सामग्री पर जाएँ

शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः १५

विकिस्रोतः तः
← अध्यायः १४ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः १५
वेदव्यासः
अध्यायः १६ →

ईश्वर उवाच ।।
ततः परं प्रवक्ष्यामि सृष्टिपद्धतिमुत्तमाम् ।।
सदाशिवान्महेशादिचतुष्कस्य वरानने।।१।।
सदाशिवस्समष्टिस्स्यादाकाशधिपतिः प्रभुः ।।
अस्यैव व्यष्टितापन्नम्महेशादिचतुष्टयम् ।।२।।
सदाशिवसहस्रांशान्महेशस्य समुद्भवः ।।
पुरुषाननरूपत्वाद्वायोरधिपतिश्च सः ।।३।।
मायाशक्तियुतो वामे सकलश्च क्रियाधिकः ।।
अस्यैव व्यष्टिरूपं स्यादीश्वरादिचतुष्टयम् ।।४।।
ईशो विश्वेश्वरः पश्चात्परमेशस्ततः परम् ।।
सर्वेश्वर इतीदन्तु तिरोधाचक्रमुत्तमम् ।।५।।
तिरोभावो द्विधा भिन्न एको रुद्रादिगोचरः ।।
अन्यश्च देहभावेन पशुवर्गस्य सन्ततेः ।।६।।
भोगानुरंजनपरः कर्मसाम्यक्षणावधि ।।
कर्मसाम्ये स एकः स्यादनुग्रहमयो विभुः ।।७।।
तत्र सर्वेश्वरा यास्ते देवताः परिकीर्त्तिताः ।।
परब्रह्मात्मकाः साक्षान्निर्विकल्पा निरामयाः ।।८।।
तिरोभावात्मकं चक्रं भवेच्छान्तिकलामयम् ।।
महेश्वराधिष्ठितं च पदमेतदनुत्तमम् ।।९।।
एतदेव पदं प्राप्यं महेशपदसेविनाम् ।।
माहेश्वराणां सालोक्यक्रमादेव विमुक्तिदम्।।6.15.१०।।
महेश्वरसहस्रांशाद्रुद्रमूर्तिरजायत ।।
अघोरवदनाकारस्तेजस्तत्त्वाधिपश्च सः ।।११।।
गौरीशक्तियुतो वामे सर्व्वसंहारकृत्प्रभुः ।।
अस्यैव व्यष्टिरूपं स्याच्छिवाद्यथ चतुष्टयम् ।। १२ ।।
शिवो हरो मृडभवौ विदितं चक्रमद्भुतम् ।।
संहाराख्यं महादिव्यं परमं हि मुनीश्वर ।। १३ ।।
स संहारस्त्रिधा प्रोक्तो बुधैर्नित्यादिभेदतः ।।
नित्यो जीवसुषुप्त्याख्यो विधेर्नैमित्तिकः स्मृतः ।। १४ ।।
विलयस्तस्य तु महानिति वेदनिदर्शितः ।।
जीवानां जन्मदुःखादिशांतानामुषितात्मनाम् ।। १५ ।।
विश्रांत्यर्थं मुनिश्रेष्ठ कर्मणां पाकहेतवे।।
संहारः कल्पितस्त्रेधा रुद्रेणामिततेजसा ।।१६।।
रुद्रस्यैव तु कृत्यानां त्रयमेतदुदाहृतम् ।।
संहृतवपि सृष्ट्यादिकृत्यानां पञ्चकं विभोः ।।१७।।
मुने तत्र भवाद्यास्ते देवताः परिकीर्त्तिताः ।।
परब्रह्मस्वरूपाश्च लोकानुग्रहकारकाः ।। १८ ।।
संहाराख्यमिदं चक्रं विद्यारूपकलामयम् ।।
अधिष्ठितं च रुद्रेण पदमेतन्निरामयम् ।।१९।।
एतदेव पदं प्राप्यं रुद्राराधनकांक्षिणाम् ।।
रुद्राणां तद्धि सालोक्यक्रमात्सायुज्यदम्मुने ।।6.15.२०।।
रुद्रमूर्त्तेस्सहस्रांशाद्विष्णोश्चैवाभवज्जनिः ।।
स वामदेवचक्रात्मा वारितत्त्वैकनायकः ।।२१।।
रमाशाक्तियुतो वामे सर्व्वरक्षाकरो महान्।।
चतुर्भुजोऽरविंदाक्षः श्यामश्शंखादिचिह्नभृत् ।।२२।।
अस्यैव वासुदेवादिचतुष्कं व्यष्टितां गतम् ।।
उपासनरतानां वै वैष्णवानां विमुक्तिदम् ।।२३।।
वासुदेवोऽनिरुद्धश्च ततस्संकर्षणः परः ।।
प्रद्युम्नश्चेति विख्यातं स्थितिचक्रमनुत्तमम् ।। २४ ।।
स्थितिस्सृष्टस्य जगतस्तत्कर्त्रा सह पालनम् ।।
आरब्धकर्मभोगान्तं जीवानां फलभोगिनाम् ।। २५ ।।
विष्णोरेवेदमाख्यातं कृत्यं रक्षाविधायिनः।।
स्थितावपि तु सृष्ट्यादि कृत्यानां पंचकं विभोः ।।२६।।
तत्र प्रद्युम्नमुख्यास्ते देवताः परिकीर्तिताः ।।
निर्विकल्पा निरातंका मुक्तानंदकरास्सदा ।।२७।।
स्थितिचक्रमिदं ब्रह्मन्प्रतिष्ठारूपमुत्तमम् ।।
जनार्दनाधिष्ठितं च परमं पदमुच्यते ।। २८ ।।
एवदेव पदं प्राप्यं विष्णुपादाब्जसेविनाम् ।।
वैष्णवानां चक्रमिदं सालोक्यादिपदप्रदम् ।।२९।।
विष्णोरेव सहस्रांशात्संबभूव पितामहः ।।
सद्योजातमुखात्मा यः पृथिवीतत्त्वनायकः ।।6.15.३०।।
वाग्देवीसहितो वामे सृष्टिकर्त्ता जगत्प्रभुः ।।
चतुर्मुखो रक्तवर्णो रजोरूपस्वरूपवान् ।।३१।।
हिण्यगर्भाद्यस्यैव व्यष्टिरूपं चतुष्टयम् ।।
हिरण्यगर्भोथ विराट् पुरुषः काल एव च।।३२।।
सृष्टि चक्रमिदं ब्रह्म पुत्रादिऋषिसेवितम्।।
सर्व्वकामार्थदं ब्रह्मन्परिवारसुखप्रदम्।।३३।।
सृष्टिस्तु संहृतस्यास्य जीवस्य प्रकृतौ बहिः।।
आनीय कर्मभोगार्थ साधनांगफलैस्सह ।।३४।।
संयोजनमितीदं तु कृत्यं पैतामहं विदुः ।।
जगत्सृष्टिक्रियाविज्ञा यावद्व्यूहं सुखावहम् ।।३५।।
जगत्सृष्टावपि मुने कृत्यानां च पंचकं विभोः ।।
अस्ति कालोदयस्तत्र देवताः परिकीर्त्तिताः।।३६।।
निवृत्तिरूपमाख्यातं सृष्टिचक्रमिदं बुधैः ।।
पितामहाधिष्ठितं च पदमेतद्धि शोभनम् ।।३७।।
एतदेव प्रदं प्राप्यं ब्रह्मार्पितधियां नृणाम् ।।
पैतामहानामेतद्धि सालोक्या दिविमुक्तिदम् ।।३८।।
अस्मिन्नपि चतुष्के तु चक्राणां प्रणवो भवेत् ।।
महेशादिक्रमादेव गौण्या वृत्त्या स वाचकः ।।३९।।
इदं खलु जगच्चक्रं श्रुतिविश्रुतवैभवम् ।।
पञ्चारं चक्रमिति ह स्तौति श्रुतिरिदम्मुने।।6.15.४०।।
एकमेव जगच्चक्रं शम्भोश्शक्तिविजृंभितम् ।।
सृष्ट्यादिपंचांवयवं पंचारमिति कथ्यते ।।४१।।
अलातचक्रभ्रमिवदविच्छिन्नलयोदयम् ।।
परितो वर्तते यस्मात्तस्माच्चक्रमितीरितम्।।४२।।
सृष्ट्यादिपृथुसृष्टित्वात्पृथुत्वेनोपदृश्यते ।।
हिरण्मयस्य देवस्य शम्भोरमिततेजसः ।। ४३ ।।
शक्तिकार्यमिदं चक्रं हिरण्यज्योतिराश्रितम् ।।
सलिलेनावृतमिदं सलिलं वह्निनावृतम् ।।४४।।
आवृतो वायुना वह्निराकाशेनावृतं महत् ।।
भूतादिना तथाकाशो भूतादिर्महतावृतः ।। ४५ ।।
अव्यक्तेनावृतस्तद्वन्महानित्येवमास्तिकैः ।।
ब्रह्माण्डमिति संप्रोक्तमाचार्य्यैर्मुनिसत्तम ।। ४६ ।।
उक्तानि सप्तावरणान्यस्य विश्वस्य गुप्तये ।।
चक्राद्दशगुणाधिक्यं सलिलस्य विधीयते ।। ४७ ।।
उपर्युपरि चान्योन्यमेवं दशगुणाधिकम् ।।
ब्रह्माण्डमिति विज्ञेयं तद्द्विजैर्मुनिनायक ।।४८।।
इममर्थमुरीकृत्य चक्रसामीप्यवर्त्तनात्।।
सलिलस्य च तन्मध्ये इति प्राह श्रुतिस्स्वयम्।।४९।।
अनुग्रहतिरोभावसंहृतिस्थितिसृष्टिभिः ।।
करोत्यविरतं लीलामेकश्शक्तियुतश्शिवः।।6.15.५०।।
बहुनेह किमुक्तेन मुने सारं वदामि ते।।
शिव एवेदमखिलं शक्तिमानिति निश्चितम्।।५१।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायामुपासनामूर्त्तिवर्णनं नाम पंचदशोऽध्यायः ।।१५।।