शिशुपालवधम्/प्रथमः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
शिशुपालवधम्
प्रथमः सर्गः
माघः
द्वितीयः सर्गः →

श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।
वसन् ददर्शावतरन्तमम्बराद् हिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥ १ ॥


गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वं ज्वलनम हविर्भुजः ।
पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ॥ २ ॥


चयस्त्विषामित्यवधारितं पुरस्ततः शरीरिति विभाविताकृतिम् ।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥ ३ ॥


नवानधोsधो बृहतः पयोधरान्‌ समूढकर्पूरपरागपाण्डुरम्‌ ।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शंभुना ॥ ४ ॥


दधानमम्भोरुहकेसरद्युती र्जटाः शरच्चन्द्रमरीचिरोचिष‌म्‌ ।
विपाकपिङ्गास्तुहिनस्थलीरुहो धराधरेन्द्रं व्रततीततीरिव ॥ ५ ॥


पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति ।
सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम्‌ ॥ ६ ॥


विहङ्गराजाङ्गरुहैरिवाततै र्हिरण्यमयोर्वीरुहवल्लितन्तुभिः ।
कृतोपवीतं हिमशुभ्रमुच्चकै र्घनं धनान्ते तडितां गुणैरिव ॥ ७ ॥


निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्म्णा लसद्बिसच्छेदसिताङ्गसङ्गिना ।
चकासतं चारूचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम्‌ ॥ ८ ॥


अजस्रमास्फालितवल्लकीगुण क्षतोज्ज्वलांगुष्ठनखांशुभिन्नया ।
पुरः प्रवालैरिव पूरितार्द्धया विभान्तमच्छस्फटिकाक्षमालया ॥ ९ ॥


रण्द्भिराघट्टनया नभस्वतः पृथग्विभिनाश्रुतिमण्डलैः स्वरैः ।
स्फुटीभवद्ग्रामविशेषमूर्च्छना मवेक्षमाणं महतीं मूहुर्मूहुः ॥ १० ॥


निवर्त्य सो नुव्रजतः कृतानतीनतीन्द्रियज्ञाननिधिर्नभःसदः ।
समासदत्‌ सादितदैत्यसम्पदः पदं महेन्द्रालयचारु चक्रिणः ॥ ११ ॥


पतन्‌ पतङ्गप्रतिमस्तपोनिधिः पुरो स्य यावन्न भुवि व्यलीयत ।
गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुदतिष्ठदच्युतः ॥ १२ ॥


अथ प्रयत्नोन्नमितानमत्फणैर्धृते कथंचित्फणिनां गणैरधः ।
न्यधायिषातामभिदेवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ॥ १३ ॥


तमर्घ्यमर्घ्यादिकयादिपूरुषः सपर्यया साधु स पर्य्यपूपुजत्‌ ।
गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ॥ १४ ॥


न यावदेतावुदपश्यदुत्थितौ जनस्तुषारासाराञ्जनपर्वताविव ।
स्वहस्तदत्ते मुनिमास्ने मुनि श्चिरंतनस्तावदभिन्यवीविशत्‌ ॥ १५ ॥


महामहानीलशिलारुचः पुरो निषेदिवान्‌ कंसकृषः स विष्टरे ।
श्रितोदयाद्रेरभिसायकमुच्च्कै रचूचुरच्च्न्द्रमसो भिरामताम्‌ ॥ १६ ॥


विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः ।
ग्रहीतुमार्यान्‌ परिचर्यया मूहुर्महानुभावा हि नितान्तमर्थिनः ॥ १७ ॥


अशेषतीर्थीपहृताः कमण्डलोर्निधाय पाणावृषिणाभ्युदीरिताः ।
अधौधविध्वंसविधौ पटीयसीर्नतेन मूर्ध्ना हरिरग्रहीदपः ॥ १८ ॥


स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदश्यामवपुर्न्यविक्षत ।
जिघाय जम्बूजनितश्रियः श्रियं सुमेरुश्रुङ्गस्य तदा तदासनम्‌ ॥ १९ ॥


स तप्तकार्तस्वरभास्वराम्बरः कठोरताराधिपलाञ्छनच्छविः ।
वोदोद्युते वाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥ २० ॥


रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे ।
चलत्पलाशान्तरगोचरास्तरोस्तुषारमूर्तेरिव नक्तमंशवः ॥ २१ ॥


प्रफुल्ततापिच्छनिभैरभीशुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः ।
परस्परेण च्छुरितामलच्छवी तदैकवर्णाविव तौ बभूवतुः ॥ २२ ॥


युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्याजामसंभवा मुदः ॥ २३ ॥


निधाघधामानमिवाधिदीधितिं मुदा विकासं यतिमभ्युपेयुषी ।
विलोचने बिभ्रदधिश्रितश्रिणी स पूण्डरीकाक्ष इति स्फुटो भवत्‌ ॥ २४ ॥


सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन्‌ ।
द्‍विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥ २५ ॥


हरत्ययं सम्प्रति हेतुरेष्यतः शुभस्य पूर्वाचरितः कृतं शुभैः ।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालतत्रितये पि योग्यताम्‌ ॥ २६ ॥


जगत्यपर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना ।
प्रसह्य तेजोभिरसंख्यतां गतैरदस्त्वया नुत्तमनुत्तमं तमः ॥ २७ ॥


कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेपनिराकुलात्मना ।
सदोपयोगे पि गुरुस्त्वमक्षतिर्निधिः श्रुतीनां धनसंपदामिव ॥ २८ ॥


विलोकनेनैव तवामुना मुने कृतः कृताथो स्मि निबृंहितांहसा ।
तथापि शुश्रूषुरहं गरीयसीर्गिरो थवा श्रेयसि केन तृप्यते ॥ २९ ॥


गतस्पृहो प्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया ।
तनोति नस्तामुदितात्मगौरवो गुरुस्तवैवागम एष धृष्टताम्‌ ॥ ३० ॥


इति ब्रुवन्तं तमुवाच स व्रती न वाच्यमित्थं पुरुषोत्तम त्वया ।
त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्य्यं गुरु योगिनामपि ॥ ३१ ॥


उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयातिदुर्गमम्‌ ।
उपेयुषो मोक्षपथं मनस्विनस्त्वमग्रभूमिर्निपायसंश्रया ॥ ३२ ॥


उदासितारं निगृहीतमानसैर्गृहीतमध्यात्मदृशा कथंचन ।
बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरूषं पुराविदः ॥ ३३ ॥


निवेशयामासिथ हेलयोद्धतं फणाभृतां छाद्नमेकमोकसः ।
जगत्त्रयैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसु भूतलम्‌ ॥ ३४ ॥


अनन्यगुर्व्यास्तव केन केवलः पुराणमूर्तेर्महिमावगम्यते ।
मनुष्यजन्मापि सुरासुरान्‌ गुणैर्भवान्‌ भवेच्छेदकरैः करोत्यधः ॥ ३५ ॥


लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः ।
उदूडलोकत्रितयेन सांप्रतं गुरूर्धरित्री क्रियतेतरां त्वया ॥ ३६ ॥


निजौजसोज्जासयितुं जगद्द्रुहामुपाजिहीथा न महीतलं यदि ।
समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश मादृशाम्‌ ॥ ३७ ॥


उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वंभर विश्वमीशिषे ।
ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः ॥ ३८ ॥


करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्त्व स्तवम्‌ ।
हरेर्हिरण्याक्षपुरःसरासुरद्‍विपद्‍विषः प्रत्युत सा तिरस्क्रिया ॥ ३९ ॥


प्रवृत एव स्वयमुञ्झितश्रमः क्रमेण पेष्टुं भुवनद्विषामसि ।
तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुभं मनः ॥ ४० ॥


तदिन्द्रसंदिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते ।
समस्तकार्येषु गतेन धुर्यतामहिद्‍विषस्तद्भवता निशम्यताम्‌ ॥ ४१ ॥


अभूदभूमिः प्रतिपक्षजन्मनां भियां तनूजस्तपनद्युतिर्दितेः ।
यमिन्द्रशब्दार्थनिसूदनं हरेर्हिरण्यपूर्वं कशिपुं प्रचक्षते ॥ ४२ ॥


समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयताम्‌ ।
भवस्य पूर्वावतारस्तरस्विना मनःसु येन द्युसदां व्यधीयत ॥ ४३ ॥


दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागहृताः सिषेविरे ।
अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः ॥ ४४ ॥


पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्च कञ्चुकाः ।
स्वरूपशोभैकगुणानि नाकिनां गणैस्तमाशङ्क्य तदादि चक्रिरे ॥ ४५ ॥


स सम्चरिष्णुर्भुवनान्तराणि यां यदृच्छयाशिश्रियदाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसं।ध्यं त्रिदशैर्दिशे नमः ॥ ४६ ॥


सटच्छटाभिन्नधनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया ।
स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्करे नखैः ॥ ४७ ॥


विनोदनिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशैः समं पुनः ।
स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ॥ ४८ ॥


प्रभुर्बुभूषुर्भवनत्रयस्य यः शिरो तिरागाद्दशमं चिकर्तिषुः ।
अतर्कयद्विघ्नमिवेष्टसाहसः प्रसादमिच्छासदृशं पिनाकिनः ॥ ४९ ॥


समुत्क्षिपन्‌ यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः ।
त्रसत्तुषाराद्रिसुताससंभ्रमस्वयंग्रहाश्लेषमुखेन निष्क्रयाम्‌ ॥ ५० ॥


पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ।
विगृह्य चक्रे नमुचिद्‍विषा वशी य इत्थनस्वास्थ्यमहर्दिवं दिवः ॥ ५१ ॥


सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैःश्रवसः पदक्रमम्‌ ।
अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम्‌ ॥ ५२ ॥


अश्क्नुवन्‌ सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम्‌ ।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्‌ दिवसानि कौशिकः ॥ ५३ ॥


बृहच्छिलानिष्ठुरकण्ठघट्टनाविकीर्णलोलाग्निकणं सुरद्विषः ।
जगत्प्रभोरप्रसहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकन्धर‌म्‌ ॥ ५४ ॥

विभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः ।
निरस्तगाम्भीर्यमपास्तपुष्पकः प्रकम्पयामास न मानसं न सः ॥ ५५ ॥


रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङ्मुखीकृताः ।
प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयं प्रप्रेदिर ॥ ५६ ॥


परेतभर्तुर्महिषो मुना धनुर्विधातुमुत्खातविषाणमण्डलः ।
हृते पि भारे महतस्त्रपाभरा दुवाह दुःखेन भृशानतं शिरः ॥ ५७ ॥


स्पृशन्‌ सशङ्कः समये शुचावइ स्थितः कराग्रैरसमग्रपातिभिः ।
अधर्मधर्मोदकबिन्दुमौक्तिकैरलंचकारास्य वधूरहस्करः ॥ ५८ ॥


कलासमग्रेणा गृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा ।
विलासिनस्तस्य वितन्वता रतिं न नर्म्साचिव्यमकारि नेन्दुना ॥ ५९ ॥


विदग्धलीलोचितदन्तपत्रिकाचिकीर्षय नूनमेन मानिना ।
न जातु वैनायकमेकमुद्धृतं विषाणमद्‍यापि पुनः प्ररोहति ॥ ६० ॥


निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः ।
प्रियेण तस्यानपराधबाधिताः प्रकम्पनेनानुचकम्पिरे सुराः ॥ ६१ ॥


तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसाम्‌ ।
बभार वाष्पैर्द्विगूणीकृतं तनुस्तनूनपाद्धूमवितानमाधिजैः ॥ ६२ ॥


तदीयमातङ्गघटाविघट्टितैः कटास्थलप्रोषितदानवारिभिः ।
गृहीतदिक्कैरपुनर्निवर्तिभिश्चिरस्य याथार्थ्यमलम्भि दिग्गजैः ॥ ६३ ॥


परस्य मर्माविधमुञ्झतां निजं द्विजिहृतादोषमजिह्मगामिभिः ।
तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता ॥ ६४ ॥


तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिर समेत्य च ।
प्रसूनक्लृप्तं ददतः सदर्त्तवः पुरे स्य वास्तव्यदुटुम्बितां दधुः ॥ ६५ ॥


अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रवन्दीश्वसितानिलैर्यथा ।
सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्ववौ ॥ ६६ ॥


अमानवं जातमजं कुले मनोः प्रभाविनं भाविनमन्तमात्मनः ।
मुमोच जानन्नपि जानकीं न यः सदाभ्मानैकघना हि मानिनः ॥ ६७ ॥


स्मरस्यदो दाशरथिर्भवन्‌ भवानमुं वनान्ताद्वनितापहारिणम्‌ ।
पयोधिमाविद्धचलज्जलाविलं विलङ्घ्य लङ्कां निकषा हनिष्यति ॥ ६८ ॥


अथोपपत्तिं छलनापरो परामवाप्य शैलूष इवैष भूमिकाम्‌ ।
तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति सो प्यसः परैः ॥ ६९ ॥


स बालः आसीद्वपुष चतुर्भुजो मुखेन पूर्णेन्दुरुचिस्त्रिलोचनः ।
युवा कराक्रान्तमहीभृच्चकैरसंशयं संप्रति तेजसा रविः ॥ ७० ॥


स्वयं विधाता सुरदैत्यरक्षसामनुग्रहापग्रहयोर्यदृच्छया ।
दशाननादीनभिराद्धदेवतावितीर्णवीर्यातिशयान्‌ हसत्यसौ ॥ ७१ ॥


बलावलेपादधुनापि पूर्ववत्‌ प्रबाध्यते तेन जगज्जिगीषुणा ।
सतीव योषित्‌ प्रकृतिः सुनिश्चिता पुमांसमन्वेति भवान्तरेष्वपि ॥ ७२ ॥


तदेनमुल्लङ्घितशासनं विधएर्विधेहि कीनाशनिवेशनातिथिम्‌ ।
शुभेतराचारविपक्रिमापदो विपादनीया हि सतामसाधवः ॥ ७३ ॥


हृदयमरिवधोदयादुपोढद्रढिम दधातु पुनः पुरन्दरस्य ।
धनपुलकपुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम्‌ ॥ ७४ ॥


ओमित्युक्तवतो थ शार्ङ्गिण इति व्याहृत्य वाचं नभ-
स्तस्मिन्नुत्पतितं पुरः सुरमुनाविन्दोः श्रियं बिभ्रति ।
शत्रूणामनिशं विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति
व्योम्नीव भृकुटिच्छलेन वदने केतुश्चकारास्पदम्‌ ॥ ७५ ॥

इति माघभट्टविरचिते शिशुपालवधमहाकाव्ये कृष्णनारदसंभाषणं नाम प्रथमः सर्गः॥