शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः १८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः १८
वेदव्यासः
अध्यायः १९ →

।। शौनक उवाच ।।
श्रुत्वा वेदान्तसारं तद्रहस्यम्परमाद्भुतम् ।।
किम्पृष्टवान्वामदेवो महेश्वरसुतं तदा ।।१।।
धन्यो योगी वामदेवः शिवज्ञानरतस्सदा ।।
यत्स्सम्बन्धात्कथोत्पन्ना दिव्या परमपावनी ।। २ ।।
इति श्रुत्वा मुनीनान्तद्वचनम्प्रेमगर्भितम् ।।
सूतः प्राह प्रसन्नस्ताञ्छिवासक्तमना बुधः ।। ३ ।।
सूत उवाच ।।
धन्या यूयं महादेवभक्ता लोकोपकारकाः ।।
शृणुध्वम्मुनयस्सर्वे संवादं च तयोः पुनः ।। ४ ।।
श्रुत्वा महेशतनयवचनं द्वैतनाशकम् ।।
अद्वैतज्ञानजनकं सन्तुष्टोऽभून्महान्मुनिः ।।५।।
नत्वा स्तुत्वा च विविधं कार्तिकेयं शिवात्मजम् ।।
पुनः पप्रच्छ तत्त्वं हि विनयेन महामुनिः ।। ६ ।।
वामदेव उवाच ।।
भगवन्सर्वतत्त्वज्ञ षण्मुखामृतवारिधे ।।
गुरुत्वं कथमेतेषां यतीनाम्भावितात्मनाम् ।। ७ ।।
जीवानां भोगमोक्षादिसिद्धिस्सिध्यति यद्वशात् ।।
पारम्पर्य्यं विना नैषा मुपदेशाधिकारिता ।। ८ ।।
एवं च क्षौरकर्मांगं स्नानञ्च कथमीदृशम् ।।
इति विज्ञापय स्वामिन्संशयं छेत्तुमर्हसि ।। ९ ।।
इति श्रुत्वा कार्तिकेयो वामदेववचः स्मरन्।।
शिवं शिवां च मनसा व्याचष्टुमुपचक्रमे ।। 6.18.१०।। ।।
श्रीसुब्रह्मण्य उवाच ।
योगपट्टम्प्रवक्ष्यामि गुरुत्वं येन जायते ।।
तव स्नेहाद्वामदेव महद्गोप्यं विमुक्तिदम्।।११।।
वैशाखे श्रावणेमासि तथाश्वयुजि कार्तिके ।।
मार्गशीर्षे च माघे वा शुक्लपक्षे शुभे दिने।। १२ ।।
पंचम्यां पौर्णमास्यां वा कृतप्राभातिकक्रियः ।।
लब्धानुज्ञस्तु गुरुणा स्नात्वा नियतमानसः ।।१३।।।
पर्य्यंकशौचं कृत्वा तद्वाससांगं प्रमृज्य च ।।
द्विगुणं दोरमाबध्य वाससी परिधाय च ।।१४।।
क्षालितांघ्रिर्द्विराचम्य भस्म सद्यादिम न्त्रतः ।।
धारयेद्धि समादाय समुद्धूलनमार्गतः ।।१५।।
गृहीतहस्तो गुरुणा सानुकूलेन वै मुने ।।
सच्छिष्यः साञ्जलिस्स्वाभ्यां हस्ताभ्याम्प्राङ्मुखो यथा ।।१६।।
तथोपवेष्टितस्तिष्ठेन्मंडपे समलंकृते।।
गुर्वासनवरे शुद्धे चैलाजिनकुशोत्तरे।।१७।।
अथ देशिक आदाय शंखं साधारमस्त्रतः ।।
विशोध्य तस्य पुरतः स्थापयेत्सानुकूलतः ।। १८ ।।
साधारं शङ्खमपि च सम्पूज्य कुसुमादिभिः।।
निःक्षिपेद स्त्रवर्मभ्यां शोधितं तत्र सज्जलम् ।। १९ ।।
आपूर्य पूर्ववत्पूज्य षडंगोक्तक्रमेण च ।।
प्रणवेन पुनस्तद्वै सप्तधैवाभिमन्त्रयेत् ।। 6.18.२० ।।
अभ्यर्च्य गन्धपुष्पाद्यैर्धूपदीपौ प्रदर्श्य च।।
संरक्षास्त्रेण तं शंखं वर्मणाथावगुण्ठयेत् ।।२१।।
धेनुशंखाख्यमुद्रे च दर्शयेदथ देशिकः।।
पुनस्स्वपुरतश्शंखं दक्षिणे देश उत्तमे ।। २२ ।।
पूज्यार्घ्योक्तविधानेन सुन्दरम्मण्डलं शुभम् ।।
कुर्य्यात्सम्पूजयेत्तञ्च सुगन्धकुसुमा दिभिः ।।२३।।
साधारं शोधितं शुद्धं घटन्तन्तुपरिष्कृतम् ।।
धूपितं स्थापितं शुद्धवासितोदप्रपूरितम् ।। २४ ।।
पञ्चत्वक्पञ्चपत्रैश्च मृत्तिकाभिश्च पञ्चभिः।।
मिलितं च सुगन्धेन लेपयेत्तम्मुनीश्वर ।।२५।।
वस्त्राम्रदलदूर्वाग्रनारिकेलसुमैस्ततः।।
तं घटं वस्तुभिश्चान्यैस्संकुर्यात्समलंकृतम् ।। २६ ।।
विन्यसेत्पञ्चरत्नानि घटे तत्र मुनीश्वर ।।
हिरण्यञ्चापि तेषां वाभावे भक्त्या प्रविन्यसेत् । २७।
नीलाख्यरत्नं च तथा रत्ने माणिक्यहेमनी ।।
प्रवालगोमेदके च पञ्चरत्नमिदं स्मृतम् ।।२८।।
नृम्लस्कमिति सम्प्रोच्य ग्लूमित्यन्ते ऽथ देशिकः ।।
सम्यग्विधानतः प्रीत्या सानुकूलः समर्चयेत् ।। २९ ।।
आधारशक्तिमारभ्य यजनोक्तविधानतः ।।
पञ्चावरणमार्गेण देवमावाह्य पूजयेत् ।। 6.18.३० ।।
निवेद्य पायसान्नञ्च तांबूलादि यथा पुरा ।।
नामाष्टकार्चनान्तं च कृत्वा तमभिमन्त्रयेत् ।। ३१ ।।
प्रणवाष्टोत्तरशतं ब्रह्मभिः पञ्चभिः क्रमात् ।।
सद्यादीशान्तमप्यस्त्रं रक्षितं वर्मणा पुनः ।। ३२ ।।
अवगुंठ्य प्रदर्श्याथ धूपदीपौ च भक्तितः ।।
धेनुयोन्याख्यमुद्रे च सम्यक्तत्र प्रदर्शयेत् ।। २३ ।।
ततश्च देशिकस्तस्य दर्भैराच्छाद्य मस्तके ।।
मण्डलस्थेशदिग्भागे चतुरस्रं प्रकल्पयेत् ।। ३४ ।।
तदुपर्य्यासनं रम्यं कल्पयित्वा विधानतः ।।
तत्र संस्थापयेच्छिष्यं शिशुं सानुकूलतः ।। ३५ ।।
ततः कुम्भं समुत्थाय स्वस्तिवाचनपूर्वकम् ।।
अभिषिंचेद्गुरुः शिष्यं प्रादक्षिण्येन मस्तके ।। ३६ ।।
प्रणवं पूर्वमुच्चार्य्य सप्तधा ब्रह्मभि स्ततः ।।
पञ्चभिश्चाभिषेकान्ते शंखोदेनाभिवेष्टयेत् ।।३७।।
चारुदीपं प्रदर्श्याथ वाससा परिमृज्य च ।।
नूतनं दोरकौपीनं वाससी परिधापयेत् ।। ३८ ।।
 क्षालितांघ्रिर्द्विराचम्य धृतभस्मगुरुश्शिशुम् ।।
हस्ताभ्यामवलंब्याथ हस्तौ मंडपमध्यतः ।। ३९।।
तदंगेषु समालिप्य तद्भस्म विधिना गुरुः ।।
आसने संप्रवेश्याथ कल्पिते स्थापयेत्सुखम्।।6.18.४०।।
पूर्वाभिमुखमात्मीयतत्त्वज्ञानाभिलाषिणम्।।
स्वसनस्थो गुरुर्ब्रूयादमलात्मा भवेति तम् ।।४१।।
गुरुश्च परिपूर्णोऽस्मि शिव इत्यचलस्थितिः।।
समाधिमाचरेत्सम्यङ्मुहूर्त्तं गूढमानसः ।। ४२ ।।
पश्चादुन्मील्य नयने सानुकूलेन चेतसा ।।
सांजलिं संस्थितं शुद्धं पश्येच्छिष्यमनाकुलः ।। ४३ ।।
स्वहस्तम्भसितालिप्तं विन्यस्य शिशुमस्तके ।।
दक्षश्रुतावुपदिशेद्धंसस्सोहमिति स्फुटम् ।। ४४ ।।
तत्राद्याहंपदस्यार्थः शक्तयात्मा स शिवस्स्वयम् ।।
स एवाहं शिवोस्मीति स्वात्मानं संविभावय।।४५।।
य इत्यणोरर्थतत्त्वमुपदिश्य ततो वदेत्।।
अवांतराणां वाक्यानामर्थतात्पर्यमादरात् ।। ४६ ।।
वाक्यानि वच्मि ते ब्रह्मन्सावधानमतिश्शृणु ।।
तानि धारय चित्ते हि स ब्रूयादिति संस्फुटम् ।।४७।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासपद्धतौ शिष्यकरणविधिर्नामाष्टादशोऽध्यायः ।।१८।।