शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः १९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः १९
वेदव्यासः
अध्यायः २० →

सुब्रह्मण्य उवाच ।।
अथ महावाक्यानि
(१) प्रज्ञानं ब्रह्म
( २) अहं ब्रह्मास्मि
(३) तत्त्वमसि
( ४) अयात्मा ब्रह्म
(५) ईशावास्यमिदं सर्वम्
(६) प्राणोऽस्मि
(७) प्रज्ञानात्मा
(८) यदेवेह तदमुत्र यदमुत्र तदन्विह
( ९) अन्यदेव तद्विदितादथो अविदितादपि
( १०) एष न आत्मान्तर्याम्यमृतः
(११) स यश्चायम्पुरुषो यश्चासावा दित्ये स एकः
(१२) अहमस्मि परं ब्रह्म परं परपरात्परम्
(१३) वेदशास्त्रगुरुत्वात्तु स्वयमानंदलक्षणम् (१४)
सर्वभूतस्थितं ब्रह्म तदेवाहं न संशयः
(१५) तत्त्वतस्य प्राणोहमस्मि पृथिव्याः प्राणोहमस्मि (१६)
अपां च प्राणोहमस्मि तेजसश्च प्राणोहमस्मि (१७)
वायोश्च प्राणोहमस्मि आकाशस्य प्राणोहमस्मि ( १८)
त्रिगुणस्य प्राणोहमस्मि (१९)
सर्वोऽहं सर्वात्मकोऽहं संसारी यद्भूतं यच्च भव्यं यद्वर्तमानं सर्वात्मकत्वादद्वितीयोहम् (२०)
सर्वं खल्विदं ब्रह्म ( २१)
सर्वोऽहं विमुक्तोऽहम् ( २२)
योऽसौ सोहं हंसस्सोहमस्मि ।।
इत्येवं सर्वत्र सदा ध्यायेदिति ।।
अथ महावाक्यानामर्थमाह ।।
प्रज्ञानं ब्रह्मवाक्यार्थः पूर्वमेव प्रबोधितः ।।
अहंपदस्यार्थभूतः शक्त्यात्मा परमेश्वरः ।। १ ।।
अकारः सर्ववर्णाग्र्यः प्रकाशः परमः शिवः ।।
हकारो व्योमरूपः स्याच्छक्त्यात्मा संप्रकीर्तितः ।।२।।
शिवशक्त्योस्तु संयोगादानन्दः सततोदितः ।।
ब्रह्मेति शिवशक्त्योस्तु सर्वात्मत्वमिति स्फुटम् ।। ३ ।।
पूर्वमेवोपदिष्टं तत्सोहमस्मीति भावयेत् ।।
तत्त्वमित्यत्र तदिति सशब्दार्थः प्रबोधितः।।४।।
अन्यथा सोऽहमित्यत्र विपरीतार्थभावना ।।
अहंशब्दस्तु पुरुषस्तदिति स्यान्नपुंसकम्।।
एवमन्योन्यवैरुध्यादन्वयो नभवेत्तयोः ।। ५ ।।
स्त्रीपुंरूपस्य जगतः कारणं चान्यथा भवेत् ।।
स तत्त्वमसि इत्येवमुपदेशार्थभावना ।। ६ ।।
अयमात्मेति वाक्ये च पुंरूपं पदयुग्मकम् ।।
ईशेन रक्षणीयत्वादीशावस्यमिदं जगत् ।। ७ ।।
प्रज्ञानात्मा यदेवेह तदमुत्रेति चिन्तयेत् ।।
यः स एवेति विद्वद्भिस्सिद्धान्तिभिरिहोच्यते ।। ८ ।।
उपरिस्थितवाक्ये च योऽमुत्र स इह स्थितः ।।
इति पूर्ववदेवार्थः पुरुषो विदुषां मतः ।। ९ ।।
अन्यदेव तद्विदितादथो ।। अविदितादपि ।।
अस्मिन्वाक्ये फलस्यापि वैपरीत्यविभावना ।। 6.19.१० ।।
यथास्यात्तद्वदेवात्र वक्ष्यामि श्रूयतां मुने ।।
अयथाविदिताछब्दो पूर्ववद्विदितादिति ।। ११ ।।
प्रवृत्तिस्स्यात्तद्विदितात्तथैवाविदितात्परम् ।।
अन्यदेव हि संसिद्ध्यै न भवेदिति निश्चितम् ।। १२ ।।
एष त आत्मांतर्यामी योऽमृतश्च शिवस्स्वयम् ।।
यश्चायम्पुरुषे शंभुर्यश्चादित्ये व्यवस्थितः ।। १३ ।।
स चाऽसौ सेति पार्थक्यं नैकं सर्वं स ईरितः ।।
सोपाधिद्वयमस्यार्थ उपचारात्तथोच्यते ।। १४ ।।
तं शम्भुनाथं श्रुतयो वदन्ति हि हिरण्मयम् ।।
हिरण्य बाहव इति सर्वांगस्यो पलक्षलम् ।। १५ ।।
अन्यथा तत्पतित्वं तु न भवेदिति यत्नतः ।।
 य एषोन्तरिति शंभुश्छान्दोग्ये श्रूयते शिवः ।। १६ ।।
हिरण्यश्मश्रुवांस्तद्वद्धिरण्यमयकेशवान् ।।
नखमारभ्य केशाग्रा सर्वत्रापि हिरण्मयः ।।१७।।
अहमस्मि परं ब्रह्म परापरपरात्परम् ।।
इति वाक्यस्य तात्पर्यं वदामि श्रूयतामिदम् ।। १८ ।।
अहंपदस्यार्थभूतः शक्त्यात्मा शिवईरितः ।।
स एवास्मीति वाक्यार्थ योजना भवति ध्रुवम् ।। १९ ।।
सर्वोत्कृष्टश्च सर्वात्मा परब्रह्म स ईरितः ।।
परश्चाथापरश्चेति परात्परमिति त्रिधा ।। 6.19.२० ।।
रुद्रो ब्रह्मा च विष्णुश्च प्रोक्ताः श्रुत्यैव नान्यथा ।।
तेभ्यश्च परमो देवः परशब्देन बोधितः ।।२१।।
वेदशास्त्र गुरूणां च वाक्याभ्या सवशाच्छिशोः ।।
पूर्णानन्दमयश्शंभुः प्रादुर्भूतो भवेद्धृदि ।। २२ ।।
सर्वभूतस्थितश्शम्भुस्स एवाहं न संशयः ।।
तत्त्वजातस्य सर्वस्य प्राणोस्म्यहमहं शिवः ।। २३ ।।
इत्युक्त्वा पुनरप्याह शिवस्तत्त्वत्रयस्य च ।।
प्राणोस्मीत्यत्र पृथ्व्यादिगुणान्तग्रहणान्मुने ।। २४ ।।
आत्मतत्त्वानि सर्वाणि गृहीतानीति भावय ।।
पुनश्च सर्वग्रहणं विद्यातत्त्वशिवात्मनोः ।। २५ ।।
तत्त्वयोश्चास्म्यहं प्राणास्सर्वस्स्सर्वात्मको ह्यहम् ।।
जीवस्य चान्तर्यामित्वाज्जीवोऽहं तस्य सर्वदा ।। २६ ।।
यद्भूतं यच्च भव्यं यद्भविप्यत्सर्वमेव च ।।
मन्मयत्वादहं सर्वः सर्वो वै रुद्र इत्यपि ।।२७।।
श्रुतिराह मुने सा हि साक्षाच्छिवमुखोद्गता ।।
सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात् ।। २८ ।।
स्वस्मात्परात्मविरहादद्वितीयोऽहमेव हि ।।
सर्वं खल्विदं ब्रह्मेति वाक्यार्थः पूर्व्वमीरितः ।। २९ ।।
पूर्णोऽहं भावरूपत्वान्नित्यमुक्तोऽहमेव हि ।।
पशवो मत्प्रसादेन मुक्ता मद्भावमाश्रिताः ।। 6.19.३० ।।
योऽसौ सर्वात्मकश्शम्भुस्सोऽहं स शिवोऽस्म्यहम् ।।
इति वै सर्ववाक्यार्थो वामदेव शिवोदितः ।।३१।।
इतीशश्रुतिवाक्याभ्यामुपदिष्टार्थमादरात् ।।
साक्षाच्छिवैक्यदं पुंसां शिशोगुरुरुपादिशेत् ।।३२।।
आदाय शंखं साधारमस्त्रमन्त्रेण भस्मना ।।
शोध्य तत्पुरतस्स्थाप्य चतुरस्रे समर्चिते ।।३३।।
ओमित्यभ्यर्च्य गन्धाद्यैरस्त्रं वस्त्रोपशोभितम् ।।
वासितं जलमापूर्य सम्पूज्योमिति मन्त्रतः ।। ३४ ।।
सप्तधैवाभिमंत्र्याथ प्रणवेन पुनश्च तम् ।।
यस्त्वन्तरं किंचिदस्ति कुरुते त्यतिभीतिभाक् ।। ३५ ।।
इत्याह श्रुतिसत्तत्त्वं दृढात्मा गतभीर्भव ।।
इत्याभाष्य स्वयं शिष्यं देवं ध्यायन्समर्चयेत् ।। ३६ ।।
शिष्यासनं सम्प्रपूज्य षडुत्थापनमार्गतः ।।
शिवासनं च संकल्प्य शिवमूर्तिं प्रकल्पयेत् ।। ३७ ।।
पञ्च ब्रह्माणि विन्यस्य शिरः पादावसानकम् ।।
मुण्डवत्क्रकलाभेदैः प्रणवस्य कला अपि ।। ३८ ।।
अष्टत्रिंशन्मंत्ररूपा श्शिष्यदेहेऽथ मस्तके ।।
समावाह्य शिवं मुद्राः स्थापनीयाः प्रदर्शयेत् ।।३९।।
ततश्चाङ्गानि विन्यस्य सर्वज्ञानीत्यनुक्रमात्।।
कल्पयेदुपचारांश्च षोडशासनपूर्वकान् ।। 6.19.४० ।।
पायसान्नञ्च नैवेद्यं समर्प्यो मग्निजायया ।।
गण्डूषाचमनार्घ्यादि धूपदीपादिकं क्रमात् ।। ४१ ।।
नामाष्टकेन सम्पूज्य ब्राह्मणैर्वेदपारगैः ।।
जपेद्ब्रह्मविदाप्नोति भृगुर्वै वारुणिस्ततः ।। ४२ ।।
यो देवानामुपक्रम्यः यः परः स महेश्वरः ।।
इत्यंतं तस्य पुरतः कह्लारादिविर्निताम् ।। ४३ ।।
आदाय मालामुत्थाय श्रीविरूपाक्ष निर्मिते ।।
शास्त्रे पंचाशिके रूपे सिद्धिस्कन्धं जपेच्छनैः ।। ४४ ।।
ख्यातिः पूर्णोहमित्यंतं सानुकूलेन चेतसा ।।
देशिकस्तस्य शिष्यस्य कण्ठदेशे समर्पयेत् ।। ४५ ।।
तिलकं वन्दनेनाथ सर्वाङ्गालेपनं पुनः ।।
स्वसम्प्रदायानुगुणं कारयेच्च यथाविधि ।। ४६ ।।
ततश्च देशिकः प्रीत्या नामश्रीपादसंज्ञितम् ।।
छत्रञ्च पादुकां दद्याद्दूर्वाकल्पविकल्पनम् ।। ४।
व्याख्यातत्वञ्च कर्म्मादिगुर्वासनपरिग्रहम् ।।
अनुगृह्य गुरुस्तस्मै शिष्याय शिवरूपिणे ।। ४८ ।।
शिवोहमस्मीति सदा समाधिस्थो भवेति तम् ।।
सम्प्रोच्याथ स्वयं तस्मै नमस्कारं समाचरेत् ।। ४९ ।।
सम्प्रदायानुगुण्येन नमस्कुर्युस्तथापरे ।।
शिष्यस्तदा समुत्थाय नमस्कुर्याद्गुरुन्तथा ।।
गुरोरपि गुरुं तस्य शिष्यांश्च स्वगुरोरपि ।। 6.19.५० ।।
एवं कृतनमस्कारं शिष्यन्दद्याद्गुरुः स्वयम् ।।
सुशीलं यतवाचं तं विनयावनतं स्थितम् ।। ५१ ।।
अद्यप्रभृति लोकानामनुग्रहपरो भव ।।
परीक्ष्य वत्सरं शिष्यमंगीकुरु विधानतः ।। ५२।।
रागादिदोषान्संत्यज्य शिवध्यानपरो भव ।।
सत्सम्प्रदायसंसिद्धैस्संगं कुरु न चेतरैः ।।५३।।
अनभ्यर्च्य शिवं जातुमा भुंक्ष्वाप्राण संक्षयम् ।।
गुरुभक्तिं समास्थाय सुखी भव सुखी भव ।। ५४ ।।
इति क्रमाद्गुरुवरो दयालुर्ज्ञानसागरः ।।
सानुकूलेन चित्तेन समं शिष्यं समाचरेत् ।। ५५ ।।
तव स्नेहान्मयायं वै वामदेव मुनीश्वर।।
योगपट्टप्रकारस्ते प्रोक्तो गुह्यतरोऽपि हि ।।५६।।
इत्युक्त्वा षण्मुखस्तस्मै क्षौरस्नानविधिक्रमम्।।
वक्तुमारभत प्रीत्या यतीनां कृपया शुभम्।।५७।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां योगपट्टविधिवर्णनंनामैकोनविंशोऽध्यायः।।१९।।