शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः १६

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः १५ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः १६
वेदव्यासः
अध्यायः १७ →

सूत उवाच ।।
श्रुत्वोपदिष्टं गुरुणा वेदार्थं मुनिपुंगवः ।।
परमात्मनि संदिग्धं परिपप्रच्छ सादरम् ।।१।।
वामदेव उवाच ।।
ज्ञानशक्तिधर स्वामिन्परमानन्दविग्रह ।।
प्रणवार्थामृतं पीतं श्रीमुखख्जात्परिस्रुतम् ।।२।।
दृढप्रज्ञश्च जातोऽस्मि संदेहो विगतो मम ।।
किंचिदन्यन्महासेन पृच्छामि त्वां शृणु प्रभो ।।३।।
सदाशिवादिकीटांतरूपस्य जगतः स्थितिः।।
स्त्रीपुंरूपेण सर्वत्र दृश्यते न हि संशयः ।। ४ ।।
एवं रूपस्य जगतः कारणं यत्सनातनम् ।।
स्त्रीरूपं तत्किमाहोस्वित्पुरुषो वा नपुंसकम् ।। ५ ।।
उत मिश्रं किमन्यद्वा न जातस्तत्र निर्णयः ।।
बहुधा विवदन्तीह विद्वांसश्शास्त्रमोहिताः ।। ६ ।।
जगत्सृष्टिविधायिन्यः श्रुतयो जगता सह ।।
विष्णुब्रह्मादयो देवाः सिद्धाश्च न विदन्ति हि ।।७।।
यथैक्यभावं गच्छेयुरेतदन्यच्च वेदय ।।
जानामीति करोमीति व्यवहारः प्रदृश्यते ।। ८ ।।
स हि सर्वात्मसंसिद्धो विवादो नात्र कस्यचित् ।।
सर्वदेहेन्द्रियमनोबुध्यहंकारसंभवः ।।९।।
आहोस्वि दात्मनोरूपं महानत्रापि संशयः ।।
द्वयमेतद्धि सर्व्वेषां विवादास्पदमद्भुतम् ।। 6.16.१० ।।
उत्पाट्याज्ञानसंभूतं संशयाख्यं विषद्रुमम्।।
शिवाद्वैतमहाकल्पवृक्षभूमिर्यथाभवेत् ।। ११ ।।
चित्तं मम यथा देव बोध्योऽस्मि कृपया तव ।।
कृपातस्तव देवेश दृढज्ञानी भवा म्यहम् ।। १२ ।।
सूत उवाच ।।
श्रुत्वैवं मुनिना पृष्टं वचो वेदान्तनिर्वृतम् ।।
रहस्यं प्रभुराहेदं किंचित्प्रहसिताननः ।।९३।।
सुब्रह्मण्य उवाच ।।
एतदेव मुने गुह्यं शिवेन परिभाषितम् ।।
अम्बायाः शृण्वतो देव्या वामदेव ममापि हि ।। १४ ।।
तस्याः स्तन्यं तदा पीत्वा संतृप्तोऽस्मि मुहुर्मुहुः।।
श्रुतवान्निश्चलं तद्वै निश्चितं मे विचारितम्।।१५।।
तत्ते वदामि दयया वामदेव महामुने।।
महद्गुह्यं च परमं सुत त्वं शृणु सांप्रतम् ।।१६।।
कर्मास्ति तत्त्वादारभ्य शास्त्रवादस्सुविस्तरः ।।
यथाविवेकं श्रोतव्यो ज्ञानिना ज्ञानदो मुने।।१७।।
त्वयोपदिष्टा ये शिष्यास्तत्र को वा भवत्समः ।।
कपिलादिषु शास्त्रेषु भ्रमंत्यद्यापि तेऽधमाः ।।१८।।
ते शप्ता मुनिभिः षड्भिश्शिवनिन्दा पराः पुरा।।
न श्रोतव्या हि तद्वार्त्ता तेऽन्यथावादिनो यतः।।१९।।
अनुमानप्रयोगस्याप्यवकाशो न विद्यते।।
पंचावयवयुक्तस्य स तु धूमस्य दर्शनात् ।। 6.16.२० ।।
पर्व्वतस्याग्निमद्भावं वदंत्यत्रापि सुव्रत।
प्रत्यक्षस्य प्रपंचस्य दर्शनालंबनं त्वतः ।। २१ ।।
ज्ञातव्यः परमेशानः परमात्मा न संशयः ।।
स्त्रीपुंरूपमयं विश्वं प्रत्यक्षेणैव दृश्यते ।। २२ ।।
षट्कोशरूपः पिण्डो हि तत्र चाद्यत्रयम्भवेत् ।।
मात्रंशजं पुनश्चान्यत्पित्रंशजमिति श्रुतिः ।। २३ ।।
एवं सर्वशरीरेषु स्त्रीपुंभावविदो जनाः ।।
परमात्मन्यपि मुने स्त्रीपुंभावं विदुर्बुधा।।२४।।
सच्चिदानदरूपत्वं वदति ब्रह्मणः श्रुतिः ।।
असन्निवर्त्तकः शब्दः सदात्मेति निगद्यते ।। २५ ।।
निवर्त्तनं जगत्त्वस्य चिच्छब्देन विधीयते ।।
त्रिलिंगवर्त्ती सच्छब्दः पुरुषोत्र विधीयताम् ।। २५ ।।
प्रकाशवाची स भवेत्सत्प्रकाश इति स्फुटम् ।।
ज्ञानशब्दस्य पर्य्यायश्चिच्छब्दः स्त्रीत्वमागतः ।। २७ ।।
प्रकाशश्चिच्च मिथुनं जगत्कारणतां गतम् ।।
सच्चिदात्मन्यपि तथा जगत्कारणतां गतम् ।। २८ ।।
एकत्रैव शिवश्शक्तिरिति भावो विधीयते ।।
तैलवर्त्त्यादिमालिन्यात्प्रकाशस्यापि वर्त्तते ।। २९ ।।
मालिन्यमशिवत्वं च चिताग्न्यादिषु दृश्यते ।।
एवं विवर्त्तकत्वेन शिवत्वं श्रुतिचोदितम् ।। 6.16.३० ।।
जीवाश्रितायाश्चिच्छक्तेर्दौर्बल्यं विद्यते सदा ।।
तन्निवृत्यर्थमेवात्र शक्तित्वं सार्वकालिकम् ।। ३१ ।।
बलवाञ्छक्तिमांश्चेति व्यवहारः प्रदृश्यते ।।
लोके वेदे च ससतं वामदेव महामुने ।।३२।।
एवं शिवत्वं शक्तित्वं परमात्मनि दर्शितम् ।।
शिवशक्त्योस्तु संयोगादानंदस्सततोदितः ।।३३।।
अतो मुने तमुद्दिश्य मुनयः क्षीणकल्मषाः ।।
शिवे मनस्समाधाय प्राप्ताश्शिवमनामयम् ।। ३४ ।।
सर्वात्मत्वं तयोरेवं ब्रह्मेत्युपनिषत्सु च ।।
गीयते ब्रह्मशब्देन बृंहिधात्वर्थगोचरम् ।। ३५ ।।
बृंहणत्वं बृहत्त्वं च शंभ्वाख्यविग्रहे ।।
पंचब्रह्ममये विश्वप्रतीतिर्ब्रह्म शब्दिता ।। ३६ ।।
प्रतिलोमात्मके हंसे वक्ष्यामि प्रणवोद्भवम् ।।
तव स्नेहाद्वामदेव सावधानतया शृणु ।।३७।।
व्यंजनस्य सकारस्य हकारस्य च वर्जनात् ।।
ओमित्येव भवेत्स्थूलो वाचकः परमात्मनः ।। ३८ ।।
महामन्त्रस्स विज्ञेयो मुनिभिस्तत्त्वदर्शिभिः ।।
तत्र सूक्ष्मो महामन्त्रस्तदुद्धारं वदामि ते ।। ३९ ।।
आद्ये त्रिपंचरूपे च स्वरे षोडशके त्रिषु ।।
महामन्त्रो भवेदादौ स सकारो भवेद्यदा ।।6.16.४०।।
हंसस्य प्रतिलोमः स्यात्सकारार्थश्शिवः स्मृतः ।।
शक्त्यात्मको महामन्त्रवाच्यः स्यादिति निर्णयः ।।४१।।
गुरूपदेश काले तु सोहंशक्त्यात्मकश्शिवः ।।
इति जीवपरो भूयान्महामन्त्रस्तदा पशुः ।।४२।।
शक्त्यात्मकश्शिवांशश्च शिवैक्याच्छिवसाम्यभाक् ।।
प्रज्ञानं ब्रह्मवाक्ये तु प्रज्ञानार्थः प्रदृश्यते ।।४३।।
प्रज्ञानशब्दश्चैतन्यपर्य्यायस्स्यान्न संशयः ।।
चैतन्यमात्मेति मुने शिवसूत्रं प्रवर्त्तितम् ।। ४४ ।।
चैतन्यमिति विश्वस्य सर्वज्ञानक्रियात्मकम् ।।
स्वातन्त्र्यं तत्स्वभावो यः स आत्मा परिकीर्त्तितः ।। ४५ ।।
इत्यादिशिवसूत्राणां वार्तिकं कथितं मया।।
ज्ञानं बंध इतीदं तु द्वितीयं सूत्रमीशितुः ।।४६।।
ज्ञानमित्यात्मनस्तस्य किंचिज्ज्ञानक्रियात्मकम्।।
इत्याहाद्यपदेनेशः पशुवर्गस्य लक्षणम्।।४७।।
एतद्द्वयं पराशक्तेः प्रथमं स्पंदतां गतम्।।
एतामेव परां शक्तिं श्वेताश्वतरशाखिनः ।।४८।।
स्वाभाविकी ज्ञानबलक्रिया चेत्यस्तुवन्मुदा।।
ज्ञानक्रियेच्छारूपं हि शंभोर्दृष्टित्रयं विदुः।।४९।।
एतन्मनोमध्यगं सदिन्द्रियज्ञानगोचरम् ।।
अनुप्रविश्य जानाति करोति च पशुः सदा।।6.16.५० ।।
तस्मादात्मन एवेदं रूपमित्येव निश्चितम् ।।
प्रपंचार्थं प्रवक्ष्यामि प्रणवै क्यप्रदर्शनम् ।।५१।।
ॐमितीदं सर्वमिति श्रुतिराह सनातनी ।।
तस्माद्वेतीत्युपक्रम्य जगत्सृष्टिः प्रक्रीर्तिता ।।५२।।
तस्याः श्रुतेस्तु तात्पर्यं वक्ष्यामि श्रूयतामिदम् ।।
तव स्नेहाद्वामदेव विवेकार्थविजृंभितम् ।।५३।।
शिवशक्तिसमायोगः परमात्मेति निश्चितम्।।
पराशक्तेस्तु संजाता चिच्छक्तिस्तु तदुद्भवा ।। ५४ ।।
आनन्दशक्तिस्तज्जास्यादिच्छाशक्तिस्तदुद्भवा ।।
ज्ञानशक्तिस्ततो जाता क्रियाश क्तिस्तु पंचमी ।।
एताभ्य एव संजाता निवृत्त्याद्याः कला मुने।।५५।।
चिदानन्दसमुत्पन्नौ नादबिन्दू प्रकीर्त्तितौ।।
इच्छाशक्तेर्मकारस्तु ज्ञानशक्तेस्तु पंचमः ।। ५६ ।।
स्वरः क्रियाशक्तिजातो ह्यकारस्तु मुनीश्वर ।।
इत्युक्ता प्रणवोत्पत्तिः पंचब्रह्मोद्भवं शृणु ।। ५७ ।
शिवादीशान उत्पन्नस्ततस्तत्पुरुषोद्भवः ।।
ततोऽघोरस्ततो वामस्सद्योजातोद्भवस्ततः ।।५८।।
एतस्मान्मातृकादष्टत्रिंशन्मातृसमुद्भ वः।।
ईशानाच्छान्त्यतीताख्या कला जाताथ पूरुषात्।।
उत्पद्यते शान्तिकला विद्याऽघोरसमुद्भवा ।।५९।।
प्रतिष्ठा च निवृत्तिश्च वाम सद्योद्भवे मते ।।
ईशाच्चिच्छक्तिमुखतो विभोर्मिथुनपञ्चकम्।।6.16.६०।।
अनुग्रहादिकृत्यानां हेतुः पञ्चकमिष्यते ।।
तद्विद्भिर्मुनिभिः प्राज्ञैर्वरतत्त्वप्रदर्शिभिः ।। ६१ ।।
वाच्यवाचकसम्बन्धान्मिथुनत्वमुपेयुषि ।।
कलावर्णस्वरूपेऽस्मिन्पञ्चके भूतपञ्चकम् ।।६२।।
वियदादि क्रमादासीदुत्पन्नम्मुनिपुङ्गव ।।
आद्यं मिथुनमारभ्य पञ्चमं यन्मयं विदुः ।। ६३ ।।
शब्दैकगुण आकाशः शब्दस्पर्शगुणो मरुत्।।
शब्दस्पर्शरूपगुणप्रधानो वह्निरुच्यते ।। ६४ ।।
शब्दस्पर्शरूपरसगुणकं सलिलं स्मृतम्।।
शब्द्स्पर्शरूपरसगन्धाढ्या पृथिवी स्मृता ।। ६५ ।।
व्यापकत्वञ्च भूतानामिदमेव प्रकीर्तितम् ।।
व्याप्यत्वं वैपरीत्येन गन्धादिक्रमतो भवेत् ।।६६।।
भूतपञ्चकरूपोऽयम्प्रपञ्चः परिकीर्त्यते।।
विराट् सर्वसमष्ट्यात्मा ब्रह्माण्डमिति च स्फुटम्।।६७।।
पृथिवीतत्त्वमारभ्य शिवतत्त्वावधि क्रमात्।।
निलीय तत्त्वसंदोहे जीव एव विलीयते।।६८।।
संशक्तिकः पुनस्सृष्टौ शक्तिद्वारा विनिर्गतः।।
स्थूलप्रपञ्चरूपेण तिष्ठत्याप्रलयं सुखम्।।६९।।
निजेच्छया जगत्सृष्टमुद्युक्तस्य महेशितुः।।
प्रथमो यः परिस्पन्दश्शिव तत्त्वन्तदुच्यते।।6.16.७०।।
एषैवेच्छाशक्तितत्वं सर्वकृत्यानुवर्तनात् ।।
ज्ञानक्रियाशक्तियुग्मे ज्ञानाधिक्ये सदाशिवः ।।७१।।
महेश्वरं क्रियोद्रेके तत्त्वं विद्धि मुनीश्वर।।
ज्ञानक्रियाशक्तिसाम्यं शुद्धविद्यात्मकं मतम्।।७२।।
स्वाङ्गरूपेषु भावेषु मायातत्त्वविभेदधीः।।
शिवो यदा निजं रूपं परमैश्वर्य्यपूर्वकम्।।७३।।
निगृह्य माययाशेषपदार्थग्राहको भवेत्।।
तदा पुरुष इत्याख्या तत्सृष्ट्वेत्यभवच्छ्रुतिः।।७४।।
अयमेव हि संसारी मायया मोहितः पशुः।।
शिवज्ञानविहीनो हि नानाकर्मविमूढधीः।।७५।।
शिवादभिन्नं न जगदात्मानं भिन्नमित्यपि ।।
जानतोऽस्य पशोरेव मोहो भवति न प्रभो।।७६।।
यथैन्द्रजालिकस्यापि योगिनो न भवेद्भ्रमः ।।
गुरुणा ज्ञापितैश्वर्यश्शिवो भवति चिद्धनः ।।७७।।
सर्वकर्तृत्वरूपा च सर्वजत्वस्वरूपिणी ।।
पूर्णत्वरूपान्नित्यत्वव्यापकत्व स्वरूपिणी ।।७८।।
शिवस्य शक्तयः पञ्च संकुचदूपभास्कराः।।७९।।
अपि संकोचरूपेण विभांत्य इति नित्यशः ।।
पशोः कलाख्य विद्येति रागकालौ नियत्यपि ।।
तत्त्वपञ्चकरूपेण भवत्यत्र कलेति सा ।।6.16.८०।।
किंचित्कर्तृत्त्त्वहेतुस्स्यात्किंचित्तत्त्वैकसाधनम् ।।
सा तु विद्या भवेद्रागो विषयेष्वनुरंजकः।।८१।।
कालो हि भावभावानां भासानां भासनात्मकः ।।
क्रमावच्छेदको भूत्वा भूतादिरिति कथ्यते ।।।८२।।
इदन्तु मम कर्तव्यमिदन्नेति नियामिका ।।
नियतिस्स्याद्विभोश्शक्तिस्तदाक्षेपात्पतेत्पशुः ।।८३।।
एतत्पंचकमेवास्य स्वरूपा वारकत्वतः ।।
पञ्चकञ्चुकमाख्यातमन्तरंगं च साधनम् ।।८४।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां शिवतत्त्ववर्णनन्नाम षोडशोऽध्यायः ।।१६।।