शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः १३
वेदव्यासः
अध्यायः १४ →

।। सुब्रह्मण्य उवाच ।।
अथ मध्याह्नसमये स्नात्वा नियतमानसः ।।
गन्धपुष्पाक्षतादीनि पूजाद्रव्याण्युपाहरेत।।।।
नैर्ऋत्ये पूजयेद्देवं विघ्रेशं देवपूजितम्।।
गणानां त्वेति मन्त्रेणावाहयेत्सुविधानतः ।।२।।
रक्तवर्णं महाकायं सर्व्वाभरणभूषितम्।।
पाशांकुशाक्षाभीष्टञ्च दधानं करपंकजैः ।। ३ ।।
एवमावाह्य सन्ध्याय शंभुपुत्रं गजाननम्।।
अभ्यर्च्य पायसापूपनालिकेरगुडादिभिः ।।४।।
नैवेद्यमुत्तमं दद्यात्ताम्बूलादिमथापरम्।।
परितोष्य नमस्कृत्य निर्विघ्नम्प्रार्थयेत्ततः ।। ५ ।।
औपासनाग्नौ कर्त्तव्यं स्वगृह्योक्तविधानतः ।।
आज्यभागान्तमाग्नेयं मखतन्त्रमतः परम् ।। ६ ।।
भूः स्वाहेति त्र्यृचा पूर्णाहुतिं हुत्वा समाप्य च।।
गायत्रीं प्रजपेद्यावदपराह्णमतंद्रितः ।।७।।
अथ सायन्तनीं सन्ध्यामुपास्य स्नानपूर्वकम् ।। ।
सायमौपासनं हुत्वा मौनी विज्ञापयेद्गुरुम् ।। ६ ।।
श्रपयित्वा चरुन्तस्मिन्समिदन्नाज्यभेदतः ।।
जुहुयाद्रौद्रसूक्तेन सद्योजातादि पञ्चभिः ।। ९ ।।
ब्रह्मभिश्च महादेवं सांबं वह्नौ विभावयेत् ।।
गौरीर्मिमाय मन्त्रेण हुत्वा गौरीमनुस्मरन् ।। 6.13.१०।।
ततोऽग्नये स्विष्टकृते स्वाहेति जुहुयात्सकृत्।।
हुत्वोपरिष्टात्तन्त्रन्तु ततोऽग्नेरुत्तरे बुधः ।।११।।
स्थित्वासने जपेन्मौनी चैलाजिनकुशोत्तरे ।।
आब्राह्मं च मुहूर्ते तु गायत्री दृढमानसः ।। १२ ।।
ततः स्नात्वा त्वशक्तश्चेद्भस्मना वा विधानतः ।।
श्रपयित्वा चरुं तस्मिन्नग्नावे वाभिधारितम् ।। १३ ।।
उदगुद्वास्य बर्हिष्यासाद्याज्येन चरुं ततः ।।
अभिघार्य्य व्याहृतीश्च रौद्रसूक्तञ्च पञ्च च ।। १४ ।।
जपेद्ब्रह्माणि सन्धार्य्य चित्तं शिवपदांबुजे ।।
प्रजापतिमथेन्द्रञ्च विश्वेदेवास्ततः परम् ।।१५।
ब्रह्माणं सचतुर्थ्यन्तं स्वाहांतान्प्रणवा दिकान् ।।
संजप्य वाचयित्वाऽथ पुण्याहं च ततः परम् ।। १६ ।।
परस्तात्तंत्रमग्नये स्वाहेत्यग्निमुखावधि ।।
निर्वर्त्य पश्चात्प्राणाय स्वाहेत्यारभ्य पञ्चभिः ।।१७।।
साज्येन चरुणा पश्चादग्निं स्विष्टकृतं हुनेत् ।।
पुनश्च प्रजपेत्सूक्तं रौद्रं ब्रह्माणि पञ्च च ।।१८।।
महेशादिचतुर्व्यूहमन्त्रांश्च प्रजपेत्पुनः ।।
हुत्वोपरिष्टात्तन्त्रन्तु स्वशाखोक्तेन वर्त्मना ।।१९।।
तत्तद्देवान्समुद्दिश्य सांगं कुर्य्याद्विचक्षणः।।
एवमग्निमुखाद्यं यत्कर्मतन्त्रम्प्रवर्त्तितम् ।।6.13.२०।।
अतः परं प्रजुहुयाद्विरजाहोममात्मनः ।।
षड्विंशतत्त्वरूपेस्मिन्देहे लीनस्य शुद्धये ।।२१।।
तत्त्वान्येतानि मद्देहे शुध्यन्तामित्यनुस्मरन् ।।
तत्रात्मतत्त्वशुद्ध्यर्थं मन्त्रैरारुणकेतुकैः ।।२२।।
पठ्यमानैः पृथिव्यादिपुरुषांतं क्रमान्मुने ।।
साज्येन चरुणा मौनी शिवपादाम्बुजं स्मरन् ।।२३।।
पृथिव्यादि च शब्दादि वागाद्यं पञ्चकं पुनः ।।
श्रोत्राद्यञ्च शिरः पार्श्वपृष्ठोदरचतुष्टयम् ।।२४।।
जंघां च योजयेत्पश्चात्त्वगाद्यं धातुसप्तकम् ।।
प्राणाद्यं पञ्चकं पश्चादन्नाद्यं कोशपञ्चकम्।।२५।।।
मनाश्चित्तं च बुद्धिश्चाहंकृतिः ख्यातिरेव च ।।
संकल्पन्तु गुणाः पश्चात्प्रकृतिः पुरुषस्ततः ।।२६।।
पुरुषस्य तु भोक्तृत्वं प्रतिपन्नस्य भोजने ।।
अन्तरंगतया तत्त्वपंचकं परिकीर्तितम् ।। २७ ।।
नियतिः कालरागश्च विद्या च तदनन्तरम् ।।
कला च पंचकमिदं मयोत्पन्नम्मुनीश्वर ।।२८।।
मायान्तु प्रकृतिं विद्यादिति माया श्रुतीरिता ।।
तज्जान्येतानि तत्त्वानि श्रुत्युक्तानि न संशयः ।।२९।।।
कालस्वभावो नियतिरिति च श्रुतितब्रवीत् ।।
एतत्पञ्चकमेवास्य पञ्चकञ्चक्रमुच्यते ।। 6.13.३० ।।
अजानन्पञ्चतत्त्वानि विद्वानपि च। मूढधीः ।।
निपत्याधस्तात्प्रकृतेरुपरिष्टात्पुमानयम् ।। ३१ ।।
काकाक्षिन्यायमाश्रित्य वर्त्तते पार्श्वतोन्वहम् ।।
विद्यातत्त्वमिदं प्रोक्तं शुद्धविद्यामहेश्वरौ ।। ३२ ।।
सदाशिवश्च शक्तिश्च शिवश्चेदं तु पञ्चकम् ।।
शिव तत्त्वमिदम्ब्रह्मन्प्रज्ञानब्रह्मवाग्यतः ।। ३३।।।
पृथिव्यादिशिवांतं यत्तत्त्वजातं मुनीश्वर ।।
स्वकारणलयद्वारा शुद्धिरस्य विधीयताम् ।। ३४ ।।
एकादशानां मन्त्राणाम्परस्मैपद पूर्वकम् ।।
शिवज्योतिश्चतुर्थ्यन्तमिदम्पदमथोच्चरेत् ।। ३५ ।।
न ममेति वदेत्पश्चादुद्देशत्याग ईरितः ।।
अतः परं विविद्यैति कपोतकायेति मन्त्रयोः ।। ३६ ।।
व्यापकाय पदस्यान्ते परमात्मन इत्यपि ।।
शिवज्योतिश्चतुर्थ्यन्तं विश्वभूतपदम्पुनः ।।३७।।
घसनोत्सुकशब्दञ्च चतुर्थ्यंतमथो वदेत् ।।
परस्मैपदमुच्चार्य्य देवाय पदमुच्चरेत्।।३८।।
उत्तिष्ठस्वेति मन्त्रस्य विश्वरूपाय शब्दतः ।।
पुरुषाय पदम्ब्रूयादोस्वाहेत्यस्य संवदेत् ।।३९।।
लोकत्रयपदस्यान्ते व्यापिने परमात्मने।।
शिवायेदं न मम च पदम्ब्रूयादतः परम् ।।6.13.४०।।।
स्व शाखोक्तप्रकारेण पुरस्तात्तन्त्रकर्म्म च ।।
निर्वर्त्य सर्पिषा मिश्रं चरुम्प्राश्य पुरोधसे ।। ४१ ।।
प्रदद्याद्दक्षिणान्तस्मै हेमादिपरिबृंहिताम् ।।
ब्रह्माणमुद्वास्य ततः प्रातरौपासनं हुनेत् ।। ४२ ।।
सं मां सिञ्चन्तु मरुत इति मन्त्रञ्जपेन्नरः ।।
याते अग्न इत्यनेन मन्त्रेणाग्नौ प्रताप्य च ।। ४३ ।।
हस्तमग्नौ समारोप्य स्वात्मन्यद्वैतधामनि ।।
प्राभातिकीं ततः सन्ध्यामुपास्यादित्यमप्यथ ।। ४४ ।।
उपस्थाय प्रविश्याप्सु नाभिदघ्नं प्रवेशयन् ।।
तन्मन्त्रान्प्रजपेत्प्रीत्या निश्चलात्मा समुत्सुकः ।।४५।।
आहिताग्निस्तु यः कुर्य्यात्प्राजापत्येष्टिमाहिते ।।
श्रौते वैश्वानरे सम्यक्सर्ववेदसदक्षिणाम् ।।४६।।
अथाग्निमात्मन्यारोप्य ब्राह्मणः प्रव्रजेद्गृहात्।।
सावित्रीप्रथमं पादं सावित्रीमित्युदीर्य च।।४७।।
प्रवेशयामि शब्दान्ते भूरोमिति च संवदेत् ।।
द्वितीयम्पादमुच्चार्य्य सावित्रीमिति पूर्व्ववत् ।। ४८ ।।
प्रवेशयामि शब्दान्ते भुवरोमिति संवदेत्।।
तृतीयम्पादमुच्चार्य्य सावित्रीमित्यतः परम् ।।४९।।
प्रवेशयामि शब्दान्ते सुवरोमित्युदीरयेत्।।
त्रिपादमुच्चरेत्पूर्वं सावित्रीमित्यतः परम् ।।6.13.५०।।
प्रवेशयामि शब्दान्ते भूर्भुवस्सुवरोमिति ।।
उदीरयेत्परम्प्रीत्या निश्चलात्मा मुनीश्वर ।।५१।।
इयम्भगवती साक्षाच्छंकरार्द्धशरीरिणी ।।
पंचवक्त्रा दशभुजा विपञ्चनयनोज्ज्वला ।।५२।।
नवरत्नकिरीटोद्यच्चन्द्र लेखावतंसिनी ।।
शुद्धस्फटिकसंकाशा दयायुधधरा शुभा ।।५३।।
हारकेयूरकटककिंकिणीनूपुरादिभिः ।।
भूषितावयवा दिव्यवसना रत्नभूषणा ।। ५४ ।।
विष्णुना विधिना देवऋषिगंधर्व्वनायकैः ।।
मानवैश्च सदा सेव्या सर्व्वात्मव्यापिनी शिवा ।। ५५ ।।
सदाशिवस्य देवस्य धर्मपत्नी मनोहरा ।।
जगदम्बा त्रिजननी त्रिगुणा निर्गुणाप्यजा ।। ५६ ।।
इत्येवं संविचार्य्याथ गायत्रीं प्रजपेत्सुधीः ।।
आदिदेवीं च त्रिपदां ब्राह्मणत्वादिदामजाम् ।।५७।।
यो ह्यन्यथा जपेत्पापो गायत्री शिवरूपिणीम्।।
स पच्यते महाघोरे नरके कल्पसंख्यया ।। ५८ ।।
सा व्याहृतिभ्यः संजाता तास्वेव विलयं गता।।
ताश्च प्रणवसम्भूताः प्रणवे विलयं गता ।।५९।।
प्रणवस्सर्ववेदादिः प्रणवः शिववाचकः ।।
मन्त्राधिराजराजश्च महाबीजं मनुः परः ।। 6.13.६० ।।
शिवो वा प्रणवो ह्येष प्रणवो वा शिवः स्मृतः ।।
वाच्यवाचकयोर्भेदो नात्यन्तं विद्यते यतः ।। ६१ ।।
एनमेव महामन्त्रञ्जीवानाञ्च तनुत्यजाम् ।।
काश्यां संश्राव्य मरणे दत्ते मुक्तिं परां शिवः ।। ६२ ।।
तस्मादेकाक्षरन्देवं शिवं परमकारणम् ।।
उपासते यतिश्रेष्ठा हृदयाम्भोजमध्यगम् ।। ६३ ।।
मुमुक्षवोऽपरे धीरा विरक्ता लौकिका नराः।।
विषयान्मनसा ज्ञात्वोपासते परमं शिवम् ।।६४।।
एवं विलाप्य गायत्रीं प्रणवे शिववाचके ।।
अहं वृक्षस्य रेरिवेत्यनुवाकं जपेत्पुनः ।। ६५ ।।
यश्छन्दसामृषभ इत्यनुवाकमुपक्रमात् ।।
गोपायांतं जपन्पश्चादुत्थितोहमितीरयेत् ।।६६।।
वदेज्जयेत्त्रिधा मन्दमध्योच्छ्रायक्रमान्मुने।।
प्रणवम्पूर्व्वमुद्धत्य सृष्टिस्थितिलयक्रमात्।।६७।।
तेषामथ क्रमाद्भूयाद्भूस्संन्यस्तम्भुवस्तथा ।।
संन्यस्तं सुवरित्युक्त्वा संन्यस्तं पदमुच्चरम् ।।६८।।
सर्वमंत्राद्यः प्रदेशे मयेति च पदं वदेत् ।।
प्रणवं पूर्वमुद्धृत्य समष्टिं व्याहृतीर्वदेत् ।।६९।।
समस्तमित्यतो ब्रूयान्मयेति च समब्रवीत् ।।
सदाशिवं हृदि ध्यात्वा मंदादीति ततो मुने।।6.13.७०।।
प्रैषमंत्रांस्तु जप्त्वैवं सावधानेन चेतसा ।।
अभयं सर्वभूतेभ्यो मत्तः स्वाहेति संजपन् ।। ७१ ।।
प्राच्यां दिश्यप उद्धृत्य प्रक्षिपेदजलिं ततः ।।
शिखां यज्ञोपवीतं च यत्रोत्पाट्य च पाणिना ।।७२।।
गृहीत्वा प्रणवं भूश्च समुद्रं गच्छ सम्वदेत् ।।
वह्निजायां समुच्चार्य्य सोदकाञ्जलिना ततः ।। ७३ ।।
अप्सु हूयादथ प्रेषैरभिमंत्र्य त्रिधा त्वपः ।
प्राश्य तीरे समागत्य भूमौ वस्त्रादिकं त्यजेत् ।। ७४ ।।
उदङ्मुखः प्राङ्मुखो वा गच्छेस्सप्तपदाधिकम् ।।
किञ्चिद्दूरमथाचार्यस्तिष्ठ तिष्ठेति संवदेत् ।।७५।।
लोकस्य व्यवहारार्थं कौपीनं दण्डमेव च ।।
भगवन्स्वीकुरुष्वेति दद्यात्स्वेनैव पाणिना ।। ७६ ।।
दत्त्वा सुदोरं कौपीनं काषायवसनं ततः ।।
आच्छाद्याचम्य च द्वेधा त शिष्यमिति संवदेत्।। ७७ ।।
इन्द्रस्य वज्रोऽसि तत इति मन्त्रमुदाहरेत् ।।
सम्प्रार्थ्य दण्डं गृह्णीयात्सखाय इति संजपन् ।। ७८ ।।
अथ गत्वा गुरोः पार्श्वं शिवपादांबुजं स्मरन् ।।
प्रणमेद्दण्डवद्भूमौ त्रिवारं संयतात्मवान् ।। ७९ ।।
पुनरुत्थाय च शनैः प्रेम्णा पश्यन्गुरुं निजम् ।।
कृताञ्जलिपुटस्तिष्ठेद्गुरुपाद समीपतः ।। 6.13.८० ।।
कर्म्मारम्भात्पूर्वमेव गृहीत्वा गोमयं शुभम् ।।
स्थूलामलकमात्रेण कृत्वा पिण्डान्विशोषयेत।।८१।।
सौरैस्तु किरणैरेव होमारम्भाग्निमध्यगान्।।
निक्षिप्य होमसम्पूर्त्तौ भस्म संगृह्य गोपयेत् ।।८२।।
ततो गुरुस्समादाय विरजानलजं सितम् ।।
भस्म तेनैव तं शिष्यमग्निरित्यादिभिः क्रमात् ।।८३।।
मंत्रैरंगानि संस्पृश्य मूर्द्धादिचरणान्ततः ।।
ईशानाद्यैः पञ्चमंत्रै शिर आरभ्य सर्वतः ।। ८४ ।।
समुद्धृत्य विधानेन त्रिपुण्ड्रं धारयेत्ततः।।
त्रियायुषैस्त्र्यम्बकैश्च मूर्ध्न आरभ्य च क्रमात्।।८५।।
ततस्सद्भक्तियुक्तेन चेतसा शिष्यसत्तमः।।
हृत्पंकजे समासीनं ध्यायेच्छिवमुमासखम्।।८६।।
हस्तं निधाय शिरसि शिष्यस्य स गुरुर्वदेत् ।।
त्रिवारं प्रणवं दक्षकर्णे ऋष्यादिसंयुतम् ।।८७।।
ततः कृत्वा च करुणां प्रणवस्यार्थ मादिशेत् ।।
षड्विधार्त्थपरि ज्ञानसहितं गुरुसत्तमः।।८८।।
द्विषट्प्रकारं स गुरुं प्रणमेद्भुवि दण्डवत्।।
तदधीनो भवेन्नित्यं नान्यत्कर्म्म समाचरेत् ।।८९।।
तदाज्ञया ततः शिष्यो वेदान्तार्थानुसारतः ।।
शिवज्ञानपरो भूयात्सगुणागुणभेदतः ।।6.13.९०।।
ततस्तेनैव शिष्येण श्रवणाद्यंगपूर्व्वकम् ।।
प्रभातिकाद्यनुष्ठानं जपान्ते कारयेद्गुरुः ।। ९१ ।।
पूजां च मण्डले तस्मिन्कैलासप्रस्तराह्वये ।।
शिवोदितेन मार्गेण शिष्यस्तत्रैव पूजयेत् ।।९२।।
देवन्नित्यमशक्तश्चेत्पूजितुं गुरुणा शुभम् ।।
स्फाटिकं पीठिकोपेतं गृह्णीयाल्लिंगमैश्वरम् ।।९३।।
वरं प्राणपरित्यागश्छेदनं शिरसोऽपि मे ।।
न त्वनभ्यर्च्य भुञ्जीयां भगवन्तं त्रिलोचनम् ।। ९४ ।।
एवन्त्रिवारमुच्चार्य्य शपथं गुरुसन्निधौ ।
कुर्य्याद्दृढमनाश्शिष्यः शिवभक्तिसमुद्वहन्।।९५।।
तत एव महादेवं नित्यमुद्युक्तमानसः।।
पूजयेत्परया भक्त्या पञ्चावरणमार्गतः ।।९६।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां त्रयोदशोऽध्यायः ।। १३ ।।