शिशुपालवधम्/द्वादशः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← एकादशः सर्गः शिशुपालवधम्
द्वादशः सर्गः
माघः
त्रयोदशः सर्गः →

इत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद्बहिः ।
प्रस्थानकालक्षमवेषकल्पनाकृतक्षणक्षेपमुदैक्षताच्युतं ।। १२.१ ।।

स्वक्षं सुपत्रं कनकोज्वलद्युतिं जवेन नागाञ्जितवन्तमुच्चकैः ।
आरुह्य तार्क्ष्य नभसीव भूतले ययावनुद्घातमुखेन सोऽध्वना ।। १२.२ ।।

हस्तस्थिताखण्डितचक्रशालिनं द्वजेन्द्रकान्तं श्रितवक्षसं श्रिया ।
सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शाङ्गिणमन्ययासिषुः ।। १२.३ ।।

शुक्लैः सतारैर्मुकुलीकृतैः स्थूलैः कुमुद्वतीनां कुमुदाकरैरिव ।
व्युष्टं प्रयाणं च वियोगवेदनाविदूननारीकमभूत्समं तदा ।। १२.४ ।।

उत्क्षिप्तगात्रः स्म विडम्बयन्नभः समुत्पतिष्यन्तमगेन्द्रमुच्चकैः ।
आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनं ।। १२.५ ।।

स्वैरं कृतास्फालनललितान्पुरः स्फुरत्नून्दर्शितलाघवक्रियाः ।
वङ्गावलग्नैकसवल्गपाणयस्तुरङ्गमानारुरुहुस्तुरङ्गिणः ।। १२.६ ।।

अह्नाय यावन्न चकार भूयसे निषेदिवानासनबन्धमध्वने ।
तीव्रोत्थितास्तावदसह्यरंहसो विशृङ्खलं शृङ्खलकाः प्रतस्थिरे ।। १२.७ ।।

गण्डोज्वलामुज्ज्वनाभिचक्रया विराजमानां नवयोदरश्रिया ।
कश्चित्सुखं प्राप्तुमनाः सुसारथी रथीं युयोजाधिधुरां वधूमिव ।। १२.८ ।।

उत्थातुमिच्छन्विधृतः पुरो बलान्निधीयमाने भरभाजि यन्त्रके ।
अर्धोज्झितोद्गारविझर्झरस्वरः स्वनाम निन्ये रवणः स्फुटार्थतां ।। १२.९ ।।

नस्यागृहीतोऽपि धुवन्विषाणयोर्युगं ससूत्कारविवर्तितत्रिकः ।
गोणीं जनन स्म निधातुमुद्धृतामनुक्षणं नोक्षतरः प्रतीच्छति ।। १२.१० ।।

नानाविधाविष्कृसामजस्वरः सहस्रवर्त्मा चपलैर्दुरध्ययः ।
गान्धर्वभूय्ष्ठतया समानतां स सामवेदस्य दधौ बलोदधिः ।। १२.११ ।।

प्रत्यन्यनागं चल्तस्तरावता निरस्य कुण्ठं दधतान्यमङ्कुशं ।
मूर्धानमूर्ध्वायतदन्तमण्डलं धुवन्नरोधि द्विरदां निषादिना ।। १२.१२ ।।

समूर्च्छदुच्छृङ्खलशङ्खनिस्वनः स्वनः प्रयाते पटहस्य शार्ङ्गिणि ।
स्वानिनिन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीघृतां ।। १२.१३ ।।

कालीयकक्षोदविलेपनश्रियं दिशद्दिशमुल्लसदंशुमद्द्युति ।
खातं खुरैमुद्गभुजां विपप्रते गिरेरधः काञ्चनभूमिजं रजः ।। १२.१४ ।।

मन्द्रैगजानां रथमण्डलस्वनैर्निजुह्नुवे तादृशमेव बृंहितं ।
तारैर्बभूवे परभागलाभतः परिश्फुटैस्तेषु तुरङ्गहेषितैः ।। १२.१५ ।।

अन्वेतुकामोऽवमताङ्गुशग्रहस्तिरोगतं साङ्गुशमुद्वहञ्शिरः ।
स्थूलोच्चयेनागमदन्तिकगतां गजोऽग्रयाताग्रकरः करेणुकां ।। १२.१६ ।।

यन्तोऽस्पृशन्तश्चरणैरिवावनिं जवात्प्रकीर्णैरभितः प्रकीर्णकैः ।
अद्यापि सेनातुरगाः सविस्मयैरलूनपक्षा इव मेनिरे जनैः ।। १२.१७ ।।

ऋज्वीर्दधानैरवतत्य कन्धराश्चलावचूडाः कलाघर्घररारवैः ।
भूमिर्महत्यप्यविलम्बितक्रमं क्रमेलकैस्तक्षणमेव चिच्छिदे ।। १२.१८ ।।

तूर्ण प्रणेत्रा कृतनादमुच्चकैः प्रणोदितं वेसरयुग्मध्वनि ।
आत्मीयनेमिक्षतसान्द्रमेदिनीरजश्चयाक्रान्तभयादिवाद्रवथ् ।। १२.१९ ।।

व्यावृत्तवक्त्रैरखिलैश्चमूचरैर्व्रजिद्भिरेव क्षणमीक्षिताननाः ।
वल्गद्गरीयःस्तनकम्प्रकञ्चुकं ययुस्तुरङ्गाधिरुहोऽवरोधिकाः ।। १२.२० ।।

पादैः पुरः कूबरिणां विदारिताः प्रकाममाक्रान्ततलास्ततो गजैः ।
भग्नोन्नतानन्तरपूरितान्तरा बभुर्भुवः कृष्टसमीकृता इव ।। १२.२१ ।।

दुर्दुन्तमुपकृत्य निरस्तसादिनं सहासहाकारमलोकयज्जनः ।
पर्याणतः स्रस्तमुरोविलम्बिनस्तुरङ्गमं प्रद्रुतमेकया दिशा ।। १२.२२ ।।

भूभृद्भिरप्यस्खलिताः खलून्नतैरप्यपह्नवाना सरितः पृथूरपि ।
अन्वर्थसंज्ञयैव परं त्रिमार्गगा ययावसंख्यैः पथिभिश्चमूरसौ ।। १२.२३ ।।

त्रस्तौ समासन्नकरेणुसूत्कृतान्नियन्तरि व्याकुलमुक्तरज्जुके ।
क्षिप्तावरोधाङ्गनमुत्पथेन गां विलङ्घ्य लघ्वीं करभौ बभञ्जतुः ।। १२.२४ ।।

स्रस्ताङ्गसन्धौ विगताशापाटवे रुजा निकामं विकलीकृते रथे ।
आप्तेन तत्क्षणा भिषजेव तत्क्षणं प्रचक्रमे लङ्घनपूर्वकः क्रमः ।। १२.२५ ।।

धूर्भङ्गसंक्षोभविदारितोष्ट्रिका गलन्मधुप्लावितदूरवर्त्मनि ।
स्थाणौ निषङ्गिण्यनसि क्षणं पुरः शुशोच लाभाय कृतक्रयो वणिक् ।। १२.२६ ।।

भेरिभिराक्रुष्टमहागुहामुखो ध्वजांशुकैस्तर्जितकन्दलीवनः ।
उत्तङ्गमातङ्गजितालघूपलो बलैः स पश्चात्कियते स्म भूधरः ।। १२.२७ ।।

वन्येभदानानिलगन्धददुर्धुराः क्षणं तरुच्छेदविनोदितक्रुधः ।
व्यालद्विपा यन्तृभिरुन्मतिष्णवः कथंचिदीरादपनयेन निन्यिरे ।। १२.२८ ।।

तैर्वजयन्तीवनराजिराजिभिर्गिरिप्रतिच्छन्दमहामतङ्गजैः ।
बह्व्यः प्रसर्पज्जनतानानदीशतैर्भुवो बलैरन्तरायामबभूविरे ।। १२.२९ ।।

तस्थेमुहूर्त हरिणीविलोचनैः सदृशि दृष्ट्वा नयनानि योषितां ।
त्वाथ सत्रासमनेकविभ्रमक्रियाविकाराणि मृगैः पलाय्यत ।। १२.३० ।।

निम्नानि दुःखादवतार्य सादिभिः सयत्नमाकृष्टकशाः शनैः शनैः ।
उत्तेरुरुत्तालखुरारवं द्रुताः श्लथीकृतप्रग्रहमर्वतां व्रजाः ।। १२.३१ ।।

अध्यध्वमारूढवतैव केनचित्प्रतीक्षमाणेन जनं मुहुर्धृतः ।
दाक्ष्यं हि सद्यः फलदं यदग्रतश्चखाद दासेरयुवा वनावलीः ।। १२.३२ ।।

शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्तिभिः ।
एकातपत्रा पृथिवीभृतां गणैरभूदबहुच्छात्रतया पताकिनी ।। १२.३३ ।।

आगच्छतोऽनूचिगजस्य घण्डयोः स्वनं समापकर्ण्य समाकुलाङ्गनाः ।
दूरापवर्तितभारवाहणाः पथोऽपस्रुस्त्वरितं चमूचराः ।। १२.३४ ।।

ओजस्विवर्णोज्वलवृत्तशालिनः प्रसादिनोऽनुज्झित गोत्रसंविदः ।
श्लोकानुपेन्द्रस्य पुरः स्म भूयसो गुणान्समुद्दिश्य पठन्ति वन्दिनः ।। १२.३५ ।।

निःश्शेषमाक्रान्तमहीतलो जलैश्चलन्समुद्रोऽपि समुज्झति स्थितिं ।
ग्रामेषु सैन्यैरकरोदवारितैः किमव्यवस्थां चलितोऽपि केशवः ।। १२.३६ ।।

कोशातकीपुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्बणबाणचक्षुषः ।
ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं मृतानामुपरि व्यलोकयन् ।। १२.३७ ।।

गोष्ठेषु गोष्ठीकृतमण्डलासनान्सनादमुत्थाय मुहुः स वल्गतः ।
ग्राम्यानपश्यत्कपिशं पिपासतः स्वगोत्रसङ्कीर्तनभावितात्मनः ।। १२.३८ ।।

पश्यन्कृतार्थैरपि वल्लवीजनो जनाधिनाथं न ययौ वितृष्णतां ।
एकान्तमौग्ध्यानवबुद्धविभ्रमैः प्रसिद्धविस्तारगुणैर्विलोचनैः ।। १२.३९ ।।

प्रीत्या नियुक्तांल्लिहती स्तनन्धयान्निगृह्य पारीमुभयेन जानुनोः ।
वर्धिष्णुधाराध्वनि रोहिणीः पयश्चिरं निदधौ दुहतः स गोदुहः ।। १२.४० ।।

अभ्याजतोऽभ्यागततूर्णतर्णकान्निर्याणहस्तस्य पुरोदुधुक्षतः ।
वर्गाद्गवां हुंकृतिचारु निर्यतीमरिर्मधोरैक्षत ग्ॐअततल्लिकां ।। १२.४१ ।।

स व्रीहिणां यावदपासितुं गताः शुकान्मृगैस्तावदुपद्रुतश्रियां ।
कैदारिकाणामभितः समाकुलाः सहासमालोकयति स्म गोपिकाः ।। १२.४२ ।।

व्येद्धुमस्मानवधानतः पुरा चलत्यसवित्युपकर्णयन्नसौ ।
गीतानि गोप्याः कलमं मृगव्रजो न नूनमत्तीति हरिव्यलोकयथ् ।। १२.४३ ।।

लीलाचलत्स्त्रीचरणारुणोत्पलस्खलत्तुलाकोटिनिनादक्ॐअलः ।
शौरेरुपानूपमापाहरन्मनः स्वनान्तरादुन्मदसारसारवः ।। १२.४४ ।।

उच्चैर्गतामस्खलितां गरीयसीं तदातिदूरादपि तस्य गच्छतः ।
एके समूहुर्बलरेणुसंहतिं शिरोभिराज्ञामपरे महीभृतः ।। १२.४५ ।।

प्रायेण नीचानपि मेदिनीभृतो जनः समेनैव पथाधिरोहति ।
सेना मुरारेः पथ एव सा पुनर्महामहीध्रान्परितोऽध्यरोहयथ् ।। १२.४६ ।।

दन्ताग्रनिर्भिन्नपयोदमुन्मुखाः शिलोच्चयानारुरुहुर्महीयसः ।
तिर्यक्कटप्लाविमदाम्बुनिम्नगाविपूर्यमाणश्रवणोदरमं द्विपाः ।। १२.४७ ।।

श्च्योतमन्मदाम्भकणकेन केनचिज्जनस्य जीमूतकदम्बकद्युता ।
नगेन गरीयसोच्चकैररोधि पन्थाः पृथुदन्तशालिना ।। १२.४८ ।।

भग्नद्रुमाश्चक्रुरितस्ततो दिशः समुल्लसत्केतननाकुलाः ।
पिष्टाद्रिपृष्ठास्तरसा च दन्तिनश्चलन्निजाङ्गाचलदुर्गमा भुवः ।। १२.४९ ।।

आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परःशताः ।
उत्पातवातप्रतिकूलपातिनीरुपत्यकाभ्यो बृहतीः शिला इव ।। १२.५० ।।

शैलाधिरोहाब्यसनाधिकोद्धुरैः पयोधरैरामलकीवनाश्रिताः ।
तं पर्वतीयप्रमदाश्चचायिरे विकासविस्फारितविभ्रमेक्षणाः ।। १२.५१ ।।

सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृजेन्द्रेण सुषुप्सुना पुनः ।
सैन्यान्न यातः समयापि विव्यथे कथं सुराजंभवमन्मथाथवा ।। १२.५२ ।।

उत्सेधनिर्धूतमहीरुहां ध्वजैर्जनावरुद्धोद्धतसिन्धुरंहसां ।
नागैरधिक्षिप्तमहाशिलं मुहुर्बलं बभूवोपरि तन्महीभृतां ।। १२.५३ ।।

श्मश्रूयमाणे मघुजालके तरोर्गजेन गण्डं कषता विधूनिते ।
क्षुद्राभिरक्षुद्रतराभिराकुलं विदश्यमानेन जनेन दुद्रुवे ।। १२.५४ ।।

नीते पलाशिन्युचिते शरीरवत्गजान्तकेनान्तमदान्तकर्मणा ।
संचेरुरात्मान इवापरं क्षणात्क्षमारुहं देहमिव प्लवंगमाः ।। १२.५५ ।।

प्रह्वानतीव क्वचिदुद्धतिश्रितः क्वचित्प्रकाशानथ गह्वरनापि ।
साम्यादपेतानिति वाहिनी हरेस्तदातिचक्राम गिरीन्गुरूनपि ।। १२.५६ ।।

स व्याप्तवत्या परितोऽपथान्यपि स्वसेनया सर्वपथीनया तया ।
अम्भोभिरुल्लङ्घित तुङ्गरोधसः प्रतीपनाम्नीः कुरुते स्म निम्नगाः ।। १२.५७ ।।

यावद्व्यगाहन्त न दन्तिनां घटास्तुरङ्गमैस्तावदुदीरितं खुरैः ।
क्षिप्तं समीरैः सरितां पुरः पतज्जलान्यनैषीद्रज एव पङ्कतां ।। १२.५८ ।।

रन्तुं क्षतोत्तुङ्गनितम्बभूमयो मुहुर्व्रजन्तः प्रमदं मदोद्धताः ।
पङ्गं करापाकृतशैवलांशुकाः समुद्रगाणामुदपादयन्निभाः ।। १२.५९ ।।

रुग्णोरुरोधः परिपूरिताम्भसः समस्थलीकृत्य पुरातनीर्नदीः ।
कूलंकषौघाः सरितस्थापराः प्रवर्तयामासुरिभा मदाम्बुभिः ।। १२.६० ।।

पद्मैरनन्वीतवधूमुखद्युतो गताः न हंसैः श्रियमातपत्रजां ।
दूरेऽभवन्भोजवलयस्य गच्छतः शैलोपमातीतगजस्य निम्नगाः ।। १२.६१ ।।

स्नग्धाञ्जनश्यामतनूभिरुन्नतैर्निरन्तराला करिणां कदम्बकैः ।
सेना सुधाक्षालितसौधसंपदां पुरां बहूनां परभागमाप सा ।। १२.६२ ।।

प्रासदशोभातिशयालुभिः पथि प्रभोनिवासाः पटवेश्मभिर्बभुः ।
नूनं सहानेन वियोगविक्लवा पुरः पुरश्रीरपि निर्ययौ तदा ।। १२.६३ ।।

वर्ष्म द्विपानां विरुवन्त उच्चकैर्वनेचरेभ्यश्चिरमाचचक्षिरे ।
गण्डस्थलाघर्षगलन्मदोदकद्रवद्रमस्कन्धनिलायिनोऽलयः ।। १२.६४ ।।

आयामवद्भिः करिणां घटाशतैरधःकृताट्टालसपङ्क्तिरुच्चकैः ।
दूष्यैर्जितोदग्रगृहाणि सा चमूरतीत्य भूयांसि पुराण्यवर्तत ।। १२.६५ ।।

उद्धूतमुच्चैर्ध्वजिनाभिरंशुभिः प्रतप्तमभ्यर्णतयाविवस्वतः ।
आह्लादिकह्लारसमीरणाहते पुरः पपाताम्भसि यमुने रजः ।। १२.६६ ।।

या घर्मभानोस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः ।
कृष्णापि शुद्धेरधिकं विधातृभिर्विहन्तुमहांसि जलैः पटीयसी ।। १२.६७ ।।

यस्या महानीलतटीरिव द्रुताः प्रयान्ति पीत्वा हिमपिण्डपाण्डुराः ।
कालीरपास्ताभिरिवानुरञ्जिताः क्षणेन भिन्नाञ्जनवर्ता घनाः ।। १२.६८ ।।

व्यक्तं बलीयान्यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी ।
गङ्गौघनिर्भस्मितशम्भुकन्धरासवर्णमर्णः कथमन्यथास्य तथ् ।। १२.६९ ।।

अभ्युद्यतस्य क्रमितुं जवेन गां तमालनीला गिरां धृतायतिः ।
सीमेव सा तस्य पुरः क्षणं बभौ बलाम्बुराशेर्महतो महापगा ।। १२.७० ।।

लोलैररित्रैश्चरणैरिवाभितो जवात्व्रजन्तीभिरसौ सरिज्जनैः ।
नौभिः प्रतेरे परितः प्लवोदितभ्रमीनिमीलल्ललनावलम्बितैः ।। १२.७१ ।।

तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे ।
सद्यस्ततस्तेरुरनारतस्रुतस्वदानवारिप्रचुरीकृतं पयः ।। १२.७२ ।।

प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैस्तुरङ्गमैरायतकीर्णवालधि ।
उत्कर्णमुद्वाहितधीरकन्धरैरतीर्यताग्रे तटदत्तदृष्टिभिः ।। १२.७३ ।।

तीर्त्वा जनेनैव नितान्तदुस्तरां नदीं प्रतिज्ञामिव तां गरीयसीं ।
शृङ्गैरपस्कीर्णमहत्तटीभुवामशोभतोच्चैर्नदितं ककुद्मतां ।। १२.७४ ।।

सीमन्त्यमाना यदुभूभृतां बलैर्बभौ तरिद्भिर्गवलासितद्युतिः ।
सिन्दूरितानेकपकङ्गणाङ्किता तरङ्गिणी वेणिरिवायता भुवः ।। १२.७५ ।।

अव्याहतक्षिप्रगतैः समुच्छ्रिताननुज्झितद्रामबिर्गरीयसः ।
नाव्यं पयःकेचिदतारिषुर्भुजैः क्षिपद्भिरूर्मीनपरैरिवोर्मिभिः ।। १२.७६ ।।

विदलितमहाकूलामुक्ष्णां विषाणविघट्टनै-
रलघुचरणाकृष्टग्राहां विपणिभिरुन्मदैः ।
सपदि सरितं सा श्रीभर्तुर्बृहद्रथमण्डल-
स्खलिलमुल्लङ्घ्यैनां जगाम वरूथिनी ।। १२.७७ ।।