शिशुपालवधम्/पञ्चदशः सर्गः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← चतुर्दशः सर्गः शिशुपालवधम्
पञ्चदशः सर्गः
माघः
षोडशः सर्गः →

अथतत्र पाण्डुतनयेन सदसि विहितं मुरद्विषः ।
मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनां ।। १५.१ ।।

पुर एव शार्ङ्गिणि सवैरमथ पुनरमुं तदर्चया ।
मन्युरभजदवगाढतरः समदोषकाल इव देहिनं ज्वरः ।। १५.२ ।।

अभितर्जयन्निव समस्तनृपगणमसावकम्पयथ् ।
लोलमुकुटमणिरश्मि शनैरशनैः प्रकम्पितजगत्त्रयं शिरः ।। १५.३ ।।

स वमन्रुषाश्रु घनघर्मविगलदुरुगण्डमण्डलः ।
स्वेदजलकणकरालकरो व्यरुचत्प्रभिन्न इव कुञ्जरस्त्रिधा ।। १५.४ ।।

स निकामघर्मितमभीक्ष्णमधुवदवधूतराजकः ।
क्षिप्तबहुलजलबिन्दु वपुः प्रलयार्णवोत्थित इवादिशूकरः ।। १५.५ ।।

क्षणमाश्लिषद्द्घटितशैलशिखरकठिनांसमण्डनः ।
स्तम्भमुपहितविधूतिमसावधिकावधूनितसमस्तसंसदं ।। १५.६ ।।

कनकाङ्गदद्युतिभिरस्य गमितमरुचत्पिशङ्गतां ।
क्रोधमयशिखिशिखापटलैः परितः परीतमिव बाहुमण्डलं ।। १५.७ ।।

कृतसन्निधानमिव तस्य पुनरपि तृतीयचक्षुषा ।
क्रूरमजनि कुटिलभ्रु गुरुभ्रुकुटीकठोरितललाटमाननं ।। १५.८ ।।

अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे ।
दृष्टिरगणितभयासिलतामलम्बते स्म सभया सखीमिव ।। १५.९ ।।

करकुड्मलेन निजमूरुमुरुतरनगाश्मकर्कशं ।
त्रस्तचपलचलमानजनश्रुतभीमनादमयमाहतोच्चकैः ।। १५.१० ।।

इति चक्रुधे भृशमनेन ननु महदवाप्य विप्रियं ।
याति विकृतिमपि संवृतिमत्किमु यन्निसर्गनिरवग्रहं मनः ।। १५.११ ।।

प्रथमं शरीरजविकारकृतमुकुलबन्धमव्यथी ।
भाविकलहफलयोगमसौ वचनेन कोपकुसुमं व्यचीकसथ् ।। १५.१२ ।।

ध्वनयन्सभामथ सनीरघनरवगभीरवागभीः ।
वाचमवददतिरोषवशादतिनिष्ठुरस्फुटतराक्षरमसौ ।। १५.१३ ।।

यदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सतां ।
प्रेम विलसति महत्तदहो दयितं जनः खलु गुणीति मन्यते ।। १५.१४ ।।

यदराज्ञि राजवदिहार्घ्यमुपहितमिदं मुरद्विषि ।
ग्राम्यमृग इव हविस्तदयं भजते ज्वलत्सु न महीशवह्निषु ।। १५.१५ ।।

अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे ।
निन्द्यमथ च हरिमर्चयतस्तव कर्मणैव विकसत्यसत्यता ।। १५.१६ ।।

तव धर्मराज इति नाम कथमिदमपष्ठु पठ्यते ।
भ्ॐअदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलं जनाः ।। १५.१७ ।।

यदि वार्चनीयतम एष किमपि भवतां पृथासुताः ।
शौरिरवनिपतिभिर्निखिलैरवमाननार्थमिह किं निमन्त्रितैः ।। १५.१८ ।।

अथवा न धर्ममसुबोधसमयमवयात बालिशाः ।
खाममयमिह वृथापालितो हतबुद्धिरप्रणिहितः सरित्सुतः ।। १५.१९ ।।

स्वयमेव शन्तनुतनूज यमपि गणमर्घ्यमभ्यधाः ।
तत्र मुररिपुरयं कतमो यमनिन्द्यबन्दिवदभिष्टुषे वृथा ।। १५.२० ।।

अवनीभृतां त्वमपहाय गणमतिजडः समुन्नतं ।
नीचि नियतमिह यच्चपलो निरतः स्फुटं भवसि निम्नगासुतः ।। १५.२१ ।।

प्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमर्हणं ।
कृष्ण कलय ननु कोऽहमिति स्फुटमापदां पदमनात्मवेदिता ।। १५.२२ ।।

असुरस्त्वया न्यवधि कोऽपि मधुरिति कथं प्रतीयते ।
दण्डदलितसरघः प्रथसे मधुसूदनस्त्वमिति सूदयन्मधु ।। १५.२३ ।।

मुचुकुन्दतल्पशरणस्य मगधपतिशातितौजसः ।
सिद्धमबल सबलत्वमहो तव रोहिणीततनयसाहचर्यतः ।। १५.२४ ।।

छलयन्प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिकः ।
प्रीतिमनुभवसि नग्नजितः सुतयेष्टसत्य इति सम्प्रतीयसे ।। १५.२५ ।।

धृतवान्न चक्रमरिचक्रभयचकितमाहवे निजं ।
चक्रधर इति रथाङ्गमदः सततं बिभर्षि भुवनेषु रूढये ।। १५.२६ ।।

जगति श्रिया विरहितोऽपि यदुदधिसुतामुपायथाः ।
ज्ञातिजनजनितनामपदां त्वमतः श्रियः पतिरिति प्रथामगाः ।। १५.२७ ।।

अभिशत्रु संयति कदाचिदविहितपराक्रमोऽपि यथ् ।
व्य्ॐनि कथमपि चकर्थ पदं व्यपदिश्यते जगति विक्रमीत्यतः ।। १५.२८ ।।

पृथिवीं बिभर्थ यदि पूर्वमिदमपि गुणाय वर्तते ।
भूमिभृदिति परहारितभूस्त्वमुदाह्रियस्व कथमन्यथा जनैः ।। १५.२९ ।।

तव धन्यतेयमपि सर्वनृपतितुलितोऽपि यत्क्षणं ।
क्लान्तकरतलधृताचलकः पृथिवीतले तुलितभूभृदुच्यसे ।। १५.३० ।।

त्वमशक्नुवन्न शुभकर्मनिरत! परिपाकदारुणं ।
जेतुमकुशलमतिर्नरकं यशसेऽधिलोकमजयः सुतं भुवः ।। १५.३१ ।।

सकलैर्वपुः सकलदोषसमुदितमिदं गुणैस्तव ।
त्यक्तमपगुण गुणस्त्रितयत्यजनप्रयासमुपयासि किं मुधा ।। १५.३२ ।।

त्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः ।
हासकरमघटते नितरां शिरसीव कङ्कतमपेतमूर्धजे ।। १५.३३ ।।

मृगविद्विषामिव यदित्थमजनि मिषतां पृथासुतैः ।
अस्य वनशुन इवापचितिः परिभाव एव भवतां भुवोऽधिपाः ।। १५.३४ ।।

अवधीज्जनङ्गम इवैष यदि हतवृषो वृषं ननु ।
स्पर्शमशुचिवपुरर्हति न प्रतिमाननां तु नितरां नृपोचितां ।। १५.३५ ।।

यदि नाङ्गनेति मतिरस्य मृदुरजनि पूतनां प्रति ।
स्तन्यमघृणमनसः पिबतः किल धर्मतो भवति सा जनन्यपि ।। १५.३६ ।।

शकटव्युदासतरुभङ्गधरणिधरधारणादिकं ।
कर्म यदयमकरोत्तरलः स्थिरचेतसां क इव तेन विस्मयः ।। १५.३७ ।।

अयमुग्रसेनतनयस्य नृपशुरपरः पशूनवन् ।
स्वमिवधमसुकरं पुरुषैः कुरुते स्म यत्परममेतदद्भुतं ।। १५.३८ ।।

इतिवाचमुद्धतमुदीर्य सपदि सह वेणुदारिणा ।
सोढरिपुबलभरोऽसहनः स जहास दत्तकरतालमुच्चकैः ।। १५.३९ ।।

कटुनापि चैद्यवचनेन विकृतिमगमन्न माधवः ।
सत्यनियतवचसं वचसा सुजनं जनाश्चलयितुं क ईशते ।। १५.४० ।।

न चतं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः ।
शौरिसमयनिगृहीतधियः प्रभुचित्तमेव हि जनोऽनुवर्तते ।। १५.४१ ।।

विहितागसो मुहुरसङ्घ्यनिजवचनदामसंयतः ।
तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः ।। १५.४२ ।।

स्मृतिवर्त्म तस्य न समस्तमपकृतमियाय विद्विषः ।
स्मर्तुमधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमाः ।। १५.४३ ।।

नृपतावधिक्षिपति शौरिमथ सुरसरित्सुतो वचः ।
स्माह चलयति भुवं मरुति क्षुभितस्य नादमनुकुर्वदम्बुधेः ।। १५.४४ ।।

अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः ।
प्राह मुररिपुतिरस्करणक्षुभितः स्म वाचमिति जाह्नवीसुतः ।। १५.४५ ।।

विहितं मयाद्य सदसीदमपमृषितमच्युतार्चनं ।
यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृतां ।। १५.४६ ।।

इतिभीष्मभाषितवचोर्ऽथमधिगतवतामिव क्षणाथ् ।
क्षोभमगमदतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः ।। १५.४७ ।।

शितितारकानुमितताम्रनयनमरुणीकृतं क्रुधा ।
बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलं ।। १५.४८ ।।

प्रविदारितारुणतरोग्रनयनकुसुमोज्ज्वलः स्फुरन् ।
प्रातरहिमकरताम्रतनुर्विषजद्रुमोऽपर इवाभवद्द्रुमः ।। १५.४९ ।।

अनिशान्तवैरदहनेन विरहितवतान्तरार्द्रतां ।
कोपमरुदभिहितेन भृशं नरकात्मजेन तरुणेव जज्वले ।। १५.५० ।।

अभिधित्सतः किमपि राहुवदनविकृतं व्यभाव्यत ।
ग्रस्तशशधरमिवोपलसत्सितदन्तपङ्क्ति मुखमुत्तमौजसः ।। १५.५१ ।।

कुपिताकृतिं प्रथममेव हसितमशनैरसूचयथ् ।
क्रुद्धमशनिदलिताद्रितटध्वनि दन्तवक्रमरिचक्रभीषणं ।। १५.५२ ।।

प्रतिघः कुतोऽपि समुपेत्य नरपतिगणं समाश्रयथ् ।
जामिहरणजनितानुशयः समुदाचचार निज एव रुक्मिणः ।। १५.५३ ।।

चरणेन हन्ति सुबलः स्म शिथिलितमहीध्रबन्धनां ।
तीरतरलजलराशिजलामवभुग्नभोगिफणमण्डलां भुवं ।। १५.५४ ।।

कुपितेषु राजषु तथापि रथचरणपाणिपूजया ।
चित्तकलितकलहागमनो मुदमाहुकिः सुहृदिवाधिकां दधौ ।। १५.५५ ।।

गुरुकोपरुद्धपदमापदसितयवनस्य रोद्रतां ।
व्यात्तमशितुमिव सर्वजगद्विकरालमास्यकुहरं विवक्षतः ।। १५.५६ ।।

विवृतोरुबाहुपरिघेण सरभसपदं निधित्सता ।
हन्तुमखिलनृपतीन्वसुना वसने विलम्बिनि निजे विचस्खले ।। १५.५७ ।।

इति तत्तदा विकृतरूपमभजत्तदविभिन्नचेतसं ।
मारबलमिव भयङ्करतां हरिबोधिसत्वमभि राजमण्डलं ।। १५.५८ ।।

रमसादुदस्थुरथ युद्धमनुचितभियोऽभिलाषुकाः ।
सान्द्रमुकुटकिरणोच्छलितस्फटिकांशवः सदसि मेदिनीभृतः ।। १५.५९ ।।

स्फुरमाणनेत्रकुसुमोष्ठदलमभृतभूभृदङ्घ्रिपैः ।
धूतपृथुभुजलतं चलितैर्द्रुतवातपातवनविभ्रमं सदः ।। १५.६० ।।

हरिमप्यमंसत तृणाय कुरुपतिमजीगणन्न वा ।
मानतुलितभुवनत्रितयाः सरितः सुतादबिभयुर्नभूभृतः ।। १५.६१ ।।

गुरुनिःश्वसन्नथ विलोलसदवथुवपुर्वचोविषं ।
कीर्णदशनकिरणाग्निकणः फणवानिवैष विससर्ज चेदिपः ।। १५.६२ ।।

किमहो नृपाः समममीभिरुपपतिसुतैर्न पञ्चभिः ।
वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया ।। १५.६३ ।।

अथवाध्वमेव खलु यूयमगणितमरुद्गणौजसः ।
वस्तु कियदिदमयं न मृधे मम केवलमस्य मुखमीक्षितुं क्षमः ।। १५.६४ ।।

विदतुर्यमुत्तमशेषपरिषदि नदीजधर्मजौ ।
यातु निकषमधियुद्धमसौ वचनेन किं भवतु साध्वसाधु वा ।। १५.६५ ।।

अचिरान्मया सह गतस्य समरमुरगारिलक्ष्मणः ।
तीक्ष्णविशिखमुखपीतमसृक्पततां गणैः पिबतु सार्धमुर्वरा ।। १५.६६ ।।

अभिधाय रूक्षमिति मा स्म गम इति पृथासुतेरितां ।
वाचमनुनयपरां स ततः सहसावकर्ण्य निरियाय संसदः ।। १५.६७ ।।

गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः ।
क्षान्तिमहितमनसो जननीस्वसुरात्मजाय चुकुपुर्न पाण्डवाः ।। १५.६८ ।।

चलितं ततोऽनभिहतेच्छमवनिपतियज्ञभूमितः ।
तूर्णमथ ययुमिवानुययुर्दमघोषसूनुमवनीशसूनवः ।। १५.६९ ।।

विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः ।
द्रष्टुमलघुरभसापातिता वनिताश्चकार न सकामचेतसः ।। १५.७० ।।

क्षणमीक्षतः पथि जनेन किमिदमिति जल्पता मिथः ।
प्राप्य शिबिरमविशङ्किमनाः समनीनहद्द्रुतमनीकिनीमसौ ।। १५.७१ ।।

त्वरमाणशाङ्खिकसवेगवदनपवनाभिपूरितः ।
शैलकटकतटभिन्नरवः प्रणनाद सांनहनिकोऽस्य वारिजः ।। १५.७२ ।।

जगदन्तकालसमवेतविषदविषमेरितारवं ।
धीरनिजरवविलीनगुरुप्रतिशब्दमस्य रणतूर्यमावधि ।। १५.७३ ।।

सहसा ससभ्रमविलोलसकलजनतासमाकुलं ।
स्थानमगमदथ तत्परितश्चलितोडुमण्डलनभःस्थलोपमां ।। १५.७४ ।।

दधतो भयानकतरत्वमुपगतवतः समानतां ।
धूमपटलपिहितस्य गिरेः समवर्मयन्सपदि मेदिनीभृतः ।। १५.७५ ।।

परिमोहिणा परिजनेन कथमपि चिरादुपाहृतं ।
वर्म करतलयुगेन महत्तनुचूर्णपेषमपिषद्रुषा परः ।। १५.७६ ।।

रणसंमदोदयविकासिबलकलकलाकुलीकृते ।
शारिमशकधिरोपयितुं द्विरदे मदच्युति जनः कथञ्चन ।। १५.७७ ।।

परितश्च धौतमुखरुक्मविलसदहिमांशुमण्डलाः ।
तेनुरतनुवपुषः पृथिवीं स्फुटलक्ष्यतेजस इवात्मजाः श्रियः ।। १५.७८ ।।

प्रधिमण्डलोद्धतपरागघनवलयमध्यवर्तिनः ।
पेतुरशनाय इवाशनकैर्गुरुनिःस्वनव्यथितजन्तवो रथाः ।। १५.७९ ।।

दधतः शशाङ्कितशशाङ्करुचि लसदुरश्छदं वपुः ।
चक्रुरथ सह पुरन्धिजनैरयथार्थसिद्धिं सरकं महीभृतः ।। १५.८० ।।

दयिताय सासवमुदस्तमपतदवसादिनः कराथ् ।
कांस्यमुपहितसरोजपतद्भ्रमरौघभारगुरु राजयोषितः ।। १५.८१ ।।

भृशमङ्गसादकरुणत्वमविशददृशः कपोलयोः ।
वाक्यमसकलमपास्य मदं विदधुस्तदीयगुणमात्मना शुचः ।। १५.८२ ।।

सुदृशः समीकगमनाय युवभिरथ संबभाषिरे ।
शोकपिहितगलरुद्धगिरस्तरसागताश्रुजलकेवलोत्तराः ।। १५.८३ ।।

विपुलाचलस्थलघनेन जिगमिषुभिरङ्गनाः प्रियैः ।
पीनकुचतटनिपीडदलद्वरवारबाणमुरसालिलिङ्गिरे ।। १५.८४ ।।

न मुमोच लोचनजलानि दयितजयमङ्गलैषिणि ।
यातमवनिभवसन्नभुजान्न गलद्विवेद वलयं विलासिनी ।। १५.८५ ।।

प्रविवत्सतः प्रियतमस्य निगडमिव चक्षुरक्षिपथ् ।
नीलनलिनदलदामरुचि प्रतिपादयुग्ममचिरोढसुन्दरी ।। १५.८६ ।।

व्रजतः क्व तात वजसीति परिचयगतार्थमस्फुटं ।
धैर्यमभिनदुदितं शिशुना जननीनिर्भत्सनविवृद्धमन्युना ।। १५.८७ ।।

शठ नाकलोकललनाभिरविरतरतं रिरंससे ।
तेन वहसि मुदमित्यवदद्रणरागिणं रमणमीर्ष्ययापरा ।। १५.८८ ।।

ध्रियमाणमप्यगलदश्रु चलति दयिते नतभ्रुवः ।
स्नेहमकृतकरसं दधतामिदमेव युक्तमतिमुग्धचेतसां ।। १५.८९ ।।

सह कज्जलेन विरराज नयनकमलाम्बुसन्ततिः ।
गण्डफलकमभितः सुतनोः पदवीव शोकमयकृष्णवर्त्मनः ।। १५.९० ।।

क्षणमात्ररोधि चलितेन कतिपयपदं नतभ्रुवः ।
स्रस्तभुजयुगगलद्वलयस्वनितं प्रतिक्षुतमिवोपशुश्रुवे ।। १५.९१ ।।

अभिवर्त्म वल्लभतमस्य विगलदमलायतांशुका ।
भूमिनभसि रभसेन यती विरराज काचन समं महोल्कया ।। १५.९२ ।।

समरोन्मुखे नृपगणेऽपि तदनुमरणोद्यतैकधीः ।
दीनपरिजनकृताश्रुजलो न भटीजनः स्थिरमनाः विचक्लमे ।। १५.९३ ।।

विदुषीव दर्शनममुष्य युवतिरतिदुर्लभं पुनः ।
यान्तमनिमिषमतृप्तमनाः पतिमीक्षते स्म भृशया दृशः पथः ।। १५.९४ ।।

सम्प्रत्युपेयाः कुशली पुनर्युधः सस्नेहमाशीरिति भर्तुरीरिता ।
सद्यः प्रसह्य द्वितयेन नेत्रयोः प्रत्याचचक्षे गलता भटस्त्रियाः ।। १५.९५ ।।

काचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्त्रेन्दुलक्ष्मी-
रश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्वाः ।
भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमापुः
प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः ।। १५.९६ ।।