शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः १४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १३ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः १४
वेदव्यासः
अध्यायः १५ →

वामदेव उवाच ।।
भगवन्षण्मुखाशेष विज्ञानामृतवारिधे ।।
विश्वामरेश्वरसुत प्रणतार्त्तिप्रभञ्जन ।।१।।
षड्विधार्त्थपरिज्ञानमिष्टदं किमुदाहृतम् ।।
के तत्र षड्विधा अर्थाः परिज्ञानञ्च किं प्रभो ।।२।।
प्रतिपाद्यश्च कस्तस्य परिज्ञाने च किं फलम् ।।
एतत्सर्वं समाचक्ष्व यद्यत्पृष्टं मया गुह ।। ३ ।।
एतमर्त्थमविज्ञाय पशुशास्त्रविमोहितः।।
अद्याप्यहम्महासेन भ्रान्तश्च शिवमायया।।४।।
अहं शिवपदद्वंद्वज्ञानामृतरसायनम्।।
पीत्त्वा विगतसम्मोहो भविष्यामि यथा तथा ।। ५ ।।
कृपामृतार्द्रया दृष्ट्या विलोक्य सुचिरं मयि ।।
कर्त्तव्योऽनुग्रहः श्रीमत्पादाब्जशरणागते ।। ६ ।।
इति श्रुत्वा मुनीन्द्रोक्तं ज्ञानशक्तिधरो विभुः ।।
प्राहान्यदर्शनमहासंत्रासजनकं वचः ।।७।।
सुब्रह्मण्य उवाच ।।
श्रूयताम्मुनिशार्दूल त्वया यत्पृष्टमादरात्।।
समष्टिव्यष्टिभावेन परिज्ञानम्महेशितुः ।।८।।
प्रणवार्त्थपरिज्ञानरूपं तद्विस्तरादहम् ।।
वदामि षड्विधार्थैक्य परिज्ञानेन सुव्रत ।। ९ ।।
प्रथमो मंत्ररूपः स्याद्द्वितीयो मंत्रभावितः ।।
देवतार्त्थस्तृतीयोऽर्थः प्रपञ्चार्थस्ततः परम्।।6.14.१०।।
चतुर्थः पञ्चमार्थस्स्याद्गुरुरूपप्रदर्शकः।
षष्ठश्शिष्यात्मरूपोऽर्थः षड्विधार्थाः प्रकीर्त्तिताः ।।११।।
तत्र मन्त्रस्वरूपन्ते वदामि मुनिसत्तम।।
येन विज्ञातमात्रेण महाज्ञानी भवेन्नरः ।। १२।।
आद्यस्स्वरः पंचमश्च पञ्चमान्तस्ततः परः ।।
बिन्दुनादौ च पञ्चार्णाः प्रोक्ता वेदैर्न चान्यथा ।।१३।।
एतत्समष्टिरूपो हि वेदादिस्समुदाहृतः ।।
नादस्सर्व्वसमष्टिः स्याद्बिंद्वाढ्यं यच्चतुष्टयम् ।। १४ ।।
व्यष्टिरूपेण संसिद्धं प्रणवे शिववाचके ।।
यंत्ररूपं शृणु प्राज्ञ शिवलिंगं तदेव हि ।। १५ ।।
सर्व्वाधस्ताल्लिखेत्पीठं तदूर्ध्वम्प्रथमं स्वरम् ।।
उवर्णं च तदूर्द्ध्वं स्थम्पवर्गान्तं तदूर्ध्वगम् ।।१६।।
तन्मस्तकस्थं बिंदुं च तदूर्द्ध्वं नादमालिखेत् ।।
यंत्रे संपूर्णतां याति सर्वकामः प्रसिध्यति ।।१७।।
एतं यंत्रं समालिख्य प्रणवे नव वेष्टयेत् ।।
तदुत्थेनैव नादेन विद्यन्नादावसानकम् ।। १८ ।।
देवतार्त्थम्प्रवक्ष्यामि गूढं सर्व्वत्र यन्मुने ।।
तव स्नेहाद्वामदेव यथा शंकरभाषितम् ।। १९ ।।
सद्योजातम्प्रपद्यामीत्युपक्रम्य सदाशिवोम् ।।
इति प्राह श्रुतिस्तारं ब्रह्मपंचकवाचकम् ।। 6.14.२० ।।
विज्ञेया ब्रह्मरूपिण्यस्सूक्ष्माः पंचैव देवताः ।।
एता एव शिवस्यापि मूर्तित्वे नोपबृंहिताः ।। २१ ।।
शिवस्य वाचको मन्त्रश्शिवमूर्त्तेश्च वाचकः ।।
मूर्त्तिमूर्तिमतोर्भेदो नात्यन्तं विद्यते यतः ।।२२ ।।
ईशानमुकुटोपेत इत्यारभ्य पुरोदितः ।।
शिवस्य विग्रहः पञ्चवक्त्राणि शृणु सांप्रतम्।। २३ ।।
पंचमादि समारभ्य सद्योजाताद्यनुक्रमात् ।।
उर्द्ध्वांतमीशानांतं च मुखपंचकमीरितम् ।। २४ ।।
ईशानस्यैव देवस्य चतुर्व्यूहपदे स्थितम् ।।
पुरुषाद्यं च सद्यांतं ब्रह्मरूपं चतुष्टयम् ।। २५ ।।
पंच ब्रह्मसमष्टिस्स्यादीशानं ब्रह्म विश्रुतम् ।।
पुरुषाद्यं तु तद्व्यष्टिस्सद्योजातान्तिकं मुने ।। २६ ।।
अनुग्रहमयं चक्रमिदं पंचार्त्थकारणम् ।।
परब्रह्मात्मकं सूक्ष्मं निर्विकारमनामयम् ।। २७ ।।
अनुग्रहोऽपि द्विविधस्तिरोभावादिगोचरः ।।
प्रभुश्चान्यस्तु जीवानां परावरविमुक्तिदः ।। २८ ।।
एतत्सदाशिवस्यैव कृत्यद्वयमुदाहृतम् ।।
अनुग्रहेऽपि सृष्ट्यादिकृत्यानां पंचकं विभोः ।।२९।।
मुने तत्रापि सद्याद्या देवताः परिकीर्त्तिताः ।।
परब्रह्मस्वरूपास्ताः पंच कल्याणदास्सदा ।। 6.14.३० ।।
अनुग्रहमयं चक्रं शांत्यतीतकलामयम् ।।
सदाशिवाधिष्ठितं च परमं पदमुच्यते ।।३१।।
एतदेव पदं प्राप्यं यतीनां भवितात्मनाम् ।।
सदाशिवोपासकानां प्रणवासक्तचेतसाम् ।। ३२ ।।
एतदेव पदं प्राप्य तेन साकं मुनीश्वराः ।।
भुक्त्वा सुविपुलान्भोगान्देवेन ब्रह्मरूपिणा ।। ३३ ।।
महाप्रलयसंभूतौ शिवसाम्यं भजंति हि ।।
न पतंति पुनः क्वापि संसाराब्धौ जनाश्च ते ।। ३४ ।।
ते ब्रह्मलोक इति च श्रुतिराह सनातनी ।।
ऐश्वर्य्यं तु शिवस्यापि समष्टिरिदमेव हि ।। ३५ ।।
सर्वैश्वर्येण सम्पन्न इत्याहाथर्व्वणी शिखा ।।
सर्वैश्वर्य्यप्रदातृत्वमस्यैव प्रवदन्ति हि ।। ३६ ।।
चमकस्य पदान्नान्य दधिकं विद्यते पदम् ।।
ब्रह्मपंचकविस्तारप्रपंचः खलु दृश्यते ।।३७।।
ब्रह्मभ्य एवं संजाता निवृत्त्याद्याः कला मताः ।।
सूक्ष्मभूतस्वरूपिण्यः कारणत्वेन विश्रुताः ।। ३८ ।।
स्थूलरूपस्वरूपस्य प्रपंचस्यास्य सुव्रत ।।
पंचधावस्थितं यत्तद्ब्रह्मपंचकमिष्यते ।। ३९ ।।
पुरुषः श्रोत्रवाण्यौ च शब्दकाशौ च पंचकम् ।।
व्याप्तमीशानरूपेण ब्रह्मणा मुनिसत्तम ।। 6.14.४० ।।
प्रकृतिस्त्वक्च पाणिश्च स्पर्शो वायुश्च पंचकम् ।।
व्याप्तं पुरुषरूपेण ब्रह्मणैव मुनीश्वर ।। ४१ ।।
अहंकारस्तथा चक्षुः पादो रूपं च पावकः ।।
अघोरव्रह्मणा व्याप्तमेतत्पंचकमंचितम् ।।४२।।
बुद्धिश्च रसना पायू रस आपश्च पंचकम् ।।
ब्रह्मणा वामदेवेन व्याप्तं भवति नित्यशः ।।४३।।
मनो नासा तथोपस्थो गन्धो भूमिश्च पंचकम्।।
सद्येन ब्रह्मणा व्याप्तं पंचब्रह्ममयं जगत् ।।४४।।
यंत्ररूपेणोपदिष्टः प्रणवश्शिववाचकः।।
समष्टिः पंचवर्णानां बिंद्वाद्यं यच्चतुष्टयम् ।।४५।।
शिवोपदिष्टमार्गेण यंत्ररूपं विभावयेत्।।
प्रणवम्परमं मन्त्राधिराजं शिवरूपिणम्।।४६।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां शिवरूपप्रणववर्णनं नाम चतुर्द्दशोध्यायः ।। १४ ।।