सामग्री पर जाएँ

शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः १२

विकिस्रोतः तः
← अध्यायः ११ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः १२
वेदव्यासः
अध्यायः १३ →

श्रीब्रह्मण्य उवाच ।।
साधुसाधु महाभाग वामदेव मुनीश्वर।।
त्वमतीव शिवे भक्तश्श्विज्ञानवतांवरः।।१।।
त्वया त्वविदितं किंचिन्ना स्ति लोकेषु कुत्रचित्।।
तथापि तव वक्ष्यामि लोकानुग्रहकारिणः।।२।।
लोकेस्मिन्पशवस्सर्व्वे नानाशास्त्रविमोहिताः ।।
वञ्चिताः परमेशस्य माययातिविचित्रया ।।३।।
न जानति परं साक्षात्प्रणवार्थम्महेश्वरम् ।।
सगुणन्निर्गुणं ब्रह्म त्रिदेवजनकम्परम् ।।४।।
दक्षिणम्बाहुमुद्धृत्य शपथम्प्रब्रवीमि ते ।।
सत्यं सत्यं पुनस्सत्यं सत्यं सत्यं पुनः पुनः ।।५।।
प्रणवार्थश्शिवः साक्षात्प्राधान्येन प्रकीर्त्तितः ।।।
श्रुतिषु स्मृतिशास्त्रेषु पुराणेष्वागमेषु च ।।६।।
यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह ।।
आनन्दं यस्य वे विद्वान्न बिभेति कुतश्च न ।। ७ ।।
यस्माज्जगदिदं सर्वं विधिविष्ण्विन्द्रपूर्वकम् ।।
सह भूतेन्द्रियग्रामैः प्रथमं सम्प्रसूयते ।। ८ ।।
न सम्प्रसूयते यो वै कुतश्चन कदाचन ।।
यस्मिन्न भासते विद्युन्न न सूर्यो न चन्द्रमाः ।। ९ ।।
यस्य भासो विभातीदञ्जगत्सर्वं समन्ततः ।।
सर्व्वैश्वर्य्येण सम्पन्नो नाम्ना सर्व्वेश्वरस्स्वयम्।।6.12.१०।।
यो वै मुमुक्षुभिर्ध्येयः शम्भुराकाशमध्यगः ।।
सर्वव्यापी प्रकाशात्मा भासरूपो हि चिन्मयः ।।११।।।
यस्य पुंसः परा शक्तिर्भावगम्या मनोहरा ।।
निर्गुणा स्वगुणैरेव निगूढा निष्कला शिवा ।। १२ ।।
तदीयन्त्रिविधंरूपं स्थूलं सूक्ष्मं परन्ततः ।।
ध्येयं मुमुक्षुभिर्नित्यं क्रमतो योगिभिर्मुने ।।१३।।
निष्कलस्सर्व्वदेवानामादिदेवस्सनातनः ।।
ज्ञानक्रियास्वभावो यः पर मात्मेति गीयते ।। १४।।
तस्य देवाधिदेवस्य मूर्त्तिस्साक्षात्सदाशिवः ।।
पञ्चमंत्रतनुर्देवः कलापञ्चकविग्रहः ।। १५ ।।
शुद्धस्फटिकसंकाशः प्रसन्नः शीतलद्युतिः ।।
पंचवक्त्रो दशभुजस्त्रिपंचनयनः प्रभुः ।। १६।।
ईशानमुकुटोपेतः पुरुषास्यः पुरातनः ।।
अघोरहृदयो वामदेवगुह्यप्रदेशवान् ।। १७।।
सद्यपादश्च तन्मूर्त्तिः साक्षात्सकलनिष्कलः ।।
सर्व्वज्ञत्वादिषट्शक्तिषडंगीकृतविग्रहः ।।१८।।
शब्दादिशक्तिस्फुरितहृत्पंकजविराजितः ।।
स्वशक्त्या वामभागे तु मनोन्मन्या विभूषितः ।।१९।।
मन्त्रादिषड्विधार्थानामर्थोपन्याससार्गतः ।।
समष्टिव्यष्टिभावार्थं वक्ष्यामि प्रणवात्मकम् ।।6.12.२०।।
उपदेशक्रमो ह्यादौ वक्तव्यश्श्रूयतामयम्।।
चातुर्व्वर्ण्यं हि लोकेस्मिन्प्रसिद्धम्मानुषे मुने ।। २१ ।।
त्रैवर्णिकानामेवात्र श्रुत्याचारसमन्वयः ।।
शुश्रूषामात्रसारा हि शूद्राः श्रुतिबहिष्कृताः ।। २२ ।
त्रैवर्णिकानां सर्व्वेषां स्वस्वाश्रमरतात्मनाम् ।।
श्रुतिस्मृत्युदितो धर्मोऽनुष्ठेयो नापरः क्वचित् ।। २३ ।।
श्रुतिस्मृत्युदितं कर्म्म कुर्व्व न्सिद्धिमवाप्स्यति ।।
इत्युक्तम्परमेशेन वेदमार्गप्रदर्शिना ।। २४ ।।
वर्णाश्रमाचारपुण्यैरभ्यर्च्य परमेश्वरम् ।।
तत्सायुज्यं गतास्सर्वे बहवो मुनिसत्तमाः ।। २५ ।।
ब्रह्मचर्येण मुनयो देवा यज्ञक्रियाध्वना ।।
पितरः प्रजया तृप्ता इति हि श्रुतिरब्रवीत् ।।२६।।
एवं ऋणत्रयान्मुक्तो वानप्रस्थाश्रमं गतः ।।
शीतोष्णसुखदुःखादिसहिष्णुर्विजितेन्द्रियः ।।२७।।
तपस्वी विजिताहारो यमाय योगम भ्यसेत् ।।
यथा दृढतरा बुद्धिरविचाल्या भवेत्तथा ।। २८ ।।
एवं क्रमेण शुद्धात्मा सर्व्वकर्म्माणि विन्यसेत् ।।
सन्यस्य सर्व्वकर्म्माणि ज्ञानपूजापरो भवेत् ।। २९ ।।
सा हि साक्षाच्छिवैक्येन जीवन्मुक्तिफलप्रदा ।।
सर्व्वोत्तमा हि विज्ञेया निर्विकारा यतात्म नाम् ।। 6.12.३० ।।
तत्प्रकारमहं वक्ष्ये लोकानुग्रहकाम्यया ।।
तव स्तेहान्महाप्राज्ञ सावधानतया शृणु ।। ३१ ।।
सर्व्वशास्त्रार्थतत्त्वज्ञं वेदांतज्ञानपारगम् ।।
आचार्य्यमुपगच्छेत्स यतिर्म्मतिमतां वरम् ।।३२।।
तत्समीपमुपव्रज्य यथाविधि विचक्षणः ।।
दीर्घदण्डप्रणामाद्यैस्तोषयेद्यत्नतस्सुधीः।।३३।।
यो गुरु्स्स शिवः प्रोक्तो यश्शिवस्स गुरुस्स्मृतः ।।
इति निश्चित्य मनसा स्वविचारन्निवेदयेत्।।३४।।
लब्धानुज्ञस्तु गुरुणा द्वादशाहं पयोव्रती।।
शुक्लपक्षे चतुर्थ्यां वा दशम्यां वा विधानतः ।।३५।।
प्रातः स्नात्वा विशुद्धात्मा कृतनित्य क्रियस्सुधीः ।।
गुरुमाहूय विधिना नांदीश्राद्धं समारभेत् ।।३६।।
विश्वेदेवाः सत्यवसुसंज्ञावंतः प्रकीर्त्तिताः ।।
देवश्राद्धे ब्रह्मविष्णु महेशाः कथितास्त्रयः ।।३७।।
ऋषिश्राद्धे तु सम्प्रोक्ता देवक्षेत्रमनुष्यजाः ।।
देवश्राद्धे तु वसुरुद्रादित्यास्सम्प्रकीर्त्तिताः ।। ३८ ।।
चत्वारो मानुषश्राद्धे सनकाद्या मुनीश्वराः ।।
भूतश्राद्धे पंच महाभूतानि च ततः परम्।।३९।।
चक्षुरादीन्द्रियग्रामो भूतग्रामश्चतुर्विधः।। ।
पितृश्राद्धे पिता तस्य पिता तस्य पिता त्रयः ।।6.12.४०।।
मातृश्राद्धे मातृपितामह्यौ च प्रपितामही ।।
आत्मश्राद्धे तु चत्वार आत्मा पितृपितामहौ ।। ४१ ।।
प्रपितामहनामा च सपत्नीकाः प्रकीर्त्तिताः ।।
मातामहात्मकश्राद्धे त्रयो मातामहादयः ।। ४२ ।।
प्रतिश्राद्धं ब्राह्मणानां युग्मं कृत्वोपकल्पितान् ।।
आहूय पादौ प्रक्षाल्य स्वयमाचम्य यत्नतः ।।४३।।
समस्तसंपत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः ।।
अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादरेणवः ।।४४।।
आपद्धनध्वान्तसहस्रभानवः समीहिता र्थार्पणकामधेनवः ।।
समस्ततीर्थांबुपवित्रमूर्त्तयो रक्षंतु मां ब्राह्मणपादपांसवः ।।४५।।
इति जप्त्वा नमस्कृत्य साष्टांगं भुवि दण्डवत् ।।
स्थित्वा तु प्राङ्मुखः शम्भोः पादाब्जयुगलं स्मरन् ।।४६।।
सपवित्रकरश्शुद्ध उपवीती दृढासनः ।।
प्राणायामत्रयं कुर्य्या च्छ्रुत्वातिथ्यादिकं पुनः ।।४७।।
मत्संन्यासांगभूतं यद्विश्वेदेवादिकं तथा ।।
श्राद्धमष्टविधं मातामहगतं पार्वणेन वै ।।४८।।
विधानेन करिष्यामि युष्मदाज्ञापुरस्सरम् ।।
एवं विधाय संकल्पं दर्भानुत्तरतस्त्यजेत् ।।४९।।
उपस्पृश्याप उत्थाय वरणक्रममारभेत्।।
पवित्रपाणिः संस्पृश्य पाणी ब्राह्मणयोर्वदेत् ।।6.12.५०।।
विश्वेदेवार्थ इत्यादि भवद्भ्यां क्षण इत्यपि ।।५१।।
प्रसादनीय इत्यन्तं सर्व्व त्रैवं विधिक्रमः ।।
एवं समाप्य वरणं मण्डलानि प्रकल्पयेत् ।। ५२ ।।
उदगारभ्य दश च कृत्वाभ्यर्चनमक्षतैः ।।
तेषु क्रमेण संस्थाप्य ब्राह्मणान्पादयोः पुनः ।। ५३ ।।
विश्वेदेवादिनामानि ससंवबोधनमुच्चरेत् ।।
इदं वः पाद्यमिति सकुशपुष्पाक्षतोदकैः ।। ५४ ।।
पाद्यं दत्त्वा स्वयमपि क्षालितांघ्रिरुदङ्मुखः ।।
आचम्य युग्मक्लृप्तांस्तानासनेषूपवेश्य च ।। ५५ ।।
विश्वेदेवस्वरूपस्य ब्राह्मणस्येदमासनम् ।।
इति दर्भासनं दत्त्वा दर्भपाणिस्स्वयं स्थितः ।। ५६ ।।
अस्मिन्नान्दीमुखश्राद्धे विश्वेदेवार्थ इत्यपि ।।
भवद्भ्यां क्षण इत्युक्त्वा क्रियतामिति संवदेत् ।। ५७ ।।
प्राप्नुतामिति सम्प्रोच्य भवन्ताविति संवदेत् ।।
वदेतां प्राप्नुयावेति तौ च ब्राह्मणपुंगवौ ।। ५८ ।।
संपूर्णमस्तु संकल्पसिद्धिरस्त्विति तान्प्रति ।।
भवन्तोऽनुगृह्णंत्विति प्रार्थयेद्द्विजपुंगवान् ।। ५९ ।।
ततश्शुद्धकदल्यादिपात्रेषु क्षालितेषु च ।।
अन्नादिभोज्यद्रव्याणि दत्त्वा दर्भैः पृथक्पृथक् ।। 6.12.६० ।।
परिस्तीर्य्य स्वयं तत्र परिषिच्योदकेन च।।
हस्ताभ्यामवलंब्याथ पात्रं प्रत्येकमादरात्।।६१।।
पृथिवी ते पात्रमित्यादि कृत्वा तत्र व्यवस्थितान्।।
देवादींश्च चतुर्थ्यन्ताननूद्याक्षतसंयुतान् ।। ६२ ।।
उदग्गृहीत्वा स्वाहेति देवार्थेऽन्नं यजेत्पुनः ।।
न ममेति वदेदन्ते सर्वत्रायं विधिक्रमः ।।६३।।
यत्पादपद्मस्मरणाद्यस्य नामजपादपि ।।
न्यूनं कर्म भवेत्पूर्णन्तं वन्दे साम्बमीश्वरम् ।। ६४ ।।
इति जप्त्वा ततो ब्रूयान्मया कृत मिदं पुनः ।।
नान्दीमुखश्राद्धमिति यथोक्तं च वदेत्ततः ।। ६५ ।।
अस्विति ब्रूतेति च तान्प्रसाद्य द्विजपुंगवान् ।।
विसृज्य स्वकरस्थोदं प्रणम्य भुवि दण्डवत् ।।६६।।
उत्थाय च ततो ब्रूयादमृतम्भवतु द्विजान् ।।
प्रार्थयेच्च परं प्रीत्या कृतांजलिरुदारधीः।।६७।।
श्रीरुद्रं चमकं सूक्तं पौरुषं च यथाविधि ।।
चित्ते सदाशिवन्ध्यात्वा जपेद्ब्रह्माणि पञ्च च ।। ६८ ।।
भोजनान्ते रुद्रसूक्तं क्षमा पय्य द्विजान्मुनः ।।
तन्मन्त्रेण ततो दद्यादुत्तरापोशणं पुरः ।। ६९।।
प्रक्षालितांघ्रिराचम्य पिण्डस्थानं व्रजेत्ततः ।।
आसीनः प्राङ्मुखो मौनी प्राणायामत्रयं चरेत्।। 6.12.७० ।।
नान्दीमुखोक्तश्राद्धांगं करिष्ये पिण्डदानकम् ।।
इति संकल्प्य दक्षादिसमारभ्योदकान्ति कम् ।। ७१ ।।
नव रेखाः समालिख्य प्रागग्रान्द्वादश क्रमात्।।
संस्तीर्य्य दर्भान्दक्षादिदेवादिस्थानपञ्चकम् ।। ७२ ।।
तूष्णीं दद्यात्साक्षतोदं त्रिषु स्थानेषु च क्रमात्।।
स्थानेष्वन्येषु मातृषु मार्ज्जयन्तास्ततः परम् ।।७३।।
अत्रेति पितरः पश्चात्साक्षतोदं समर्च्य च ।।
दद्यात्ततः क्रमेणैव देवादिस्थानपञ्चके ।। ७४ ।।
तत्तद्देवादिनामानि चतुर्थ्यन्तान्युदीर्य्य च।।
पिण्डत्रयं ततो दद्यात्प्रत्येकं स्थानपञ्चके ।। ७५ ।।
स्वगृह्योक्तेन मार्गेण दद्यात्पिण्डान्पृथक्पृथक् ।।
दद्यादिदं साक्षतं च पितृसाङ्गुण्यहेतवे ।। ७६ ।।
ध्यायेत्सदाशिवं देवं हृदयाम्भोजमध्यतः ।।
तत्पादपद्मस्मरणादिति श्लोकं पठन्पुनः ।। ७७ ।।
नमस्कृत्य ब्राह्मणेभ्यो दक्षिणां च स्वश क्तितः ।।
दत्त्वा क्षमापय्य च तान्विसृज्य च ततः क्रमात् ।। ७८ ।।
पिण्डानुत्सृज्य गोग्रासं दद्यान्नोचेज्जले क्षिपेत् ।।
पुण्याहवाचनं त्वां भुंजीत स्वजनैस्सह ।।७९।।
अन्येद्युः प्रातरुत्थाय कृतनित्यक्रियस्सुधीः ।।
उपोष्य क्षौरकर्मादि कक्षोपस्थविवर्जितम् ।। 6.12.८० ।।
केशश्मश्रुनखानेव कर्म्मावधि विसृज्य च।।
समाष्टकेशान्विधिवत्कारयित्वा विधानतः।।८१।।
स्नात्वा धौतपटश्शुद्धो द्विराचम्याथ वाग्यतः ।।
भस्म संधार्य्य विधिना कृत्वा पुण्याहवाचनम्।।८२।।
तेन संप्रोक्ष्य संप्राप्य शुद्धदेहस्वभावतः ।।
होमद्रव्यार्थमाचार्य्य दक्षिणार्थं विहाय च ।। ८३ ।।
द्रव्यजातं महेशाय द्विजेभ्यश्च विशेषतः ।।
भक्तेभ्यश्च प्रदायाथ शिवाय गुरुरूपिणे ।।८४।।
वस्त्रादि दक्षिणां दत्त्वा प्रणम्य भुवि दण्डवत् ।।
दोरकौपीनवसनं दण्डाच्च क्षालितम्भुवि ।। ८५ ।।
आदाय होमद्रव्याणि समिधादीनि च क्रमात्।।
समुद्रतीरे नद्यां वा पर्व्वते वा शिवालये ।।८६।।
अरण्ये चापी गोष्ठे वा विचार्य्य स्थानमुत्तमम् ।।
स्थित्वाचम्य ततः पूर्व्वं कृत्वा मानसमञ्जरीम् ।।८७।।
ब्राह्ममोंकारसहितं नमो ब्रह्मण इत्यपि ।।
जपित्वा त्रिस्ततो ब्रूयादग्निमीळे पुरोहितम् ।।८८।।
अथ महाव्रतमिति अग्निर्वै देवा नामतः ।।
तथैतस्य समाम्नायमिषेत्वोर्ज्जे त्वा वेति तत् ।।८९।।
अग्न आयाहि वीतये शन्नो देवीरभिष्टये।।
पश्चात्प्रोच्य मयरसतजभनलगैः सह।।6.12.९०।।
सम्मितं च ततः पञ्चसंवत्सरमयं ततः ।।
समाम्नायस्समाम्नातः अथ शिक्षां वदेत्पुनः ।।
प्रवक्ष्यामीत्युदीर्याथ वृद्धिरादैच्च सम्वदेत् ।। ९१ ।।
अथातो धर्मजिज्ञासेत्युच्चार्य पुनरंजसा ।।
अथातो ब्रह्मजिज्ञासा वेदादीनपि संजपेत् ।। ९२ ।।
ब्रह्माणमिन्द्रं सूर्य्यञ्च सोमं चैव प्रजापतिम् ।।
आत्मानमन्तरात्मानं ज्ञानात्मानमतः परम् ।। ९३ ।।
परमात्मानमपि च प्रणवाद्यं नमोंतकम् ।।
चतुर्थ्यन्तं जपित्वाऽथ सक्तुमुष्टिं प्रगृह्य च ।। ९४ ।।
प्राश्याथ प्रणवेनैव द्विराचम्याथ संस्पृशेत् ।।
नाभिं मन्त्रान्वक्ष्यमाणन्प्रणवाद्यान्नमोन्तकान् ।। ९५ ।।
आत्मानमन्तरात्मानं ज्ञानात्मानं पुरं पुनः ।।
आत्मानं च समुच्चार्य प्रजापतिमतः परम् ।। ९६ ।।
स्वाहांतान्प्रजपेत्पश्चात्पयोदधिघृतं पृथक् ।।
त्रिवारं प्रणवेनैव प्राश्याचम्य द्विधा पुनः ।। ।। ९७ ।।
प्रागास्य उपविश्याथ दृढचित्तः स्थिरासनः ।।
यथोक्तविधिना सम्यक्प्राणायामत्रयञ्चरेत् ।। ९८ ।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासविधिवर्णनं नाम द्वादशोऽध्यायः ।। १२ ।।