश्चमूभिर्बलतः सप्तरुचेरिव स्फुलिङ्गाः ॥ ५३॥ द्रुतेति ॥ द्रुतहेमरुचः प्रतप्तकाञ्चनभास इत्युपमा । अलघूच्चैरुदीरितनादं उच्चरितघोषं यथा तथा खगेन्द्राद्रुत्मतः उत्पतन्तः उद्भवन्तः खगाः सुपर्णा ज्वलतः प्रज्वलतः सप्तरुचेः सप्तार्चिषोऽग्नेरुच्चकैरूवं प्रसृताः स्फुलिङ्गा इव चमूभिः क्षणमैक्षिषत ईक्षिताः । ईक्षतेः कर्मणि लुङ् । अत्रोपमयोः संकरः ॥५३॥ उपमानमलाभि लोलपक्षक्षणविक्षिप्तमहाम्बुवाहमत्स्यैः । गगनार्णवमन्तरा सुमेरोः कुलजानां गरुडैरिलाधराणाम् ॥ ५४॥ उपमानमिति ॥ गगनमर्णव इव गगनार्णवस्तमन्तरा । तस्य मध्ये इत्यर्थः । 'अन्तरान्तरेणयुक्ते' (२।३।४) इति द्वितीया । अत्रार्णवस्यैकत्वेऽपि तदेकदेशा- पेक्षया भेदवत्त्वेन मध्यमप्रतियोगित्वसंभवान्न द्वितीयानुपपत्तिः । लोलैः पक्षैः क्षणाद्विक्षिप्ता महाम्बुवाहा मत्स्या इव यैस्तैर्गरुडैर्गरुत्मभिः सुमेरोः कुलजानां हेमाद्विवंश्यानाम् । अन्येषामहिरण्मयतया गरुडसाम्यासंभवादित्यर्थः । इलाधराणां भूधराणाम् । अर्णवान्तश्चराणामित्यर्थः । 'गौरिला कुम्भिनी क्षमा' इति कोषः । उपमानं सादृश्यमलाभि अलम्भि । लभेः कर्मणि लुङि 'विभाषा चिण्णमुलोः' (७।१।६९) इति विकल्पान्नुमभावः । अत्रेलाधराणामुपमानमिति व्यस्तोपमाया अन्याभ्यां समासगताभ्यामङ्गाङ्गिभावेन संकरः ॥ ५४ ॥ पततां परितः परिस्फुरद्भिः परिपिङ्गीकृतदि्ग्मुखैर्मयूखैः । सुतरामभवदुरीक्ष्यबिम्बस्तपनस्तत्किरणैरिवात्मदर्शः ॥ ५५ ॥ पततामिति ॥ परिस्फुरद्भिः स्वविषयसंक्रमात्समन्तादुल्लसद्भिः अत एव परिशिशुपालवधे पिङ्गीकृतानि सौवर्णत्वात्पिशङ्गीकृतानि दिङ्मुखानि यैस्तैः पततां पक्षिणां मयूखैः तपनः सूर्यस्तत्किरणैस्तपनकिरणैः । संक्रान्तैरिति भावः । आत्मा स्वरूपं दृश्यतेऽत्र इत्यात्मदर्शो दर्पण इव सुतरां दुरीक्ष्यबिम्बोऽभवत् । स्वत एव दुर्दर्श इदानीमतिदुर्दशोऽभूदित्यर्थः। अत्र तपनस्य दुरीक्ष्यत्वासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ५५

दधुरम्बुधिमन्थनाद्रिमन्थभ्रमणीयस्तफणीन्द्रपित्तजानाम् ।
रुचमुल्लसमानवैनतेयद्युतिभिन्नाः फणभारिणो मणीनाम् ॥५६॥

 दधुरिति ॥ उल्लसमानाभिर्दीप्यमानाभिर्वैनतेयानां द्युतिभिर्भिन्नाः संवलिताः फणभारिणः फणाभृतः अम्बुधिमन्थने समुद्रमन्थने अद्रेर्मन्दराद्रेरेव मन्थस्य मन्थनदण्डस्य भ्रमणेनायस्तस्य निष्पीडितस्य फणीन्द्रस्य वासुकेः पित्तापित्तधातोर्जातास्तजास्तेषाम् । 'वैशाखमन्थमन्थानमन्थानो मन्थदण्डके' इत्यमरः । मथेर्भौवादिकस्येदित्त्वात्सर्वत्र नुमागमः । तेषां मणीनां मरकतानां रुचं दधुः । वैनतेयपीतिमसंभेदात्कृष्णोरगा मरकतच्छायामार्छन्नित्यर्थः । अत्रान्यस्यान्यधर्मायोगेन रुचमिवेति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धान्निदर्शनालंकारः ॥५६॥

अभितः क्षुभिताम्बुराशिधीरध्वनिराकृष्टसमूलपादपौधः ।
जनयन्नभवद्युगान्तशङ्कामनिलो नागविपक्षपक्षजन्मा ॥ ५७ ॥

 अभीति ॥ अभितः उभयतः क्षुभितो योऽम्बुराशिः उद्वेलाम्बुराशिस्तद्धीरध्वनिर्गम्भीरध्वनिरित्युपमा । आकृष्टाः पाटिताः समूलाः पादपौधास्तरुसमूहा येन सः । अत्र पादपोन्मूलनासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । युगान्तशङ्कां जनयन्कल्पक्षयोत्प्रेक्षां जनयन्नित्यपि सैवातिशयोक्तिः । नागविपक्षपक्षजन्मा गरुडपक्षोद्भवोऽनिलोऽभवत् । उदभवदित्यर्थः ॥ ५७ ॥

प्रचलत्पतगेन्द्र पत्रवातप्रसभोन्मलितशैलदत्चमार्गैः।
भयविह्वलमाशु दन्दशूकैर्विवशैराविविशे स्वमेव धाम ॥ ५८ ॥

 प्रचलदिति ॥ प्रचलतां पतगेन्द्राणां ये पत्रवातास्तैः प्रसभं उन्मूलितैराकृष्टैरुत्टिपाटितैः शैलैर्दत्तो मार्गो रन्ध्र येभ्यस्तैः विवशैः परवशैः । निश्चेष्टैरित्यर्थः गर्हितं दशन्ति भृशमिति दन्दशूकैः सः । 'दन्दशूको बिलेशयः' इत्यमरः । 'लुपसदचर-' (३।१।२४) इत्यादिना दंशेर्भावगर्हायां यङ् । 'जपजभदहदशभञ्जपशां च' (७४।८६) इत्यभ्यासस्य नुगागमः । 'यजजपदशां यङः' (३।। १६६) इति दशेर्यङन्तादुकन्प्रत्ययः । भयेन विह्वलं विक्षिप्तं विचित्रं यथा तथा स्वमेव धाम पातालमेव विविशे तार्क्ष्यपत्रपवनोन्मूलितशैलरन्ध्रवर्त्मनैव पातालं प्रविष्टमित्यर्थः । विशेः कर्मणि लिद । दन्दशूकानां रन्ध्रप्रवेशासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ ५८॥ खचरैः क्षयमक्षयेऽहिसैन्ये सुकृतैर्दुष्कृतवत्तदोपनीते। अयुगार्चिरिव ज्वलन्रुषाथो रिपुरौदर्चिषमाजुहाव मन्त्रम् ॥५९॥ पाठा०-१०भ्रमणापास्त'. विंशः सर्गः। खचरैरिति ॥ खे चरन्तीति खचरैर्वैनतेयैः । चरेष्टः 'तत्पुरुषे कृति बहु- लम्' (६।३।१४) इति लुग्विकल्पः । अक्षये अनन्ते अहिसैन्ये सर्पसङ्घे सुकृतैः हरिस्मरणादिपुण्यैर्दुष्कृतवद्ब्रह्महत्यायेनोवत् । 'तत्र तस्येव' (५।१।११६) इति तत्रार्थे वतिप्रत्ययः । क्षयमुपनीते नाशं गमिते सति तदा तत्काले रुषा पौरुषवैफल्यरोषेण अयुगार्चिः सप्ताचिरिव ज्वलन्दीप्यमानः असौ रिपुश्चैद्यः । उदर्चिष इममौदर्चिषम् आग्नेयं मन्त्रमाजुहाव आहूतवान् । जजापेत्यर्थः । ह्वयतेर्लिद । 'अभ्यस्तस्य च' (६।१॥३३) इति द्विर्वचनात्प्रागेव संप्रसारणम् । दुष्कृत वदिति तद्धितगता श्रौती पूर्णोपमा ॥ ५९॥ सहसा दधदुद्धताट्टहासश्रियमुत्रासितजन्तुना खनेन । विततायतहेतिवाहुरुच्चैरथ वेताल इवोत्पपात वह्निः ॥६०॥ सहसेति ॥ अथाग्नेयास्त्राद्वानानन्तरम् उत्रासितजन्तुना भीषितप्राणिकेन स्वनेन ध्वनिना उद्धताट्टहासश्रियं महाट्टहाससंपदं दधत् तेनैवाट्टहासवान् । तत्तुल्यनादवानित्यर्थः । वितताः प्रसारिताः आयता दीर्घाः हेतयो ज्वाला बाहव इव हेतिबाहवो यस्य स वह्नितालो भूतविशेषः स इव सहसा झटिति उच्चैरूर्ध्वमुत्पपात उत्तस्थौ । उपमा ॥ ६० ॥ चलितोद्धतधूमकेतनोऽसौ रभसादम्बररोहिरोहिताश्वः । द्रुतमारुतसारथिः शिखावान्कनकस्यन्दनसुन्दरश्चचाल ॥ ६१॥ चलितेति ॥ चलितश्चलंश्च उद्धत उन्नतश्च धूम एव केतनं केतुर्यस्य स रभसाद्वेगादम्बररोहिणो रोहिता वाहनमृगा अश्वा इव यस्य सः द्रुतमारुताः शीघ्रवाता एव सारथिर्यस्य सः कनकस्यन्दनसुन्दरः कनकद्रववगम्य इत्युपमा । असौ शिखा ज्वाला अस्य सन्तीति शिखावानाशुशुक्षणिश्चचाल ॥६१ ॥ ज्वलदम्बरकोटरान्तरालं बहुलार्द्राम्बुदपत्रबद्धधूमम् । परिदीपितदीर्घकाष्ठमुच्चैस्तरुवद्विश्वमुवोष जातवेदाः ॥ ६२ ॥ ज्वलदिति ॥ जातं वेदो धनं यस्माजातवेदास्तनूनपात् । अम्बरं कोटरमिव तस्यान्तरालमभ्यन्तरं ज्वलद्यस्य तत् । बहुलाः सान्द्रा आर्द्राम्बुदाः पत्राणीव तेषु बद्धधूमम् । परिदीपिताः प्रज्वलिताः काष्ठा दिशः काष्टानीव यस्य तदुच्चै- रुन्नतं विश्वं जगत् । तरुणा तुल्यं तरुवत् । तरुमिवेत्यर्थः । तुल्यार्थे वतिप्रत्ययः । उवोष ददाह । 'उष दाहे' लिट् । लघूपधगुणे पश्चाविर्भावः । 'अभ्यासस्यासवर्णे ' (६।४७८) इत्युवडादेशः अनादिष्टादच इति गुणस्य स्थानिवत्वाभावात् । तरुवदिति स्पष्टोपमालिङ्गात् । सर्वत्रोपमितसमासः ॥ ६२ ॥ गुरुतापविशुष्यदम्बुशुभ्राः क्षणमालमकृशानुताम्रभासः । स्वमसारतया मषीभवन्तः पुनराकारमवापुरम्बुवाहाः ॥ ६३ ॥ गुर्विति ॥ गुरुतापेनातिदाहेन विशुष्यदम्बवः क्षीयमाणोदकाः अत एव शुभ्राश्चेति विशेषणसमासः। ततः क्षणमालग्नेन कृशानुना ताम्रभासो लोहितवर्णाः पाठा०-१ "उच्छूित'. शिशुपालवधे अथासारतया जलशोषान्निःसारतया मषीभवन्तः अम्बुवाहाः पुनः स्वमाकारं नीलरूपमवापुः । अत्र मेघानां मषीभावाद्यसंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ ६३॥ ज्वलितानललोलपल्लवान्ताः स्फुरदष्टापदपत्रपीतभासः । क्षणमात्रभवामभावकाले सुतरामापुरिवायतिं पताकाः ॥ ६४ ॥ ज्वलितेति ॥ ज्वलितेन प्रज्वलता अनलेन अनलतापेन लोलाः पल्लवान्ता अञ्चलाग्राणि यासां ताः स्फुरद्भिर्दीप्यमानैरष्टापदपत्रैः कनकरचनाभिः पीतभासः पिङ्गलवर्णाः पताका वैजयन्त्यः अभावकाले विनाशकाले क्षणमात्रभवां क्षणमात्रभाविनीम् । क्षणमात्रस्थायिनीमित्यर्थः । आयतिं दैयं सुतरामापुरित्यर्थः। प्रदीपवदिति भावः । अष्टसु लोहेषु पदमस्येत्यष्टापदम् । 'अष्टनः संज्ञायाम्' (६।३।१२५) इति दीर्घः। 'रुक्म कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्' इत्यमरः ६४ निखिलामिति कुर्वतश्चिराय द्रुतचामीकरचारुतामिव द्याम् । प्रतिघातसमर्थमस्त्रमग्नेरथ मेघंकरमसरन्मुरारिः ॥ ६५ ॥ निखिलामिति ॥ अथानन्तरं मुरारिः इतीत्थं निखिला द्यामाकाशं द्रुतचामीकरचारुतां प्रतप्तहेमकर्बुरामिवेत्युत्प्रेक्षा चारुतामित्यत्र । चिराय कुर्वतोऽग्नेः प्रतिघातसमर्थं प्रशमनक्षमं मेघान्करोतीति मेघंकर मेघजननम् । 'मेघर्तिभयेषु कृजः' (३।२।४३) इति खलप्रत्ययः । 'अरुषिदजन्तस्य मुम्' (६।३।६७) इति मुमागमः । अस्त्रं वारुणास्त्रमस्मरद्दध्यौ आजहार ॥ ६५ ॥ चतुरम्बुधिगर्भधीरकुक्षेर्वपुषः संधिषु लीनसर्वसिन्धोः । उदगुः सलिलात्मनस्त्रिधाम्नो जलवाहावलयः शिरोरुहेभ्यः ॥६६॥ चतुरिति ॥ चत्वारोऽम्बुधय एव गर्भास्ते धीरो गम्भीरः कुक्षिर्यस्य तस्य वपुषः संधिषु लीनाः सर्वाः सिन्धवो नद्यो यस्य तस्य सलिलात्मनस्तोयात्मकस्य त्रीणि धामानि स्थानानि भूरादीनि सत्त्वादीनि वा यस्य तस्य विधाम्नो हरेः शिरोरुहेभ्यो जलवाहावलयो मेघपरम्परा उदगुरुद्धभूवुः । 'इणो गा लुङि' इति गादेशे 'गातिस्था-' (२।४।७७) इत्यादिना सिचो लुक् । 'यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु । कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने मनः ॥ (महाभारते शान्ति० ४७।६०) इत्यागमोक्तं प्रमाणमिति भावः ॥ ६६ ॥ ककुभः कृतनादमास्तृणन्तस्तिरयन्तः पटलानि भानुभासाम् । उदनंसिषुरभ्रमभ्रसङ्घाः सपदि श्यामलिमानमानयन्तः ॥ ६७ ॥ ककुभ इति ॥ कृतनादं कृतगर्जारावं यथा तथा ककुभ आस्तृणन्त आच्छा. दयन्तः । स्तृणातेर्लटः शत्रादेशः 'नाभ्यस्तयोः-' (६।४।११२) इत्याकारलोपः । भानुभासामांशूनां पटलानि तिरयन्तस्तिरस्कुर्वन्तः । तिरःशब्दात् 'तत्करोति' (ग०) इति ण्यन्ताल्लटः शन्नादेशः। णाविष्टवद्भावाहिलोपः । अभ्रमाकाशं श्यामलिमानमानयन्तः श्यामलत्वं प्रापयन्तः अभ्रसङ्घा मेघौघाः सपदि सद्य उदनंसिविंशः सर्गः। ५१७ षुरुत्पेतुः । उत्पूर्वान्नमते ङि 'यमरमनमातां सक्च' (७।२।७३) इति सगिडागमौ 'नेटि' (७।२।४) इति वृद्धिप्रतिषेधः । स्वभावोक्तिः ॥ ६७ ॥ तपनीयनिकर्षराजिगौरस्फुरदुत्तालतडिच्छटाट्टहासम् । अनुबद्धसमुद्धताम्बुवाहध्वनिताडम्बरमम्बरं बभूव ॥ ६८॥ तपनीयेति ॥ तपनीयस्य हेम्नो निकर्षराजयः कर्षणलेखा इव गौर्यः पीताः । 'गौरोऽरुणे सिते पीते' इत्यमरः । स्फुरन्त्य उत्ताला उद्धतास्तडिच्छटा विद्युल्लता एवाट्टहासा यस्य तत्तथोक्तं अनुबद्धोऽनुस्यूतः समुद्धतस्तारोऽम्बुवाहानां ध्वनिताडम्बरो गर्जिताडम्बरो यस्य तदम्बरं बभूव । तदाम्बुवाहैर्विद्युत्प्रभाभिर्गर्जिताड- म्बरैश्चाट्टहासं कुर्वद्भिरिवाम्बरं बभावित्यर्थः । व्यञ्जकाप्रयोगाद्गम्योत्प्रेक्षा ॥ ६८॥ सवितुः परिभावुकैर्मरीचीनचिराभ्यक्तमतङ्गजाङ्गभाभिः । जलदैरभितः स्फुरद्भिरुचैर्विदधे केतनतेव धूमकेतोः ॥ ६९ ॥ सवितुरिति ॥ सवितुमरीचीन्मयूखान् परिभावुकैस्तिरस्कुर्वद्भिः । 'लषपत-' (३।२।१५४) इत्यादिना उकञ्प्रत्यये 'न लोका-' (२।३।६९) इत्यादिना षष्ठीप्रतिषेधः । अचिराभ्यक्तस्य सद्यःकृताभ्यङ्गस्य मतङ्गजाङ्गस्य नागदेहस्येव भासो येषां तैस्तथोक्तैः । 'भोभगो-' (८।३।१७) इत्यादिना रोर्यकारस्य 'हलि सर्वेषाम्’ (८।३।२२) इति लोपः । अभितः स्फुरद्भिर्जुम्भमाणैरुच्चैरुन्नतैर्जलदेधूम- केतोरग्नेः केतनता केतुत्वं विदधे इव विहितेव । धूमकेतोः केतुत्वं प्राप्तमित्यर्थः । उत्प्रेक्षालंकारः ॥ ६९ ॥ ज्वलतः शमनाय चित्रभानोः प्रलयाप्लावमिवाभिदर्शयन्तः । ववृषनादिनो नदीनां प्रतटारोपितवारि वारिवाहाः ॥ ७० ॥ ज्वलत इति ॥ ज्वलतश्चित्रभानोरग्नेः शमनाय' प्रलये कल्पान्ते य आप्लावो महापूरस्तमभिदर्शयन्त इवेत्युत्प्रेक्षा । वृषवद्वृषभवन्नदन्ति गर्जन्तीति वृषनादिनः । 'कर्तर्युपमाने' (३।२।७९) इति णिनिः । अत एवोपमा । वारि वहन्तीति वारिवाहा मेघाः । 'कर्मण्यण' (३।२।१)। नदीनां प्रतटेषु प्रतीरेषु आरोपितानि भावितानि वारीणि यस्मिन्कर्मणि तद्यथा तथा ववृषुः । प्रलयकालमेघवदवर्षन्नित्यर्थः ॥ ७० ॥ मधुरैरपि भूयसा स मेध्यैः प्रथमं प्रत्युत पारिभिर्दिदीपे । पवमानसखस्ततः क्रमेण प्रणयक्रोध इवाशमद्विवादैः ॥ ७१ ॥ मधुरैरिति ॥ इतीत्थं पवत इति पवमानो वायुः । 'पूङ्यजोः शानन्' (३।२।१२८)। तस्य सखा पवमानसखः अग्निः । 'राजाहःसखिभ्यष्टच्' (५।४। ९१)। मैत्रीमात्रविवक्षायामयं निर्देशः । स्वसहकारिणी मैत्रीति नियमात्सहकारि- स्वाविवक्षायां वैपरीत्याबहुव्रीहौ तु न समासान्तः । स्वामी तु 'रोहिताश्वो वायुसखः' इत्यसमासान्तपाठेन बहुव्रीहिमाह । अत्रापि तथा पाठे न कश्चिदुपद्रवः । सोऽग्निः मधुरैः प्रियैरपि विवादैर्विविधवाक्यैः प्रणयक्रोधः प्रणयप्रयुक्तकोप इव शिशु० ४४ शिशुपालवधे मधुरैः स्वादुभिः । अनुद्दीपकैरित्यर्थः । मेध्यमवभवैः । 'दिगादिभ्यो यत्' (४।३।५४) । वारिभिः प्रथमं वैपरीत्येनापि 'प्रत्युतेति वैपरीत्ये' इति गणव्याख्याने । भूयसा अत्यन्तम् । भृशमित्यर्थः । दिदीपे प्रजज्वाल । ततः क्रमेणाशमच्छान्तोऽभूत् । शाम्यतेर्लुंङि पुषादित्वाञ्चलेरङादेशः । जलाहतोऽग्निज्वलितो नश्यति, प्रणयकोपोऽपि प्रियैः भृशायित्वा शाम्यतीति प्रसिद्धम् । उपमा ॥ ७१ ॥ परितः प्रसभेन नीयमानः शरवर्षैरवसायमाश्रयाशः । प्रबलेषु कृती चकार विद्युयपदेशेन घनेष्वनुप्रवेशम् ॥ ७२ ॥ परित इति ॥ परितः प्रसभेन बलात्कारेण शरवर्षीरसेकैः । 'शरं नीरे शरो बाणे' इति विश्वः । अवसायमवसादं नीयमानः । कृती कुशलः । आश्रयमनातीत्याश्रयाशोऽग्निः । 'कर्मण्यण्' (३।२।१)। प्रबलेषु घनेषु मेघेषु विद्युध्यपदेशेन तडिच्छलेनानुप्रवेशं चकार । अस्ताग्निर्विद्युद्रूपेण मेघेष्वेव प्रविष्टः । बलवताभिभूतस्य विदेशगमनं तदनुप्रवेशो वेति नीतेरिति भावः । अत्र विशेषणसाम्यादग्नावप्रकृतदुर्बलत्वप्रतीतेः समासोक्तिः ॥ ७२ ॥ प्रयतः प्रशमं हुताशनस क्वचिदालक्ष्यत मुक्तमूलमर्चिः । बलभित्प्रहितायुधाभिघातात्रुटितं पत्रिपतेरिवैकपत्रम् ॥ ७३ ॥ प्रयत इति ॥ प्रशमं नाशं प्रयतः गच्छतः । प्रेतीति प्रयन् तस्य प्रयतः । इणः शतरि यणादेशः । हुताशनस्याग्नेः संबन्धि मुक्तमूलं त्यक्तमूलं त्यक्ताश्रयमर्चिर्ज्वाला । 'ज्वालाभासोनपुंस्यर्चिः' इत्यमरः । बलभिदा शक्रेण प्रहितस्य प्रयुक्तस्यायुधस्य वज्रस्याभिघातात्प्रहरात्त्रुटितं छिन्नं पत्रिपतेः पक्षिराजस्य गरुत्मत एकं पत्रं पक्षमिव क्वचिदालक्ष्यत अदृश्यत इत्युपमा । पुरा मातृदास्यविमोकायामृतमाहरता गरुडेनेन्द्रप्रयुक्तवज्रगौरवादेकं पत्रं त्यक्तमित्यागमः ॥ ७३ ॥ व्यगमन्सहसा दिशां मुखेभ्यः शमयित्वा शिखिनं घनाघनौघाः । उपकृत्य निसर्गतः परेषामुपरोधं न हि कुर्वते महान्तः ॥ ७४ ॥ व्यगमन्निति ॥ घनाघनौघाः वर्युकाब्दसमूहाः । 'शक्रधातुकमत्तेभवर्षकाव्दा घनाघनाः' इत्यमरः । शिखिनमग्निं शमयित्वा सहसा दिशां मुखेभ्यो व्यगमन्न- पसत्रुः । गमेलङि 'पुषादि-' (३।१।५५) इति च्लेरङादेशः । तथा हि- महान्तो निसर्गतः स्वभावादेव परेषां उपकृत्य उपकारं कृत्वा उपरोधं न हि कुर्वते । महतां निष्फलावस्थानं परोपरोधायेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ७४ ॥ कृतदाहमुदर्चिषः शिखाभिः परिषिक्तं मुहुरम्भसा नवेन । विगताम्बुधरव्रणं प्रपेदे गगनं तापितपायितासिलक्ष्मीम् ।। ७५॥ कृतेति ॥ उदर्चिषोऽग्नेः शिखाभिः ज्वालाभिः कृतदाहं विहिततपनं ततो नवेनाम्भसा मुहुः परिषिक्तं विगता अम्बुधरा एव व्रणा दोषा यस्य तद्गगनं विंशः सर्गः। संतापितस्तापं प्रापितः स चासौ पायितः पानं कारितः । पिबतेर्ण्यन्तात्कर्मणि क्तः । 'शाच्छासाह्वाव्यावेपां युक्' (७।३।३७) इति युगागमः । तस्य तापितपायितस्य तप्तसिक्तस्यासेः खड्गस्य लक्ष्मी प्रपेदे प्रापे । इति निदर्शनालंकारः अम्बुधरव्रणेति रूपकसंकीर्णः ॥ ७५ ॥ इति नरपतिरस्त्रं यद्यदाविश्चकार प्रकुपित इव रोगः क्षिप्रकारी विकारम् । भिषगिव गुरुदोषच्छेदिनोपक्रमेण क्रमविदथ मुरारिः प्रत्यहंस्तत्तदाशु ॥ ७६ ॥ इतीति ॥ इतीत्थं क्षिप्रं करोतीति क्षिप्रकारी शीघ्रप्रयोक्ता, अन्यत्र विकारकारी नरपतिश्चैद्यः प्रकुपितः प्रक्षुभितः सन् यद्यदस्वमाविश्वकार रोगो विकारमिव अथ क्रमवित्परिपाटीवेदी मुरारिभिषग्वैद्य इव गुरुदोषच्छेदिना गुरुदोषप्रतिघातकेन दोषपनिवर्तकेन चोपक्रमेणोपायेन । प्रत्यस्वप्रयोगेणेत्यर्थः । अन्यत्र महौषधप्रयोगेण तत्तदत्रं आशु शीघ्रम् । तद्विकारमिवेति भावः । प्रत्यहन् प्रतिजघान । हन्तेर्लङ् अदादित्वाच्छपो लुक् 'हल्याप्' (६।१।६८) इति लोपः । उपमा ॥ ७६ ॥ शुद्धिं गतैरपि परामृजुभिर्विदित्वा बाणैरजय्यमविघट्टितमर्मभिस्तम् । मर्मातिगैरनृजुभिर्नितरामशुद्धै- र्वाक्सायकैरथ तुतोद तदा विपक्षः ॥ ७७॥ शुद्धिमिति ॥ तदा तस्मिन्समये विपक्षोऽरिश्चैद्यः परामुत्कृष्टां शुद्धिं लोहशुद्धिं गतैर्ऋजुभिरप्यविघट्टितमर्मभिरस्पृष्टमर्मस्थानः तं हरिमजय्यं जेतुमशक्यम् । क्षय्यजय्यौ शक्यार्थे' (६।१८१) इति निपातः । विदित्वा । अथास्मिन्नवसरे मर्माणि अतिगच्छन्तीति मर्मातिगैर्मर्मभेदिभिरनृजुभिर्वक्रैः नितरामशुद्धैरपवित्रैः वाच एव सायकास्तैः वाक्सायकैरिति रूपकम् । तुतोद व्यथयामास । चक्रप्रयोगस्यायमुपोद्धात इति भावः । अत्र वाक्सायकानां प्रसिद्धसाधनव्यतिरेकोक्तेर्व्यतिरेकरूपकयोः संकरः । वसन्ततिलका वृत्तम् ॥ ७७ ॥ राहुस्त्रीस्तनयोरकारि सहसा येनाश्लथालिङ्गन- व्यापारकविनोददुर्ललितयोः कार्कश्यलक्ष्मीर्वृथा । तेनाक्रोशत एव तस्य मुरजित्तत्काललोलानल- ज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रे वपुः ॥७८॥ राह्विति ॥ येन चक्रेण सहसा झटिति अश्लथो दृढो य आलिङ्गनव्यापारः स एव एको मुख्यः । 'एके मुख्यान्यकेवलाः' इत्यमरः । विनोदस्तत्र दुर्ललितयोलोलुपयो राहुस्त्रीस्तनयो राहुरमणीकुचयोः कार्कश्यलक्ष्मीः काठिन्यशोभा वृथा ५२० शिशुपालवधे व्यर्था अकारि कृता । शिरोमात्रावशेषितस्य राहोरालिङ्गनसुखासंभवादिति भावः । मुरजिद् हरिः तत्काले तस्मिन्समये लोलाभिश्चञ्चलाभिरनलज्वालाभिर- ग्निदीप्तिभिः पल्लवितेन संजातपल्लवेन । तारकादित्वादितच् । तेन चक्रेण आक्रो- शत एव शपमानस्यैव तस्य शिशुपालस्य वपुर्मूर्धविकलं शिरोहीनं चक्रे चकार । शिरश्चिच्छेदेत्यर्थः । कर्तरि लिट् । राहोः शिरो वपुर्विकलमकारि, अस्य तु वपुः शिरोविकलं कृतमिति तात्पर्यम् । अत्र चक्रवर्णनेऽप्रस्तुतादाहुस्त्रीकुचकार्कश्य- वर्णनात् 'प्रस्तुतत्वेन संबन्धस्तत्पर्यायोक्तमुच्यते' इति पर्यायोक्तम् ॥ ७८ ॥ श्रिया जुष्टं दिव्यैः सपटहरवैरन्वितं पुष्पवर्षै- र्वपुष्टश्चैद्यस्य क्षणमृषिगणैः स्तूयमानं निरीय । प्रकाशेनाकाशे दिनकरकरान्विक्षिपद्विसिताक्षै- र्नरेन्द्ररौपेद्रं वपुरथ विशद्धाम वीक्षांबभूवे ॥ ७९ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्यङ्के शिशु- पालवधो नाम विंशतितमः सर्गः ॥२०॥ श्रियेति ॥ अथ शिरश्छेदानन्तरं श्रिया शोभया जुष्टं सेवितं दिव्यैर्दिवि भवैः सपटहरवैः सदुन्दुभिघोषैः पुष्पवर्षैरन्वितं क्षणम् । ऋषिगणैः स्तूयमानं तथा चैद्यस्य वपुष्टः शरीरतः । पञ्चम्यास्तसिल । निरीय निर्गत्य । 'इण् गतौ' इति धातोः 'समासेऽनञ्पूर्वे क्त्वो ल्यप् (७।१।३७) प्रकाशेन आकाशे दिन- करकरानकरश्मीन् विक्षिपत् उपेन्द्रस्येदमौपेन्द्रं वपुर्हरेविग्रहं विशत् प्रविशत् धाम शिशुपालतेजो विस्मिताक्षैर्विकसितनयनैनरेन्द्रै राजन्यैः वीक्षांबभूवे ईक्षि- तम् । ईक्षतेः कर्मणि लि़्ट् । 'इजादेश्च गुरुमतोऽनृच्छः' (३।१॥३६) इत्याम् । 'कृञ्चानुप्रयुज्यते लिटि' (३।१।४०) इति भुवोऽनुप्रयोगः 'भावकर्मणोः' (१॥३॥ १३) इत्यात्मनेपदम् । अत्र भगवान्व्यासः-'ततश्चेदिपतेर्दैहात्तेजोऽयं ददृशे नृपैः । उत्पपात यदा राजन् तदा तेजो विवेश च ॥ दिवि सूर्यसहस्रस्य भवेद्युग- पदुत्थिता । यदि भाः सदृशी सा स्यात् भासस्तस्य महात्मनः ॥' (महाभारते सभा० अध्या० ४५) इति । एतेन भगवद्वपुषोऽपि तदासक्तवचनसा (2) तारक इत्यनुसंधेयम् । यदाह नारदः-'कामाद्गोप्यो भयात्कंसो द्वेषाच्चैद्यादयो नृपाः । संबन्धादृष्णयः स्नेहाद्यूयं भक्त्या वयं प्रभो ॥' इति । सूर्यसहस्राभिभाविनः शिशुपालतेजसो हरिशरीरप्रवेशवृत्तान्तस्यालौकिकस्याद्भुतस्य प्रत्यक्षलक्ष्यमाणत्वा- भाविकालंकारः । तदुक्तम्-'विनापराधेन कृतार्थक(?)पिना भाविकं तदुदाहृ- तम्' इति । मेघविस्फूर्जिता वृत्तम् । 'रसर्त्वश्वैर्य्यौ न्सौ ररगुरुयुतौ मेघविस्फू- र्जिता स्यात्' इति लक्षणात् ॥ ७९ ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवधकाव्यव्याख्याने सर्वकषाख्ये शिशुपालवधो नाम विंशतितमः सर्गः ॥ २० ॥