शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १९ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः २०
वेदव्यासः
अध्यायः २१ →

सुब्रह्मण्य उवाच ।।
क्षौरस्नानविधिं वक्ष्ये वामदेव महामुने ।।
यस्य सद्यो विधानेन शुद्धिस्स्याद्यतिनः परा ।। १ ।।
योगपट्टप्रकारस्य विधिम्प्राप्य मुनीश्वर।।
स शिष्यस्स्याद्व्रती पूर्णः क्षौरकर्म्मोद्यतो भवेत्।।२।।
गुरुं नत्वा विशेषेण लब्धानुज्ञस्ततो गुरोः।।
शिरस्संक्षाल्य चाचम्य सवासाः क्षौरमाचरेत्।।३।।
क्षालयेद्वसनं पश्चान्मृदम्भोभिः क्षुरादिकम्।।
तद्धस्तौ च मृदालिप्य क्षालयेति मृदं ददेत् ।। ४ ।।
स्थापितम्प्रोक्षितन्तोयैश्शिवं शिवमितीरयन् ।।
स्वनेत्रे पिहिते चैवानामांगुष्ठाभिमंत्रिते ।। ५ ।।
अस्त्रेणोन्मील्य संदृश्य क्षुरा दिक्षौ रसाधनम् ।।
अभिमन्त्र्य द्वादशाथ प्रोक्षयेदस्त्रमंत्रतः ।। ६ ।।
क्षुरं गृहीत्वा तारेण दक्षभागे निकृन्तयेत् ।।
केशांश्च कांश्चि दग्रेषु वप्त्वा सर्वं च वापयेत् ।। ७ ।।
पृथिव्यां पर्णमादाय विक्षिपेन्न भुवः स्थले ।।
श्मश्रूणि हस्तपादस्थनखानि च निकृंतयेत् ।। ८ ।।
बिल्वाश्वत्थतुलस्यादिस्थाने संगृह्य मृतिकाम् ।।
द्विषट्वारं निमज्याप्सु तीरं गत्वोपविश्य च ।। ९ ।।
शुद्धे देशे तु संस्थाप्य मृदं त्रेधा विभज्य च ।।
एवम्पुनस्त्रिधा कृत्वा प्रोक्ष्यास्त्रेणाभिमन्त्रयेत् ।। 6.20.१० ।।
तत्रैकां मृदमादाय दापयित्वान्यपाणिना ।।
करौ द्वादशधा लिप्य प्रत्येकं केन क्षालयेत् ।। ११ ।।
पुनरेकाम्पादयोश्च मुखे चान्यां करे क्रमात् ।।
संलिप्याक्षाल्य चाम्भोभिः पुनश्च जलमाविशेत् ।।१२।।
अन्यां मृदम्भागयित्वा शिरसि द्वादश क्रमात् ।।
आलिप्य मृदमास्यान्तनिमज्य च पुनः पुनः ।। १३ ।।
तीरं गत्वा तु गंडूषान्षोडशाचमनं द्विधा ।।
प्राणानायम्य च पुनः प्रणवं द्व्यष्टसंख्यया ।। १४ ।।।
मृदमन्यां पुनस्त्रेधा विभज्य च तदेकया ।।
कटिशौचं पादशौचं विधायाचम्य च द्विधा ।।१५।।
प्रणवेनाथ षोडश प्राणानायम्य वाग्यतः ।।
पुनरन्यां स्वोरुदेशे त्रिधा विन्यस्य चोमिति ।। १६ ।।
प्रोक्ष्याभिमंत्रयेत्सप्त स्वपाण्योस्तलमेकधा ।।
त्रिधालिप्याथ सम्पश्येत्सूर्य्यमूर्तिं च पावनीम् ।। १७ ।।
स्वकक्षयोः समालिप्य व्यत्यस्ताभ्यामथान्यया ।।
पाणिभ्याञ्च मृदा शिष्यस्सुमतिर्दृढमानसः ।। १८ ।।
गृहीत्वान्यां मृदं शुद्धां तथासौ गुरुभक्तिमान् ।।
शिर आरभ्य पादान्तं विलिप्यादित्यदृष्टया ।। १९ ।।
समुत्थाय ततोऽसौ वै दण्डमादाय भूतले ।।
स्वगुरुं मन्त्रदम्भक्त्या संस्मरेज्ज्ञाननिष्ठया ।। 6.20.२० ।।
ततस्साम्बं महेशानं शंकरं चन्द्रशेखरम्।।
संस्मरेद्भक्तितश्शिष्य सर्वेश्वर्यपतिं शिवम् ।। २१ ।।
त्रिवारम्प्रणमेत्प्रीत्या साष्टांगं च गुरु शिवम् ।।
पञ्चाङ्गेनैकवारञ्च समुत्थाय च वन्दयेत् ।। २२ ।।
तीर्थं प्रविश्य तन्मध्ये निमज्योन्मज्य ताम्मृदम् ।।
स्कन्धे संस्थाप्य पूर्वोक्तप्रकारेण विलेपयेत् ।। २३ ।।
तत्रावशिष्टं संगृह्य जलमध्ये प्रविश्य च ।।
विलोड्य सम्यक् तां तत्र सर्वांगेषु विलिप्य च ।। २४ ।
त्रिवारमोमिति प्रोच्य शिवपादाम्बुजं स्मरन् ।।
संसाराम्बुधिसंतारं सदा यद्विधितो हि सः ।। २५ ।।
अभिषिच्योमिति जलं विरजाभस्मलोलितम् ।।
अंगोपमार्ज्जनं कृत्वा सुस्नायाद्भस्मना ततः ।। २६ ।।
त्रिपुंड्रं च विधायाथ यथोक्तविधिना शुभम् ।।
यथोक्तांगेषु सर्वेषु सावधान तया मुने ।। २७ ।।
ततश्शुद्धमना भूत्वा कुर्य्यान्मध्यंदिनक्रियाः ।।
महेश्वरं नमस्कृत्य गुरूंस्तीर्थादिकानि च ।। २८ ।।
सम्पूजयेन्महेशानं भक्त्या परमया मुने ।।
साम्बिकं ज्ञानदातारं पातारं त्रिभवस्य वै ।। २९ ।।
ततोसौ दृढचेतस्को यतिः स्ववृषसंस्थितः।।
भिक्षार्थम्प्रव्रजेच्छुद्धो विप्रवर्गेषु साधुषु।।6.20.३०।।
ततस्तत्र च शुद्धात्मा पञ्चधा परिकल्पितम्।।
भैक्ष्यं यथोचितं कुर्य्याद्दूषितान्नं विवर्ज्जयेत् ।। ३१ ।।
शौचं स्नानं तथा भिक्षां नित्यमेकान्तसेवनम् ।।
भिक्षौश्चत्वारि कर्म्माणि पञ्चमं नैव विद्यते ।।३२।।
अलाबुं वेणुपात्रं च दारवम्मृण्मयन्तथा ।।
भिक्षोश्चत्त्वारि पात्राणि पञ्चमन्नैव विद्यते ।।३३।।
ताम्बूलं तैजसम्पात्रं रेतस्सेकं सितांबरम् ।।
दिवास्वापो हि नक्तान्नं यतीनां षड्विवर्जिताः ।।३४।।
साक्षरा विपरीताश्च राक्षसास्त इति स्मृताः।।
तस्माद्वै विपरीतं च कर्म्म नैवाचरेद्यतिः।।३५।।
यतिः प्रयत्नतः कुर्य्यात्क्षौरस्नानं च शुद्धये ।।
संस्मरन्मनसा शुद्धं परं ब्रह्म सदाशिवम् ।।३६।।
इत्यैव मुनिशार्द्दूल तव स्नेहान्मयाखिलः ।।
क्षौरस्नानविधिः प्रोक्तः किम्भूयः श्रोतुमिच्छसि ।। ३७ ।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां क्षौरस्नानविधिवर्णनं नाम विंशोऽध्यायः ।।२०।।