शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/एकोनविंशः सर्गः(युद्धवर्णनम्)
← अष्टादशः सर्गः(सङ्कुलयुद्धवर्णनम्) | शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्) एकोनविंशः सर्गः(युद्धवर्णनम्) माघः |
विंशः सर्गः(शिशुपालवधवर्णनम्) → |
एकोनविंशः सर्गः।
तदेवमष्टादशसर्गे तुमुलं युद्धमभिधायेदानीमेकोनविंशतिसर्गे द्वन्द्वयुद्धमनु- ष्टुभेन छन्दसा चित्रबन्धेन वर्णयितुमारभते-
अथोत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा ।
नृपाङ्घ्रिपौघसंघर्षादग्निवद्वेणुदारिणा ॥१॥
अथेत्यादि ॥ अथैवं तुमुलयुद्धानन्तरं । रणोऽटवीवेत्युपमितसमासः । अग्नि- वदिति तद्धितौपम्यलिङ्गात् । एवमुत्तरत्रापि द्रष्टव्यम् । तस्यां रणाटव्यामसुहृदः शत्रवो वेणवो वंशा इव । 'वेणुमस्करतेजनाः' इति वंशपर्यायेष्वमरः। तान् दारयति यस्तेनासुहृद्वेणुदारिणा वेणुदारिणा बाणात्मजेन नृपा अङ्घ्रिपाः पादपा इव तेषामोघाः सङ्घास्तेषां संघर्षान्मत्सराच्छ्लेषाच्च अग्निवदग्नितुल्यम् । 'तेन तुल्यम्-' (५।१।११५) इति तुल्यार्थे वतिप्रत्ययः । उत्तस्थे उत्थितम् । भावे लिट् । अत्र 'अग्निवत्' इति तुल्यार्थेन वतिना धर्मव्यवधाने सादृश्यप्रतिपादिना उपमा- नोपमेयसमानधर्मसादृश्यप्रतिपादकानां चतुर्णां चोपादानाच्चेयमार्थी तद्धितगता पूर्णोपमा । सा च रणाटव्यादिसमासगतोपमासापेक्षेति संकरः । सर्गेऽस्मिन्ननुष्टुभं वृत्तम् । ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च सर्वेषामेतच्छ्लोकस्य लक्षणम् ॥' इति तल्लक्षणात् । अत्रैकान्तरक्रमेण यमकाद्यन्यतमशब्दालंकारनियमः सर्वत्र यथासंभवमर्थालंकारश्च । तत्र यमकलक्षणमुक्तं दण्डिना-'अव्यपेतव्यपे- तात्मा व्यावृत्तिवर्णसंहतेः । यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥ एकद्वि- त्रिचतुष्पादैर्यमकानां विकल्पना । आदिमध्यान्तमध्यान्तमध्याद्याद्यान्तसर्वतः ॥' इति । अत्रेदं समपादान्तं यमकं द्विपादयमकभेदः ॥ १ ॥
आपतन्तममुं दूरादूरीकृतपराक्रमः ।
बलोऽवलोकयामास मातङ्गमिव केसरी ॥२॥
आपतन्तमिति ॥ आपतन्तमाधावन्तममुं वेणुदारिणं दूरात् ऊरीकृतपरा- क्रमोऽङ्गीकृतपौरुषस्तेन । सहानुगतसंप्रहार इत्यर्थः । बलो बलभद्गः केसरी सिंहो मातङ्गं गजमिवावलोकयामास । अनयोरिव तदन्तरमिति भावः । अतो- ऽलंकारेण वस्तुध्वनिः ॥२॥
जजौजोजाजिजिज्जाजी तं ततोऽतिततातितुत् ।
भाभोऽभीभाभिभूभाभूरारारिररिरीररः ॥३॥
॥ एकाक्षरपादः ॥
जजाविति ॥ ततोऽवलोकनानन्तरं जजन्तीति जजा योधाः । 'जज युद्धे' पचाद्यच् । जजानामोजसा जाता जजौजोजा तामाजिं जयतीति जजौजोजाजिजित् । जयतेः क्विप् । जजतीति जाजी योधी । ताच्छील्ये णिनिः । अतितता- नत्युद्धतानतितुदति अतिव्यथयतीत्यतितुत् । तुदतेः क्विप् । भस्याभेवामा यस्य स भाभो नक्षत्रकान्तिः । 'नक्षत्रमृक्षं भं तारा' इत्यमरः । नास्ति भीर्येषां तेऽभियो निर्भीकाः तानिभान्गजानभिभवतीति अभीभाभिभूः । क्विप् । तस्याः भासस्तेजसो भूः स्थानम् अभीभाभिभूभाभूः । अराः सन्त्येषामित्यरीणि चक्राणि तैः रीणन्ति गच्छन्तीति अरिरियो रथाः । ‘री गतिश्लेषणयोः' इति धातोः क्विप् । तेषां ईरं प्रेरणं राति अरिरीररो रथिकः । 'आतोऽनुपसर्गे कः' (३।२।३) अरिः शत्रुर्बलभद्गः तं वेणुदारिणं आर । योद्धुमाससारेत्यर्थः । 'ऋ गतौ' इति धातोर्लिट् द्विर्भावे कृते णलि वृद्धिः अभ्यासस्योरदत्वे 'अत आदेः' (७।४।७०) इति दीर्घ पुनः सवर्णदीर्घः । भिन्नैकाक्षरपादाख्योऽनुप्रासभेदः । भाभ इत्युप- मानुप्रासयोरेकवाचकानुप्रवेशलक्षणसंकरः ॥ ३ ॥
भवन्भयाय लोकानामाकम्पितमहीतलः ।
निर्घात इव निर्घोषभीमस्तस्यापतद्रथः ॥ ४ ॥
भवन्निति ॥ लोकानां जनानां, जगतां च। 'लोकस्तु भुवने जने' इत्यमरः । भयाय भवनसंपद्यमानः । भयं जनयन्नित्यर्थः । 'क्लृपि संपद्यमाने च' (वा०) इति क्लृपेरर्थनिर्देशाच्चतुर्थी । आकम्पितमहीतलः । भूकम्पं कुर्वन्नित्यर्थः । निर्घोषेण भीमो भयंकरः तस्य बलभद्रस्य रथो निर्घात इवापतदधावत् । श्रौती पूर्णोपमा ॥४॥
रामे रिपुः शरानाजिमहेष्वास विचक्षणे ।
कोपादथैनं शितया महेष्वा स विचक्षणे ॥ ५॥
राम इति ॥ रिपुर्वेणुदारी आजिमहेषु रणोत्सवेष्विति रूपकम् । 'मह उद्धव उत्सवः' इत्यमरः । विचक्षणे प्रगल्भे । विचष्ट इति कर्तरि ल्युडिति न्यासकारः। 'असनयोश्च प्रतिषेधो वक्तव्यः' इति चक्षिङः ख्याञादेशाभावः । रामे बलभद्रे शरान् आस चिक्षेप । अस्यतेर्लिट् 'अत आदेः' (७।४।७०) इत्यभ्यासदीर्चे सवर्णदीर्घः । कोपात्स राम एनं वेणुदारिणं शितया शातया। 'शाच्छोरन्यतरस्याम्' (७।४।४१) इतीत्वम् । महेष्वा महेषुणा । 'पत्री रोप इषुर्द्वयोः' इत्यमरः । विचक्षणे जघान । 'क्षणु हिंसायाम्' इति धातोः कर्तरि लिट् । अभिन्नसमपादो नाम पादाभ्यासयमकभेदः। एवमुत्तरत्रापि द्रष्टव्यम् ॥५॥
दिशमर्कमिवावाचीं मूर्छागतमपाहरत् ।
मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः ॥६॥
कृत्वा शिनेः शाल्वचमूं सप्रभावा चमूर्जिताम् ।
ससर्ज वक्त्रैः फुल्लाब्जसप्रभा वाचमूर्जिताम् ॥ ७॥
कृत्वेति ॥ प्रभावेण सह वर्तत इति सप्रभावा महानुभावा शिनेः सात्य- किपितामहस्य चमूः सेना। शाल्वो नाम चैद्यपक्षो राजा तस्य चमूं सेनां जितां कृत्वा । जित्वेत्यर्थः । अत एव वक्त्रैर्मुखैः । येनाङ्गविकारः' (२।३।२०) इति तृतीया । विकासस्यापि विकारत्वात् । फुल्लाब्जस्य प्रफुल्लारविन्दस्य सप्रभा समानप्रभा । हर्षेण विकासितवक्त्रा सतीत्यर्थः । ऊर्जितामुदारां वाचं ससर्ज के यूयमस्मदग्र इत्याधुच्चैर्जगर्ज । जगादेत्यर्थः । उपमायमकयोः संसृष्टिः ॥ ७ ॥
उल्मुकेन द्रुमं प्राप्य संकुचत्पत्रसंचयम् ।
तेजः प्रकिरता दिक्षु सप्रतापमदीप्यत ॥ ८॥
उल्मुकेनेति ॥ दिक्षु तेजः प्रभावं प्रकाशं च प्रकिरता विक्षिपता उल्मु- केन भागवतेन राज्ञा, अलातेन च संकुचन्ती पत्रसंपद्वाहनसंपत्, पर्णसमृद्धिश्च यस्य तम् । सप्रतापं सपराक्रमं, प्रकटतापसंहितं च । द्रुमं द्रुमाख्यं राजानं, वृक्षं च प्राप्यादीप्यत प्रजज्वले । भावे लङ् । अत्राभिधायाः प्रकृतार्थे नियन्त्रणा- दप्रकृतार्थप्रतीतिर्ध्वनिरेव न श्लेषः ॥ ८॥
पृथोरध्यक्षिपद्रुक्मी यया चापमुदायुधः ।
तयैव वाचापगमं ययाचापमुदा युधः ॥ ९ ॥
पृथोरिति ॥ रुक्मी भीष्मकात्मजो रुक्मिणीभ्राता उदायुध उद्यतायुधः सन् यया वाचा पृथो राज्ञश्चापमध्यक्षिपत् धिगिदं वृथा कष्टमिति निनिन्द । अपगता मुद्यस्यास्तयाऽपमुदा निरुत्साहया तयैव वाचा युधो युद्धादपगममपस- रणं ययाच । मां त्राहि पलायमानं शरणागतोऽसीति प्रार्थयामासेत्यर्थः । याचिरुभयपदी ॥९॥
समं समन्ततो राज्ञामापतन्तीरनीकिनीः।
कार्ष्णिः प्रत्यग्रहीदेकः सरस्वानिव निम्नगाः ॥१०॥
सममिति ॥ समं युगपत्समन्तत आपतन्तीरागच्छन्ती राज्ञां चैद्यपक्षाणा- मनीकिनीः सेनाः । कृष्णस्यापत्यं पुमान् कार्ष्णिः प्रद्युम्नः 'अत इञ्' (४।१।९५)। निम्नगा नदीः सरस्वान्समुद्र इवैकोऽसहायः प्रत्यग्रहीत्प्रत्यवरुरोध ॥ १० ॥
दधानैर्घनसादृश्यं लसदायसदंशनैः ।
तत्र काञ्चनसच्छाया ससृजे तैः शराशनिः ॥११॥
दधानैरिति ॥ लसन्ति आयसान्ययोमयानि दंशनानि वर्माणि येषां तैः । 'तनुत्रं वर्म दंशनम्' इत्यमरः । अत एव घनसादृश्यं कार्पोन्मेघसाम्यं दधानैस्तैः सैनिकैः तत्र कार्ष्णै काञ्चनसच्छाया सुवर्णवर्णा शर एवाशनिः विद्युत् ससृजे उत्सृष्टा । उपमारूपकयोः संसृष्टिः । ओष्ठ्यवर्णविरहान्निरौष्ठ्यं चित्रभेदः शब्दालंकारः ॥११॥
नखांशुमञ्जरीकीर्णामसौ तरुरिवोच्चकैः ।
बभौ बिभ्रद्धनुःशाखामधिरूढशिलीमुखाम् ॥ १२॥
नखेति ॥ नखांशवो मञ्जर्य इव ताभिः कीर्णां व्याप्ताम् । अधिरूढाः शिली- मुखा बाणाः, अलयश्च यस्यां ताम् । 'अलिबाणौ शिलीमुखौ' इत्यमरः । धनु:- शाखेव तां बिभ्रदसौ कार्ष्णिरुच्चकैरुन्नतस्तरुरिव बभौ । तरुरिवेति लिङ्गात्सर्वत्रोप- मितसमासः । शिलीमुखेति श्लिष्टविशेषणेयमुपमा ॥ १२ ॥
प्राप्य भीममसौ जन्यं सौजन्यं दधदानते ।
विध्यन्मुमोच न रिपूनरिपूगान्तकः शरैः ॥ १३ ॥
प्राप्येति ॥ अरिपूगानां शत्रुसङ्घानामन्तकः अरिपूगान्तकोऽसौ कार्ष्णिः भीमं भयंकरं जन्यं युद्धं प्राप्य । 'युद्धमायोधनं जन्यम्' इत्यमरः । आनते नम्रे सौजन्यं सौहार्दं दधत् न तु विध्यन् । 'न क्लीबं न कृताञ्जलिम्' (मनु० ७।९१) इति निषेधादिति भावः । रिपून्प्रतिपक्षान् शरैर्विध्यन्प्रहरन् न मुमोच । न ररक्षेत्यर्थः । संदंशयमकभेदः ॥ १३ ॥
कृतस्य सर्वक्षितिपैविजयाशंसया पुरः।
अनेकस्य चकारासौ बाणैर्बाणस्य खण्डनम् ॥ १४ ॥
कृतस्येति ॥ असौ कार्ष्णिः सर्वक्षितिपैर्विजयाशंसया विजयाकाङ्क्षया पुरोऽग्रे कृतस्य नियुक्तस्य प्रयुक्तस्य वा अनेकस्यानेकाकिनः । ससहायस्येत्यर्थः । अन्य- त्रानेकस्य बहुसंख्यस्य बाणस्य बाणासुरस्य शरजातस्य च बाणैः खण्डनं छेदं चकार । अत्र बाणयोर्द्वयोरपि प्रकृतत्वात्केवलप्रकृतयोः श्लेषः ॥ १४ ॥
या बभार कृतानेकमाया सेना ससारताम् ।
धनुः स कर्षन्रहितमायासेनाससार ताम् ॥ १५ ॥
येति ॥ या सेना कृतानेकमाया कृतबहुकपटा सती ससारतां सारवत्तां बभार तां सेनां स कार्ष्णिः धनुः कर्षन् । धनुषा विध्यन्नित्यर्थः । आयासेन रहितमनायासं यथा तथा आससार । अभियुक्तवानित्यर्थः । बाणं भङ्क्त्वा तत्सेनां बभञ्जेत्यर्थः ॥ १५॥
ओजो महौजाः कृत्वाधस्तत्क्षणादुत्तमौजसः ।
कुर्वन्नाजावमुख्यत्वमनयन्नाम मुख्यताम् ॥ १६ ॥
दूरादेव चमूर्भल्लैः कुमारो हन्ति स स्म याः ।
न पुनः सांयुगीं ताः स्म कुमारो हन्ति सस्मयाः ॥१७॥
दूरादिति ॥ स कुमारः प्रद्युम्नः सस्मयाः सगर्वाः याश्चमूर्दूरादेव भल्लैर्बाणविशेषैर्हन्ति स्म जघान ताश्वम्वः पुनर्भूयः संयुगस्येमां सांयुगी कुं पृथ्वीं । रणभुवमित्यर्थः । 'गोत्रा कुः पृथिवी पृथ्वी' इत्यमरः । न आरोहन्ति स्म नारूढाः॥१७॥
निपीड्य तरसा तेन मुक्ताः काममनास्थया ।
उपाययुर्विलक्षत्वं विद्विषो न शिलीमुखाः ॥१८॥
निपीड्येति ॥ तेन प्रद्युम्नेन तरसा बलेन कामं निपीड्य अनास्थयानादरेण मुक्ताः । 'आर्ता न परिहन्तव्याः' इति निषेधेनावध्या इति जीवन्तो मुक्ता इत्यर्थः। अन्यत्र क्षिप्ताः विद्विषो विलक्षत्वं सत्रपत्वमाययुः । 'विलक्षस्तु त्रपान्विते' इत्यमरः । शिलीमुखा बाणास्तु विलक्षत्वं लक्षभ्रष्टत्वं नाययुः । अत्र द्वयोरपि विलक्षणत्वयोरभेदाध्यवसायादयं व्यतिरेको विद्विषां शिलीमुखानां च प्रकृतत्वात्तुल्ययोगितौपम्याश्रित इति संकरः ॥१८॥
तस्यावदानैः समरे सहसा रोमहर्षिभिः ।
सुरैरशंसि व्योमस्थैः सह सारो महर्षिभिः ॥ १९॥
तस्येति ॥ समरे तस्य प्रद्युम्नस्यावदानैरत्युग्रकर्मभिः करणैः सहसा सद्यः रोमहर्षिभिः रोमाञ्चवद्भिः व्योमस्थैः सुरैः महर्षिभिः सह साधू सारो बलमशंसि शंसितम् ॥ १९॥
सुगन्धयद्दिशः शुभ्रमम्लानि कुसुमं दिवः ।
भूरि तत्रापतत्तसादुत्पपात दिवं यशः ॥२०॥
सुगन्धयदिति ॥ दिशः सुगन्धयत् सुगन्धाः कुर्वत् । सुगन्धात् 'तत्करोति-' (ग०) इति ण्यन्ताल्लटः शत्रादेशः । शुभ्रं धवलं अम्लानि म्लानिरहितं भूरि प्रभूतं कुसुमं दिवोऽन्तरिक्षात्तत्र प्रद्युम्ने अपतत् । तस्मात्प्रद्युम्नाद्यशः पूर्वोक्तगुणयुक्तं दिव- मन्तरिक्षं प्रति उत्पपात । अत्र द्युप्रद्युम्नयोः कुसुमयशोभ्यामन्योन्योपस्कारजनना- दन्योन्यालंकारः । 'परस्परं क्रियाजननेऽन्योन्यम्' इति लक्षणात् ॥ २० ॥
सोढुं तस्य द्विषो नालमपयोधरवा रणम् ।
ऊर्णुनाव यशश्च द्यामपयोधरवारणम् ॥ २१॥
सोढुमिति ॥ अपगता भयान्निवृत्ता योधानां रवाः सिंहनादा येषां ते अपयोधरवा द्विषः शत्रवः तस्य कार्ष्णेः रणं सोढुं नालमशक्ताः । अत एव यशश्च अविद्यमानं पयोधराणां वारणं मेघप्रतिघातो यस्य तत् अपयोधरवारणं सत् द्यामूर्णनाव । मेघमण्डलं व्यतिलङ्घय स्वर्गमाच्छादयामासेत्यर्थः । ऊर्णोतेर्लिट् । 'अजा देर्द्वितीयस्य' (६।१।२) इति द्वितीयस्याचो द्विर्भावः । नुवद्धावादाम्प्रतिषेधः । यमकवाक्यार्थहेतुककाव्यलिङ्गयोः संसृष्टिः ॥ २१ ॥
केशप्रचुरलोकस्य पर्यस्कारि विकासिना ।
शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा ॥ २२ ॥
केशेति ॥ विकासिना विविधमार्गचारिणा, विकस्वरेण च कुसुमलक्ष्मणा पुष्पकेतुना प्रद्युम्नेन, अन्यत्र कुसुमचिह्नेन । तन्मयेनेत्यर्थः । केशवत्प्रचुराः प्रभूता लोका जना यस्मिंस्तस्य युद्धस्य शिरोऽग्रभूमिः, अन्यत्र केशैः प्रचुरस्य केशाढ्यस्य लोकस्य जनस्य शिरः मूर्धा शेखरेणापीडेनेव । शिखामाल्येनेवेत्यर्थः । 'शिखास्वापीडशेखरौ' इत्यमरः । पर्यस्कारि परिष्कृतम् । भूषितमित्यर्थः । परिपूर्वात्करोतेः कर्मणि लिद 'संपर्युपेभ्यः करोती भूषणे' सुडागमः 'अडभ्यास- व्यवायेऽपि' (वा०) इति नियमात् 'परिनिविभ्यः-' (८।३।७०) इत्यादिना षत्वे 'सिवादीनां वाड्व्यवायेऽपि' (८।३।७१) इति विकल्पः । उपमा ॥ २२ ॥
सादरं युध्यमानापि तेनान्यनरसादरम् ।
सा दरं पृतना निन्ये हीयमाना रसादरम् ॥ २३ ॥
सादरमिति ॥ सादरं साभिनिवेशं युध्यमानापि संग्रहरन्त्यपि अरं द्रुतम् । हठादिति यावत् । रसाद्रणे रागात् हीयमाना अपकृष्यमाणा । प्रद्युम्नमहिन्नेति भावः । अत एवात्र विरोधाभासोऽलंकारः । जहातेः कर्मणि लिटः शानजादेशः । सा पृतना चैद्यसेना तेन प्रद्युम्नेन अन्येषां तटस्थानामपि नराणां सादं निश्चेष्टतां राति ददातीति अन्यनरसादरम् । 'आतोऽनुपसर्गे कः' (३।२।३) इति कप्रत्ययः । दरं भयम् । 'दरोऽस्त्रियां भये श्वभ्रे' इत्यमरः । निन्ये नीता । नयतेः प्रधाने कर्मणि लिट् । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति वचनात् विरोधाभासयमकयोः संसृष्टिः ॥ २३ ॥
इत्यालिङ्गितमालोक्य जयलक्ष्म्या झपध्वजम् ।
क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः ॥ २४ ॥
इतीति ॥ इतीत्थं जयलक्ष्म्या आलिङ्गितं झषध्वजं मत्स्यकेतुं प्रद्युम्नम् । 'पृथुरोमा झषो मत्स्यः' इत्यमरः । आलोक्य सद्यः क्रुद्धया सपत्यागमाकोपितयेवेत्युत्प्रेक्षा । क्रुधा प्रद्युम्नाश्रितया रुषा काञ्र्या चेदिभूपतिः प्रपेदे प्राप्तः । विहायेति शेषः । कामिन्यः प्रायेण साहसिक्यः सपत्नीगन्धमसहमानाः सद्यः पुरुषान्तरमाश्रयन्त इति भावः । विजयिनं प्रद्युम्नं दृष्ट्वा सद्यश्चैद्यश्रुकोपेत्यर्थः ॥ २४ ॥
अहितानभि वाहिन्या स मानी चतुरङ्गया ।
चचाल वल्गत्कलभसमानीचतुरङ्गया ॥ २५ ॥
अहितानभि शत्रून्प्रति चचाल । कलभसमेत्युपमा यमकेन संसृज्यते ॥ २५ ॥ अथ कलापकेन सेनां वर्णयति-
ततस्ततधनुर्मौर्वीविस्फारस्फारनिःस्वनैः ।
तूर्यैर्युगक्षये क्षुभ्यदकूपारानुकारिणी ॥ २६ ॥
ततस्ततेत्यादि ॥ ततश्चैद्यचलनानन्तरं ततानामाकृष्टानां धनुर्मौर्वीणां विस्फारैः स्फाराः प्रभूता निःस्वना येषां तैस्तूर्यैः युगक्षये कल्पान्ते क्षुभ्यन्तमुद्देल्लन्तमकूपारं समुद्रमनुकरोतीति तदनुकारिणी सा सेनेत्युत्तरेणान्वयः । उपमा॥२६॥
॥ सर्वतोभद्रः॥
स | का | र | ना | ना | र | का | स | |
का | य | सा | द | द | सा | य | का | |
र | सा | ह | वा | वा | ह | सा | र | |
ना | द | वा | द | द | वा | द | ना | ॥ २७ ॥ |
सकारेति ॥ पुनः कीदृशी । 'कारो वधे निश्चये च बले यत्ने रतावपि' इति विश्वः । सकाराः सयत्नाः सोत्साहाः नाना नानाविधाश्च ये आरा अरीणां समूहाः । 'भिक्षादिभ्योऽण्' (४।२।३८) । तेषां कासा गतिभेदाः काया विग्रहाश्च तेषां सादं ददतीति साददाः नाशकारकाः सायका यस्यां सा तथोक्ता । रसेन रागेणाहवो यस्याः सा रसाहवा । रणरागिणीत्यर्थः । वाहसाराणां वाहश्रेष्टानां ये नादा ह्रेषादिघोषास्तेषां वादं कलहं ददतीति वाददानि तैः सह कलहायमानानि वादनानि वाद्यानि यस्यां सा वाहसारनादवाददवादना । तूर्यतुल्यवाहघोषेत्यर्थः । अत एव तेषां तुल्यतोक्तेरतिशयोक्तिः । सर्वतो भ्रमणात् सर्वतोभद्राख्यश्चित्रबन्धः । अत एव दण्डी - 'तदिष्टं सर्वतोभद्रं भ्रमणं यदि सर्वतः' इति । उद्धारस्तु-चतुःषष्टिकोष्ठे चतुरङ्गबन्धे क्रमेणाद्यपङ्क्तिचतुष्टये पादचतुष्कं विलिख्यानन्तरं पङ्क्तिचतुष्टयेऽप्यधः क्रमेण पादचतुष्टयलेखने प्रथमासु चतसृषु प्रथमपादः सर्वतो वाच्यते । एवं द्वितीयादिषु द्वितीय इत्यादि ॥ २७ ॥
लोलासिकालियकुला यमस्यैव स्वसा स्वयम् ।
चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायताम् ॥ २८ ॥
॥ मुरजबन्धः॥
सा | से | ना | ग | म | ना | र | म्भे | |
र | से | ना | सी | द | ना | र | ता | । |
ता | र | ना | द | ज | ना | म | त्त | |
धी | र | ना | ग | म | ना | म | या | ॥ २९ ॥ |
सा सेनेति ॥ तारोऽत्युच्चैर्नादः सिंहनादो येषां ते जना यस्यां सा तारनादजना अनामया अव्यथा सा पूर्वोक्ता सेना मत्ता धीरा अदुष्टाश्च नागा गजा यस्मिन्कर्मणि तत्तथा गमनारम्भे रसेन रागेण अनारता अविरता आसीत् । अविच्छिन्नरणरागाभूदित्यर्थः । मुरजबन्धः । तस्योद्धारस्तु-'तिर्यग्रेखा लिखेत्पञ्च नवोर्ध्वास्तत्र पङ्तयः । अष्टकोष्टाश्चतस्रः स्युस्तासु श्लोकं लिखेत्क्रमात् ॥ तत्राद्यद्वित्रितुर्यासु तुर्यत्रियाद्यपङ्तिषु । आद्यद्वित्रिचतुःपञ्चषट्सप्ताष्टमकोष्टगः । दृश्यते प्रथमः पादश्चतुर्थश्चैवमेव हि । चतुर्थपङ्तिप्राथम्यात्प्रथमावधिवीक्षणात् । द्वितीयादावाद्यद्वित्र्योर्द्वितुर्ये त्रितुरीयके । तुर्यत्रियोस्तृतीयाद्ये द्रष्टव्योऽनिर्द्वितीयकः ॥ तृतीयोऽङ्घ्रिर्द्वितीयान्त्ये आद्यसप्तमषष्ठयोः । द्वित्रिपञ्चमयोस्तुर्यषष्ठसप्तमयोः क्रमात् । तृतीयान्त्ये च लक्ष्योऽयमथान्यः क्रम उच्यते ॥ आद्यन्त्ययुग्मयोः पपङ्तयोश्चिन्त्यो गोमूत्रिकाक्रमः । कृत्वैकं द्वितयं द्वे च द्वयमेकमिति क्रमात् ॥ यद्वा द्वितयमेकं च द्वयमेकं द्वयं पुनः । स्वपङ्तिप्रक्रमादेव विन्यासद्वितयं भवेत् । यद्वा प्रथमतुर्याङ्घ्री स्वपङ्तयोस्तदनुक्रमात् । द्वितीयोऽङ्घ्रिर्द्वितीयस्यां क्रमादाद्यचतुष्टये ॥ व्युत्क्रमाच्च तृतीयस्यामाद्यमेव चतुष्टये । व्युत्क्रमेण द्वितीयस्यां तृतीयस्यां क्रमेण च ॥ द्रष्टव्यो हि तृतीयोऽङ्घ्रिरन्त्यकोष्ठचतुष्टये । विन्यासभेदास्त्वन्येऽपि सन्त्येव बहवोऽत्र हि ॥ विस्तरात्तु न लिख्यन्ते स्वयमूह्या विचक्षणैः ॥' इति कलापकम् ॥ २९ ॥
धूतधौतासयः प्रष्ठाः प्रातिष्ठन्त क्षमाभृताम् ।
शौर्यानुरागनिकषः सा हि वेलानुजीविनाम् ॥ ३० ॥
धूतेति ॥ क्षमाभृतां राज्ञा प्रतिष्ठन्त इति प्रष्ठा अग्रेसराः । 'सुपि स्थः' (३।२।४) इति कप्रत्ययः । 'प्रष्ठोऽग्रगामिनि' (३९२) इति षत्वे ष्टुत्वम् । धूताः कम्पिता धौता उत्तेजिता असयो यैस्ते धूतधौतासयः सन्तः प्रातिष्ठन्त प्रस्थिताः । 'समवप्रविभ्यः स्थः' (१।३।२२) इति तङ् । सा वेला अनुजीविनां शस्त्रजीविनां शौर्यानुरागयोः पुरुषकारस्वामिभक्त्योर्निकषः परीक्षास्थानं हि । अतोऽग्रे स्थातव्यम् । अन्यथा भीरुत्वं स्वामिद्रोहश्च स्यातामिति भावः । वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ३०॥
दिवमिच्छन्युधा गन्तुं कोमलामलसंपदम् ।
दधौ दधानोऽसिलतां कोऽमलामलसं पदम् ॥ ३१ ॥
दिवमिति ॥ युधा युद्धेन कोमलाश्चारवः अमलाः शीतोष्णादिदोषरहिताः संपदो यस्यां तां कोमलामलसंपदं दिवं स्वर्ग गन्तुमिच्छन् कः पुमान् अमलां धौतामसिलतां दधानः अलसं पदं दधौ । सर्वोऽपि निःशङ्कमाक्रमतेत्यर्थः । अत्र । स्वर्गेच्छाया विशेषणगत्या निःशङ्कप्रस्थानहेतुत्वात्काव्यलिङ्गं तद्यमकेन संसृज्यते ॥३१॥
कृतोरुवेगं युगपद्धजिगीषन्त सैनिकाः ।
विपक्षं बाहुपरिघैर्जङ्घाभिरितरेतरम् ॥ ३२ ॥
कृतेति ॥ सेनायां समवेताः सैनिकाः सैन्याः । सेनायाः पाक्षिकष्ठक् । बाहुभिः परिघैरिव बाहुपरिघैः बाहुदण्डैः विपक्षं शत्रु जङ्घाभिः प्रसृताभिः । 'जङ्घा तु प्रसृता' इत्यमरः । इतरेतरमन्योन्यं सयूथीयमेव कृत उरूर्महानूर्वोश्च वेगो यस्मिन्कर्मणि तद्यथा तथा युगपद्व्यजिगीषन्त विजेतुमैच्छन् । अहमहमिकया योद्धुमधावन्नित्यर्थः । विपूर्वाज्जयतेः सन्नन्ताल्लङि 'पूर्ववत्सनः' (१॥३॥६२) इत्यात्मनेपदम् । अत्र विपक्षसयूथयोर्बाहुजङ्घयोश्च प्रकृतत्वात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ ३२॥
वाहनाजनि मानासे साराजावनमा ततः ।
मत्तसारगराजेभे भारीहावज्जनध्वनि ॥ ३३ ॥
वाहनेति ॥ ततोऽनन्तरं मानमभिमानं अस्यति क्षिपतीति तस्सिन्मानासे पराहंकारहारिणि । कर्मण्यण् । मत्ताः सारगा बलभाजश्च राजेभा नृपगजा यस्मिन्मत्तसारगराजेभे साराजी श्रेष्ठयुद्धे । आजेः पुंलिङ्गता ज्ञेया। भारी भारवान् पूर्ण ईहावतामुत्साहवतां जनानां ध्वनियस्मिंस्तत् भारीहावज्जनध्वनि यथा तथा न नमतीत्यनमा अभङ्गुरा । पचाद्यजन्तेन नञ्समासः । वाहना निर्वाहयितृत्वम् । 'ण्यासश्रन्थो युच्' (३।३।१०७) अजनि जाता । सैनिकानामित्यर्थात्सिद्धम् । जनेः कर्तरि लुङि 'दीपजन-' (३।१।६१) इत्यादिना चिण् ॥३३॥ एतत्प्रातिलोम्येन श्लोकान्तरमाह-
॥ श्लोकप्रतिलोमयमकम् ॥
निध्वनजवहारीभा भेजे रागरसात्तमः ।
ततमानवजारासा सेना मानिजनाहवा ॥ ३४ ॥
निध्वनदिति ॥ निध्वनन्तो बृहन्तो जवा जवनाः हारिणो मनोहराश्चेभा यस्यां सा निध्वनज्जवहारीभा । ततो विस्तृतो मानवजो मनुष्यजातः आरासः कलकलो यस्यां सा ततमानवजारासा मानिनां मानवतां जनानामाहवो यस्यां सा मानिजनाहवा सेना रज्यतेऽनेनेति रागः क्रोधः स एव रसस्तस्माद्रगरसात् तमो मोहं भेजे। क्रोधान्धाजनीत्यर्थः । अत्र प्रातिलोम्येन पूर्वश्लोकावृत्तेः श्लोकप्रतिलोमयमकम् । तदुक्तं दण्डिना-'आवृत्तिः प्रातिलोम्येन पादार्धश्लोकगोचरा । यमकं प्रतिलोमत्वात्प्रतिलोममिति स्मृतम् ॥' इति ॥ ३४ ॥
अभनवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः ।
चक्रन्दुरुच्चकैमृष्टिग्राह्यमध्या धनुर्लताः ॥ ३५ ॥
यासां ताः धनुर्लताः, अन्यत्र मुष्टिमेयमध्याः यौवनेनोद्धतैर्धृष्टैर्द्यप्तैश्च प्रसभाद्वलादाकृष्टाः सत्यः । एकत्र गुणेषु, अन्यत्र कचेषु चेति भावः । उच्चैस्तरां चक्रन्दुष्टंकारध्वनिं चक्रुर्धनुर्लताः; अन्यत्र चुकुशुश्च । अत्र प्रस्तुतधनुर्लताविशेषणादप्रस्तुतधूर्तास्कन्दितपतिव्रताप्रतीतेः समासोक्तिः । तथा च आकर्षणस्य विशेषणगत्या क्रन्दनहेतुत्वाकाव्यलिङ्गमङ्गाङ्गिभावेन संकीर्यते ॥ ३५ ॥
करेणुः प्रस्थितोऽनेको रेणुर्घण्टाः सहस्रशः ।
करेऽणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ।। ३६ ॥
करेणुरिति ॥ अनेको बहुः करेणुः करेणवः प्रस्थितः । जातावेकवचनम् । असंख्याताः करिणो योद्धं ययुरित्यर्थः । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । सहस्रशो घण्टाः करिकण्ठस्था रेणुर्दध्वनुः । 'अत एकहल्मध्येऽनादेशादेर्लिटि' (६।४। १२०) इत्येत्वाभ्यासलोपौ । करे पुष्करे अणुरल्पः शीकरोऽम्बुकणो जज्ञे । जातावेकवचनम् । करेष्वणवः शीकरा जाता इत्यर्थः । जनेः कर्तरि लिद । तेनाणुना शीकरण रेणू रजः शमं ययौ । एतेन करिणां बाहुल्यं व्यज्यते ॥ ३६॥
धृतप्रत्यग्रशृङ्गाररसरागैरपि द्विपैः ।
सरोषसंभ्रमैर्बभ्रे रौद्र एव रणे रसः ॥ ३७ ॥
धृतेति ॥ धृतः प्रत्यग्रः शृङ्गाररस एव रागो यैस्तैरपीति विरोधः । रौद्रश्रृङ्गारयोर्विरोधित्वाद्धृतसिन्दूररञ्जनैरित्यविरोधः । अत एव विरोधाभासोऽलंकारः । 'शृङ्गारः सुरते नाट्ये रसे च गजमण्डने । शृङ्गारं चूर्णसिन्दूरे लवङ्गकुसुमेऽपि च ॥' इति विश्वः । सरोषसंभ्रमैः द्विपैः रणे रौद्ररस एव क्रोधरस एव बभ्रे भृतः । कर्मणि लिट् ॥ ३७॥
न तस्थौ भर्तृतः प्राप्तमानसंप्रतिपत्तिषु ।
रणैकसर्गेषु भयं मानसं प्रति पत्तिषु ॥ ३८ ॥
बाणाहिपूर्णतूणीरकोटरैर्धन्विशाखिभिः ।
गोधाश्लिष्टभुजाशाखैरभूद्धीमा रणाटवी ॥ ३९॥
बाणेति ॥ रणमेवाटवी रणाटवी बाणैरिवाहिभिः पूर्णा तूणीरा निषङ्गा एव कोटराः कुहरा येषां तैः गोधास्तलानि, निहाकाश्च । 'गोधा तले निहाकायाम्' इति विश्वः । तलं ज्याघातवारणम् । ततो गोधा एव गोधा इति श्लिष्टरूपकम् । ताभिराश्लिष्टा भुजा एव शाखा येषां तैर्धन्विभिर्धानुष्कैरेव शाखिभिर्वृक्षैर्भीमा भयंकरा अभूत् । समस्तवस्तुवर्णनात्सावयवरूपकम् ॥ ३९ ॥
॥ प्रतिलोमानुलोमपादः॥
नानाजाववजानाना सा जनौघघनौजसा ।
परानिहाऽहानिराप तान्वियाततयाऽन्विता ॥ ४०॥
नानेति ॥ इहास्यां नानाविधायामाजौ चित्रयुद्धे ओजसा तेजसा अवजानाना अवज्ञां कुर्वती । 'अकर्मकाच्च' (१॥३।२६) इत्यात्मनेपदम् । जनौघैर्घना सान्द्रा जनौघघना । बहुजनेत्यर्थः । अहानिरभया वियाततया वैयात्येन धाष्ट्येना- न्विता । पृष्टेत्यर्थः । 'धृष्टो धृष्णुर्वियातश्च' इत्यमरः । सा चैद्यसेना तान्परानरीनाप प्राप । अत्र प्रतिपादं पादार्धस्यैवावृत्तेरर्धपादप्रतिलोमयमकम् ॥ ४० ॥
विषमं सर्वतोभद्रचक्रगोमूत्रिकादिभिः ।
श्लोकैरिव महाकाव्यं व्यूहैस्तदभवलम् ॥ ४१॥
विषममिति ॥ तद्वलं चैद्यसेना सर्वतोभद्रचक्रगोमूनिकादिभिः । आदि- ग्रहणान्मुरजबन्धादिसंग्रहः । श्लोकैर्महाकाव्यं शिशुपालवधादिकमिव व्यूहैः सर्वतोभद्रादिभिरेव बलविन्यासैः । 'ब्यूहस्तु बलविन्यासे' इत्यमरः । विषमं दुरवग्रहमभवत् । नगनगरादिवर्णनयुक्तलक्षणं महाकाव्यम् ॥४१॥
संहत्या सात्वतां चैधं प्रति भास्वरसेनया।
ववले योद्धुमुत्पन्नप्रतिभा स्वरसेन या ॥ ४२ ॥
संहत्येति ॥ भास्वरा तेजिष्ठा सेना यस्यास्तया भास्वरसेनया सात्वतां यदूनां संहत्या सङ्गेन चैद्यं प्रति ववले प्रचेले । 'वल चलने' इति धातोर्भावे लिट् 'न शसददवादि ' (६।४।१२६) इति वकारादित्वादेत्वाभ्यासलोपयोः प्रतिषेधः । या यदूनां संहतिः स्वरसेन स्वभावेन योद्धुमुत्पन्नप्रतिभा संजातप्रतिभा या स्वयं रणकण्डूला सा पराहूता कथं निवर्तत इति भावः ॥ ४२ ॥ अथ यदुसेनायाः प्रतिबलाभियोगं युग्मेनाह-
विस्तीर्णमायामवती लोललोकनिरन्तरा ।
नरेन्द्रमार्गं रथ्येव पपात द्विषतां बलम् ॥ ४३ ॥
वेस्तीर्णमित्यादि ॥ आयामवती द्राघीयसी लोललोकनिरन्तरा चलजनसंकुला सा सेनेत्युत्तरश्लोकेनान्वयः । सा यदुसेना विस्तीर्णं द्विषतां बलं नरेन्द्रमार्गं राजपथं रथ्येव विशिखेव पपात संजगाम । उपमानेऽपि विशेषणं योज्यम् ॥ ४३ ॥
वारणागगभीरा सा साराऽभीगगणारवा ।
कारितारिवधा सेना नासेधा वरितारिका ॥४४॥
(युग्मम् ।)
वारणेति ॥ कीदृशी सेना । वारणैरेवागैरचलैर्गभीरा दुरवगाहा वारणागगभीरा सा साराणां श्रेष्ठानां न भियं गच्छन्तीत्यभीगानां निर्भीकाणां गणानां जन्तुसङ्घानामारवो यस्यां सा साराभीगगणारवा कारितारिवधा कृतशत्रुवधा । 'रामो राज्यमकारयत्' इतिवदन स्वार्थे णिच् । नास्त्यासेधः प्रतिषेधो यस्यां सा नासेधा । नञर्थेन नशब्देन बहुव्रीहिः । अनासेधा वा वरितारिका ईप्सितशत्रुका । अनेनाहं योत्स्य इति स्वयं वृतप्रतिभटेत्यर्थः । शैषिकः कप्प्रत्ययः । सा सेना पपातेति पूर्वेणान्वयः । अत्र प्रातिलोम्येन अर्धावृत्तेरर्धप्रतिलोमयमकमेतत् । लक्षणं तूक्तं 'निध्वनत्-' (१९॥३४) इत्यादिश्लोकप्रतिलोमयमके ॥४४॥
अधिनागं प्रजविनो विकसत्पिच्छचारवः ।
पेतुर्बहिणदेशीयाः शङ्कवः प्राणहारिणः ॥ ४५ ॥
अधीति ॥ प्रजवन्तीति प्रजविनोऽतिजवनाः । 'प्रजोरिनिः' (३।२।१५६) इति इनिप्रत्ययः । विकसद्भिः पिच्छैः कलापैश्चारवः । अत एव ईषदसमाप्सबर्हिण बर्हिणदेशीया मयूरकल्पाः । 'ईषदसमाप्तौ-' (५।३।६७) इत्यादिना देशीयर्प्रत्ययः । प्राणहारिणः शङ्कवः शल्यायुधानि । 'वा पुंसि शल्यं शङ्कुर्ना' इत्यमरः । नागेष्वधिनागम् । विभक्त्यर्थेऽव्ययीभावः । गजेषु, सर्पेषु च निपेतुः । सर्पेषु बर्हिण इवेत्यर्थः । अत एवोपमालंकारः । 'ग्रहो ग्राहि गजा नागाः' इति वैजयन्ती ॥ ४५ ॥
॥ गोमूत्रिकाबन्धः॥
प्र वृ त्ते वि क स द्धा नं सा ध ने प्य वि पा दि भिः ।
व वृषे वि क स द्दा नं यु ध मा प्य वि षा णि भिः ॥
पुरः प्रयुक्तैर्युद्धं तच्चलितैर्लब्धशुद्धिभिः ।
आलापैरिव गान्धर्वमदीप्यत पदातिभिः ॥४७॥
पुर इति ॥ तद्युद्धं पुरः प्रयुक्तैः गजादिभ्यः प्राक् प्रवर्तितैः । अन्यत्र गानात्पूर्वमुच्चारितैः चलितैः मण्डलचारिभिः । अन्यत्र मुहुरावर्तितैरित्यर्थः । लब्धशुद्धिभिः । कातर्यकपटादिदोषरहितैरित्यर्थः । अन्यत्रावृत्तैः । रागानुगुणैरित्यर्थः । पदातिभिः पत्तिभिः करणैः गान्धर्वं गानमालापैरालापिभिरिवाक्षरविशेषैरिवादीप्यताशोभत ॥ ४७ ॥
केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता ।
प्रापे कीर्तिप्लुतमहीमण्डलाग्राऽनवद्यता ॥ ४८ ॥
केनचिदिति ॥ स्वासिना स्वखङ्गेन अन्येषां मण्डलाग्रानवद्यता खण्डयता । द्यतेर्लटः शत्रादेशः । केनचिद्वीरेण कीर्तिप्लुतं यशोव्याप्तं महीमण्डलाग्रं भूपृष्टं यस्याः सा कीर्तिप्लुतमहीमण्डलाग्रा अनवद्यता अनिन्द्यता प्रापे प्राप्ता ॥ ४८ ॥
विहन्तुं विद्विषस्तीक्ष्णः सममेव सुसंहतेः ।
परिवारात्पृथक्कक्रे खड्गश्चात्मा च केनचित् ॥ ४९ ॥
विहन्तुमिति ॥ केनचिद्वीरेण विद्विषो विहन्तुं तीक्ष्णो निशितः परिच्छेत्ता च खड्गः सुसंहतेः सुघटितात्सुष्टु सङ्घीभूताच्च । परिवारात्कोशात्, परिजनाच्च । 'परिवारः परिजने खगकोशे परिच्छदे' इति विश्वः । सममेव पृथक् चक्रे उद्धृतः । आत्मा च पृथक् चक्रे विभक्तः । खड्गमुत्कृष्य स्वसैन्यान्निर्गत्यारिमध्ये पपातेत्यर्थः । अत्र खड्गात्मनोः प्रकृतयोः समानक्रियायोगात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ १९॥
अन्येन विदधेऽरीणामतिमात्रा विलासिना ।
उद्गूर्णेन चमूस्तूर्णमतिमात्राविलाऽसिना ॥५०॥
अन्येनेति ॥ अन्येन वीरेण विलासिना विलसनशीलेन' उद्गूर्णेनोद्यतेन असिना खङ्गेन मात्रं मानमतिक्रान्तातिमात्रा अपरिमिता अरीणां चमू: सेना तूर्णं शीघ्रमतिमात्रमत्यन्तमाविला कलुषा अतिमात्राविला अत्याविला विदधे कृता ५०
सहस्रपूरणः कश्चिल्लूनमूर्धाऽसिना द्विषः ।
ततोर्ध्व एव काबन्धीमभजनर्तनक्रियाम् ॥५१॥
सहस्रेति ॥ पृणातीति पूरणः । 'पॄ पालनपूरणयोः' कर्तरि ल्युट् । सहस्राणां
[* असाद्धातोर्ल्युटि इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन' इति वार्तिकाद्गुणस्यैव न्याय्यत्वात् क्युन्युत्त्वेऽपि दीर्घस्याप्राप्रोश्चिन्त्यमिदम् । तस्मात् 'पूरी आप्यायने' इति धातुर्बोध्यः । अत एव 'पूरणी' इति पदव्याख्यायाम् 'पूरयति' इति स्वामिनोक्तम् । अत एव वल्लभेनापि 'पूर्धन्ते आप्यायन्ते' इति विवरणं कृतम् । ] पूरणः पालयिता पूरयिता सहस्रपूरणः सहस्ररक्षी सहस्रहन्ता वा कश्चिद्भटः । कबन्धस्तु सहस्रपूरणः सहस्रसंख्यापूरकः । सहस्रादेकः कबन्धो नृत्यतीति प्रसिद्धिः । असिना स्वासिना द्विषो लूनमूर्धा लूनशत्रुमूर्धा । सापेक्षत्वेऽपि गमकत्वात्समासः । कबन्धस्तु द्विषोऽसिना लूनमूर्धा तथा कबन्धवदेवोर्ध्व एव तिष्ठति । कबन्धस्येमां काबन्धी नर्तनक्रियामभजत् । विजयहर्षात्स्वयमपि कबन्धवन्ननर्तेत्यर्थः । अत एव सादृश्याक्षेपादसंभवद्वस्तुसंबन्धाख्यो निदर्शनाभेदः । 'कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्' इत्यमरः ॥ ५ ॥
शस्त्रव्रणमयश्रीमदलंकरणभूषितः ।
ददृशेऽन्यो रावणवदलङ्करणभूषितः॥ ५२ ॥
शस्त्रेति ॥ शस्त्रव्रणमयानि तद्रूपाणि । स्वार्थे मयट् । तैरेव श्रीमद्भिः शोभावद्भिरलंकरणैरलंकारैर्भूषितोऽलंकृतः । शस्त्रव्रणालंकृत इत्यर्थः । अन्यः कश्चित् , अविद्यमाना लङ्का यस्याः सा अलङ्केति बहुव्रीहिः । अत एव 'स्त्रियाः पुंवत्-' (६।३।३४) इत्यादिना पुंवद्भावः । सा रणभूश्च तस्यामुषितः स्थितो- ऽलङ्करणभूषितः । वसेर्निवासार्थात्कर्तरि क्तः 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । रावणवद्ददृशे दृष्टः । सर्वाङ्गीणव्रणभूषणत्वेन रावण एवायं लङ्कासंबन्धविरहात्तु व्यतिरेक इत्यर्थः । उपमाव्यतिरेकयमकानां संकरः ॥ ५२ ॥
द्विषद्विशसनच्छेदनिरस्तोरुयुगोऽपरः ।
सिक्तश्चास्रैभरूयथा बभूवारुणविग्रहः ॥ ५३ ॥
द्विषदिति ॥ द्विषद्विशसनम् । 'निर्वापणं विशसनं मारणं प्रतिघातनम्' इत्यमरः । तस्मिंश्छेदेनारिशस्त्रप्रहारेण निरस्तमूरुयुगं यस्य सः अत एवात्रैरसृग्भिश्च सिक्तोऽपरो वीरः उभयथा उभाभ्यां प्रकाराभ्याम् । 'प्रकारे गुणवचनस्य' (८1१।१२) इति थाल् । अरुणस्यानूरोरिव अरुणोऽरुणवर्णश्च विग्रहो यस्य सोऽरुणविग्रहो बभूव । 'अरुणोऽर्कार्कसारथ्योररुणो लोहितेऽन्यवत्' इति विश्वः । अत्रोरुच्छेदास्रसिक्तयोर्विशेषणगत्योभयथारुणविग्रहभावहेतुत्वात्काव्यलिङ्गमुपमाश्लेषाभ्यां संकीर्यते ॥ ५३ ॥
भीमतामपरोऽम्भोधिसमेऽधित महाहवे ।
दाक्षे कोपः शिवस्येव समेधितमहा हवे ॥ ५४॥
दन्तैश्चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव ।
परनिस्त्रिंशनिक्षूनकरवालाः पदातयः ॥ ५५ ॥
दन्तैरिति ॥ परेषां निस्त्रिंशैः खड्गै: निर्लनकरवालाः छिन्नखड्गाः पादाभ्याम- तन्तीति पदातयः पत्तयः । 'अज्यतिभ्यां पादे च' (उ० ५७०) इत्यौणादिक इण्, 'पादस्य पदाज्यातिगोपहतेषु' (६।३।५२) इति पदादेशः । कोपात् गजा इव प्रतिपक्षं शत्रुं दन्तैर्दशनैर्विषाणैश्च चिच्छिदिरे चिच्छिदुः ॥ ५५ ॥
रणे रभसनिर्भिनद्विपपाटविकासिनि ।
न तत्र गतभीः कश्चिद्विपपाट विकासिनि ॥५६॥
रण इति ॥ रभसेन वेगेन 'रभसो वेगहर्षयोः' इति विश्वः । निर्भिन्नद्विपाः पाटितगजाः पाटविकानां पाटववतामसयो यस्मिन् । पाटवशब्दान्मत्वर्थीयष्ठ- क्प्रत्ययः । विकासिनि प्रवृद्धे तत्र तस्मिन् रणे गतभीर्निर्भीकः । अत एव कश्चित् कोऽपि न विपपाट न पाटयामास न पलायत । अत्र गतभीकत्वस्य विशेषण- गत्या अपलायनहेतुत्वात्काव्यलिङ्गम् । द्विपदलनेऽपि रणे निर्भीक इति विरो- धश्च यमकेन संसृज्यते ॥ ५६ ॥
यावन्न सत्कृतैर्भर्तुः स्नेहस्यानृण्यमिच्छुभिः ।
अमर्षादितरैस्तावत्तत्यजे युधि जीवितम् ॥ ५७ ॥
यावादेति ॥ सत्कृतैः स्वस्वामिना पूर्वसंमानितैः । अत एव भर्तुः स्नेहस्य स्वामिप्रेम्ण आनृण्यमनृणत्वमिच्छुभिः । योधैरिति शेषः । युधि जीवितं यावन्न तत्यजे त्यक्तं तावदितरैरसत्कृतैरमर्षादसत्कारक्रोधाज्जीवितं तत्यजे । अथ वास्मान्पश्येति स्वामिनमुपालभ्य स्वयमेव प्राक्प्राणान्प्रजहुरित्यर्थः । सत्कारा- दिविशेषणोत्थकाव्यलिङ्गं सुगमम् ॥ ५७ ॥
॥ समुद्ग्यमकम् ॥
अथैवंविधानां मरणस्यैव कर्तव्यतामुपपादयति-
अयशोभिदुरालोके कोपधाम-रणादृते ।
अयशोभिदुरा लोके कोपधा मरणादृते ॥ ५८ ॥
अयश इति ॥ 'अयः शुभावहो विधिः' इति अयशोभी भाग्यवान् स चासदुरालोकस्तेजस्वित्वाद्दुर्दर्शश्चेति विशेषणसमासः । तस्मिन्नयशोभिदुरालोके कोपधाम कोपाश्रयः । कुपित इत्यर्थः । अथाप्यकोपे भीरुत्वापातात् । अत एव रणमादृतः रणादृतः । रणार्थीत्यर्थः । कर्तरि क्तः । कोपधाम चासौ रणादृतश्च तस्मिन् कीर्तिनिवर्तिका । 'विदिभिदिच्छिदेः कुरच्' । (३।२।१६२) उपधा उपायोमरणादृते । प्राणत्यागं विनेत्यर्थः । का । न कापीत्यर्थः । 'अन्यारादितरते-'(२।३।२९) इति पञ्चमी । अत्रायशोभित्त्वादीनां लोकविशेषणद्वारा तद्वर्तिना मुपजीविनामवसरे जीवत्यागहेतुत्वाकाव्यलिङ्गं यमकेन संकीर्यते । समुद्यमक- भेदोऽयम् । 'अर्धाभ्यासः समुद्गः स्यादस्य भेदास्त्रयो मताः' इति लक्षणात् ॥५८॥
स्खलन्ती न क्वचित्तैक्ष्ण्यादभ्यग्रफलशालिनी।
अमोचि शक्तिः शाक्तीकैर्लोहजा न शरीरजा ॥ ५९॥
स्खलन्तीति ॥ शक्तिः प्रहरणं येषां तैः शाक्तीकैः । 'शाक्तीकः शक्तिहे- तिकः'इत्यमरः । 'शक्तियष्ट्योरीकक्' (१।४।५९) इति प्रहरणार्थे ईकक् प्रत्ययः । तैक्ष्ण्यान्नैशित्यात्क्वचिदपि न स्खलन्ती प्रतिहतिं न प्राप्नुवती । अभ्यग्रं समग्रं यत्फलं शल्यं तेन शालते । अन्यत्र अभ्यग्रेणासन्नेन फलेन श्रेयसा शालत इत्यभ्यग्रफलशालिनी । लोहजा अयोमयी शक्तिरायुधविशेषः अमोचि शत्रुषु मुक्ता । शरीरजा शक्तिः सामर्थ्याख्या तु नामोचि । अतिव्यायामेऽप्यक्षीणशक्तिका एवायुध्यन्तेत्यर्थः । अत्र द्वयोरपि प्रकृतत्वात्केवलप्रकृतश्लेषः ॥ ५९॥
आपदि व्यापृतनयास्तथा युयुधिरे नृपाः।
आप दिव्या पृतनया विस्मयं जनता यथा ॥ ६०॥
आपदीति ॥ नृपा राजानः । आपदि व्यसनेऽपि व्यापृतनयाः प्रवृत्तनीतिका एव सन्तः । न तु श्वापदवृत्त्येति भावः । पृतनया सेनया साधनेन । वाक्यान्तर- स्थस्यापि पृतनाशब्दस्यात्रान्वयः चित्रे सोढव्यः । तथा तेन प्रकारेण युयुधिरे संप्रजद्दुः । यथा दिव्या जनता अन्तरिक्षवर्तिसिद्धविद्याधरसङ्घो विस्मयमाप । अमानुषं युद्धं चक्रुरित्यर्थः । अयं च पादाभ्यासयमकभेदः ॥ ६० ॥
स्वगुणैराफलप्राप्तेराकृष्य गणिका इव ।
कामुकानिव नालीकांस्त्रिणताः सहसामुचन् ॥ ६१ ॥
स्वगुणैरिति ॥ त्रिषु स्थानेषु मध्येषु नताः त्रिणताः शार्ङ्गाणि । 'पूर्वपदा- त्संज्ञायामगः' (८|४|३) इति णत्वम् । गणिका वेश्या इव । ता अपि त्रिणताः मध्ये भ्रुवोश्च नतत्वात् । नालीकानिषुविशेषान् । 'नालीकः शरशल्ययोः' इति विश्वः । कामुकानिव । स्वगुणैार्ज्याभिः रूपलावण्यादिभिश्च । 'गुणस्त्वावृत्तिशब्दा- दिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । आफलप्राप्तेराशल्यस्पर्शादाधनलाभाच्च आकृष्य कर्णान्तिकं नीत्वा, वशीकृत्य च सहसा अमुचन्नत्याक्षुः । मुचेर्लुङि 'पुषादि-' (३।१|५५) इति च्लेरङादेशः । अनेकैवोपमा ॥ ६१ ॥
वाजिनः शत्रुसैन्यस्य समारब्धनवाजिनः ।
वाजिनश्च शरा मध्यमविशन्द्रुतवाजिनः ।। ६२ ।।
[* १२९९ शकलिखितपुस्तके तु 'तृणताः' इति पाठ उपलभ्यते । अत एव 'तृणता तृणत्वे कार्मुकेऽपि च' इति हैमकोषव्याख्यावसरे कार्मुकार्थे इममेव श्लोकमुदाहृत्य वल्लभस्तु 'धनुपि त्रिषु नतास्त्रिणताः' इत्याह । 'तत्र गणिकापक्षे णत्वं चिन्त्यम्' इति अनेकार्थकैरवाकरकौमुदी ।। वाजिन इति ॥ द्रुतं वजन्तीति द्रुतवाजिनः शीघ्रगामिनः । 'वज गतौ' इति धातोर्णिनिः । वाजिनोऽश्वाः, वाजिनः पक्षवन्तः शराश्च । 'पक्षो वाजस्त्री- घूत्तरे' इत्यमरः । समारब्धा नवा अपूर्वां आजियुद्धं येन तस्य समारब्धनवा- जिनः शत्रुसैन्यस्य मध्यमविशन् । अत्र वाजिनां शराणां च प्रवेशाख्यतुल्ययो- गिताभेदो यमकेन संसृज्यते ॥ ६२ ॥
पुरस्कृत्य फलं प्राप्तैः सत्पक्षाश्रयशालिभिः ।
कृतपुङ्खतया लेभे लक्षमप्याशु मार्गणैः ॥ ६३॥
पुरस्कृत्येति ॥ फलं शल्यं पुरस्कृत्य पुरोधाय, अन्यत्र फलं लाभं पुरस्कृत्य । संभाव्येत्यर्थः । प्राप्तैरागतैः सत्पक्षाश्रयेण साधुकङ्कादिपत्रग्रन्थनेन, अन्यत्र साधुसहायावलम्बनेन शालन्ते इति तथोक्तै: मार्गणैः सायकैरर्थिभिश्च । 'मार्गणौ सायकार्थिनौ' इत्यमरः । कृतपुङ्खतया सुबद्धकर्तरीकतया । 'मुखस्थकर्तरी पुङ्खः' इति यादवः । अन्यत्र कुशलतयेत्यर्थः । लक्षं शरव्यं, अन्यत्र लक्षसंख्यमपि धनं लेभे, शतादिकं किमु वक्तव्यमिति भावः । 'लक्षं शरव्ये संख्यायाम्' इति विश्वः । अत्राभिधायाः प्रकृतार्थनियन्त्रणादर्थान्तरप्रतीतेर्ध्वनिरेव ॥ ६३ ॥
रक्तस्रुतिं जपासूनसमरागामिषुव्यधात् ।
कश्चित्पुरः सपत्नेषु समरागामिषु व्यधात् ॥ ६४ ॥
रक्तेति ॥ कश्चिद्वीरः पुरोऽग्रे समरागामिषु समरमागतेषु सपनेषु इषुव्य- धाद्वाणप्रहारात् । 'व्यधजपोरनुपसर्गे' (३।३।६१) इत्यप्प्रत्ययः । जपासूनसम- रागां रक्तस्रुतिं रक्तस्रावं व्यधाद्विहितवान् । दधातेर्लुङि 'गातिस्था-' (२|४|७७) इत्यादिना सिचो लुक् । उपमायमकयोः संसृष्टिः ॥ ६४ ॥
रयेण रणकाम्यन्तौ दूरादुपगताविभौ ।
गतासुरन्तरा दन्ती वरण्डक इवाभवत् ॥ ६५ ॥
रयेणेति ॥ रणमात्मन इच्छन्तौ रणकाम्यन्तौ । 'काम्यच्च' (३।१|९) इति रणशब्दारकाम्यच्प्रत्यये सनाद्यन्तधातुत्वाल्लटि शत्रादेशः । रयेण दूरादुपगतौ । इभावन्तरा इभयोर्मध्ये । 'अन्तरान्तरेणयुक्ते' (२|३|४) इति द्वितीया । गता- सुर्मृतो दन्ती दैवान्मध्यवर्ती हस्तिकुपण इत्यर्थः । वरण्डकोऽन्तरावेदिरिवाभवत् । 'वरण्डकोऽन्तरावेदौ संदोहमुखरागयोः' इति विश्वः । अभ्यासकाले काञ्चनवेदि- मन्तर्धाय दन्तिनौ योधयत इति प्रसिद्धम् । उपमा ॥ १५ ॥
॥ द्व्यक्षरः॥
भूरिभिर्मारिभिर्भीरैर्भूभारैरभिरेभिरे।
भेरीरेमिभिरभ्राभैरभीरुभिरिभैरिभाः ॥६६॥
भूरिभिरिति ॥ भूरिभिः भूयोभिः भारिभिः पताकास्तरणादिभारवद्भिः । मत्वर्थीय इनिप्रत्ययः । भियं रान्तीति भीरास्तैर्भीरैः भयदैः । । 'रा दाने, आतो ऽनुपसर्गे कः' (३|२|३)। भूभारैः महाकायत्वाद्भुवो भारायमाणैः । भैर्य इव रेभन्ते ध्वनन्तीति भेरीरेभिभिः । 'रेभृ शब्दे' ताच्छील्ये णिनिः । अभ्राभैर्मेच- कैरिति चोपमाद्वयम् । अभीरुभिर्निर्भीकैरिभैर्गजैः । इभाः प्रतिगजास्तादृशा एव अभिरेभिरे अभियुक्ताः । उपमानुप्रासयोः संकरः । द्व्यक्षरानुप्रासः ॥ ६६ ॥
निशितासिलतालूनैस्तथा हस्तर्न हस्तिनः ।
युध्यमाना यथा दन्तैर्भग्नैरापुर्विहस्तताम् ॥ ६७ ॥
निशितेति ॥ युध्यमानाः संप्रहरन्तः हस्ता येषां सन्तीति हस्तिनः । 'हस्ता- जाती' (५।२।१३३) इति निप्रत्ययः । यथा भग्नैर्दन्तैः विषाणैः विहस्ततां हस्त- हीनत्वमितिकर्तव्यतामूढत्वं चापुः । 'विहस्तव्याकुलौ समा' इत्यमरः । तथा निशिताभिरसिलताभिर्लूनैश्छिन्नैर्हस्तः शुण्डादण्डौर्विहस्ततां नापुः । हस्तेभ्योऽपि दन्तानां प्रहारसाधनत्वादिति भावः । अत्र हस्तस्याच्छेदे वैहस्त्यं न हस्तच्छेदे इति विरोधः प्रतिपत्तिमूढतया समाहित इति विरोधाभासोऽलंकारः ॥ ६७ ॥
॥ असंयोगः॥
निपीडनादिव मिथो दानतोयमनारतम् ।
वपुषामदयापातादिभानामभितोऽगलत् ॥ ६८ ॥
निपीडनादिति ॥ इभानां वपुषां अदयापातान्निर्दयाभियोगाद्धेतोः मिथो निपीडनादिव वस्त्रादिनिपीडनादिवेत्युत्प्रेक्षा । अनारतमश्रान्तं दानतोयमभितो- ऽगलत् । वस्त्रवन्निर्दयापातेऽपि मदातिरेक इति गजानामुत्साहातिशयोक्तिः । अत्र संयोगाभावादसंयोगश्चित्रभेदः । 'हलोऽनन्तराः संयोगः' (१।१७) ॥ ६८ ॥
रणाङ्गणं सर इव प्लावितं मदवारिभिः ।
गजः पृथुकराकृष्टशतपत्रमलोडयत् ॥ ६९ ॥
रणेति ॥ गजो मदवारिणा प्लावितमुक्षितं रणाङ्गणं सर इव पृथुना करेणा- कृष्टानि शतपत्राणि अमितवाहनानि, अन्यत्र कुशेशयानि च यस्मिन्कर्मणि तत्तथा रणाङ्गणमलोडयदुपाक्षोभयत् । श्लेषविशेषणेयमुपमा ॥ ६९ ॥
शरक्षते गजे भृङ्गः सविषादिविषादिनि ।
रुतव्याजेन रुदितं तत्रासीदतिसीदति ॥ ७० ॥
अन्तकस्य पृथौ तत्र शयनीय इवाहवे ।
दशनव्यसनादीयुर्मत्कुणत्वं मतङ्गजाः ॥ ७१ ॥
अन्तकस्येति ॥ अन्तकस्य मृत्योः संबन्धिनि शेतेऽस्मिन्निति शयनीये । तल्प इव स्थिते इत्यर्थः । 'कृत्यल्युटो बहुलम्' (३।३।११३) इत्यधिकरणेऽनीयर् । पृथौ विशाले तत्राहवे मतङ्गजा दन्तव्यसनाद्विषाणभङ्गाद्धेतोः मत्कुणत्वमीयुः । मत्कुणा इव दृष्टा इत्यर्थः । सुप्तरक्तपायिनः खट्वाश्रयाः कीटविशेषा मत्कुणाः । 'कालेऽप्यजातदन्ते च शय्याजन्तौ च मत्कुणः' । तत्सादृश्याददन्तेषु दन्तिषु तथात्वरूपकं अन्तकस्य शयनीय इवेत्युप्रेक्षासापेक्षमपि संकरः ॥ ७१ ॥ अथ युग्मेनाह-
॥ अर्धभ्रमकः ॥
अ भी क म ति के ने द्धे
भी ता न न्द स्य ना श ने ।
क न त्स का म से ना के
म न्द का म क म स्य ति ॥ ७२ ॥
अभीकेत्यादि ॥ अभीका निर्भीका मतिर्यस्य तेनाभीकमतिकेन निर्भयचित्ते- न । शैषिकः कप्प्रत्ययः । इद्धे दीप्ते । भीतानामानन्दस्य नाशने । नशेर्ण्य॑न्तात्क- र्तरि ल्युट् । कनन्ती दीप्यमाना सकामा विजयित्वात्पूर्णकामा सेना यत्र तस्मिन् कनत्सकामसेनाके । पूर्ववत्कप् । मन्दकामकं मन्दोत्साहम् । पूर्ववदेव कप् । अस्यति निराकुर्वाणे रण इत्युत्तरेण संबन्धः । अत्र सर्वतोभद्रवत्सर्वपादभ्रमणा- भावात्पादार्धानामेव भ्रमणादर्धभ्रमकम् । उद्धारस्तु सर्वतोभद्रवत्स्यादेव ॥ ७२ ।।
दधतोऽपि रणे भीममभीक्ष्णं भावमासुरम् ।
हताः परैरभिमुखाः सुरभूयमुपाययुः ॥ ७३ ॥
दधत इति ॥ रणे पूर्वोक्तप्रकारे अभीक्ष्णमत्यन्तं भीमं भयंकरं आसुरम् असुरसंबन्धिनं भावं पुरुषकारलक्षणम् । 'भावो लीलाक्रियाचेष्टाभूत्यभिप्रायज- न्तुषु' इति वैजयन्ती । असुरत्वं च दधतः दधाना अपि परैः शत्रुभिः अभि- मुखा एव स्थिता हताः । वीरा इति शेषः । अत एव सुराणां भावं सुरभूयं सुरत्वं देवत्वमुपाययुः । स्वर्गं यान्त्यपराङ्मुखाः' (मनु० ७|८९) इति स्मरणा- दिति भावः । 'भुवो भावे' (३।३।१०७) इति क्यप् । अत्रासुरभावेऽपि सुर- भूयमुपाययुरिति विरोधस्य भावशब्दस्यार्थान्तरत्वेन परिहाराद्विरोधाभासः ॥ इति युग्मम् ॥ ७३॥
येनाङ्गमूहे व्रणवत्सरुचा परतोमरैः ।
समत्वं स ययौ खड्गत्सरुचापरतोऽमरैः ॥ ७४॥
येनाङ्गमिति ॥ रुचा सह वर्तते यस्तेन सरुचा तेजस्विना येन वीरेण परतोऽमरैः शत्रुशस्त्रैः व्रणवत्सत्रणमङ्गमूहे ऊढम् । वहेः कर्मणि लिट् संप्रसारणम् । खड्गत्सरौ खड्गमुष्टौ चापे च रतः खड्गत्सरुचापरतः । खङ्गेषुप्रहारेण युद्धं कुर्व- नित्यर्थः । 'त्सरु: खड्गादिमुष्टौ स्यात्' इत्यमरः । स वीरोऽमरैः समत्वं ययौ । पौरुषेणेति भावः । उपमायमकयोः संसृष्टिः ॥ ७४ ॥
निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् ।
पाणिनीयमिवालोकि धीरैस्तत्समराजिरम् ॥ ७५ ॥
निपातितेति ॥ निपातिता वीरशय्यां गमिताः सुहृदादयो यत्र तत्तथोक्तम् । अभिमुखबन्धोरपि रणे वध्यत्वादिति भावः । अन्यत्र निपातिताः लक्षणाभावे शब्दसाधुत्वाय सूत्रकृता सूत्रस्वरूपेणोच्चारिताः सुहृदादिशब्दा यत्र तदित्यर्थः । अत एव तत्समराजिरं रणाङ्गणम् । पाणिनिना प्रोक्तं पाणिनीयमष्टाध्यायीव्या- करणमिव । तेन प्रोक्तम्' (४।३।१०१) इति छप्रत्ययः । धीरैर्धृष्टैरेवालोकि दृष्टम् । उभयत्रापि धीरैर्दुरवगाहत्वादिति भावः । शोभनं हृदयं यस्य स सुहृत् । 'सुहृद्दुहृदौ मित्रामित्रयोः' (५।४।१५०) इति हृदयशब्दस्य हृद्भावो निपातितः । स्वमस्यास्तीति स्वामी ईश्वरः । 'स्वामिन्नैश्वर्ये' (५।२।१२६) इति मत्वर्थीय- निपातः । 'पितुर्धाता पितृव्यः स्यान्माता तु मातुलः' इत्यमरः । 'पितृव्यमा- तुलमातामहपितामहाः' (४।२।३६) इति व्यडुलजन्तनिपाताः । बिभर्तीति भ्राता । नप्तृनेष्ट्रादिसूत्रादौणादिको निपातः ॥ ७५ ॥
अभावि सिन्ध्वा संध्याभ्रसदृग्रुधिरतोयया ।
हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यया ॥ ७६ ॥
अभावीति ॥ संध्याभ्रसदृक् संध्यामेघसदृशं रुधिरमेव तोयं यस्यास्तया सिन्ध्वा रक्तनद्या अभावि भूतम् । भावे लुङि चिण् । यया सिन्धवा दृशो रुण- द्धीति युधि दृष्टिरोधके । रुधेः क्विप् । पांशौ रजसि हृते सति स जनो वीर- लोको योद्धुं रत उत्सुकः । अभूदिति शेषः । उपमायमकयोः संसृष्टिः ॥ ७६ ॥
विदलत्पुष्कराकीर्णाः पतच्छङ्खकुलाकुलाः ।
तरत्पत्ररथा नद्यः प्रासर्पन्रक्तवारिजाः ॥ ७७॥
विदलदिति ॥ विदलद्भिर्विदीर्यमाणैः पुष्करैः करिहस्ताग्रै:, अन्यत्र विक- सद्भिः पौराकीर्णा व्याप्ताः । पतद्भिः शङ्खकुलैः ललाटास्थिसङ्घै: कम्बुसङ्घश्चा- कुलाः । तरन्ति प्लवमानानि पत्राणि वाहनानि रथाश्च, अन्यत्र पत्ररथा अण्डजा यासु ताः रक्तवारिजा रुधिरतोयजन्याः, अन्यत्र रक्तानि वारिजानि यासु ताः नद्यः प्रासर्पन्प्रावहन् । अत्र नदीनां रक्तनदीनां च श्लेषः ॥ ७ ॥
असृग्जनोऽस्त्रक्षतिमानवमज्जवसादनम् ।
रक्षःपिशाचं मुमुदे नवमज्जवसादनम् ॥ ७८ ॥
असृगिति ॥ अस्त्रक्षतिमानस्त्रप्रहारवान् जनो वीरजनोऽसृग्रक्तं जवसादनं जवस्य चेष्टावेगस्य सादनं सादकं यथा स्यात्तथा अवमत् । नवयोर्मज्जवसयोर्मेदोरसयोरदनं भक्षकम् । कर्तरि ल्युट् । रक्षांसि च पिशाचाश्च रक्षःपिशाचम् । समाहारे द्वन्द्वैकवद्भावः । मुमुदे जहर्ष । अत्र मोदस्य वमनवाक्यार्थहेतुत्वा- द्वाक्यार्थहेतुकं काव्यलिङ्गं, तञ्च यमकेन संसृज्यते ॥ ७८ ॥
चित्रं चापैरपेतज्यैः स्फुरद्रक्तशतहृदम् ।
पयोदजालमिव तद्वीराशंसनमाबभौ ॥ ७९ ॥
चित्रमिति ॥ अपेतज्यैरपगतमौर्वीकैः । 'मौर्वी ज्या शिकञ्जिनी गुणः' इत्य- मरः । चापैश्चित्रं विचित्रम् । स्फुरन्ति रक्तान्येव शतहृदाः शम्पा यस्मिंस्तत् । 'शम्पा शतह्रदा ह्रादिनी' इत्यमरः । तत्प्रकृतं वीर आशंस्यतेऽत्रेति वीराशं- सनं भयंकरा युद्धभूमिः । 'सा वीराशंसनं युद्धभूमिर्याऽतिभयप्रदा' इत्यमरः । पयोदजालमिवाबभौ ॥ ७९ ॥
बन्धौ विपन्नेऽनेकेन नरेणेह तदन्तिके ।
अशोचि सैन्ये घण्टाभिर्न रेणे हतदन्तिके ॥ ८०॥
बन्धाविति ॥ इह सैन्ये बन्धौ विपन्ने मृते सति अनेकेन नरेण । अनेकै- र्नरैरित्यर्थः । जातावेकवचनम् । तदन्तिके तस्य मृतस्य बन्धोरन्तिके अशोचि । किंच हता दन्तिनो यत्र तस्मिन् हतदन्तिके सैन्ये घण्टाभिर्न रेणे न दध्वने । रणतेर्भावे लिट् । अत्र हतदन्तिके इति विशेषणगत्या घण्टानामरणनहेतुत्वा- त्पदार्थहेतुकं काव्यलिङ्गं यमकेन संसृज्यते ॥ ८०॥
कृत्तैः कीर्णा मही रेजे दन्तैर्गात्रैश्च दन्तिनाम् ।
क्षुण्णलोकासुभिर्मृत्योर्मुसलोलूखलैरिव ॥ ८१ ॥
कृत्तैरिति ॥ कृत्तैः छिन्नैः दन्तिनां दन्तैर्गात्रैश्च कीर्णा मही रणभूमिः क्षुण्णाः पिष्टा लोकासवो जनप्राणा यैस्तैः मृत्योर्मुसलोलूखलैः कीर्णेव रेजे । 'अयोग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम्' इत्यमरः । अत्र मुसलोलूखलैरिति राजदन्ता- दिपाठेऽपि 'सर्वकूलाभ्र-' (३।२।४२) इत्यादिसूत्रादेव व्यभिचारज्ञापकात्पर- निपातव्यत्ययः॥८१ ॥
युद्धमित्थं विधूतान्यमानवानभियो गतः ।
चैद्यः परान्पराजिग्ये मानवानभियोगतः ॥ ८२ ॥
युद्धमिति ॥ मानवानभिमानवान् चैद्यो युद्धं गतः प्राप्तः सन् इत्थं विधूता अभिभूता अन्ये चैद्यातिरिक्ता मानवा यैस्तान् । विधूतान्यमानवान् अभियः निर्भीकान्परानरीन् अभियोगतोऽभियोगादभ्यवरोधात्पराजिग्ये । जिगायेत्यर्थः । 'विपराभ्यां जेः' (१|३|१९) इत्यात्मनेपदम् । 'सन्लिटोर्जेः' (७३।५७) इति कुत्वम् ॥ २॥
अथ भगवदभियोगं पञ्चभिः कुलकेनाह-
अथ वक्षोमणिच्छायाछुरितापीतवाससा ।
स्फुरदिन्द्रधनुर्भिन्नतडितेव तडित्त्वता ॥ ८३॥
संबन्धः । तद्वपुस्तावत्त्रिभिर्विशिनष्टि-वक्षोमणेः कौस्तुभस्य छायया छुरितानि व्याप्तान्यापीतवासांसि पीताम्बराणि यस्य तेन । अत एव स्फुरता इन्द्रधनुषा भिन्नाः संगतास्तडितो यस्य तेन तडित्त्वता मेघेनेव स्थितेनेत्यर्थः ॥ ८३ ॥
॥ द्व्यक्षरः॥
नीलेनानालनलिननिलीनोल्ललनालिना ।
ललनालालनेनालं लीलालोलेन लालिना ॥ ८४ ॥
नीलेनेति ॥ पुनः कीदृशेन वपुषा । नीलेन श्यामलेन तथाऽनालं नालर- हितं यन्नलिनं तत्र निलीना आसन्नाः उल्ललन्तीत्युल्ललनाश्वलाश्चालयो यस्य तेन अनालनलिननिलीमोल्ललनालिना । मुखसौरभलोभपरिभ्रमद्भ्रमरणेत्यर्थः । ललनानां विलासिनीनां स्त्रीणां लालनेन उपलालनेन । वशीकरणेनेत्यर्थः । अलमत्यन्तं लीलालोलेन क्रीडालोलुपेन । 'लीलालानेन' इति पाठे लीलानां बिलासानामालानेन । आलयेनेत्यर्थः । लालयति भक्तानिति लालिना । भक्ता- नुकम्पिनेत्यर्थः । द्व्यक्षरानुप्रासोऽलंकारः ॥ ८४ ॥
अपूर्वयेव तत्काल समागमसकामया ।
दृष्टेन राजन्वपुषा कटाक्षैर्विजयश्रिया ॥ ८५ ॥
अपूर्वयेति ॥ किंच अपूर्वयेव अपूर्वसमागमयेव तत्कालसमागमे सकामया साभिलाषया विजयश्रिया । चैद्यविरक्तयेति भावः । कटाक्षैरपाङ्गैर्दृष्टेनालोकितेन वपुषा राजन्दीप्यमानः । अत्र प्रस्तुतजयश्रीविशेषणसाम्यादप्रस्तुतानुरक्तमानि- नीप्रतीतेः समासोक्तिः प्रतीयमानाभेदाध्यवसायादपाङ्गदर्शनोत्प्रेक्षा च ॥ ८५ ॥
॥ द्व्यक्षरः ॥
विभावी विभवी भाभो विभाभावी विवो विभीः ।
भवाभिभावी भावावो भवाभावो भुवो विभुः ॥८६॥
विभावीति ॥ विभावोऽस्यास्तीति विभावी प्रभावसंपन्नः विभवोऽस्यास्तीति
विभवी ऐश्वर्यवान् भस्य आभेवाभा यस्य स भाभः । नक्षत्रवदुज्वल इत्यर्थः । विभां विशिष्टाभां भावयति संपादयति विश्वस्येति विभाभावी । 'तस्य भासा सर्वमिदं विभाति' (मुण्डकोपनिषत् २।२।१०) इति श्रुतेः । भुवो प्यन्ताण्णिनिः । विना पक्षिणा वाति गच्छतीति विवः । पक्षिवाहन इत्यर्थः । 'आतोऽनुपसर्गे कः' (३।२।३)। विभीर्निर्भीकः । भवं संसारमभिभवतीति भवाभिभावी । भक्तानां संसारनिवर्तक इत्यर्थः । भुवो णिनिः । भावाञ्जन्तूनवतीति भावावः विश्वत्राता । 'भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु' इति वैजयन्ती । अवतेः कर्मण्यण् । भवाभावोऽस्यास्तीति । संसारदुःखैरस्पृष्ट इत्यर्थः । अर्श-आदित्वादच्प्रत्ययः । भुवो भूमेः विभुर्भर्ता ॥ ८६ ॥ उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः।
देहत्यागकृतोद्योगैरदृश्यत परः पुमान् ॥ ८७ ॥
उपैत्विति ॥ एवंभूतः परः पुमान्परमपुरुषो हरिः । तत्पारं तस्य हरेः पारं अन्तमुपैतुकामैस्तं जिगीषुभिः, अन्यत्र दिदृक्षुभिरित्यर्थः । 'तुं काममनसोरपि' इति मकारलोपः । निश्चितैः । योद्धुं कृतनिश्चयैरित्यर्थः । अन्यत्र निश्चिततत्त्वैः । सकर्मकादप्यविवक्षिते कर्मणि क्तः । यद्वा पीता गावः, विभक्ता भ्रातर इत्या दिवदूहयितव्यम् । स्फुटीकृतं चैतद्धण्टापथे 'स वर्णिलिङ्गी विदितः' (किरातार्जु नीये ११)इत्यत्र । देहत्यागकृतोद्योगैमरणोद्यतैः । अन्यत्र मुमुक्षुभिरित्यर्थः । योगिभिः संनाहवद्भिपायवद्भिर्वा, अन्यत्र ध्यानवद्भिः । 'योगः संनहनोपायध्या- नसंगतियुक्तिषु' इत्यमरः । परैः शत्रुभिः, अन्यत्र परमयोगिभिः अदृश्यत । परे षामग्रेऽतिष्ठदित्यर्थः । अन्यत्र साक्षात्कृतः । 'तमेव विदित्वातिमृत्युमेति' (श्वेता- श्व० ३|८,६।१५) इति श्रुतेः । अर्थान्तरप्रतीतिनिरेव न श्लेषः । अभिधायाः प्रकृतार्थे नियन्त्रणात् ॥ ८७ ॥
॥ गतप्रत्यागतम् ॥
युग्मेनाह-
तं श्रिया घनयाऽनस्तरुचा सारतया तया।
यातया तरसा चारुस्तनयाऽनघया श्रितम् ॥ ८८ ॥
तमिति ॥ घनया आनन्दसान्द्रया । अनस्तरुचा अक्षीणकान्त्या । सारतया सारत्वेन सर्वोत्कर्षगुणेन यातया व्याप्तया । चारुस्तनया रम्यकुचया ।'स्वाङ्गाच्चो पसर्जनादसंयोगोपधात्' (४|१|५४) इति विकल्पादनीकारः । अनघया निर्दो- षया तया प्रसिद्धया श्रिया रमया तरसा त्वरया श्रितमालिङ्गितं तं हरिमुवीक्ष्ये त्युत्तरेण संबन्धः । अत्रापि प्रातिलोम्येनार्धावृत्तेरर्धप्रतिलोमयमकम् । एतल्लक्षणं तु प्रागेवोक्तम् ॥ ८॥
विद्विषोऽद्विषुरुद्वीक्ष्य तथाप्यासन्निरेनसः ।
अरुच्यमपि रोगघ्नं निसर्गादेव भेषजम् ॥ ८९ ॥
(युग्मम् ।)
विद्विष इति ॥ तं पूर्वोक्तं हरिमुद्वीक्ष्य विद्विषः शत्रवोऽद्विषुः द्विषन्ति स्म । लङि 'द्विषश्च' (३।४।११२) इति विकल्पेन झेर्जुसादेशः । तथापि द्विषन्तोऽपि निरेनसो निष्पापा आसन् । द्वेषवीक्षणस्याप्येनोनिवर्तकत्वं दृष्टान्तेनाह-अरुच्यमिति । रोचत इति रुच्यम् । 'राजसूय-' (३।११११४) इत्यादिना क्यबन्तो निपातितः। अरुच्यमरोचमानमपि भेषजमौषधम् । 'भेषजौषधभेषज्यानि' इत्यमरः । निसर्गात्स्वभावशक्तेरेव रोगं हन्तीति रोगघ्नमारोग्यकारि । 'हरिर्हरति पापानि' ( ) इति वचनादिति भावः । 'अमनुष्यकर्तृके च' (३।२।५३) इति टप्रत्ययः ॥ ८९॥ विदितं दिवि केऽनीके तं यातं निजिताजिनि ।
विगदं गवि रोद्धारो योद्धा यो नतिमेति नः ॥९॥
॥प्रतिलोमेनायमेवार्थः॥
विदितमिति ॥ किंच योद्धा वीरो यो हरिः नतिं परेषां नम्रतां नैति नापैति । नितरां जिता आजयो येन तस्मिन्निजिताजिनि अनेकाजिविजयिन्यपि अनीके सैन्ये । 'वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । यातं योद्ध- मागतम् । दिवि स्वर्गेऽपि विदितं प्रख्यातं विगदं निरामयं तं हरिं गवि भुवि । रोद्धारो जेतारः के । न केऽपीत्यर्थः । प्रातिलोम्येऽप्येत एव पदार्थवाक्यार्थाः । एतदपि श्लोकप्रतिलोमयमकमेव । पदपदार्थादिसंवादस्तु वैचित्रीविशेषः । लक्षणं तु 'निध्वनत्' (१९|३४) इत्यत्रैवोक्तमनुसंधेयम् ॥ ९० ॥
नियुज्यमानेन पुरः कर्मण्यतिगरीयसि ।
आरोप्यमाणोरुगुणं भर्त्रा कार्मुकमानमत् ॥ ९१ ।।
नियुज्यमानेनेति ॥ पुरोऽने अतिगरीयसि कर्मणि रणकर्मणि, अन्यत्र दुष्करे क्वचित्कृत्यवस्तुनि १नियुज्यमानेन व्यापारयिष्यता, आज्ञापयिष्यता च भर्त्रा स्वामिना आरोप्यमाणोऽधिक्रियमाण उरुर्महान् गुणो ज्या यमिंस्तत् । अन्यत्र वर्ण्यमानसौन्दर्यादिकः । कर्मणे प्रभवतीति कार्मुकं धनुः 'कर्मण उकञ्' (५।१।१०३)। आनमत् गुणाकर्षणादाकुञ्चितकोटिकमभूत् । अन्यत्र प्रणत इत्यर्थः ।। अत्र प्रकृतकार्मुकविशेषणसाम्यादप्रस्तुतनियोज्यपुरुषप्रतीतेः समासोक्तिः ॥ ९१ ॥
तत्र बाणाः सुपरुषः समधीयन्त चारवः ।
द्विषामभूत्सुपरुषस्तस्याकृष्टस्य चारवः ॥ ९२ ॥
तत्रेति ॥ तत्र कार्मुके शोभनानि परूंषि येषां ते सुपरुषः सुपर्वाणः । अत एव चारवोऽतिरम्या बाणाः समधीयन्त निहिताः । आकृष्टस्य तस्य कार्मुकस्यार- वश्व द्विषां सुष्टु परुषः सुपरुषोऽतिकर्कशोऽभूत् । यमकविशेषालंकारः ॥ ९२ ॥
पश्चात्कृतानामप्यस्य नराणामिव पत्रिणाम् ।
यो यो गुणेन संयुक्तः स स कर्णान्तमाययौ ॥ ९३ ॥
पश्चादिति ॥ नराणां पुंसामिव पश्चात्कृतानां निषङ्गसङ्गितया पृष्ठस्थापि- तानामपि, अन्यत्रावधीरितानामपि । पत्रिणामिषूणां मध्य इत्यर्थः । यो यः पत्री, नरश्च गुणेन ज्यया दाक्षिण्यादिना च संयुक्तः संबद्धः स स पत्री नरश्चास्य हरेः कर्णान्तं कर्णसमीपमाययौ आगतः । गुणयोगादाकर्णमाकृष्टः, अन्यत्रान्तिक- मागत इत्यर्थः । श्लेषसंकीर्णोपमा ॥ ९३ ॥
॥ द्व्यक्षरः ॥
प्रापे रूपी २पुराऽरेपाः परिपूरी परः परैः।
रोपैरपारैरुपरि पुपूरेऽपि परोऽपरैः ॥ ९४ ॥
प्राप इति ॥ पुरा पूर्वं रूपी मत्स्यकूर्माद्यनेकरूपवान् अरेपाः निष्पापः परिपूरयति कामैर्भक्तानिति परिपूरी भक्तवरदः । पूरयतेर्णिनिः । परः परमपुरुषो हरिः परैः शत्रुभिः प्रापे प्राप्तः । अवरुद्ध इत्यर्थः । अपरैरन्यैः शत्रुभिः कर्तृभिः अपारैरनन्तै रोपैरिषुभिः । 'पत्री रोप इषुर्द्वयोः' इत्यमरः । पुरोऽग्रे उपरि च पुपूरे पूरितः। पृणातेः कर्मणि लिट् । द्व्यक्षरानुप्रासोऽलंकारः ॥ ९४ ॥
दिङ्मुखव्यापिनस्तीक्ष्णान्ह दिनो मर्मभेदिनः ।
चिक्षेपैकक्षणेनैव सायकानहितांश्च सः॥ ९५ ॥
दिगिति ॥ स हरिर्दिङ्मुखव्यापिनो दिगन्तव्यापकान् । अतितीक्ष्णानिशितान्क्रूरांश्च । ह्रादन्ते इति ह्रादिनः पक्षनादवतः, सिंहनादवतश्च । मर्मभेदिनो मर्मस्थानविदारकान् सायकानिषून् , अहितानरींश्च एकक्षणेनैव चिक्षेप निरास । अत्र सायकानामहितानां च प्रकृतानामेव तुल्यधर्मयोगादौपम्योपगमात्तुल्ययोगिताभेदः ॥ ९५॥
॥ गूढचतुर्थः॥
शरवर्षी महानादः स्फुरत्कार्मुककेतनः ।
नीलच्छविरसौ रेजे केशवच्छलनीरदः ॥ ९६ ॥
शरेति ॥ शरवर्षी बाणवर्षी, नीरवर्षी च । 'शरं नीरे शरो बाणे' इति विश्वः । महान्नादः सिंहनादो, गर्जितं च यस्य स महानादः । स्फुरन्ती कार्मुककेतने धनुर्ध्वजौ यस्य सः । अन्यत्रेन्द्रचापचिह्न इत्यर्थः । नीलच्छविः श्यामकान्तिः । अस्य केशवस्य छलं कपटं यस्य सः नीरदः केशवच्छलनीरदो हरिमेघोऽसौ रेजे । रणरङ्गे सर्वोत्कर्षेण दिदीपे इत्यर्थः । अत्र छलशब्देन हरित्वापह्नवेन मेघत्वारोपणाच्छलादिशब्दैरसत्यत्वप्रतिपादनरूपोऽपह्न्वालंकारः । त्रिपाद्यन्तर्गतचतुर्थपादाक्षरत्वाद्गूढचतुर्थाख्यश्चित्रविशेषः, शब्दालंकारश्चेति संकरः ॥ ९६ ॥
न केवलं जनैस्तस्य लघुसंधायिनो धनुः ।
मण्डलीकृतमेकान्ताद्धलमैक्षि द्विषामपि ॥ ९७ ॥
नेति ॥ लघु शीघ्रं संधत्ते यस्तस्य लघुसंधायिनस्तस्य हरेः धनुरेव केवलं एकान्तात् मण्डलीकृतं शीघ्राकर्षणान्नियमेन वलयीकृतं जनैर्नैक्षि । कर्मणि लुङ । किंतु द्विषां बलमपि मण्डलीकृतं ब्रासादेकत्र पुजीकृतमैक्षि । अत्र धनुर्बलयोः प्रकृतयोरेव तुल्यधर्मयोगात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ ९७ ॥
पाठा०-१ 'अरूपः=निर्णयः'. [ * असाद्धातोलिट्येशि 'ऋच्छत्यृताम्' (७।४।११) इति गुणस्य दुर्वारत्वात् 'पुपूरे' इति रूपासिद्धिः । तस्मात् 'पूरी आप्यायने' इति धातुर्बोध्यः। युग्मेनाह-
॥ द्व्यक्षरः ॥
लोकालोकी कलोऽकल्ककलिलोऽलिकुलालकः ।
कालोऽकलोऽकलिः काले कोलकेलिकिलः किल ॥९८॥
लोकेति ॥ लोकानालोकते इति लोकालोकी त्रैलोक्यदर्शी । कलो मधुरभाषी कल्केन पापेन, दम्भेन वा कलिलो न भवतीत्यकल्ककलिलः । 'कल्कः पापाशये पापे दम्भे' इति विश्वः । अलिकुलालकः । अलिकुलनीलमूर्धज इत्यर्थः । कालो नीलवर्णः कालात्मको वा । नास्ति कला यस्य सोऽकलः । निरंश इत्यर्थः । अकलिरकलहः । स्वयमकलहशील इत्यर्थः । काले प्रलयकाले कोलकेल्या वराहलीलया किलति क्रीडति कोलकेलिकिलः । किलशब्दस्तु खल्वर्थे विव्याधेत्युत्तरेण संबन्धः । द्व्यक्षरानुप्रासः ॥ ९८ ॥
अक्षितारासु विव्याध द्विषतः स तनुत्रिणः ।
दानेषु स्थूललक्ष्यत्वं न हि तस्य शरासने ॥ ९९ ॥
(युग्मम् ।) अक्षीति ॥ स पूर्वोक्तगुणविशिष्टो हरिः तनुत्राणि येषां सन्तीति तनुत्रिणो वर्मिणः । 'तनुत्रं वर्म दंशनम्' इत्यमरः । तान् द्विषतः शत्रून् अक्षितारासु नेत्रकनीनिकासु विव्याध प्रजहार । तथा हि-तस्य हरेः दानेषु वितरणेष्वेव स्थूललक्ष्यत्वं विपुलविषयत्वम् । 'स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे इत्यमरः । शरासने शरक्षेपे तु न, किंतु सूक्ष्मलक्ष्यत्वमेव । अतोऽक्षितारावेधित्वमस्य युक्तमित्यर्थः । अतो वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ९९ ॥
॥ द्व्यक्षरः ॥
वररोऽविवरो वैरिविवारी वारिरारवः ।
विववार वरो वैरं वीरो रविरिवोर्वरः ॥१००॥
वरर इति ॥ वरान्रातीति वररो वरप्रदः । ‘रा दाने' 'आतोऽनुपसर्गे कः (३।२।३) । अविवरो निर्विवरो नीरन्ध्रः । वैरिणः शत्रून् विवारयति वैरिविवारी। वारीणि रातीति वारिरः । पूर्ववत्कः । तस्येवारवो यस्य स वारिरारवः । वरः श्रेष्टो वीरः शूरः स कृष्णः । 'उर्वरा सर्वसस्याढ्यभूमौ स्याद्भूमिमात्रके' इत्यमरः । तस्यां भव और्वरः पृथ्वीभवः रविरिव वैरं वैरिणां वृन्दं विववार विवारयामास । जघानेत्यर्थः । द्व्यक्षरानुप्रासः ॥ १०० ॥
मुक्तानेकशरं प्राणानहरद्भूयसां द्विषाम् ।
तदीयं धनुरन्यस्य न हि सेहे सजीवताम् ॥ १०१ ॥
मुक्तेति ॥ मुक्तानेकशरं क्षिप्तबहुबाणं तस्य हरेरिदं तदीयं धनुः भूयसां द्विषां प्राणानहरत् । तथा हि-अन्यस्य परस्य सजीवतां न सेहे । अथवा अन्यस्य धनुषः सजीवतां सज्याकत्वं न सेहे । 'त्रिषु जीवति जीवः स्यान्मौर्व्यां स्त्री' इति वैजयन्ती । वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ १०१॥
॥ द्व्यक्षरः॥
राजराजी सरोजाजेरजिरेऽजोजरोऽरजाः।
रेजारिजूरजोर्जार्जी रराजर्जुरजर्जरः ॥ १०२ ॥
राजेति ॥ न जायत इत्यजोऽनादिः । 'अन्येष्वपि दृश्यते' (३।२।१०१) इति जनेर्डप्रत्ययः । न जीर्यते इत्यजरोऽनन्तः । पचाद्यच् । नास्ति रजो यस्येत्यरजा रजोगुणरहितः । रेजन्तीति रेजास्तेजिष्ठाः । रेज दीप्तौ' पचाद्यच् । ते च ते अरयश्च तेषां जूरो हिंसनं तेन जातं रेजारिजूरजम् , तदूर्जं बलं अर्जयतीति रेजारिजूरजोर्जार्जी । अर्जेणिनिः । ऋजुरार्जववान् । जर्जरो न भवतीत्यजर्जरो दृढः स हरिः आजेरजिरे रणाङ्गणे राजराजी राजश्रेणीः रुरोज बभञ्ज । 'रुजो भङ्गे' लिट् । अत एव रराज दिदीपे । द्व्यक्षरानुप्रासः ॥ १०२ ॥
उद्धतान्द्विषतस्तस्य निम्नतो द्वितयं ययुः ।
पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः ॥१०३ ॥
उद्धतानिति ॥ उद्धतान् दृप्तान् द्विषतः शत्रून्निघ्नतो हिंसतः । 'जासिनिग्रहण-' (२।३।५६) ब्इति सूत्रे निप्रेतिसंघातविपर्यस्तव्यस्तग्रहणोपदेशानिहन्तेरशेषकर्मणि द्वितीयैव । तस्य हरेः शराः । पानार्थे धातौ 'पा पाने' इति धातौ सति रुधिरं, रक्षार्थे धातौ 'पा रक्षणे' इति भुवनं जगच्चेति द्वितयं ययुः । रुधिरमपिबन् भुवनमरक्षश्चेति श्लेषार्थः । अत्र पानयोरभेदाध्यवसायेन रुधिरभुवनयोस्तुल्ययोगितालंकारः । तत्र ‘पानार्थे' इत्यादिवाक्यस्य शत्रुवधेन भुवनमरक्षनिति सूक्ष्मार्थगर्भत्वात्सौक्ष्म्यं नाम गुणः । 'अतः संकल्परूपत्वं शब्दानां सौम्यमुच्यते' इति लक्षणात् ॥ १०३ ॥ युग्मेनाह-
॥द्व्यक्षरः॥
रारिकारी कोरेककारकः कारिकाकरः ।
कोरकाकारकरकः करीरः कर्करोऽर्करुक् ॥ १०४ ॥
क्रूरेति ॥ क्रूरानरीन् किरति विक्षिपति इति क्रूरारिकारी । किरतेर्णिनिप्रत्ययः । को मेरेककारकः एककर्ता । करोतेण्वुल । कारिका यातनाः करोति दुष्टानामिति कारिकाकरः । 'कारिका यातनावृत्त्योः' इत्यमरः । 'कृञो हेतु-' (३।२।२०) इत्यादिना ताच्छील्ये टप्रत्ययः । कारिकाः क्रियाः । धात्वर्थनिर्देशे ण्वुल् । तत्कर इति केचित् । कोरकाकारौ करौ यस्य स कोरकाकारकरकः । कमलमुकुलरमणीयपाणिरित्यर्थः । शैषिकः कप्प्रत्ययः । करिणो गजानीरयति क्षिप तीति करीरः । कर्मण्यण् । कर्करी रणकर्कश इत्यर्थः । 'कर्करो दर्पणे दृढे' इति शाश्वतः । अर्कस्येव रुग्यस्य सोऽर्करुगित्युपमा । द्व्यक्षरानुप्रासः ॥ १०४ ॥
विधातुमवतीर्णोऽपि लघिमानमसौ भुवः।
अनेकमरिसंघातमकरोद्भूमिवर्धनम् ॥ १०५ ॥
(युग्मम् ।)
विधातुमिति ॥ भुवो भूमेर्लघिमानं लघुत्वं भारावतरणं विधातुमवतीर्णोऽपि भुवि जातोऽप्यसौ पूर्वोक्तगुणो भगवान् हरिः अनेकं बहुमरिसंघातं भूमिवर्धनं भूभारमकरोदिति विरोधः । मृतमकरोदित्यविरोधः । अत एव विरोधाभासोऽलंकारः ॥ १०५ ॥
॥ द्व्यक्षरः ॥
दारी दरदरिद्रोऽरिदारूदारोऽद्रिदूरदः ।
दूरादरौद्रोऽददरद्रोदोरुदारुरादरी ॥ १०६ ॥
दारीति ॥ दारी बहुदारवान् । भूमार्थे मत्वर्थीयः । दरेण भयेन दरिद्रो निर्भीकः । 'दरोऽस्त्रियां भये श्वभ्रे' इत्यमरः । उदारो महान् , दाता वा । 'उदारो दातृमहतोः' इत्यमरः । अद्रिवत् दुःखेन रद्यते दूरदो दुर्भेदोऽद्रिदूरदः । 'रद विलेखने' खल् प्रत्ययः । अरौद्रः साधूनां सौम्यः । रोदसी रुणद्धीति रोदोरुत् विश्वव्यापी । रुधेः क्विप् । ददातीति दारुर्दाता । ददातेरौणादिको रुप्रत्ययः । आदरोऽस्यास्तीत्यादरी सन्मार्गादरवान् स हरिः अरिरेव दारु काष्ठमरिदारु दूरादेव अददरत् दारयति स्म । दारयतेर्णो चङि 'अत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम्' (७।४।९५) इत्यभ्यासस्यात्त्वम् । अरिदार्विति रूपकमर्थालंकारो द्व्यक्षरानुप्रासश्च ॥ १०६ ॥
एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव ।
स जन्मान्तररामस्य चक्रे सदृशमात्मनः ॥ १०७ ॥
एकेषुणेति ॥ स हरिरेकेषुणा एकेनैव शरेण सङ्घानां पूरणान्सङ्घतिथान् । सङ्घशः स्थितानित्यर्थः । 'बहुपूगगणसङ्घस्य तिथुक्' (५।२।५२) इति तिथुगागमादेव ज्ञापकादसंख्यात्वेऽपि सङ्घाडुट् प्रत्ययः । द्विषः शत्रून्द्रुमानिवेत्युपमा । भिन्दन्विदारयन् । जन्मान्तरे रामस्य दाशरथेरात्मनः सदृशं चक्रे । एकशरेणानेकारिद्रुमभेदस्तु जन्मान्तरभावनाय जात इति भावः । 'बिभेद च पुनस्तालान्सप्तैकेन महेषुणा' इति रामायणे ॥ १०७ ॥
॥ द्व्यक्षरः॥
शूरः शौरिरशिशिरैराशाशैराशु राशिशः ।
शरारुः श्रीशरीरेशः शुशूरेऽरिशिरः शरैः ॥१०८॥
शूर इति ॥ शृणातीति शरारुः दुष्टघातुकः । 'शरारुर्घतुको हिंस्रः' इत्यमरः । शृवन्द्योरारुः (३।२।१७३) इत्यारुप्रत्ययः। श्रीशरीरस्येशः श्रीशरीरेशः लक्ष्मीप्राणनाथः शूरो वीरः शौरिः कृष्णः अशिशिरैस्तीक्ष्णैः आशा दिशोऽस्नुवत इत्याशाशैदिगन्तव्यापकैः । अश्नोतेः कर्मण्यण् । शरैर्बाणैः अरिशिरः शत्रुशिरांसि। जातावेकवचनम् । राशिशः सङ्घशः आशु शीघ्रं शुशूरे जघान । 'शूर हिंसास्तम्भनयोः' इति धातोर्लिट् । द्व्यक्षरानुप्रासः ॥ १०८॥
व्यक्तासीदरितारीणां यत्नदीयास्तदा मुहुः ।
मनोहृतोऽपि हृदये लेगुरेषां न पत्रिणः ॥ १०९ ॥
व्यक्तेति ॥ तदा तस्मिन्समये एषां अरीणामरिता शत्रुता मुहुर्व्यक्ता आसीत् । यद्यस्मात्तस्य हरेरिमे तदीयाः पत्रिणो बाणाः मनो हरन्ति कायादुद्धरन्तीति मनोहृतः । मारका इत्यर्थः । हरतेः क्विप् । मनोज्ञाः प्रतीयन्ते । अत एव मनोहृतोऽपि हृदये मनसि न लेगुर्न लग्ना इति विरोधः । वक्षो निर्भिद्य निर्जग्मुरित्यर्थः । 'हृदयं वक्षसि स्वान्ते' इति विश्वः । विरोधाभासोऽलंकारः ॥१०९॥
॥ अतालव्यः॥
नामाक्षराणां मलना मा भूद्भर्तुरतः स्फुटम् ।
अगृह्णत पराङ्गानामसूनस्रं न मार्गणाः ॥ ११ ॥
नामेति ॥ भर्तुः स्वामिनो नामाक्षराणां फलेषु लिखितानां मलना मालिन्यं तिरोधानं मा भूदिति बुद्ध्येत्यर्थः । अतः मार्गणाः हरिशराः पराङ्गानां अरिशरीराणामसून्प्राणानगृह्णत । गृहेर्लङ् । न अस्रं रक्तम् रक्ताविलेपस्य आशुभावनिमित्तस्य स्वामिनामाक्षरमालिन्यपरिहारार्थत्वमुत्प्रेक्ष्यते-स्फुटमिति । अत्र तालव्यवर्णाभावादतालव्य इति चित्रभेदः । इचुयशानां ताल्विति इवर्णस्य तालुत्वेऽपि व्यञ्जनापेक्ष एवायं नियम इति न दोषः (?) ॥ ११०॥
आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः ।
ऐकागारिकवद्भूमौ दूराजग्मुरदर्शनम् ॥ १११ ॥
आच्छिद्येति ॥ आशुगा बाणाः योधसार्थस्य वीरवर्गस्य प्राणसर्वस्वं आच्छिद्य ऐकागारिकाश्चौराः। 'चौरैकागारिकस्तेन–' इत्यमरः । 'ऐकागारिकट् चौरे' (५।१।११३) इत्यर्थे निपात्यत इत्येके । इकट् प्रत्यये वृद्धिश्च निपात्यते इत्यपरे । तैस्तुल्यमैकागारिकवत् । तुल्यार्थे वतिः । दूराद्भूमावदर्शनमदृश्यतां जग्मुः ॥११॥
भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः ।
कृतघोराजिनश्चक्रे भुवः सरुधिरा जिनः ॥ ११२ ॥
मांसव्यधोचितमुखैः शून्यतां दधदक्रियम् ।
शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नमः ॥११३ ॥
मांसेति ॥ मांसव्यधो मांसखण्डनम् । 'व्यधजपोरनुपसर्गे' (३।३।६१) इत्यप्प्रत्ययः । तत्रोचितानि परिचितानि मुखानि चञ्चवः शल्यानि च येषां तैः शकुन्तिभिः कर्तृभिः शून्यतामचेतनत्वं, अन्यत्र तुच्छत्वममूर्तत्वं वा दधत् अत एव अक्रियमस्पन्दं शत्रुबलं व्यापि व्याप्तम् । आप्नोतेः कर्मणि लुङ् । तस्य हरेरिषुभिः नभो व्यापि । अत्रेषुपक्षिणां न भोबलयोर्व्याप्तितुल्यधर्मयोगित्वात्तुल्ययोगिताभेदः ॥ ११३॥
॥ एकाक्षरः ॥
दाददो दुद्ददुद्दादी दादादो दूददीददोः ।
दुद्दादं दददे दुद्दे ददाददददोऽददः ॥११४ ।।
दादद इति ॥ दद्यते इति दादः दानम् । 'दद दाने' इति कर्मणि घञ् । दादं ददातीति दाददो दानप्रदः । 'आतोऽनुपसर्गे कः' (३।२।३)।दुद्ददुद्दादी दुत् उपतापः 'टुदु उपतापे' क्विप् । दुतमुपतापं ददति साधूनामिति दुद्दाः खलाः। पूर्ववत्कः । तेषां दुतमुपतापं ददत इति दुद्ददुद्दादी । 'दद दाने' इति धातोर्णिनिः । दादादः । दाः शुद्धिः 'दैप् शोधने' क्विप् । तां ददत इति दादादः । 'दद दाने' कर्मण्यण् । दूददीददोः । दूः परितापः । 'दूङ् परितापे' विप् । तां ददतीति दूदा दुष्टाः । दीः क्षयः । 'दीङ् क्षये' क्विप् । तां दत्त इति दीदौ नाशदौ । उभयत्रातोऽनुपसर्गे कः । दूदानां दीदौ दुष्टमर्दको दोषौ भुजौ यस्य सः दूददीददोः । दुष्टभञ्जकभुज इत्यर्थः । ददाददददः । ददन्ते इति ददाः दातारः न ददन्ते इति अददा अदातारः तेषां द्वयानामपि ददो दाता ददाददददः । सर्वत्र 'दद दाने' पचायच् । अदन्तीत्यदा बकासुरपूतनाप्रभृतयः । अदः पचाद्यच् । तान् द्यति खण्डयतीति अददः । 'दोऽवखण्डने' 'आतोऽनुपसर्गे कः' (३।२।३) एवंभूतो हरिः । दुतं ददातीति दुद्दः दुःखदः तस्मिन् दुद्दे शत्रौ । दुतं ददत इति दुद्दादं शस्त्रन् । 'दद दाने' कर्मण्यण् । दददे ददौ । प्रयुक्तवानित्यर्थः । 'दद दाने' कर्तरि लिद । एकाक्षरानुप्रासोऽलंकारः ॥ ११४॥
प्लुतेभकुम्भोरसिजैहृदयक्षतिजन्मभिः ।
प्रावर्तयन्नदीरौर्द्विषां तद्योषितां च सः ॥११५ ॥
प्लुतेति ॥ स हरिः प्लुताः उक्षिताः इभकुम्भाः उरसि जाता उरसिजा इभकुम्भा इवोरसिजाश्च यैस्तैः हृदयक्षतिभिर्वक्षःप्रहारैः मनोभङ्गैश्च विषादापादकैः जन्म येषां तैः । 'हृदयं वक्षसि स्वान्ते' इति विश्वः । द्विषां तद्योषितां चास्रै शोणितैः, अश्रुभिश्च । 'अस्रमश्रुणि शोणिते' इति विश्वः । नदीः प्रावर्तयत्प्रावाहयत् । अरिवधेन तन्नारीररोदयदित्यर्थः । अत्र द्वयानामप्यस्राणां प्रकृतत्वात्प्रकृतश्लेषः । तैरर्द्विषां तद्योषितां यथासंख्यबन्धाद्यथासंख्यालंकारः । तदुपजीवनेन द्विषां तद्योषितां चास्त्रैः शोणितैः श्लेषमूलाभेदातिशयोक्तिमहिम्ना अस्ररूप- तुल्यधर्मयोगित्वात्तुल्ययोगितेत्यङ्गाङ्गिभावेनैषां संकरः ॥ ११५॥
॥ अर्थत्रयवाची ॥
सदामदबलप्रायः समुद्धृतरसो बभौ ।
प्रतीतविक्रमः श्रीमान्हरिहरिरिवापरः ॥ ११६ ॥
सदेति ॥ सदा मदो यस्य स सदामदः नित्यमत्तस्तं बलं बलभद्रं प्रीणातीति सदामदबलप्रायः । परत्वात्कर्मण्यण्प्रत्ययः । समुद्धृता रसा भूर्येन स समुद्धृतरसः । प्रतीताः प्रसिद्धा विक्रमाः पादन्यासा यस्य सः । त्रिविक्रम इत्यर्थः । श्रीमान् रमापतिः हरिः कृष्णोऽपरोऽन्यो हरिरिन्द्र इव बभौ । सोऽपि सतामामदो दुःखदो यो बलासुरस्तस्य प्रायो नाशस्तं करोतीति सदामदबलप्रायः । 'तत्करोति-' (ग०) इति ण्यन्तात्पचाद्यच् । समुद्धृतरसः अमृतपानेन सम्यगपहृतविषः । 'शृङ्गारादौ विषे वीर्ये द्रवे रागे गुणे रसः' इत्यमरः । प्रतीतविक्रमः प्रसिद्धपराक्रमः श्रीमान्स्वाराज्यलक्ष्मीयुक्तः । तथा परोऽन्यो हरिः सूर्य बभौ । सोऽपि आमं रोगं द्यति खण्डयतीत्यामदः । बलं पृणातीति बलप्रः । मूलविभुजादित्वात्कः । सतां भक्तनामामदो बलपश्च अय उदयो यस्य स सदामदबलप्रायः । स्वोदयेन सतामारोग्यबलकारीत्यर्थः । 'उद्यन्नद्य-' (ऋ० सं०) इत्यादिश्रुतेरिति भावः । समुद्धृतरसः धर्मकालसंशोषितसलिलः । प्रतीतविक्रमः प्रसिद्धखगगतिः । 'यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥' इत्यमरः । तदेवमुपमानयोरुपमेये चार्थत्रयवचनादर्थत्रयवाच्येषु चित्रभेदः । एतावदेव कवेर्विवक्षितमतोऽन्यत्सुवाच्यं चोपेक्ष्यमेव । अत्रापरो हरिरिवेत्यपरशब्दप्रयोगादुव्प्रेक्षेयं नोपमा । अपरस्येन्द्रस्यार्कस्य वाऽप्रसिद्धेः प्रसिद्धसादृश्यवर्णनमुपमा । प्रसिद्धताद्रूप्यारोपे रूपकम् । प्रसिद्धतादूप्यभावनमुत्प्रेक्षा । अत एव लक्षयन्ति । अप्रकृतगुणक्रियाभिसंधानादप्रकृतत्वेन प्रक- । तस्मादपरशब्देन प्रकृतस्याप्रकृतत्वाध्यवसायप्रतीतेरिवशब्देन तस्य साध्यत्वप्रतीतेरुत्प्रेक्षैवेति सर्वस्वकारः । तस्मादिवशब्दमात्र प्रयोग एवोपमा । अपरशब्दमात्रप्रयोगेऽतिशयोक्तिः । उभयोः प्रयोगे तूप्रेक्षैवेति विवेकः । अत एवात्रानेकार्थवर्णनव्यवसायिभिरपरशब्दस्यान्यार्थताव्यतिरेकेणार्थान्तरकल्पनापि नालंकारिकाणां पन्थाः । श्लेषश्चात्रोत्प्रेक्षाबीजभूतसाधर्म्यनिर्वाहमात्रोपक्षीणतया तदङ्गमिति संकर इत्यलमतिप्रसक्त्या ॥ ११६ ॥
द्विधा त्रिधा चतुर्धा च तमेकमपि शत्रवः ।
पश्यन्तः स्पर्धया सद्यः स्वयं पञ्चत्वमाययुः ॥११७॥
द्विधेति ॥ शत्रवः एकमपि तं हरिं द्विधा द्वित्वेन त्रिधा त्रित्वेन चतुर्धा चतुष्ट्वेन पश्यन्तः । भयात्तथा भ्राम्यन्त इत्यर्थः । स्पर्धया मत्सरेण सद्यः स्वयं पञ्चत्वं पञ्चधाभावं मरणं चाययुः । मत्सरिणस्तदधिकमाचरन्तीति भावः । 'स्यात्पतसंभावनमुत्प्रेक्षेति ञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः । अन्तो नाशो द्वयोर्मुत्युमरणं निधनोऽस्त्रियाम् ॥' इत्यमरः । पाञ्चभौतिकस्य शरीरस्य पञ्चधाभावः पञ्चता । अत्र स्पर्धेति हेतोरुप्रेक्षणाद्धेतूप्रेक्षा । सा च व्यञ्जकाप्रयोगाद्गम्या । स्पर्धयेवेत्यर्थः ॥ ११७ ॥
॥ समुद्रः॥
सदैव संपन्नवपू रणेषु स दैवसंपन्नवपूरणेषु ।
महो दधे स्तारि महानितान्तं महोदधेऽस्तारिमहा नितान्तम् ११८
सदेति ॥ सदैव सर्वदैव संपन्नं सर्वलक्षणसमग्रं वपुर्यस्य स संपन्नवपुः । नित्यपरिपूर्णमूर्तिः । संहितायां 'ट्रलोपे पूर्वस्य दीर्घोऽणः' (६।३।१११) । अस्तं निरस्तमरीणां महस्तेजो येनासौ अस्तारिमहाः महानधिकः स हरिः दैवसंपत् भाग्यसंपत्तिः सैव नवं पूरणं प्रत्ययसाधनं येषां तेषु दैवसंपन्नवपूरणेषु दैवसहा- येषु रणेषु महोदधेर्महार्णवस्य इतान्तं प्राप्तपारं समुद्रपारगामि नितान्तं स्तारि विस्तीर्ण महस्तेनो दधे धारयामास । अर्धाभ्यासलक्षणसमुद्यमकभेदः । 'अर्धाभ्यासः समुद्गः स्यादस्य भेदास्त्रयो मताः' इत्युक्तं दण्डिना । उपेन्द्रवज्रा वृत्तम् ॥ ११८॥
इष्टं कृत्वार्थं पत्रिणः शाङ्गपाणे-
रेत्याधोमुख्यं प्राविशन्भूमिमाशु ।
शुद्ध्या युक्तानां वैरिवर्गस्य मध्ये
भर्त्रा क्षिप्तानामेतदेवानुरूपम् ॥ ११९ ॥
इष्टमिति ॥ शार्ङ्गं पाणौ यस्य शार्ङ्गपाणेः कृष्णस्य । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' (वा०) इति पाणेः परनिपातः । पत्रिणो बाणाः इष्टमर्थ शत्रुवधात्मकं कृत्वा आधोमुख्यमधोमुखत्वमेत्य प्राप्य आशु भूमिमाविशन् शुद्ध्या लोहशुद्ध्या पवित्रतया च युक्तानां तथापि भर्ना स्वामिना वैरिवर्गस्य मध्ये क्षिप्तानां पातितानाम्, एतदेव आधोमुख्येन क्वचिन्निलयनमेवानुरूपमुचितम् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । जागतं वैश्वदेवीवृत्तम् । ‘पञ्चाश्वैश्छिन्ना वैश्वदेवी ममौ यौ' इति लक्षणात् ॥ ११९ ॥
॥ चक्रबन्धः॥
सत्त्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो
लब्धापक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा ।
मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरे-
रेकौधैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ॥ १२० ॥
इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के
एकोनविंशतितमः सर्गः ॥ १९ ॥
श्रीवत्सस्य लाञ्छनविशेषस्य भूमिर्वक्षः सा उद्धुरतरा उन्नततरा यस्य स उद्धरतरश्रीवत्सभूमिः काममपास्तभी: निर्भीकः परे शत्रवस्त एव मृगास्तेषां व्याधः मृगयुरित्यश्लिष्टरूपकम् । 'व्याघो मृगवधाजीवो मृगयुर्लुब्धकोऽपि च' इत्यमरः । उदयी नित्याभ्युदयवान् । नित्ययोगे मत्वर्थीयः । स हरिः पुरः पूर्वं आजिरभसाद्रणरागात् मानविशिष्टमहंकारोद्धरं सत्त्वं बलमालम्ब्यास्थाय मुदा उत्साहेन हरेः सिंहस्य नादं मुक्त्वा । सिंहनादं कृत्वेत्यर्थः । समकालमेककालम् । अत्यन्तसंयोगे द्वितीया । एक ओघो येषां तैरेकोधैः एकप्रहारै रोपैरिषुभिरभ्रमाकाशं तदा तस्मिन्काले आतस्तरे आच्छादयामास । 'ऋच्छत्यॄताम्' (७४।११) इति गुणः । चक्रबन्धाख्यश्चित्रविशेषोऽलंकारः पूर्वोक्तरूपकेण संसृज्यते । चक्रबन्धोद्धारस्तु-दशमण्डलरेखात्मके नवमण्डलान्तरालवति चक्रे नाभिस्थानेन सहैकोनविंशतिकोष्ठं प्रत्येकं द्व्यक्षगतं पतित्रयं समरेखया लिखित्वा तत्रैकस्यां पतौ वामपार्श्वप्रक्रमेण आद्यपादमालिख्य तथा प्रादक्षिण्येन द्वितीयतृतीययोर्द्वितीयतृतीयौ लिखित्वा नेमिस्थाने बाह्यवलये साक्षरकोष्ठषट्केन सहाष्टादशकोष्टावति तृतीयपादान्तकोष्ठवर्तिवर्णमारभ्य प्रादक्षिण्येन चतुर्थपादं लिखित्वा तत्रैव समापयेत् । तत्र तत्राद्यन्तवर्णैः सह चतुर्थपादोद्धारः । तत्र नाभिस्थाने आद्यपादत्रयदशमाक्षरसंवादः । तृतीयान्तकोष्ठे चतुर्थाद्यन्तवर्णयोः संवादः । तृतीयवलये 'माघकाव्यमिदं' षष्ठे 'शिशुपालवधः' इति कविकाव्यनामोद्धारः । शार्दूलविक्रीडितं वृत्तम् ॥ १२० ॥
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवधकाव्यव्याख्यायां
सर्वकषाख्यायां एकोनविंशतितमः सर्गः ॥१९॥