शिशुपालवधम्/तृतीयः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← द्वितीयः सर्गः शिशुपालवधम्
तृतीयः सर्गः
माघः
चतुर्थः सर्गः →

कौबीरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः ।
अपेतयुद्धाभिनिवेशसौम्यो हरिर्हरिप्रस्थमथ प्रतस्थे ॥ १ ॥

जगत्पवितैरपि तं न पादैः स्प्रष्टुं जगत्पूज्यमयुज्यतार्कः ।
यतो बृहत्पार्वणचन्द्रचारु तस्यातपत्रं बिभरांबभूवे ॥ २ ॥

मृणालसूत्रामलमन्तरेण स्थितश्चल्चमरयोर्द्वयं सः ।
भेजे भितः पातुकसिद्धसिन्धोरभूतपूर्वां श्रियमम्बुराशेः ॥ ३ ॥

चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामनणीयसीभिः ।
अनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्याकृतिरन्वकारि ॥ ४ ॥

तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा ।
अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥ ५ ॥

तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम्‌ ।
वंहीयसा दीप्तिवितानकेअन चकासयामासतुरुल्लसन्ती ॥ ६ ॥

निसर्गरक्तैर्वलयावबद्दहताम्राश्मरश्मिच्छुरितैर्नखाग्रैः ।
व्यद्योतताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासौ ॥ ७ ॥

उभौ यदि व्योम्नि पृथक्‌ प्रवाहावाकाशगङ्गापयसः पतेताम्‌ ।
तनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ८ ॥

तेनाम्भसां सारमयः पयोधेर्दध्रे मणिर्दीधितिदीपिताशः ।
अन्तर्वसन्‌ बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥ ९ ॥

सुक्तामयं सारास्नावलम्बि भाति स्म दामाप्रपदीनमस्य ।
अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिस्रोतसः सन्ततधारमम्भः ॥ १० ॥

स इन्द्रनीलस्थलनीलमूर्ती रराज कर्पूरपिशङ्गवासाः ।
विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ॥ ११ ॥

प्रसाधितस्याथ मुरद्विषो भूद न्यैव लक्ष्मीरिति युक्तमेतत्‌ ।
वपुष्यशेषे खिललोककान्ता सानन्यकाम्या ह्युसीतरा तु ॥ १२ - १ ॥

कपाटविस्तीर्णमनोरमोरःस्थलश्रीललनस्य तस्य ।
आनन्दिताशोषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥ १२ - २ ॥

प्राणच्छिदा दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन ।
प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवव्रुरेनम्‌ ॥ १३ ॥

आकर्षतेवोर्ध्वमपि क्रशीयानत्युन्नतत्वात्‌ कुचमण्डलेन ।
ननाम मध्यो तिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम्‌ ॥ १४ ॥

यां यां प्रियः प्रैक्षत कातराक्षीं सा सा ह्रिया नम्रमुखी बभूव ।
निःशङ्कमन्याः सममाहितेर्ष्यैस्तत्रान्तरे जघ्नुरमुं कटाक्षैः ॥ १५ ॥

तस्यातसीसूनसमानभासो भ्राम्यन्मयूखावलिमण्डलेन ।
चक्रेण रेजे यमुनाजलौघः स्फुरन्महावर्त इवैकबाहुः ॥ १६ ॥

विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचिदस्खलन्ती ।
नित्यं हरेः सन्निहिता निकामं कौमोदकी मोदयति स्म चेतः ॥ १७ ॥

न केवलं यः स्वतया मुरारेरनन्यसाधारणतां दधानः ।
अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव स नन्दको भूत्‌ ॥ १८ ॥

न नीतमन्येन नतिं कदाचित्‌ कर्णान्तिकप्राप्तगुणं क्रियासु ।
विधेयमस्याभवदन्तिकस्थं शार्ङ्गं धनुर्मित्रमिव द्रढीयः ॥ १९ ॥

प्रवद्धमन्द्राम्बुदनादधीरं । कृष्णार्णवाभ्यर्णचरैकहंसः ।
मन्दानिलापूरकृतं दधानो इन्ध्वानमश्रूयत पाञ्चजन्यः ॥ २० ॥

रराज संपादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रतिषिद्धमार्गम्‌ ।
महारथः पुण्यरथं स शार्ङ्गी क्षिप्रं क्षपानाथ इवाधिरुढः ॥ २१ ॥

द्वजाग्रधामा ददृशे थ शौरेः संक्रान्तमूर्तिर्मणिमेदिनीषु ।
फणावतस्त्रासयितुं रसायास्तलं विविक्षुरिव पन्नगारिः ॥ २२ ॥

यियासतस्तस्य महीध्ररन्ध्रभिदा पटीयान्‌ पटहप्रणादः ।
जलान्तराणीव महार्णवौघः शब्दान्तराण्यन्तरयांचकार ॥ २३ ॥

यतः स धर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिना ततो धः ।
महाभराभुग्नशिरःसहस्रसाहायकव्यग्रभुजं प्रसस्रे ॥ २४ ॥

अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्रीकृतकेतनानि ।
क्रियाफलानीव सुनीतिभाजं सैन्यानि सोमान्वयमन्वयुस्तम्‌ ॥ २५ ॥

श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्चनभूपरागाः ।
आनेमिमग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुबिरे रथौघैः ॥ २६ ॥

न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम ।
अचेष्टताष्टापदभूमिरेणुः खुराहतो यत्सदृशं गरिम्णः ॥ २७ ॥

निरुध्यमाना यदुभिः कथंचि= न्मुहुर्यदु्च्चिक्षिपुरग्रपादौ ।
ध्रुवं गुरून्‌ मार्गरुधः करीन्द्रानुल्लङ्घ्य गन्तुं तुरगास्तदीषुः ॥ २८ ॥

अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः ।
प्रक्रीडितान्‌ रेणुभिरेत्य तूर्णं निन्युर्जनन्यः पृथुकान्‌ पथिभ्यः ॥ २९ ॥

दिदृक्षमाणाः प्रतिरथ्यमाययुर्मुररिमारादनघं जनौघाः ।
अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति ॥ ३० ॥

उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकिनीभीः ।
रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान्‌ विदामास शनैर्न यातम्‌ ॥ ३१ ॥

मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती कांचनभूमिभासा ।
तुरङ्गकान्ताननहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥ ३२ ॥

कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः ।
अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव ॥ ३३ ॥

त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसंपद्प्रसरस्य सीमा ।
अदृश्यतादर्शतलामलेषु च्छायेव या स्वर्जलधेर्जलेषु ॥ ३४ ॥

रथाङ्गभर्त्रे भिनवं वराय यस्याः पितेव प्रतिपादितायाः ।
प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध ॥ ३५ ॥

यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छलच्छङ्खक्युलाकुलेन ।
वप्रेण पर्यन्तचरोडुचक्रः सुमेरुवप्रो न्वहमन्वकारि ॥ ३६ ॥

वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुधिरम्बुराशिः ।
लोलैरलोलद्युतिभाञ्जि मुष्णन्‌ रत्नानि रत्नाकरतामवाप ॥ ३७ ॥

अम्भश्च्युतः कोमलरत्नराशीन्‌ अपांपतिः फेनपिनद्धभासः ।
यत्रातपं दातुमिवोपतल्पं विसारयामास तरङ्गहस्तैः ॥ ३८ ॥

यत्सालमुत्तुङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य ।
महोर्भिभिर्व्याहतवाञ्छितार्थैर्व्रीडादिवाभ्याशगतैर्विलिल्ये ॥ ३९ ॥

कुतूहलेनेव जवादुपेत्य प्राकारभित्त्या सहसा निषिद्धः ।
रसन्नगदाद्‌ भृशमम्बुवर्षव्याजेन यस्यां बहिरम्बुवाहः ॥ ४० ॥

यदङ्गनारुपसरुपतायाः किंचिद्गुणं भेदकनिच्छतीभिः ।
आराधितो द्धा मनुरप्सराभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ॥ ४१ ॥

स्फुरत्तुषारंशुमरीचिजालविनिह्नुताः स्फाटिकसौधपङ्क्तीः ।
आरुह्य नार्यः क्षणदासु यस्यां नभोगता देव्य इव व्यराजन्‌??४२ ॥

कान्तेन्दुकान्तोपलदुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्नः ।
उच्चैरधःपातिपयोमुचो पि समूहमूहुः पयसां प्रणाल्यः ॥ ४३ ॥

रतौ ह्रिया यत्न निशम्य दीपा‌ञ्‌जालागताभ्यो धिगृहं गृहिण्यः ।
बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥ ४४ ॥

यस्यामतिश्लक्ष्णतया गृहेषु विधातुमालेख्यमशक्नुवन्तः ।
चक्रुर्युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ॥ ४५ ॥

सावर्ण्यभाजः प्रतिभागताया लक्ष्यैः स्मरापाण्डुतया तरुण्याः ।
यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ॥ ४६ ॥

शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीना‌म्‌ ।
यस्यामलिन्देषु न चक्रुरेव मुग्धङ्गना गोमयगोमुखानि ॥ ४७ ॥

गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकिणां कलापैः ।
हरिन्मणिश्यामत्तृणाभिरामैर्गृहाणि नीध्रैरिव यत्र तेजुः ॥ ४८ ॥

बृहत्तुलैरप्यतुलैर्वितानमालावनद्धैरपि चावितानैः ।
रेजे विचित्रैरपि या सचित्रैर्गृहैर्विशालैरपि भूरिशालैः ॥ ४९ ॥

चिक्रंसया कृत्रिमपत्रिपंक्तेः कपोतपालीषु निकेतनानाम्‌ ।
मार्जारमप्यानतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ॥ ५० ॥

क्षितिप्रतिष्ठोऽपि मुखारबिन्दैर्वधूजनश्चन्द्रमधश्चकार ।
अतीतनक्षत्रपथानि यत्र प्रासादशृङ्गाणि मुधाध्यरोहत्‌ ॥ ५१ ॥

रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्द्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥ ५२ ॥

सुगन्धितामप्रतियत्नपूर्वं बिभ्रन्ति यत्र प्रमदाय पुंसाम्‌ ।
मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः ॥ ५३ ॥

रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्कनीडः ।
रुतानि शृण्वन्‌ वयसां गणो न्तेवासित्वमाप स्फुटमङ्गनानाम्‌ ॥ ५४ ॥

छन्नेष्वपि स्पष्टतरेषु यत्रे स्वच्छानि नारीकुचमण्डलेषु ।
आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतोऽपि ॥ ५५ ॥

यस्यामजिह्मा महतीमपङ्काः सीमानमत्यायतयोऽत्यजन्तः ।
जनैरजातस्खलनैर्न जातु द्वये प्यमुच्यन्त विनीतमार्गाः ॥ ५६ ॥

परस्परर्द्धिपरार्ध्यरुपाः पौरस्त्रियो यत्र विधाय वेधाः ।
श्रीनिर्मितिप्राप्तघुणक्षतैकवर्णॉपमावाच्यमलं भभार्ज ॥ ५७ ॥

क्षणं यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपदास्तदेव ।
अध्यूषुषस्तामभवन्‌ जनस्य याः संपदस्ता मनसो प्यभूमिः ॥ ५८ ॥

कला दधानः सकलाः स्वभाभिरुद्भासयन्‌ सौधसिताभिराशाः ।
यां रेवतीजानिरियेष ह्यतुं न रौहिणेयो नच रोहिणीशः ॥ ६९ ॥

बाणाहवव्याहतशम्भुशक्तेरासत्तिमासद्य जनार्दनस्य ।
शरीरिणा जैत्रशरेण यत्रे निःशङ्कमूषे मकरध्वजेन ॥ ६० ॥

निषेव्यमाणेन शिवैरुद्भिरध्यास्यमाना हरिणा चिराय ।
उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावाह्वास्त मेरावमरावतीं या ॥ ६१ ॥

स्निग्धाञ्जनश्यामरुचिः सुवृत्तो वध्वा इवाध्वंसितवर्णकान्तेः ।
विशेषको वा विशिशेष यस्याः श्रियं त्रिलिकीतिलकः स एव ॥ ६२ ॥

तामीक्षमाणः स पुरीं पुरस्तात्‌ प्रापत्‌ प्रतोलीमतुलप्रतापः ।
वज्रप्रभाक्रान्तसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या ॥ ६३ ॥

प्रजा इवङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः ।
मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्ध्वजिन्यः ॥ ६४ ॥

श्लिष्यद्भिरन्योन्यमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः ।
परस्परोत्पीडितजानुभागा यत्नेन निश्चक्रमुरश्ववाराः ॥ ६५ ॥

निरन्तरालेऽपि विमुच्यमाने दूरं पथि प्राणभृतां गणेन ।
तेजोमहद्भिस्तमसेव दीपैर्द्विपैरसंबाधमयांबभूवे ॥ ६६ ॥

शनैरनीयन्त रयात्‌ पतन्तो रथाः क्षितिं हस्तिनखादखेदैः ।
सयत्नसूतायतरश्मिभुग्नग्रीवान्तसंसक्तयुगैस्तुरङ्गैः ॥ ६७ ॥

बलोर्मिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः ।
प्रायेण निष्क्रामति चक्रपाणौ नेष्टं पुरो द्वारवतीत्वमासीत्‌ ॥ ६८ ॥

पारेजलं नीरनिधेरपश्यन्मुरारिनीलपलाशराशीः ।
वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥ ६९ ॥

लक्ष्मीभृतोऽम्भोधितटाधिवासान्‌ द्रुमानसौ नीरदनीलभासः ।
लतावधूसंप्रयुजोऽधिवेलं बहुकृतान्‌ स्वानिव पश्यति स्म ॥ ७० ॥

आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम्‌ ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥ ७१ ॥

पीत्वा जलानां निधिनातिगर्धाद्‌ वृद्धिं गतेऽप्यात्मनि नैव मान्तीः ।
क्षिप्ता इवेन्दोः सारुचोऽधिवेलं मुक्तावलीराकलयांचकार ॥ ७२ ॥

साटोपमुर्वीमनिशं मदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी ।
तान्येकदेशान्निभृतं पयोधौ सोऽम्भांसि मेधान्‌ पिबतो ददर्श ॥ ७३ ॥

उद्धृत्य मेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव संप्रणीताः ।
आलोकयामाअ हरिः पतन्तीर्नदीः स्मृतीर्वेदमिवाम्बुराशिम्‌ ॥ ७४ ॥

विक्रीय दिश्यानि धनान्युरुणि द्वैप्यानसावुत्तमलाभभाजः ।
तरीषु तत्र्त्यमफल्गु भाण्डं सांयात्रिकानावपतोऽभ्यनन्दत्‌ ॥ ७५ ॥

उप्तित्सवोऽन्तर्नदभर्त्तुरुच्चकैर्गरीयसा निःश्वसितानिलेन ।
पयांसि भक्त्या गरूडध्वजस्य ध्वजानिवोच्चिक्षिपिरे फणीन्द्राः ॥ ७६ ॥

तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः ।
प्रत्युज्जगामेव गुरुप्रमोदप्रसारिओत्तुङ्गतरङ्गबाहुः ॥ ७७ ॥

उत्सर्जिताम्भःकणिको नभस्वानौदन्वतः स्वेदलवान्‌ ममार्ज ।
तस्यानुवेलं व्रजतोऽतिवेलमैलालतास्फालनलब्धगन्धः ॥ ७८ ॥

उत्तालतालीवनसंप्रवृत्तसमीरसीमन्तितकेतकीकाः ।
आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥ ७९ ॥

लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः ।
आस्वादितार्द्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमापुः ॥ ८० ॥

तुरगशताकुलस्य परितं परमेकतुरङ्गजन्मनः
प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ।
परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय-
श्चिरविगतश्रियो जलनिधेश्च तदाभवदन्तरं महत्‌ ॥ ८१ ॥

इति श्रीमाघभट्ट्विरचिते शिशपालवधकाव्ये यात्रावर्णनं नाम तृतीयः सर्गः ॥