शिशुपालवधम्/द्वितीयः सर्गः
← प्रथमः सर्गः | शिशुपालवधम् द्वीतीयः सर्गः माघः |
तृतीयः सर्गः → |
यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् ।
वैद्यं प्रति प्रतिष्ठासुरासीत् कार्यद्वयाकुलः ॥ १ ॥
सार्धमुद्धवसीरिभ्यामथासावासदत्सदः ।
गुरूकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम् ॥ २ ॥
जाज्वल्यमाना जगतः शान्तये समुपेयुषी ।
व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी ॥ ३ ॥
रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे ।
एकाकिनो पि परितः पौरुषेयवृता इव ॥ ४ ॥
अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी ।
तैरुहे केसरिक्रान्तत्रिकूटशिखरोपमा ॥ ५ ॥
गुरूभयस्मै गुरुणोरुभयोरथ कार्ययोः ।
हरिर्विप्रतिषेधं तमाचचक्षे विचक्षणः ॥ ६ ॥
द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितः ।
स्नपितेवाभवत् तस्य शुद्धवर्णा सरस्वती ॥ ७ ॥
भवद्गिरामवसरप्रदानाय वचांसि नः ।
पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः ॥ ८ ॥
करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम् ।
विनाप्यस्मदलंभूष्णुरिज्यायै तपसः सुतः ॥ ९ ॥
उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता ।
समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥ १० ॥
न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति ।
यतु ददह्यते लोकमतो दुःखाकरोति माम् ॥ ११ ॥
मम तावन्मतमदः श्रूयतामङ्ग वामपि”
ज्ञातसारे पि खल्वेकः संदिग्धे कार्यवस्तुनि ॥ १२ ॥
यावदर्थपदां वाचमेवमादाय माधवः ।
विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ १३ ॥
ततः सपत्नापनयस्मरणानुशयस्फुरा ।
ओष्ठेन रामो रामौष्ठबिम्बचुम्बनचुञ्चुना ॥ १४ ॥
विवक्षितामर्थविदस्तत्क्षणं प्रतिसंहृताम् ।
प्रापयन् पवनव्याधेर्गिरमुत्तरपक्षतम् ॥ १५ ॥
घूर्णयन् मदिरास्वादमदपाटलितद्युती ।
रेवतीदशनोच्छिष्टपरिपूतपुटे दृशौ ॥ १६ ॥
आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिनीम् ।
म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः ॥ १७ ॥
दधत् संध्यारुणव्योमस्फुरत्तारानुकारिणीः ।
द्विषद्द्वेशोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः ॥ १८ ॥
प्रोल्लसत्कूण्डलप्रोतपद्मरागदलत्विषा ।
कृष्णोत्तरासङ्गरुचिं विदधच्चूतपल्लवीम् ॥ १९ ॥
ककुद्मिकन्यावक्तान्तर्वासलब्धाधिवासया ।
मुखामोदं मदिरया कृतानुव्याधमुद्वमन् ॥ २० ॥
जगादवदनच्छद्मपद्मपर्अन्तपातिनः ।
नयन् मधुलिहः श्वैत्यमुदंशुदशनांशुभिः ॥ २१ ॥
यद्वासुदेवेनादीनामनादीनवमीरितम् ।
वचस्तस्य सपदि क्रिया केवलमुत्तरम् ॥ २२ ॥
नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते ।
इन्धनौधधगप्यग्निस्त्विषा नात्येति पूषणम् ॥ २३ ॥
विरोधवचसो मूकान् वागीशानपि कुर्वते ।
जडानप्यनुलोमार्थप्रवाचः कृतिनां गिरः ॥ २४ ॥
संक्षिप्तस्याओयतो स्यैव वाक्यस्यार्थगरीयसः ।
सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे ॥ २५ ॥
सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम् ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ॥ २६ ॥
षड्गुणाः शक्तयस्तिस्रः सिद्धयश्चोदयास्त्रयः ।
ग्रन्थानधीत्य व्याकर्तुमिति दुर्मेधसो प्यलम् ॥ २७ ॥
अनिर्लोठितकार्य्यस्य वाग्जालं वाग्मिनो वृथा ।
निमित्तादपराद्धेषोर्धानुश्कस्येव वल्गितम् ॥ २८ ॥
मन्त्रो योध इवाधीरः सर्वाङ्गैः कल्पितैरपि ।
चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥ २९ ॥
आत्मोदयः अरज्यानिर्द्वयं नीतिरितीआटि ।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥ ३० ॥
तृप्तियोगः अरेणापिउ न महिम्ना महात्मनाम् ।
पूर्णचन्द्रोदयाकाङ्क्षी दृष्टान्तो त्र महार्णवः ॥ ३१ ॥
संपदा सुस्थितमन्यो भवति स्वल्पयापि यः ।
कृततुल्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ ३२ ॥
समूलघातमघ्नन्तः परान् नोद्यन्ति मानिनः ।
प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥ ३३ ॥
विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा ।
अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥ ३४ ॥
ध्रियते यावदेको पि रिपुस्तावत् कुतः शिवम् ।
पुरः क्लिश्नाति सोमं हि सैंहिकेयो सुरद्रुहाम् ।३५ ॥
सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्य्यतः ।
स्याताममित्रौ मित्रे च सहजप्राकृतावै ॥ ३६ ॥
उपकर्त्ररिणा संधिर्न मित्रेणापकारिणा ।
उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ॥ ३७ ॥
त्वया विप्रकृतश्चैध्यो रुक्मिणीं हरता हरे ।
बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः । ।३८ ॥
त्वयि भौमं गते जेतुमसोत्सीत् स पुरीमिमाम् ।
प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ॥ ३९ ॥
आलप्यालमिदं बभ्रोर्यत् स दारानपाहरत् ।
कथापि खलु पापानामलमश्रेयसे यतः ॥ ४० ॥
चिराद्ध एवं भवता विराद्धा बहुधा च नः ।
निर्वर्त्यते रिः क्रियया स श्रुतश्रवसः सुतः ॥ ४१ ॥
विधाय वैरं सामर्षे नरो रौ य उदासते ।
प्रक्षिप्योदर्चिर्षं कक्षे शेरते ते भिमारुतम् ।४२ ॥
मनागनभ्यावृत्या वा कामं क्षाम्यतु यः क्षमी ।
क्रियासमभिहारेणा विराध्यन्तं क्षमेत कः ॥ ४३ ॥
अन्यदा भूषणं पुंसः शमो लज्जेव योषितः ।
पराक्रमः परिव्हवे वैयात्यं सुरतेष्विव ॥ ४४ ॥
मा जीवन् यः परावज्ञादुःखदग्धो पि जीवति ।
तस्याजननिरेवास्तु जननीक्लशकारिणः ॥ ४५ ॥
पादाहतं यतुत्थाय मूर्धानमधिरोहति ।
स्वस्थादेवापमाने इ देहिनस्तद्वरं रजः ॥ ४६ ॥
असंपादयतः कञ्चिदर्थं जतिक्रियागुणैः ।
यदृच्छाश्ब्दवत् पुंसः संज्ञाहै जन्म केवलम् ॥ ४७ ॥
तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावगाधता ।
अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥ ४८ ॥
तुल्ये पराधे अवर्भानुर्भानुमन्तं चिरेण यत् ।
हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटां फलम् ॥ ४९ ॥
स्वयं प्रणमते ल्पे पि परवायावुपेयुषि ।
निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥ ५० ॥
तेजस्वीमध्ये तेजस्वी दवीयानपि गण्यते ।
पञ्चमः पञ्धतपसस्तपनो जातवेदसाम् ॥ ५१ ॥
अकृत्वा हेलया पादमु्च्चैर्मूर्धसु विद्विषाम् ।
कथंकारमनालम्बा कीर्तिर्द्यामधिरोहति ॥ ५२ ॥
अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः ।
केसरी निष्ठुरक्षुण्ण्मृगपूगो मृगाधिपः ॥ ५३ ॥
चतुर्थोपायसाद्ये पि रिपौ सान्त्वमपक्रिया ।
स्वेद्यमामज्वरं प्राज्ञः को म्भसा परिषिञ्चति ॥ ५४ ॥
सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः ।
प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥ ५५ ॥
गुणानामायथातथ्यादर्थं विस्रावयन्ति ये ।
अमात्यव्यञ्जना राज्ञां दूष्यास्ते शत्रुसंहितः ॥ ५६ ॥
स्वशक्त्युपचये केचित् परस्य व्यसने परे ।
यात्रामाहुरुदासीनं त्वामुत्थापयति द्वयम् ॥ ५७ ॥
लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः ।
यादवाम्भोनिधीन् रुन्धे वेलेव भवतः क्षमा ॥ ५८ ॥
विजयस्त्वयि सेनायाः साक्षिमात्रे पदिश्यताम् ।
फलभाजि समीक्षोक्ते बुद्धेर्भोग इवात्मनि ॥ ५९ ॥
हते हिडीम्बरिपुणा राज्ञि द्वैमातुरे युधि ।
चिरस्य मित्रव्यसनी सुदमो दमघोषजः ॥ ६० ॥
नीतिरापदि यद्गम्यः परस्तन्मानिनो हिये ।
विधुर्विधुंतुदस्येव पूर्णस्तस्योत्सवाय सः ॥ ६१ ॥
अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम् ।
सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥ ६२ ॥
इन्द्रप्रस्थगमस्तावत् कारि मा सन्तु चेदयः ।
आस्माकदन्तिसांनिध्यवामनीभूतभूरुहः ॥ ६३ ॥
निरुद्धवीवश्वासारप्रसारां गाइव व्रजम् ।
उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः ॥ ६४ ॥
यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपस्विनः ।
वयं हनाम द्विषतः सर्वः स्वार्थं प्रतीहते ॥ ६५ ॥
प्राप्यतां विद्युतः संपत् संपर्कादर्करोचिषाम् ।
शस्त्रैर्द्विषच्छिरश्छेदप्रोच्छोणितोक्षितैः ॥ ६६ ॥
इति संरम्भिणो वाणीर्बलस्यालेख्यदेवताः ।
सभाभित्तिप्रतिध्वानैर्भयादन्ववदन्निव ॥ ६७ ॥
निशम्य ताः शेषगवीरभिधातुमधोक्षजः ।
शिष्याय बृहतां पत्युः प्रस्तावमदिशद् दृशा ॥ ६८ ॥
भारतीमाहितभरामथानुद्धतमुद्धवः ।
तथ्यामुतथ्याउजवज्जगादाग्रे गदाग्रजम् ॥ ६९ ॥
संप्रत्यसांप्रतं वक्रुमुक्ते मुसलपाणिना ।
निर्द्धारिते र्थे लेखेन खलूक्त्वा खलु वाचिकम् ॥ ७० ॥
तथापि यन्मय्यपि ते गुरुरित्येव गौरवम् ।
तत् प्रयोजककर्तउत्वमुपैति मम जल्पतः ॥ ७१ ॥
वर्णेः कतिपयैरेव ग्रथितस्य स्वरैरिव ।
अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥ ७२ ॥
बह्वपि स्वच्छया कामं प्रकीर्णमभिधीयते ।
अनुञ्झिताभिसंबन्धः प्रबन्धो दुरुदाहरः ॥ ७३ ॥
भ्रदीयसीमपि धनामनल्पगुणकल्पिताम् ।
प्रसारयन्ति कुशलश्चित्रां वाचं पटीमिव ॥ ७४ ॥
विशेषविदुषः शस्त्रं यत् तदोद्ग्राह्यते पुरः ।
हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ॥ ७५ ॥
प्रज्ञोत्साहावतः स्वामी यतेताधातुमात्मनि ।
तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसंपदः ॥ ७६ ॥
सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये ।
तत्रानिशं निषण्णास्ते जानते जातु न श्रमम् ॥ ७७ ॥
स्पृशन्ति शरवत् तीक्ष्णाः स्तोकमन्तर्विशन्ति च ।
बहुस्पृशापि स्थूलेन स्थीयते वहिरश्मवत् ॥ ७८ ॥
आरभन्ते ल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ ७९ ॥
उपायमास्थितस्यापि नश्यत्यर्थः प्रमाद्यतः ।
हन्ति नोपशय्स्थो पि शयालुर्मृगयुर्मृगान् ॥ ८० ॥
उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि ।
जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥ ८१ ॥
तन्त्रावापविदा योगैर्मण्डलान्यधिष्ठिता ।
सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव शत्रवः ॥ ८२ ॥
करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रथीयसीम् ।
प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः ॥ ८३ ॥
बुद्धिशस्त्रः प्रकृत्यङ्गो धनसंवृतिकञ्चुकः ।
चारेक्षणो दूतमुखः पुरूषः को पि पार्थिवः ॥ ८४ ॥
तेजः क्षमा वा नैकान्तः कालज्ञस्य महीपतेः ।
नैकमोजः प्रसादो वा रसभागविदः कवेः ॥ ८५ ॥
कृतापचारो पि परैरनाविष्कृतविक्रियः ।
असाध्यः कुरूते कोपं प्राप्ते काले गदो यथा ॥ ८६ ॥
मृदुव्यवहितं तेजो भोक्तुमर्थान् प्रकल्पते ।
प्रदीपः स्नेहमादत्ते दशया ह्यन्तरस्थया ॥ ८७ ॥
नालम्बते दैष्टिकतां न निषीदति पौरुषे ।
शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते ॥ ८८ ॥
स्थायिनो र्थे प्रवर्तन्ते भावाः संचारिणो यथा ।
रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ॥ ८९ ॥
अनल्पत्वात् प्रधानत्वादंशस्येवेतरे स्वराः ।
विजिगीषोर्नृपतयः प्रयान्ति परिवारताम् ॥ ९० ॥
अप्यनारभमाणस्य विनोरुत्पादिताः परैः ।
व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥ ९१ ॥
यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः ।
एकार्थतन्तुप्रोतायां नायको नायकायते ॥ ९२ ॥
षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षं रसायनम् ।
भवन्त्यस्यैवमङ्गानि स्थास्नूनि बलवन्ति च ॥ ९३ ॥
स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम् ।
अयथाबलमारम्भो निदानं क्षयसंपदः ॥ ९४ ॥
तदीशितारं चेदीनां भवांस्तमवमंस्त मा ।
निहन्त्यरीनेकपदे स उदात्तः स्वरानिव ॥ ९५ ॥
मा वेदि यदसावेको जेतव्यश्चेदिराडिति ।
राजयक्ष्मेव रोगाणां समूहः स महीभृताम् ॥ ९६ ॥
संपादितफलस्तेन सपक्षः परभेदतः ।
कार्मुकेणेव गुणिना बाणः संधानमेष्यति ॥ ९७ ॥
ये चान्ये कालयवनसाल्वरुक्मिद्रुमादयः ।
तमःस्वभावास्ते प्येनं प्रदोषमनुयायिनः ॥ ९८ ॥
उपजापः कृतस्तेन तानाकोपवतस्त्वयि ।
आशु दीपयिताल्पो पि साग्नीनेधानिवानिलः ॥ ९९ ॥
बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।
संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥ १०० ॥
तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः ।
अभियुक्तं त्वयैनं गन्तारस्त्वामतः पते ॥ १०१ ॥
मखविघ्नाय सकलमित्थमुत्थाप्य राजकम् ।
हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥ १०२ ॥
संभाष्य त्वामतिभ्रक्षमस्कन्धं सुबान्धवः ।
सहायमध्वरधुरं धर्मराजो विवक्षते ॥ १०३ ॥
महात्मानो नुगृह्णन्ति भजमानान् रिपूनपि ।
सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगाः ॥ १०४ ॥
चिरादपि बलात्कारो बलिनः सिद्ध्ये रिषु ।
छन्दानुवृत्तिदुःसाधाः सुहृदो विमनीकृताः ॥ १०५ ॥
मन्यसे रिवधः श्रेयान् प्रीतये नाकिनामिति ।
पुरोडाशभुजामिष्टमिष्टं कर्तुमलन्तराम् ॥ १०६ ॥
अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति ।
शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥ १०७ ॥
प्रतीक्ष्यं च प्रतीक्ष्यायै पितृष्वस्रे सुतस्य ते ।
सहिष्ये शतमागांसि प्रत्यश्रौषीः किलेति यत् ॥ १०८ ॥
तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापयत् ।
नोपतापि मनः सोष्म वागेका वाग्मिनः सतः ॥ १०९ ॥
स्वयंकृतेप्रसादस्य तस्याह्रो भानुमानिव ।
समयावधिमप्राप्य नान्तायालं भवानपि ॥ ११० ॥
कृत्वा कृत्यविदस्तीर्थैरतः प्रणिधयः पदम् ।
विदांकुवन्तु महतस्तलं विद्विषदम्भसः ॥ १११ ॥
अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
शब्दविद्येव नाभाति राजनीतिरपस्पशा ॥ ११२ ॥
अज्ञातदोषैर्दोषज्ञैरूद्दूष्यो भयवेतनैः ।
भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥ ११३ ॥
उपेयिवांसि कर्तारः पुरीमाजातशास्त्रवीन् ।
राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव ॥ ११४ ॥
सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति ।
वैरायितास्तरलाः स्वयं मत्सरिणः परे ॥ ११५ ॥
य इहात्मविदो विपक्षमध्ये
सहसंवृद्धियुजो पि भूभुजः स्युः ।
बलिपृष्टकुलादिवान्यपुष्टैः
पृथगस्मादचिरेण भाविता तैः ॥ ११६ ॥
सहजचापलदोषसमुद्धत-
श्चलितदुर्बलपक्षपरिग्रहः ।
तव दुरासदवीर्यविभावसौ
शलभतां लभतामसुहृद्गणः ॥ ११७ ॥
इति विशकलितार्थामौद्दवीं वाचमेना-
मनुगतनयमार्गामर्गलां दुर्नयस्य ।
जनितमुदस्थादुच्चकैरुच्छ्रितोरः-
स्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान् सः ॥ ११८ ॥
इति श्रीमाघभट्टविरचिते शिशुपालवधकाव्ये मन्त्रवर्णनं नाम द्वितीयः सर्गः ॥