शिशुपालवधम्/चतुर्दशः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← त्रयोदशः सर्गः शिशुपालवधम्
चतुर्दशः सर्गः
माघः
पञ्चदशः सर्गः →

तं जगाद गिरमुद्गिरन्निव स्नेहमाहितविकासया दृशा ।
यज्ञकर्मणि मनः समादधद्वाग्विदां वरमकमद्वदो नृपः ।। १४.१ ।।

लज्जते न गदितः प्रियं परो वक्तुरेव भवति त्रपाधिका ।
व्रीडमेतिन तव प्रियं वदन्ह्रीमतात्रभवतैव भूयते ।। १४.२ ।।

तोषमेति वितथैः स्तवैः परस्ते च तस्य सुलभाः शरीरिभिः ।
अस्ति न स्तुतिवचोऽनृतं तव स्तोत्रयोग्यन च तेन तुष्यसि ।। १४.३ ।।

बह्वपि प्रियमयं तव ब्रुवन्न व्रजत्यनृतवादितां जनः ।
सम्भवन्ति यददोषदूषिते सार्व सर्वगुणसम्पदस्त्वयि ।। १४.४ ।।

सा विभूतिरनुभाव सम्पदां भूयसी तव यदायतायति ।
एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे ।। १४.५ ।।

सप्ततन्तुमधिगन्तुमिच्छतः कुर्वनुग्रहमनुज्ञया मम ।
मूलतामुपगते प्रभो त्वयि प्रापि धर्ममयवृक्षता मया ।। १४.६ ।।

सम्भृतोपकरणेन निर्मलां कर्तुमिष्टिमभिवाञ्छता मया ।
त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान्पुपूषता ।। १४.७ ।।

वीतविघ्नमनघेन भाविता सन्निधेस्तव मखेन मेऽधुना ।
को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ ।। १४.८ ।।

स्वापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यथ् ।
तीर्थगामी करवै विधानतस्तज्जुषस्व जुहवानि चानले ।। १४.९ ।।

पूर्वमङ्ग जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि ।
स्ॐअपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ।। १४.१० ।।

किं विधेयमनया विधीयतां त्वत्प्रसादजितयार्थसम्पदा ।
शाधि शासक जगत्त्रयस्य मामाश्रवोऽस्मि भवतः सहानुजः ।। १४.११ ।।

तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः ।
व्याजहार दशनांशुमण्डलव्याजहार शबलं दधद्वपुः ।। १४.१२ ।।

सादिताखिलनृपं महन्महः सम्प्रति स्वनयसंपदैव ते ।
किं परस्य स गुणः समश्नुते पथ्यवृत्तिरपि यद्यरोगितां ।। १४.१३ ।।

तत्सुराज्ञि भवति स्थिते पुनः कः क्रतुं यजतु राजलक्षणं ।
उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता ।। १४.१४ ।।

शासनेऽपि गुरुणि व्यवस्थितं कृत्यवस्तुषु नियुङ्क्ष्व कामतः ।
त्वत्प्रयोजनघनं धनञ्जयादन्य एव इति मां च मावगाः ।। १४.१५ ।।

यस्तवेह सवने न भूपतिः कर्म कर्मकरवत्करिष्यति ।
तस्य नेष्यति वपुः कबन्धतां बन्धुरेव जगतां सुदर्शनः ।। १४.१६ ।।

इत्युदीरितगिरं नृपस्त्वयि श्रेयसि स्थितवति स्थिरा मम ।
सर्वसम्पदिति शौरिमुक्तवानुद्वहन्मुदमुदस्थित क्रतौ ।। १४.१७ ।।

आननेन शशिनः कलां दधद्दर्शनक्षयितकामविग्रहः ।
आप्लुतः स विमलैर्जलैरभूदष्टमूर्तिधरमूर्तिरष्टमी ।। १४.१८ ।।

तस्य सांख्यपुरुषेण तुल्यतां बिभ्रतः स्वयमकुर्वतः क्रियाः ।
कर्तृता तदुपलम्भतोऽभवद्वृत्तिभाजि करणे यथर्त्विजि ।। १४.१९ ।।

शब्दितामनपशब्दमुच्चकैर्वाक्यलक्षणविदोऽनुवाक्यया ।
याज्यया यजनकर्मिणोऽत्यजन्द्रव्यजातमपदिश्य देवतां ।। १४.२० ।।

सप्तमभेदकरकल्पितस्वरं साम सामविदसङ्गमुज्जगौ ।
तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ।। १४.२१ ।।

बद्धदर्भमयकाञ्चिदामया वीक्षितानि यजमानजायया ।
शुष्मणि प्रणयनादिसंस्कृते तैर्हवींषि जुहवांबभूविरे ।। १४.२२ ।।

नाञ्ञ्जसा निगदितुं विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे ।
तत्र कर्मणि विपर्यणीनमन्मन्त्रमूहकुशलः प्रयोगिणः ।। १४.२३ ।।

संशयाय दधतोः सरूपता दूरभिन्नफलयोः क्रियां प्रति ।
शब्दशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते ।। १४.२४ ।।

लोलहेतिरसनाशतप्रभामण्डलेन लसता हसन्निव ।
प्राज्यमाज्यमसकृद्वषट्कृतं निर्मलीमसमलीढ पावकः ।। १४.२५ ।।

तत्र मन्त्रपवितं हविः क्रतावश्नतो न वपुरेव केवलं ।
वर्णसम्पदमतिस्फुटां दधन्नाम चोज्ज्वलमभूद्धविर्भुजः ।। १४.२६ ।।

स्पर्शमुष्णमुचितं दधच्छिखी यद्ददाह हविरद्भुतं न तथ् ।
गन्धतोऽपि हुतहव्यसम्भवाद्देहिनामदहदोघमंहसां ।। १४.२७ ।।

उन्नमन्सपदि धूम्रयन्दिशः सान्द्रतां दधदधःकृताम्बुदः ।
द्यामियाय दहनस्य केतनः कीर्तयन्निव दिवौकसां प्रियं ।। १४.२८ ।।

निर्जिताखिलमहार्णवौषधिस्यन्दसारममृतं ववल्गिरे ।
नाकिनः कथमपि प्रतीक्षितुं हूयमानमनले विषेहिरे ।। १४.२९ ।।

तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु द्युयोषितां ।
गुम्फिताः शिरसि वेणयोऽभवन्न प्रफुल्लसुरपादपस्रजः ।। १४.३० ।।

प्राशुराशु हवनीयमत्र यत्तेन दीर्घममरत्वमध्यगुः ।
उद्धतानधिक मेधितौजसो दानवांश्च विबुधाः विजिग्यिरे ।। १४.३१ ।।

नापचारमगमन्क्कच्चित्क्रियाः सर्वमत्र समपादि साधनं ।
अत्यशेरत परस्परं धियः सत्त्रिणां नरपतेश्चसंपदः ।। १४.३२ ।।

दक्षिणीयमवगम्य पङ्क्तिशः पङ्क्तिपावनमथ द्विजव्रजं ।
दक्षिणः क्षितिपतिर्व्यशिश्रणद्दक्षिणाः सदसि राजसूयकीः ।। १४.३३ ।।

वारिपूर्वमखिलासु सत्क्रियालब्धशुद्धिषु धनानि बीजवथ् ।
भावि बिभ्रति फलं महद्द्विजक्षेत्रभूमिषु नराधिपोऽवपथ् ।। १४.३४ ।।

किं नु चित्रमधिवेदि भूपतिर्दक्षयन्द्विजगणानपूयत ।
राजतः पुपुविरे निरेनसः प्राप्य तेऽपि विमलं प्रतिग्रहं ।। १४.३५ ।।

स स्वहस्तकृतचिह्नशासनः पाकशासनसमानशासनः ।
आशशाङ्कतपनार्णवस्थितोर्विप्रसादकृत भूयसीर्भुवः ।। १४.३६ ।।

शुद्धमश्रुतिविरोधि बिभ्रतं शास्त्रमुज्ज्वलवर्णसङ्करैः ।
पुस्तकैः सममसौ गणं मुहुर्वाच्यमानमशृणोद्द्विजन्मनां ।। १४.३७ ।।

तत्प्रणीतमनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनां ।
आतिथेयमनिवारितातिथिः कर्तुमाश्रमगुरुः स नाश्रमथ् ।। १४.३८ ।।

मृग्यमाणमपि यद्दुरासदं भूरिसारमुपनीय तत्स्वयं ।
आसतावसरकाङ्क्षिणो बहिस्तस्य रत्नमुपदीकृतं नृपाः ।। १४.३९ ।।

एक एव वसु यद्ददौ नृपस्तत्समापकमतर्क्यत क्रतोः ।
त्यागशालिनि तपःसुते ययुः सर्वपार्थिवधनान्यपि क्षयं ।। १४.४० ।।

प्रीतिरस्य ददतोऽभवत्तथा येन तत्प्रियचिकीर्षवो नृपाः ।
स्पर्शितैरधिकमागमन्मुदं नाधिवेश्म निहितैरुपायनैः ।। १४.४१ ।।

यं लघुन्यपि लघूकृताहितः शिष्यभूतमशिषत्स कर्मणि ।
सस्पृहं नृपतिभिर्नृपोऽपरैर्गौरवेण ददृशेतरामसौ ।। १४.४२ ।।

आद्यकोलतुलितां प्रकम्पनैः कम्पितां मुहुरनीदृगात्मनि ।
वाचिरोपितवतामुना महीं राजकाय विषया विभेजिरे ।। १४.४३ ।।

आगताद्व्यवसितेन चेतसा सत्त्वसम्पदविकारिमानसः ।
तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः ।। १४.४४ ।।

नैक्षतार्थिनमवज्ञया मुहुर्याचितस्तु न च कालमाक्षिपथ् ।
नादिताल्पमथ न व्यकत्थयद्दत्तमिष्टमपि नान्वशेत सः ।। १४.४५ ।।

निर्गुणोऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरोऽभवथ् ।
वर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरं ।। १४.४६ ।।

प्रेम तस्य न गुणेषु नाधिकं न स्म वेद न गुणान्तरं च सः ।
दित्सया तदपि पार्थिवोऽर्थिनं गुण्यगुण्य इति न व्यजीगणथ् ।। १४.४७ ।।

दर्शनानुपदमेव कामतः स्वं वनीयकजनेऽधिगच्छति ।
प्रार्थनार्थरहितं तदाभवद्दीयतामिति वचोऽतिसर्जने ।। १४.४८ ।।

नानवाप्तवसुनार्ऽथकाम्यता नाचिकित्सितगदेन रोगिणा ।
इच्छताशितुमनाशुषा न च प्रत्यगामि तदुपेयुषा सदः ।। १४.४९ ।।

स्वादयन्रसमनेकसंस्कृतप्राकृतैरकृतपात्रसङ्करैः ।
भावशुद्धिसहितैर्मुदं जनो नाटकैरिव बभार भोजनैः ।। १४.५० ।।

रक्षितारमिति तत्र कर्मणि न्यस्य दुष्टदमनक्षमं हरिं ।
अक्षतानि निरवर्तयत्तदा दानह्ॐअयजनानि भूपतिः ।। १४.५१ ।।

एक एव सुसखैष सुन्वतां शौरिरित्यभिनयादिवोच्चकैः ।
यूपरूपकमनीनमद्भुजं भूश्चषालतुलिताङ्गुलीयकं ।। १४.५२ ।।

इत्थमत्र विततक्रमे क्रतौ वीक्ष्य धर्ममथ घर्मजन्मना ।
अर्घदानमनुचोदितो वचः सभ्यमभ्यधित शन्तनोः सुतः ।। १४.५३ ।।

आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु ।
यत्तथापि न गुरून्नपृच्छसि त्वं क्रमोऽयमिति तत्र कारणं ।। १४.५४ ।।

स्नातकं गुरुमभीष्टमृत्विजं संयुजा च सह मेदिनीपतिं ।
अर्घभाज इति कीर्तयन्ति षट्ते च ते युगपदागताः सदः ।। १४.५५ ।।

शोभयन्ति परितः प्रतापिनो मन्त्रशक्तिविनिवारितापदः ।
त्वन्मखमुखभुवः स्वयम्भुवो भूभुजश्च परलोकजिष्णवः ।। १४.५६ ।।

आभजन्ति गुणिनः पृथक्पृथक्पार्थ सत्कृतिमकृत्रिमाममी ।
एक एव गुणवत्तमोऽथवापूज्य इत्ययमपीष्यते विधिः ।। १४.५७ ।।

अत्र चैष सकलेऽपिभाति मां प्रत्यशेषगुणबन्धुरर्हति ।
भूमिदेवनरदेवसङ्गमे पूर्वदेवरिपुरर्हणां हरिः ।। १४.५८ ।।

मर्त्यमात्रमवदीधरद्भवान्मैनमानमितदैत्यदानवं ।
अंश एष जनतातिवर्तिनो वेधसः प्रतिजनं कृतस्थितेः ।। १४.५९ ।।

ध्येयमेकमपथे स्थितं धियः स्तुत्यमुत्तममतीतवाक्पथं ।
आमनन्ति यमुपास्यमादराद्दूरवर्तिनमतीव योगिनः ।। १४.६० ।।

पद्मभूरिति सृजञ्जगद्रजः सत्वमच्युत इति स्थितिं नयन् ।
संहरन्हर इति श्रितस्तमस्रैधमेष भजति त्रिभिर्गुणैः ।। १४.६१ ।।

सर्ववेदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः ।
क्लेशकर्मफलभोगवर्जितं पुंविशेषममुमीश्वरंविदुः ।। १४.६२ ।।

भक्तिमन्त इह भक्तवत्सले सन्ततस्मरणरीणकल्मषाः ।
यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः ।। १४.६३ ।।

ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसा ।
दुर्गमेकमपुनर्निवृत्तये यं विशन्ति वशिनं मुमुक्षवः ।। १४.६४ ।।

आदितामजननाय देहिनामन्ततां च दधतेऽनपायिने ।
बिभ्रते भुवमधः सदाथ च ब्रह्मणोऽप्युपरि तिष्ठते नमः ।। १४.६५ ।।

केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि ।
धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः ।। १४.६६ ।।

पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यमादधौ ।
तच्च कारणमभूद्धिरण्मयं ब्रह्मणोऽसृजदसाविदं जगथ् ।। १४.६७ ।।

मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः
गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणं ।। १४.६८ ।।

श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भमुज्ज्वलं ।
श्रीमुखेन्दुसविधेऽपि शोभते यस्य नाभिसरसीसरोरुहं ।। १४.६९ ।।

सत्यवृत्तमपि मायिनं जगद्वृद्धमप्युचितनिद्रमर्भकं ।
जन्म बिभ्रतमजं नवं बुधा यं पुराणपुरुषं प्रचक्षते ।। १४.७० ।।

स्कन्धधूननविसारिकेसरक्षिप्तसागरमहाप्लवामयं ।
उद्धृतामिव मुहूर्तमैक्षत स्थूलनासिकवपुर्वसुन्धरां ।। १४.७१ ।।

दिव्यकेसरिवपुः सुरद्विषो नैव लब्धशममायुधैरपि ।
दुर्निवाररणकण्डु क्ॐअलैर्वक्ष एष निरदारयन्नखैः ।। १४.७२ ।।

वारिधेरिव कराग्रवीचिभिर्दिङ्मतङ्गजमुखान्यभिघ्नतः ।
यस्य चारुनखशुक्तयः स्फुरन्मौक्तिकप्रकरगर्भतां दधुः ।। १४.७३ ।।

दीप्तिनिर्जितविरोचनादयं गां विरोचनसुतादभीप्सतः ।
आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वमाययौ ।। १४.७४ ।।

किं क्रमिष्यति किलैष वामनो यावदित्थमहसन्न दानवाः ।
तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः ।। १४.७५ ।।

गच्छतापि गगनाग्रमुच्चकैर्यस्य भूधरगरीयसाङ्घ्रिणा ।
क्रान्तकन्धर इवाबलो बलिः स्वर्गभर्तुरगमत्सुबन्धतां ।। १४.७६ ।।

कामतोऽस्य ददृशुर्दिवौकसो दूरमूरुमलिनीलमायतं ।
व्य्ॐनि दिव्यसरिदम्बुपद्धतिस्पर्धयेव यमुनौघमुत्थितं ।। १४.७७ ।।

यस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः ।
कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ।। १४.७८ ।।

सम्प्रदायविगमादुपेयुषीरेव नाशमविनाशिविग्रहः ।
स्मर्तुमप्रतिहतस्मृतिः श्रुतीर्दत्त इत्यभवदत्रिगोत्रजः ।। १४.७९ ।।

रेणुकातनयतामुपागतः शातितप्रचुरपत्रसंहति ।
लूनभूरिभुजशाखमुज्झितच्छायमर्जुनवनं व्यधादयं ।। १४.८० ।।

एष दाशरथिभूयमेत्य च ध्वंसितोद्धतदशाननामपि ।
राक्षसीमकृत रक्षितप्रजस्तेजसाधिकविभीषणां पुरीं ।। १४.८१ ।।

निष्प्रहन्तुममरेशविद्विषामर्थितः स्वयमथ स्वयंभुवा ।
सम्प्रति श्रयति सूनुतामयं कश्यपस्य वसुदेवरूपिणः ।। १४.८२ ।।

तात नोदधिविलोडनं प्रति त्वद्विनाथ वयमुत्सहामहे ।
यः सुरैरिति सुरौघवल्लभो बल्लवैश्च जगदे जगत्पतिः ।। १४.८३ ।।

नात्तगन्धमवधूय शत्रुभिश्छायया च शमितामरश्रमं ।
योऽभिमानमिव वृत्रविद्विषः पारिजातमुदमूलयद्दिवः ।। १४.८४ ।।

यं समेत्य च ललाटलेखया बिभ्रतः सपदि शंभुविभ्रमं ।
चण्डमारुतमिव प्रदीपवच्चेदिपस्य निरवाद्विलोचनं ।। १४.८५ ।।

यः कोलतां बल्लवतां च बिभ्रद्दंष्ट्रामुदस्याशु भुजां च गुर्वीं ।
मग्नस्य तोयापदि दुस्तरायां ग्ॐअण्डलस्योद्धरणं चकार ।। १४.८६ ।।

धन्योऽसि यस्य हरिरेष समक्ष एव दूरादपि क्रतुषु यज्वभिरिज्यते यः ।
दत्वार्घमत्रभवते भुवनेषु यावत्संसारमण्डलमवाप्नुहि साधुवादं ।। १४.८७ ।।

भीष्मोक्तं तदिति वचो निशम्य सम्यक्साम्राज्यश्रियमधिगच्छता नृपेण ।
दत्तेर्ऽधे महति महीभृतां पुरोऽपि त्रैलोक्ये मधुभिदभूदनर्घ एव ।। १४.८८ ।।