शिशुपालवधम्/त्रयोदशः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← द्वादशः सर्गः शिशुपालवधम्
त्रयोदशः सर्गः
माघः
चतुर्दशः सर्गः →

यमुनामतीतमथ शुश्रुवानमुमुं तपसस्तनूज इति नाधुनोच्यते ।
स यदाचलन्निजपुरादहर्निशं नृपतेस्तदादि समचारि वार्तया ।। १३.१ ।।

यदुभर्तुरागमनलब्धजन्मनः प्रमदादमानिव पुरे महीयसि ।
सहसा ततः स सहितोऽनुजन्मभिर्वसुधाधिपोऽभिमुखमस्यनिर्ययौ ।। १३.२ ।।

रभसप्रवृत्तकुरुचक्रदुन्दुभिध्वनिभिर्जनस्य बधिरीकृतश्रुतेः ।
समवादि वक्तृभिरभीष्टसङ्कथाप्रकृतार्थशेषमथ हस्तसंज्ञया ।। १३.३ ।।

अपदान्तरं च परितः क्षितिक्षितामपतन्द्रुतभ्रमितहेमनेमयः ।
जविमारुताञ्चितपरस्परोपमक्षितिरेणुकेतुवसनाः पताकिनः ।। १३.४ ।।

द्रुतमध्वनन्नुपरि पाणिवृत्तयः पणवा इवाश्वचरणक्षता भुवः ।
ननृतुश्च वारिधरधीरवारणध्वनिहृष्टकूजितकलाः कलापिनः ।। १३.५ ।।

व्रजतोरपि प्रणयपूर्वमेकतामसुरारिपाण्डुसुतसैन्ययोस्तदा ।
ररुषे विषाणिभिरनुक्षणंमिथो मदमूढबुद्धिषु विवेकिता कुतः? ।। १३.६ ।।

अवलोक एव नृपतेः स्म दूरतो रभसाद्रथादवतरीतुमिच्छतः ।
अवतीर्णवान्प्रथममात्मना हरिर्विनयं विशेषयति सम्भ्रमेण सः ।। १३.७ ।।

वपुषा पुराणपुरुषः पुरः क्षितौ परिपुञ्ज्यमानपृथुहारयष्टिना ।
भुवनैर्नतोऽपि विहितात्त्मगौरवः प्रणनाम नाम तनयं पितृष्वसुः ।। १३.८ ।।

मुकुटांशुरञ्जितपरागमग्रतः स न यावदाप शिरसा महीतलं ।
क्षितिपेन तावदनपेक्षितक्रमं भुजपञ्जरेण रभसादगृह्यत ।। १३.९ ।।

न ममौ कपाटतटविस्तृतं तनौ मुरवैरिमवक्ष उरसि क्षमाभुजः ।
भुजयोस्तथापि युगलेन दीर्घयोर्विकटीकृतेन परितोऽभिषस्वजे ।। १३.१० ।।

गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजं ।
कुरराजनिर्दय निपीडनाभयान्मुखमध्यरोहि मुरविद्विषः श्रिया ।। १३.११ ।।

शिरसि स्म जिघ्रति सुरारिबन्धने छलवामनं विनयवामनं तदा ।
यशसेव वीर्यविजितामरद्रुमप्रसवेन वासितशिरोरुहे नृपः ।। १३.१२ ।।

सुखवेदनाहृषितर्ॐअकूपया शिथिलीकृतेऽपि वसुदेवजन्मनि ।
कुरुभर्तुरङ्गलतया न तत्यजे विकसत्कदम्बनिकुरम्बचारुता ।। १३.१३ ।।

इतरानपि क्षितिभुजोऽनुजन्मनः प्रमनाः प्रमोदपरिफुल्लचक्षुषः ।
स यथोचितं जनसभाजनोचितः प्रसभोद्धृतासुरसभोऽसभाजयथ् ।। १३.१४ ।।

समपेत्य तुल्यमहसः शिलाघनान्घनपक्षदीर्घतरबाहुशालिनः ।
परिशिश्लिषुः क्षितिपतीन्क्षितीश्वराः कुलिशात्परेण गिरयो गिरीनिव ।। १३.१५ ।।

इभकुम्भतुंङ्गकठिनेतरेतरस्तनभारदूरविनिवारितोदराः ।
परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः ।। १३.१६ ।।

रथवाजिपत्तिकरिणीसमाकुलं तदनीकयोः समगत द्वयं मिथः ।
दधिरे पृथक्करिण एव दूरतो महतां हि सर्वमथवा जनातिगं ।। १३.१७ ।।

अधिरुह्यतामिति महीभृतोदितः कपिकेतुनार्पितकरो रथं हरिः ।
अवलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः ।। १३.१८ ।।

रथमास्थितस्य च पुराभिवर्तिनस्तिसृणां पुरामिव रिपोर्मुरद्विषः ।
अथ धर्ममूर्तिरनुरागभावितः स्वयमादित प्रवयणं प्रजापतिः ।। १३.१९ ।।

शनकैरथास्य तनुजालकान्तरस्फुरितक्षपाकरकरोत्कराकृति ।
पृथुफेनकूटमिव निम्नगापतेर्मरुतश्च सूनुरघुवत्प्रकीर्णकं ।। १३.२० ।।

विकसत्कलायकुसुमासितद्युतेरलघूडुपाण्डु जगतामधीशितुः ।
यमुनाह्रदोपरिगहंसमण्डलद्युतिजिष्णु जिष्णुरभृतोष्णवारणं ।। १३.२१ ।।

पवनात्मजेन्द्रसुतमध्यवर्तिना नितरामरोचि रुचिरेण चक्रिणा ।
दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुधराख्यमिन्दुना ।। १३.२२ ।।

वशिनं क्षितेरयनयाविवेश्वरं नियमो यमश्च नियतं यतिं यथा ।
विजयश्रिया वृतमिवार्कमारुतावनुसस्रतुस्तमथ दस्रयोः सुतौ ।। १३.२३ ।।

मुदितैस्तदेति दितिजन्मनांरिपावविनीयसम्भ्रमविकासिभक्तिभिः ।
उपसेदिवद्भिरुपदेष्टरीव तैर्ववृते विनीतमविनीतशासिभिः ।। १३.२४ ।।

गतयोरभेदमिति सैन्ययोस्तयोरथ भानुतजह्नुतनयाम्भसोरिव ।
प्रतिनादितामरविमानमानकैर्नितरां मुदा परमयेव दध्वने ।। १३.२५ ।।

मखमाक्षितुं क्षितिपतेरुपेयुषां परितः प्रकल्पितनिकेतनं बहिः ।
उपरुध्यमानमिव भूभृतां बलैः पुटभेदनं दनुसुतारिरैक्षत ।। १३.२६ ।।

प्रतिनादपूरितदिगन्तरः पतन्पुरगोपुरं प्रति स सैन्यसागरः ।
रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसैन्धवः ।। १३.२७ ।।

असकृद्गृहीतबहुदेहसम्भवस्तदसौ विभक्तनवगोपुरान्तरं ।
पुरुषः पुरं प्रविशति स्म पञ्चभिः सममिन्द्रियैरिव नरेन्द्रसूनुभिः ।। १३.२८ ।।

तनुभिस्त्रिनेत्रनयनानवेक्षितस्मरविग्रहद्युतिभिरद्युतन्नराः ।
प्रमदाश्च यत्र खलु राजयक्ष्मणः परतो निशाकरमनोरमैर्मुखैः ।। १३.२९ ।।

अवलोकनाय सुरविद्विषां द्विषः पटहप्रणादविहितोपहूतयः ।
अवधीरितान्यकरणीयसत्वराः प्रतिरथ्यमीयुरथ पौरयोषितः ।। १३.३० ।।

अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः ।
दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्त्यः ।। १३.३१ ।।

रभसेन हारपददन्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः ।
परिवर्तिताम्बरयुगाः समापतन्वलयीकृतश्रवणपूरकाः स्त्रियः ।। १३.३२ ।।

व्यतनोदपास्य चरणं प्रसाधिकाकरपल्लवाद्रसवशेन काचन ।
द्रुतयावकैकपदचित्रितावनिं पदवीं गतेव गिरिजा हरार्धतां ।। १३.३३ ।।

व्यचलन्विशङ्कटकटीरकस्थलीशिखरस्खलन्मुखरमेखलाकुलाः ।
भवनानि तुङ्गतपनीयसंक्रमक्रमणक्वणत्कनकनूपुराः स्त्रियः ।। १३.३४ ।।

अधिरुक्ममन्दिरगवाक्षमुल्लसत्सदृशो रराज मुरजिद्दिदृक्षया ।
वदनारविन्दमुदयाद्रिकन्दराविवरोदरस्थतमिवेन्दुमण्डलं ।। १३.३५ ।।

अधिरूढया निजनिकेतमुच्चकैः पवनावधूतवसनान्तयैकया ।
विहितोपशोभमुपयाति माधवे नगरं व्यरोचत पताकयेव तथ् ।। १३.३६ ।।

करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्म लाजकुसमैरवाकिरन् ।
अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियरथाङ्गमङ्गनाः ।। १३.३७ ।।

हिममुक्तचन्द्ररुचिरः सपद्मको मदयन्द्विजाञ्जनितमीनकेतनः ।
अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः ।। १३.३८ ।।

धरणीधरेन्द्रहितुर्भयादसौविषमेक्षणः स्फुटममूर्न पश्यति ।
मदनेनवीतभयमित्यधिष्ठिताः क्षणमीक्षते स्म स पुरोविलासिनीः ।। १३.३९ ।।

विपुलेन सागरशयस्यकुक्षिणा भुवनानि यस्य पपिरे युगक्षये ।
मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ।। १३.४० ।।

अधिकोन्नमद्घनपयोधरं मुहुः प्रचलत्कलापिकलशङ्खकस्वना ।
अभिकृष्णमङ्गुलिमुखेन काचन द्रुतमेककर्णविवरं व्यघट्टयथ् ।। १३.४१ ।।

परिपाटलाब्जदलचारुणासकृच्चलिताङ्गुलीकिसलयेन पाणिना ।
सशिरःप्रकम्पमपरा रिपुं मधोरनुदीर्णवर्णनिभृतार्थमाह्वयथ् ।। १३.४२ ।।

नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना ।
स्फुरिताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्गुरमजृम्भतापरा ।। १३.४३ ।।

वलयार्पितासितमहोपलप्रभाबहुलीकृतप्रतनुर्ॐअराजिना ।
हरिवीक्षणाक्षणिकचक्षुषान्यया करपल्लवेन गलदम्बरं दधे ।। १३.४४ ।।

निजसौरभभ्रमितभृङ्गपक्षतिव्यजनानिलक्षयितघर्मवारिणः ।
अभिशौरि काचिदनिमेषदृष्टिना पुरदेवतेव वपुषा व्यभाव्यत ।। १३.४५ ।।

अभियाति नः सतृष एव चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः ।
न विवेद यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि ।। १३.४६ ।।

अकृतस्वसद्मगमनादरः क्षणं लिपिकर्मनिर्मित इव व्यतिष्ठत ।
गतमच्युतेन सह शून्यतां गतः प्रतिपालयन्मन इवाङ्गनाजनः ।। १३.४७ ।।

अलसैर्मदेन सुदृशः शरीरकैः स्वगृहान्प्रति प्रतिययुः शनैः शनैः ।
अलघुप्रसारित विलोचनाञ्जलिद्रुतपीतमाधवरसौघनिर्भरैः ।। १३.४८ ।।

नवगन्धवारिविरजीकृताः पुरो घनधूपधूम कृतरेणुविभ्रमाः ।
प्रचुरोद्धतध्वजविलम्बिवाससः पुरवीथयोऽथ हरिणातिपेतिरे ।। १३.४९ ।।

उपनीय बिन्दुसरसो मयेन या मणिदारु चारु किल वार्षपर्वणं ।
विदधेऽवधूतसुरसद्मसम्पदं समुपासदत्सपदि संसदं स तां ।। १३.५० ।।

अधिरात्रि यत्र निपतन्नभोलिहां कलधौतधौतशिलावेश्मनां रुचौ ।
पुनरप्यवापदिव दुग्धवारिधिक्षणगर्भवासमनिदाघदीधितिः ।। १३.५१ ।।

लयनेषु लोहितकनिर्मिता भुवः शितिरत्नरश्मिहरितीकृतान्तराः ।
जमदग्निसूनुपितृतर्पणीरपोवहति स्म या विरलशैवला इव ।। १३.५२ ।।

विशदाश्मकूटघटिताः क्षपाकृतः क्षणदासु यत्र च रुचेकतां गताः ।
गृहपङ्क्तयश्चिरमतीयिरे जनैस्तमसीव हस्तपरिमर्शसूचिताः ।। १३.५३ ।।

निलयेषुनक्तमसिताश्मनां चयैर्बिसिनीवधूपरिभवस्पुटागसः ।
मुहरत्रसद्भिरपि यत्र गौरवाच्छशलाञ्छनांशव उपांशु जध्निरे ।। १३.५४ ।।

सुखिनः पुरोऽभिमुखतामुपागतैः प्रतिमासु यत्र गृहरत्नभित्तिषु ।
नवसङ्गमैरबिभरुः प्रियाजनैः प्रमदं त्रपाभरपराङ्मुखैरपि ।। १३.५५ ।।

तृणवाञ्छया मुहुरवाञ्चिताननान्निचयेषु यत्र हरिताश्मवेश्मनां ।
रसनाग्रलग्नकिरणाङ्कुराञ्जनो हरिणान्गृहीतकवलानिवैक्षत ।। १३.५६ ।।

विपुलालवालभृतवारिदर्पणप्रतिमागतैरभिविरेजुरात्मभिः ।
यदुपान्तिकेषु दधतो महीरुहः सपलाशराशिमिव मूलसंहतिं ।। १३.५७ ।।

उरगेन्द्रमूर्धरुहरत्नसन्निधेर्मुहुरुन्नतस्य रसितैः पय्ॐउचः ।
अभवन्यदङ्गणभुवः समुच्छ्वसन्नववालवायजमणिस्थलाङ्कुराः ।। १३.५८ ।।

नलिनी निगूढसलिला च यत्र सा स्थलमित्यधः पतति या सुयोधने ।
अनिलात्मजप्रहसनाकुलाखिलक्षितिपक्षयागमनिमित्ततां ययौ ।। १३.५९ ।।

हसितुं परेण परितः परिस्फुरत्करवालक्ॐअलरुचावुपेक्षितैः ।
उदकर्षि यत्र जलशङ्कया जनैर्मुहुरिन्द्रनीलभुवि दूरमम्बरं ।। १३.६० ।।

अभितः सदोऽथ हरिपाण्डवौ रथादमलांशुमण्डलसमुल्लसत्तनू ।
अवतेरतुर्नयननन्दनौ नभः शशिभार्गवावुदयपर्वतादिव ।। १३.६१ ।।

तदलक्ष्यरत्नमयकुड्यमादरादभिधातरीत इत इत्यथो नृपे ।
धवलाश्मरश्मिपटलाविभावितप्रतिहारमाविशदसौ सदः शनैः ।। १३.६२ ।।

नवहाटकेष्टकचितं ददर्श स क्षितिपस्य पस्त्यमथ तत्र संसदि ।
गगनस्पृशां मणिरुचां चयेन यत्सदनान्युदयस्मयत नाकिनामपि ।। १३.६३ ।।

उदयाद्रिमूर्ध्नि युगपच्चकासतोर्दिननाथपूर्णशशिनोरसम्भवां ।
रुचिमासने रुचिरधाम्नि बिभ्रतावलघुन्यथ न्यषदतां नृपाच्युतौ ।। १३.६४ ।।

सुतरां सुखेन सकलक्लमच्छिदा सनिदाधमङ्गमिव मातरिश्वना ।
यदुनन्दनेन तदुदन्वतः पयः शसिनेव राजकुलमाप नन्दथुं ।। १३.६५ ।।

अनवद्यवाद्यलयगामि क्ॐअलं नवगीतमप्यनवगीततां दधथ् ।
स्फुटसात्विकाङ्गिकमनृत्यदुज्ज्वलं सविलासलासिकविलासनीजनः ।। १३.६६ ।।

सकले च तत्र गृहमागते हरौ नगरेऽप्यकालमहमादिदेश सः ।
सततोत्सवं तदिति नूनन्मुन्मुदो रभसेन विस्मृतमभून्महीभृतः ।। १३.६७ ।।

हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमयमन्वयुङ्क्त च ।
महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किञ्चन ।। १३.६८ ।।

मर्त्यलोकदुरवापमवाप्तरसोदयं नूतनत्वमतिरिक्ततयानुपदं दधथ् ।
श्रीपतिः पतिरसाववनेश्च परस्परं सङ्कथामृतमनेकमसिस्वदताममुभौ ।। १३.६९ ।।