शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः ११
वेदव्यासः
अध्यायः १२ →

ऋषय ऊचुः ।।
सूत सूत महाभागस्त्वमस्मद्गुरुरुत्तमः ।।
अतस्त्वां परिपृच्छामो भवतोऽनुग्रहो यदि ।। १ ।।
श्रद्धालुषु च शिष्येषु त्वादृशा गुरवस्सदा ।।
स्निग्धभावा इतीदं नो दर्शितम्भवताधुना ।।२।।
विरजाहोमसमये वामदेवमतम्पुरा ।।
सूचितम्भवतास्माभिर्न श्रुतं विस्तरान्मुने ।। ३ ।।
तदिदानीं श्रोतुकामाः श्रद्धया परमादरात् ।।
वयं सर्व्वे कृपासिंधो प्रीत्या तद्वक्तुमर्हसि ।।४।।
इति तेषां वचः श्रुत्वा सूतो हृष्टतनूरुहः ।।
नमस्कृत्य महादेवं गुरोः परतरं गुरुम् ।।५।।
महादेवीं त्रिजननीं गुरुं व्यासश्च भक्तितः ।।
प्राह गम्भीरया वाचा मुनीनाह्लादयन्निदम् ।। ६ ।।
सूत उवाच ।।
स्वस्त्यस्तु मुनयस्सर्वे सुखिन स्सन्तु सर्व्वदा ।।
शिवभक्ता स्थिरात्मानश्शिवे भक्तिप्रवर्तकाः ।।७।।
तदतीव विचित्रं हि श्रुतं गुरुमुखाम्बुजात् ।।
इतः पूर्वम्मया नोक्तं गुह्यप्राकट्यशंकया ।। ८ ।।
यूयं खलु महाभागाश्शिवभक्ता दृढव्रताः ।।
इति निश्चित्य युष्माकं वक्ष्यामि श्रूयताम्मुदा ।।९।।
पुरा रथन्तरे कल्पे वामदेवो महामुनिः ।।
गर्भमुक्तश्शिवज्ञानविदां गुरुतमस्स्वयम्।।6.11.१०।।
वेदागमपुराणादिसर्व्वशास्त्रार्थवत्त्ववित्।।
देवासुरमनुष्यादिजीवानां जन्मकर्म्मवित्।।११।।
भस्मावदातसर्व्वांगो जटामण्डललमंडितः ।।
निराश्रयो निःस्पृहश्च निर्द्वन्द्वो निरहंकृतिः ।।१२।।
दिगंबरो महाज्ञानी महेश्वर इवापरः ।।
शिष्यभूतैर्मुनीन्द्रैश्च तादृशैः परिवारितः ।।१३।।
पर्य्यटन्पृथिवीमेतां स्वपाद स्पर्शपुण्यतः ।।
पवित्रयन्परे धाम्नि निमग्नहृदयोन्वहम् ।। १४ ।।
कुमारशिखरम्मेरोर्द्दक्षिणं प्राविशन्मुदा।।
यत्रास्ते भगवानीशतनयश्शिखिवाहनः ।।१५।।
ज्ञानशक्तिधरो वीरस्सर्वासुरविमर्दनः ।।
गजावल्लीसमायुक्तस्सर्व्वैर्देवैर्नमस्कृतः ।।१६।।
तत्र स्कन्दसरो नाम सरस्सागरसन्निभम् ।।
शिशिरस्वादुपानीयं स्वच्छागाधबहूदकम् ।।१७।।
सर्व्वाश्चर्य्यगुणोपेतं विद्यते स्वामिसन्निधौ ।।
तत्र स्नात्वा वामदेवस्सहशिष्यैर्महामुनिः ।।१८।।
कुमारं शिखरासीनं मुनिवृन्दनिषेवितम्।।
उद्यदादित्यसंकाशं मयूरवरवाहनम्।।१९।।
चतुर्भुजमुदारांगं मुकुटादिविभूषितम्।।
शक्तिरत्नद्वयोपास्यं शक्तिकुक्कुटधारिणम्।।6.11.२०।।
वरदाभयहस्तञ्च दृष्ट्वा स्कन्दं मुनीश्वरः।।
सम्पूज्य परया भक्त्या स्तोतुं समुपचक्रमे ।।२१।।
।। वामदेव उवाच ।।
ॐ नमः प्रणवार्थाय प्रणवार्थविधायिने ।।
प्रणवाक्षरबीजाय प्रणवाय नमोनमः ।।२२।।
वेदान्तार्थस्वरूपाय वेदान्तार्थविधायिने ।।
वेदान्तार्थविदे नित्यं विदिताय नमोनमः ।।२३।।
नमो गुहाय भूतानां गुहासु निहिताय च ।।
गुह्याय गुह्यरूपाय गुह्यागमविदे नमः ।।२४।।
अणोरणीयसे तुभ्यं महतोपि महीयसे ।।
नमः परावरज्ञाय परमात्मस्वरूपिणे ।। २५ ।।
स्कन्दाय स्कन्दरूपाय मिहिरारुणेतेजसे ।।
नमो मन्दारमालोद्यन्मुकुटादिभृते सदा ।। २६ ।।
शिवशिष्याय पुत्राय शिवस्य शिवदायिने ।।
शिवप्रियाय शिवयोरानन्दनिधये नम ।।२७।।
गांगेयाय नमस्तुभ्यं कार्तिकेयाय धीमते ।।
उमापुत्राय महते शरकाननशायिने।।२८।।
षडक्षरशरीराय षड्विधार्थविधायिने ।।
षडध्वातीतरूपाय षण्मुखाय नमोनमः ।। ।।२९।।
द्वादशायतनेत्राय द्वादशोद्यतबाहवे ।।
द्वादशायुधधाराय द्वादशात्मन्नमोस्तु ते ।।6.11.३०।।
चतुर्भुजाय शान्ताय शक्तिकुक्कुट धारिणे ।।
वरदाय विहस्ताय नमोऽसुरविदारिणे ।। ३१ ।।
गजावल्लीकुचालिप्तकुंकुमांकितवक्षसे ।।
नमो गजाननानन्दमहिमानंदितात्मने ।।३२ ।।
ब्रह्मादिदेवमुनिकिन्नरगीयमानगाथाविशेषशुचिचिंतितकीर्त्तिधाम्ने ।।
वृन्दारकामलकिरीटविभूषणस्रक्पूज्याभिरामपदपंकज ते नमोस्तु ।। ३३ ।।
इति स्कन्दस्तवन्दिव्यं वामदेवेन भाषितम् ।।
यः पठेच्छृणुयाद्वापि स याति परमां गतिम् ।। ३४ ।।
महाप्रज्ञाकरं ह्येतच्छिवभक्तिविवर्द्धनम् ।।
आयुरारोग्यधनकृत्सर्व्वकामप्रदं सदा ।। ३५ ।।
इति स्तुत्वा वामदेवो देवं सेनापतिं प्रभुम् ।।
प्रदक्षिणात्रयं कृत्वा प्रणम्य भुवि दण्डवत् ।। ३६ ।।
साष्टांगं च पुनः कृत्वा प्रदक्षिणनमस्कृतम् ।।
अभवत्पार्श्वतस्तस्य विनयावनतो द्विजाः ।। ३७ ।।
वामदेवकृतं स्तोत्रम्परमार्थविजृम्भितम् ।।
श्रुत्वाभवत्प्रसन्नो हि महेश्वरसुतः प्रभुः ।।३८।।
तमुवाच महासेनः प्रीतोस्मि तव पूजया ।।
भक्त्या स्तुत्या च भद्रन्ते किमद्यकरवाण्यहम् ।।३९।।
मुने त्वं योगिनान्मुख्यः परिपूर्णश्च निस्पृहः ।।
भवादृशां हि लोकेस्मिप्रार्थनीयं न विद्यते ।।6.11.४०।।
तथापि धर्म्मरक्षायै लोकानुग्रहकांक्षया।।
त्वादृशा साधवस्सन्तो विचरन्ति महीतले।।४१।।
श्रोतव्यमस्ति चेद्ब्रह्मन्वक्तुमर्हसि साम्प्रतम्।।
तदिदानीमहं वक्ष्ये लोकानुग्रहहे तवे।।४२।।
इति स्कन्दवचः श्रुत्वा वामदेवो महामुनिः।।
प्रश्रयावनतः प्राह मेघगम्भीरया गिरा ।।४३।।
वामदेव उवाच ।।।
भगवन्परमेशस्त्वं परापरविभूतिदः ।।
सर्व्वज्ञसर्वकर्त्ता च सर्व्वशक्तिधरः प्रभुः ।।४४।।
जीवा वयं तु ते वक्तुं सन्निधौ परमेशितुः ।।
तथाप्यनुग्रहो यन्ते यत्त्वं वदसि मां प्रति ।। ४५ ।।
कृतार्थोहं महाप्राज्ञ विज्ञानकणमात्रतः ।।
प्रेरितः परिपृच्छामि क्षन्तव्योतिक्रमो मम ।। ४६ ।।
प्रणवो हि परः साक्षात्परमेश्वरवाचकः ।।
वाच्यः पशुपतिर्देवः पशूनां पाशमोचकः ।। ४७ ।।
वाचकेन समाहूतः पशून्मोचयते क्षणात् ।।
तस्माद्वाचकतासिद्धिः प्रणवेन शिवम्प्रति ।। ४८ ।।
ॐ मितीदं सर्वमिति श्रुतिराह सनातनी ।।
ओमिति ब्रह्म सर्व्वं हि ब्रह्मेति च समब्रवीत् ।।४९।।
देवसेनापते तुभ्यन्देवानाम्पतये नमः ।।
नमो यतीनाम्पतये परिपूर्णाय ते नमः ।। 6.11.५० ।।
एवं स्थिते जगत्यस्मिञ्छिवादन्यन्न विद्यते ।।
सर्व्वरूपधरः स्वामी शिवो व्यापी महेश्वरः ।। ५१ ।।
समष्टिव्यष्टिभावेन प्रणवार्थः श्रुतो मया ।।
न जातुचिन्महासेन संप्राप्तस्त्वादृशो गुरुः।।५२।।
अतः कृत्वानुकंपां वै तमर्थं वक्तुमर्हसि।।
उपदेशविधानेन सदाचारक्रमेण च।।५३।।
स्वाम्येकः सर्ब्वजन्तूनां पाशच्छेदकरो गुरुः ।।
अतस्त्वत्कृपया सोऽर्थः श्रोतव्यो हि मया गुरो ।।५४।।
इति स मुनिना पृष्टः स्कन्दः प्रणम्य सदाशिवं प्रणववपुषं साष्टत्रिंशत्कलावरलक्षितम्।।
सहितमुमया शश्वत्पार्श्वे मुनिप्रवरान्वितं गदितुमुपचक्राम श्रेयः श्रुतिष्वपि गोपितम् ।। ५५ ।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां वामदेवब्रह्मवर्णनन्नामैकादशोऽयाय ।। ११ ।।