शिशुपालवधम्/षोडशः सर्गः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← पञ्चदशः सर्गः शिशुपालवधम्
षोडशः सर्गः
माघः
सप्तदशः सर्गः →

दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ ।
उपगम्यहरिं सदस्यदः स्फुटभिन्नार्थमुदाहरद्वचः ।। १६.१ ।।

अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः ।
भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननां ।। १६.२ ।।

विपुलेन निपीड्य निर्दयं मुदमायातु नितान्तमुन्मनाः ।
प्रचुराधिगताङ्गनिर्वृतिं परितस्त्वां खलु विग्रहेण सः ।। १६.३ ।।

प्रणतः शिरसा करिष्यते सकलैरेत्य समं धराधिपैः ।
तव शासनमाशु भूपतिः परवानद्य यतस्त्वयैव सः ।। १६.४ ।।

अधिवह्निपतङ्गतेजसो नियतस्वान्तसमर्थकर्मणः ।
तव सर्वविधेयवर्तिनः प्रणतिं बिभ्रति केन भूभृतः ।। १६.५ ।।

जनतां भयशून्यधीः परैरभिभूतामवलम्बसे यतः ।
तव कृष्ण गुणास्ततो नरैरसमानस्य दधत्यगण्यतां ।। १६.६ ।।

अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः ।
विनयोपहितस्त्वया कुतः सदृशोन्यो गुणवानविस्मयः ।। १६.७ ।।

कृतगोपवधूरतेर्घ्नतो वृषमुग्रे नरकेऽपि संप्रति ।
प्रतिपत्तिरधःकृतैनसो जनताभिस्तव साधु वर्ण्यते ।। १६.८ ।।

विहितापचितिर्महीभृतां द्विषतामाहितसाध्वसो बलैः ।
भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृतां ।। १६.९ ।।

घनजालनिभैर्दुरासदाः परितो नागकदम्बकैस्तव ।
नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मृगादिभिः ।। १६.१० ।।

सकलापिहितस्वपौरुषो नियतव्यापदवर्धितोदयः ।
रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिरस्तु ते ।। १६.११ ।।

विकचोत्पलचारुलोचनस्तव चैद्येन घटामुपेयुषः ।
यदुपुङ्गव बन्धुसौहृदात्त्वयि पाता ससुरो नवासवः ।। १६.१२ ।।

चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तं ।
समितौ रभसादुपागतः सगदः संप्रतिपत्तुमर्हसि ।। १६.१३ ।।

समरेषु रिपून्विनिघ्नता शिशुपालेन समेत्य संप्रति ।
सुचिरं सह सर्वसात्वतैर्भव विश्वस्तविलासिनीजनः ।। १६.१४ ।।

विजितक्रुधमीक्षतामसौ महतां त्वामहितं महीभृतां ।
असकृज्जितसंयतं पुरो मुदितः सप्रमदं महीपतिः ।। १६.१५ ।।

इति जोषमवस्थितं द्विषः प्रणिधिं गामभिधाय सात्यकिः ।
वदति स्म वचोऽथ चोदितश्चलितैकभ्रू रथाङ्गपाणिना ।। १६.१६ ।।

मधुरं बहिरन्तरप्रियं कृतिनावाचि वचस्तथा त्वया ।
सकलार्थतया विभाव्यते प्रियमन्तर्बहिरप्रियं यथा ।। १६.१७ ।।

अतिक्ॐअलमेकतोन्यतः सरसाम्भोरुहवृन्तकर्कशं ।
वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यतां ।। १६.१८ ।।

प्रकटं मृदु नाम जल्पतः परुषं सूचयतोर्थमन्तरा ।
शकुनादिव मार्गवर्तिभिः परुषादुद्विजितव्यमीदृशाथ् ।। १६.१९ ।।

हरिमर्चितवान्महीपतिर्यदि राज्ञस्तव कोऽत्र मत्सरः ।
न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति ।। १६.२० ।।

सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः ।
सहसैव समुद्गिरन्त्यमी जरयन्त्येव हि तन्मनीषिणः ।। १६.२१ ।।

उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः ।
असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ।। १६.२२ ।।

परितप्यत एव नोत्तमः परितप्तोऽप्यपरः सुसंवृतिः ।
परवृद्धिभिराहितव्यथः स्फुटनिर्भिन्नदुराशयोऽधमः ।। १६.२३ ।।

अनिराकृततापसंपदं फलहीनां सुमनोभिरुज्झितां ।
खलतां खलतामिवासतीं प्रतिपद्येत कथं बुधो जनः ।। १६.२४ ।।

प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे ।
अनुहुङ्कुरुते घनध्वनिं न हि ग्ॐआयुरुतानि केसरी ।। १६.२५ ।।

जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः ।
विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ।। १६.२६ ।।

वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः ।
किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता ।। १६.२७ ।।

परितोषयिता न कश्चन स्वगतो यस्य गुणोऽस्ति देहिनः ।
परदोषकथाभिरल्पकः स्वजनं तोषयितुं किलेच्छति ।। १६.२८ ।।

सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः ।
स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ।। १६.२९ ।।

प्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुं ।
विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसां ।। १६.३० ।।

किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः ।
वदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयं ।। १६.३१ ।।

विसृजन्त्यविकत्थिनः परे विषमाशीविषवन्नराः क्रुधं ।
दधतोऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे ।। १६.३२ ।।

नरकच्छिदमिच्छतीक्षितुं विधिना येन स चेदिभूपतिः ।
द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरं ।। १६.३३ ।।

समनद्ध किमङ्ग भूपतिर्यदि संधित्सुरसौ सहामुना ।
हरिराक्रमणेन संनति किल विभ्रति भियेत्यसंभवः ।। १६.३४ ।।

महतस्तरसा विलङ्घयन्निजदोषेण कुधीर्विनश्यति ।
कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः ।। १६.३५ ।।

यदपूरि पुरा महीपतिर्न मुखेन स्वयमगसा शतं ।
अथ संप्रति पर्यपूपुरत्तदसौ दूतमुखेन शार्ङ्गिणः ।। १६.३६ ।।

यदनर्गलगोपुराननस्त्वमितो वक्ष्यसि किञ्चिदप्रियं ।
विवरिष्यति तच्चिरस्य नः समयोद्वीक्षणरक्षितां क्रुधं ।। १६.३७ ।।

निशम्य तदूर्जितं शिनेर्वचनं नप्तुरनाप्तुरेनसां ।
पुनरुज्झितसाध्वसो द्विषामभिधत्ते स्म वचो वचोहरः ।। १६.३८ ।।

विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः ।
यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महथ् ।। १६.३९ ।।

विदुरेष्यदपायमात्मना परतः श्रद्दधतेऽथवा बुधाः ।
न परोपहितं न च स्वतः प्रमिमीतेऽनुभवादृतेऽल्पधीः ।। १६.४० ।।

कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहं ।
उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः ।। १६.४१ ।।

उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते ।
प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि ।। १६.४२ ।।

अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितं ।
रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव ।। १६.४३ ।।

अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोनुधावति ।
अपहाय महीशमर्चिचत्सदति त्वां ननु भीमपूर्वजः ।। १६.४४ ।।

त्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव चेदिपः ।
प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः ।। १६.४५ ।।

क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः ।
शिरसौधमधत्त श्ङ्करः सुरसिन्धोर्मधुजित्तमङ्घ्रिणा ।। १६.४६ ।।

अबुधैः कृतमानसम्विदस्तव पार्थैः कुत एव योग्यता ।
सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मतां ।। १६.४७ ।।

अपराधशतक्षमं नृपः क्षमयात्येति भवन्तमेकया ।
हृतवत्यपि भीष्मकात्मजां त्वयि चक्षाम समर्थ एव यथ् ।। १६.४८ ।।

गुरुभिः प्रतिपादितां वधूमपहृत्य स्वजनस्य भूपतेः ।
जनकोऽसि जनार्दन स्फुटं हतधर्मार्थतया मनोभुवः ।। १६.४९ ।।

अनिरूपिरूपसंपदस्तमसो वान्यभृतच्छदच्छवेः ।
तव सर्वगतस्य संप्रति क्षितिपः क्षिप्नुरभीशुमानिव ।। १६.५० ।।

क्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम ।
प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किं ।। १६.५१ ।।

प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता ।
न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ।। १६.५२ ।।

तदयं समुपैति भूपतिः पयसां पूर इवानिवारितः ।
अविलम्बितमेधि वेतसस्तरुवन्माधव मा स्म भज्यथाः ।। १६.५३ ।।

परिपाति स केवलं शिशूनिति तन्नामनि मा स्म विश्वसीः ।
तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान्द्विषः ।। १६.५४ ।।

न विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथं ।
भजते कुपितोऽप्युदारधीरनुनीतिं नतिमात्रकेण सः ।। १६.५५ ।।

हितमप्रियमिच्छसि श्रुतं यदि संधत्स्व पुरा न नश्यसि ।
अनृतैरथ तुष्यसि प्रियैर्जयताज्जीव भवावनीश्वरः ।। १६.५६ ।।

प्रतिपक्षजिदप्यसंशयं युधि चैद्येन विजेष्यते भवान् ।
ग्रसते हि तमोपहं मुहुर्ननु राह्वाह्वमहर्पतिं तमः ।। १६.५७ ।।

अचिराज्जितमीनकेतनो विलसन्वृष्णिगणैर्नमस्कृतः ।
क्षितिपः क्षयितोद्धतान्तको हरलीलां स विडम्बयिष्यति ।। १६.५८ ।।

निहतोन्मददुष्टकुञ्जराद्दधतो भूरि यशः क्रमार्जितं ।
न बिभेति रणे हरेरपि क्षितिपः का गणनास्य वृष्णिषु ।। १६.५९ ।।

न तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः ।
द्रवतां ननु पृष्ठमीक्षते वदनं सोऽपि न जातु विद्विषां ।। १६.६० ।।

प्रतनूल्लसिताचिरद्युतः शरदं प्राप्य विखण्डितायुधाः ।
दधतेऽरिभिरस्य तुल्यतां यदि नासारभृतः पयोभृतः ।। १६.६१ ।।

मलिनं रणरेणुभिर्मुहुर्द्विषतां क्षालितमङ्गनाश्रुभिः ।
नृपमौलिमरीचिवर्णकैरथ यस्याङ्घियुगं विलिप्यते ।। १६.६२ ।।

समराय निकामकर्कशं क्षणमाकृष्टमुपैति यस्य च ।
धनुषा सममाशु विद्विषां कुलमाशङ्कितभङ्गमानतिं ।। १६.६३ ।।

तुहिनांशुममुं सुहृज्जनाः कलयन्त्युष्णकरं विरोधिनः ।
कृतिभिः कृतदृष्टिविभ्रमाः स्रजमेके भुजगं यथापरे ।। १६.६४ ।।

दधतोऽसुलभक्षयागमास्तनुमेकान्तरताममानुषीं ।
भुवि सम्प्रति न प्रतिष्ठिताः सदृशा यस्य सुरैररातयः ।। १६.६५ ।।

अतिविस्मयनीयकर्मणो नृपतेर्यस्य विरोधि किञ्चन ।
यदुमुक्तनयो नयत्यसावहितानां कुलमक्षयं क्षयं ।। १६.६६ ।।

चलितोर्ध्वकबन्धसम्पदो मकरव्यूहनिरूद्धवर्त्मनः.
अतरत्स्वभुजौजसा मुहुर्महतः सङ्गरसागरानसौ ।। १६.६७ ।।

न चिकीर्षति यः स्मयोद्धतो नृपतित्तच्चरणोपपगं शिरः ।
चरणं कुरुते गतस्मयः स्मसावेव तदीयमूर्धनि ।। १६.६८ ।।

स्वभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीं ।
बहुशः सह शक्रदन्तिना स चतुर्दन्तमगच्छदाहवं ।। १६.६९ ।।

अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया ।
युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः ।। १६.७० ।।

भूतभूतिरहीनभोगभाग्विजितानेकपुरोऽपि विद्विषां ।
रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः ।। १६.७१ ।।

नयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गुरोदयः ।
गमयत्यवनीतलस्फुरद्भुजशाखं भृशमन्यमुन्नतिं ।। १६.७२ ।।

अधिगम्य च रन्ध्रमन्तरा जनयन्मण्डलभेदमन्यतः ।
खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचिथ् ।। १६.७३ ।।

घनपत्रभृतोऽनुगामिनस्तरसाकृष्य करोति कांश्चन ।
दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति ।। १६.७४ ।।

इति पूर इवोदकस्य यः सरितां प्रवृषिजस्तटद्रुमैः ।
क्वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः ।। १६.७५ ।।

अलघूपलपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः ।
अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः ।। १६.७६ ।।

कटकानि भजन्ति चारुभिर्नवमुक्ताफलभूषणैर्भुजैः ।
नियतं दधते च चित्रकैरवियोगं पृथुगण्डशैलतः ।। १६.७७ ।।

इतियस्य ससंपदः पुरा यदवापुर्भवनेष्वरिस्त्रियः ।
स्फुटमेव समस्तमापदा तदिदानीमवनीध्रमूर्धसु ।। १६.७८ ।।

महतः कुकुरान्धकद्रुमानतिमात्रं दववद्दहन्नपि ।
अतिचित्रमिदं महीपतिर्यदकृष्णामवनीं करिष्यति ।। १६.७९ ।।

परितः प्रमिताक्षरापि सर्वं विषयं व्याप्तवती गता प्रतिष्ठां ।
न खलु प्रतिहन्यते कुतश्चित्परिभाषेव गरीयसी यदाज्ञा ।। १६.८० ।।

यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः ।
तेनोह्यते सांप्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः ।। १६.८१ ।।

भूयांस क्वचिदपि काममस्खलन्तस्तुङ्गत्वं दधति च यद्यपि द्वयेऽपि ।
कल्लोलाः सलिलनिधेरवाप्य पारं शीर्यन्ते न गुणमहोर्मयस्तदीयाः ।। १६.८२ ।।

लोकालोकव्याहतं घर्मरश्मेः शालीनं वा धाम नालं प्रसर्तुं ।
लोकस्याग्रे पश्यतो धृष्टमाशु क्रामत्युच्चैर्भूभृतो यस्य तेजः ।। १६.८३ ।।

विच्छित्तिर्नवचन्दनेन वपुषो भिन्नोऽधरोऽलक्तकै-
रच्छाच्छे पतिताञ्जने च नयने श्रोण्योऽलसन्मेखलाः ।
प्राप्तो मौक्तिकहारमुन्नतकुचाभोगस्तदीयद्विषा-
मित्थं नित्यविभूषणा युवतयः संपत्सु चापत्स्वपि ।। १६.८४ ।।

विनिहत्य भवन्तमूर्जितश्रीयुधि सद्यः शिशुपालतां यथार्थां ।
रुदतां भवदङ्गनागणानाङ्करुणान्तःकरणः करिष्यतेऽसौ ।। १६.८५ ।।