शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः १७

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः १६ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः १७
वेदव्यासः
अध्यायः १८ →

वामदेव उवाच ।।
नियत्यधस्तात्प्रकृतेरुपरिस्थः पुमानिति ।।
पूर्वत्र भवता प्रोक्तमिदानीं कथमन्यथा।।१।।
मायया संकुचद्रूपस्तदधस्तादिति प्रभो ।।
इति मे संशयं नाथ छेत्तुमर्हसि तत्त्वतः ।। २ ।।
श्रीसुबह्मण्य उवाच ।।
अद्वैतशैववादोऽयं द्वैतन्न सहते क्वचित् ।।
द्वैतं च नश्वरं ब्रह्माद्वैतम्परमनश्वरम् ।। ३ ।।
सर्वज्ञस्सर्वकर्ता च शिवस्सर्वेश्वरोऽगुणः ।।
त्रिदेवजनको ब्रह्मा सच्चिदानन्दविग्रहः ।। ४ ।।
स एव शंकरो देवस्स्वेच्छया च स्वमायया ।।
संकुचद्रूप इव सन्पुरुषस्संबभूव ह ।।५।।
कलादि पञ्चकेनैव भोक्तृत्वेन प्रकल्पितः ।।
प्रकृतिस्थः पुमानेष भुङ्क्ते प्रकृतिजान्गुणान् ।। ६ ।।
इति स्थानद्वयान्तस्थः पुरुषो न विरोधकः ।।
संकुचन्निजरूपाणां ज्ञानादीनां समष्टिमान् ।। ७ ।।
सत्त्वादिगुणसाध्यं च बुध्यादित्रितयात्मकम्।।
चित्तम्प्रकृतितत्त्वं तदासीत्सत्त्वादिकारणात् ।। ८ ।।
सात्त्विकादिविभेदेन गुणाः प्रकृतिसम्भवाः ।।
गुणेभ्यो बुद्धिरुत्पन्ना वस्तुनिश्चयकारिणी ।। ९ ।।
ततो महानहङ्कारस्ततो बुद्धीन्द्रियाणि च ।।
जातानि मनसो रूपं स्यात्संकल्पविकल्पकम् ।। 6.17.१० ।।
बुद्धीन्द्रियाणि श्रोत्रं त्वक् चक्षुर्जिह्वा च नासिका ।।
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च गोचरः ।। ११ ।।
बुद्धीन्द्रियाणां कथितः श्रोत्रादिक्रमतस्ततः ।।
वैकारिकादहंकारात्तन्मात्राण्यभवन्क्रमात् ।।१२।।
तानि प्रोक्तानि सूक्ष्माणि मुनिभि स्तत्त्वदर्शिभिः ।।
कर्मेन्द्रियाणि ज्ञेयानि स्वकार्य्यसहितानि च ।।१३।।
विप्रर्षे वाक्करौ पादौ पायूपस्थौ च तत्क्रियाः ।।
वचनादानगमनविसर्ग्गानन्दसंज्ञिताः।।१४।।
भूतादिकादहंकारात्तन्मात्राण्यभवन्क्रमात्।।
तानि सूक्ष्माणि रूपाणी शब्दादीनामिति स्थितिः।। ।। १५ ।।
तेभ्यश्चाकाशवाय्वग्निजलभूमिजनिः क्रमात् ।।
विज्ञेया मुनिशार्दूल पञ्चभूतमितीष्यते ।।१६।।
अवकाशप्रदानं च वाहकत्वञ्च पावनम् ।।
संरम्भो धारन्तेषां व्यापाराः परिकीर्तिताः ।। १७ ।।
वामदेव उवाच ।।
भूतसृष्टिः पुरा प्रोक्ता कलादिभ्यः कथम्पुनः ।।
अन्यथा प्रोच्यते स्कन्द संदेहोऽत्र महान्मम ।। १८ ।।
आत्मतत्त्वमकारस्स्याद्विद्या स्यादुस्ततः परम् ।।
शिवतत्त्वम्मकारस्स्याद्वामदेवेति चिंत्यताम् ।।१९।।
बिन्दुनादौ तु विज्ञेयौ सर्वतत्त्वार्थकावुभौ।।
तत्रत्या देवतायाश्च ता मुने शृणु साम्प्रतम्।।6.17.२०।।
ब्रह्मा विष्णुश्च रुद्रश्च महेश्वरसदाशिवौ ।।
ते हि साक्षाच्छिवस्यैव मूर्तयः श्रुतिविश्रुताः ।।२१।।
इत्युक्तम्भवता पूर्वमिदानीमुच्यतेऽन्यथा ।।
तन्मात्रेभ्यो भवन्तीति सन्देहोऽत्र महान्मम ।।२२।।
कृत्वा तत्करुणां स्कन्द संशयं छेत्तुमर्हसि ।।
इत्याकर्ण्य मुनेर्वाक्यं कुमारः प्रत्यभाषत ।।२३।।
श्रीसुब्रह्मण्य उवाच ।।
तस्माद्वेति समारभ्य भूतसृष्टिक्रमे मुने ।।
ताञ्छृणुष्व महाप्राज्ञ सावधानतया द रात् ।।२४।।
जातानि पञ्च भूतानि कलाभ्य इति निश्चितम्।।
स्थूलप्रपञ्चरूपाणि तानि भूतपतेर्वपुः ।।२५।।
शिवतत्त्वादि पृथ्व्यन्तं तत्त्वानामुदयक्रमे।।
तन्मात्रेभ्यो भवन्तीति वक्तव्यानि क्रमान्मुने।।२६।।
तन्मात्राणां कलानामप्यैक्यं स्याद्भूतकारणम्।।
अविरुद्धत्व मेवात्र विद्धि ब्रह्माविदांवर ।। २७ ।।
स्थूलसूक्ष्मात्मके विश्वे चन्द्रसूर्य्यादयो ग्रहाः ।।
सनक्षत्राश्च संजातास्तथान्ये ज्योतिषां गणाः ।।२८।।
ब्रह्मविष्णुमहेशादिदेवता भूतजातयः ।।
इन्द्रादयोऽपि दिक्पाला देवाश्च पितरोऽसुराः ।।२९।।
राक्षसा मानुषाश्चान्ये जंगमत्वविभागिनः ।।
पशवः पक्षिणः कीटाः पन्नगादि प्रभेदिनः ।। 6.17.३० ।।
तरुगुल्मलतौषध्यः पर्वताश्चाष्ट विश्रुताः ।।
गंगाद्यास्सरितस्सप्त सागराश्च महर्द्धयः ।। ३१ ।।
यत्किंचिद्वस्तुजातन्तत्सर्वमत्र प्रतिष्ठितम् ।।
विचारणीयं सद्बुध्या न बहिर्मुनिसत्तम ।।३२।।
स्त्रीपुंरूपमिदं विश्वं शिवशक्त्यात्मकं बुधैः ।।
भवादृशैरुपास्यं स्याच्छिवज्ञानविशारदैः ।। ३३ ।।
सर्वं ब्रह्मेत्युपासीत सर्वं वै रुद्र इत्यपि।।
श्रुतिराह मुने तस्मात्प्रपञ्चात्मा सदाशिवः ।।३४।।
अष्टत्रिंशत्कलान्याससामर्थ्याद्वैतभावना।।
सदाशिवोऽहमेवेति भावि तात्मा गुरुः शिवः।।३५।।
एवं विचारी सच्छिष्यो गुरुस्स्यात्स शिवस्स्वयम्।।
प्रपञ्चदेवतायंत्रमंत्रात्मा न हि संशयः ।। ३६ ।।
आचार्य्य रूपया विप्र संछिन्नाखिलबन्धनः ।।
शिशुः शिवपदासक्तो गुर्वात्मा भवति धुवम् ।। ३७ ।।
यदस्ति वस्तु तत्सर्वं गुण प्राधान्ययोगतः ।।
समस्तं व्यस्तमपि च प्रणवार्थम्प्रचक्षते ।। ३८ ।।
रागादिदोषरहितं वेदसारः शिवो दिशः।।
तुभ्यम्मे कथितम्प्रीत्याऽद्वैतज्ञानं शिवप्रियम् ।। ३९ ।।
यो ह्यन्यथैतन्मनुते मद्वचो मदगर्वितः ।।
देवो वा मानवस्सिद्धो गन्धर्वो मनुजोऽपि वा ।। 6.17.४० ।।
दुरात्मनस्तस्य शिरश्छिंद्यां समतयाद्ध्रुवम् ।।
सच्छक्त्या रिपुकालाग्निकल्पया न हि संशयः ।। ४१ ।।
भवानेव मुने साक्षाच्छिवाद्वैतविदांवरः।।
शिवज्ञानोपदेशे हि शिवाचारप्रदर्शकः ।।४२।।
यद्देहभस्मसम्पर्कात्संछिन्नाघव्रजोऽशुचिः।।
महापिशाचः सम्प्राप्य त्वत्कृपातस्सतां गतिम्।।४३।।
शिवयोगीति संख्यातत्रिलोक विभवो भवान्।।
भवत्कटाक्षसम्पर्कात्पशु पशुपतिर्भवेत्।।४४।।
तव तस्य मयि प्रेक्षा लोकाशिक्षार्थमादरात् ।।
लोकोपकारकरणे विचरन्तीह साधवः ।। ४५ ।।
इदं रहस्यम्परमं प्रतिष्ठितमतस्त्वयि ।।
त्वमपि श्रद्धया भक्त्या प्रणवेष्वेव सादरम् ।। ४६ ।।
उपविश्य च तान्सर्वान्संयोज्य परमेश्वरे ।।
शिवाचारं ग्राहयस्व भूतिरुद्राक्षमिश्रितम् ।। ४७ ।।
त्वं शिवो हि शिवाचारी सम्प्राप्ताद्वैतभावतः ।।
विचरँलोकरक्षायै सुखमक्षयमाप्नुहि ।। ४८ ।।
।। सूत उवाच ।।
श्रुत्वेदमद्भुतमतं हि षडाननोक्तं वेदान्तनिष्ठितमृषिस्तु विनम्रमूर्त्तिः ।।
भूत्वा प्रणम्य बहुशो भुवि दण्डवत्तत्पादारविन्दविहरन्मधुपत्वमाप ।। ४९ ।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां शिवाद्वैतज्ञानकथनादि सृष्टिकथनं नाम सप्तदशोऽध्यायः ।।१७।।