शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः ०३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०२ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः ०३
वेदव्यासः
अध्यायः ०४ →

।। ईश्वर उवाच ।।
शृणु देवि प्रवक्ष्यामि यन्मां त्वम्परि पृच्छसि ।।
तस्य श्रवणमात्रेण जीवस्साक्षाच्छिवो भवेत् ।। १ ।।
प्रणवार्थपरिज्ञानमेव ज्ञानं मदात्मकम् ।।
बीजन्तत्सर्वविद्यानां मंत्र म्प्रणवनामकम् ।। २ ।।
अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ।।
वेदादि वेदसारं च मद्रूपं च विशेषतः ।। ३ ।।
देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः ।।
ओमित्येकाक्षरे मंत्रे स्थितोहं सर्वगश्शिवः ।।४।।
यदस्ति वस्तु तत्सर्वं गुणप्राधान्ययोगतः ।।
समस्तं व्यस्त मपि च प्रणवार्थं प्रचक्षते।।५।।
सर्वार्थसाधकं तस्मादेकं ब्रह्मैतदक्षरम् ।।
तेनोमिति जगत्कृस्नं कुरुते प्रथमं शिवः।।६।।
शिवो वा प्रणवो ह्येष प्रणवो वा शिवः स्मृतः ।।
वाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः ।।७।।
तस्मादेकाक्षरं देवं मां च ब्रह्मर्षयो विदुः ।।
वाच्यवाचकयोरैक्यं मन्यमाना विपश्चितः ।। ८ ।।
अतस्तदेव जानीयात्प्रणवं सर्वकारणम् ।।
निर्विकारी मुमुक्षुर्मां निर्गुणं परमेश्वरम्।।९।।
एनमेव हि देवेशि सर्वमंत्रशिरोमणिम् ।।
काश्यामहं प्रदास्यामि जीवानां मुक्तिहेतवे ।। 6.3.१० ।।
तत्रादौ सम्प्रवक्ष्यामि प्रणवोद्धारम म्बिके ।।
यस्य विज्ञानमात्रेण सिद्धिश्च परमा भवेत् ।।११।।
निवृत्तिमुद्धरेत्पूर्वमिन्धनं च ततः परम् ।।
कालं समुद्धरेत्पश्चाद्दंडमी श्वरमेव च ।। १२ ।।
वर्णपंचकरूपोयमेवं प्रणव उद्धृतः ।।
त्रिमात्रबिन्दुनादात्मा मुक्तिदो जपतां सदा ।। १३ ।।
ब्रह्मादिस्थावरान्तानां सर्वेषां प्राणिनां खलु ।।
प्राणः प्रणव एवायं तस्मात्प्रणव ईरितः ।। १४ ।।
आद्यम्वर्णमकारं च उकारमुत्तरे ततः ।।
मकारं मध्यतश्चैव नादांतं तस्य चोमिति ।। १५ ।।
जलवद्वर्णमाद्यन्तु दक्षिणे चोत्तरे तथा ।।
मध्ये मकारं शुचिवदोंकारे मुनिसत्तम ।। ।। १६ ।।
अकारश्चाप्युकारोयं मकाराश्च त्रयं क्रमात् ।।
तिस्रो मात्रास्समाख्याता अर्द्धमात्रा ततः परम् ।। १७ ।।
अर्द्धमात्रा महेशानि बिन्दुनादस्वरूपिणी ।।
वर्णनीया न वै चाद्धा ज्ञेया ज्ञानिभिरेव सा ।। १८ ।।
ईशानस्सर्वविद्यानामित्यद्याश्श्रुतयः प्रिये ।।
मत्त एव भवन्तीति वेदास्सत्यम्वदन्ति हि।।१९।।
तस्माद्वेदादिरेवाहं प्रणवो मम वाचकः।।
वाचकत्वान्ममैषोऽपि वेदादिरिति कथ्यते ।।6.3.२०।।
अकारस्तु महद्बीजं रजस्स्रष्टा चतुर्मुखः।।
उकारः प्रकृतिर्योनिस्सत्त्वं पालयिता हरिः।।२१।।
मकारः पुरुषो बीजी तमस्संहारको हरः ।।
बिन्दुर्महेश्वरो देवस्तिरो भाव उदाहृतः ।।२२।।
नादस्सदाशिवः प्रोक्तस्सर्वानुग्रहकारकः।।
नादमूर्द्धनि संचिन्त्य परात्परतरः शिवः ।।२३।।
स सर्वज्ञः सर्वकर्त्ता सर्वेशो निर्मलोऽव्ययः ।।
अनिर्देश्यः परब्रह्म साक्षात्सदसतः परः।।२४।।
अकारादिषु वर्णेषु व्यापकं चोत्तरोत्तरम् ।।
व्याप्यन्त्वधस्तनं वर्णमेवं सर्वत्र भावयेत् ।।२९।।
सद्यादीशानपर्य्यंतान्यकारादिषु पंचसु ।।
स्थितानि पंच ब्रह्माणि तानि मन्मूर्त्तयः क्रमात् ।।२६।।
अष्टौ कलास्समाख्याता अकारे सद्यजाश्शिवे ।।
उकारे वामरूपिण्यस्त्रयोदश समीरिताः ।।२७।।
अष्टावघोररूपिण्यो मकारे संस्थिताः कलाः ।।
बिन्दौ चतस्रस्संभूताः कलाः पुरुषगोचराः ।। २८ ।।
नादे पंच समाख्याताः कला ईशानसंभवाः ।।
षड्विधैक्यानुसंधानात्प्रपंचात्मकतोच्यते ।।२९।।
मन्त्रो यन्त्रं देवता च प्रपंचो गुरुरेव च ।।
शिष्यश्च षट्पदार्था नामेषामर्थं शृणु प्रिये ।। 6.3.३० ।।
पंचवर्णसमष्टिः स्यान्मन्त्रः पूर्वमुदाहतः ।।
स एव यंत्रतां प्राप्तो वक्ष्ये तन्मण्डलक्रमम् ।। ३१ ।।
यन्त्रं तु देवतारूपं देवता विश्वरूपिणी ।।
विश्वरूपो गुरुः प्रोक्तश्शिष्यो गुरुवपुस्त्वतः ।। ३२ ।।
ओमितीदं सर्वमिति सर्वं ब्रह्मेति च श्रुतेः ।।
वाच्यवाचकसम्बन्धोप्ययमेवार्थ ईरितः ।।३३।।
आधारो मणिपूरश्च हृदयं तु ततः परम् ।।
विशुद्धिराज्ञा च ततः शक्तिः शान्तिरिति क्रमात् ।।३४।।
स्थानान्येतानि देवेशि शान्त्यतीतं परात्परम् ।।
अधिकारी भवेद्यस्य वैराग्यं जायते दृढम् ।। ३५ ।।
विषयः स्यामहं देवि जीवब्रह्मैक्यभावनात् ।।
सम्बन्धं शृणु देवेशि विषयः सम्यगीरितः ।।३६।।
जीवात्मनोर्मया सार्द्धमैक्यस्य प्रणवस्य च ।।
वाच्यवाचकभावोत्र सम्वन्धस्समुदीरितः।।३७।।
व्रतादिनिरतः शान्तस्तपस्वी विजितेन्द्रियः ।।
शौचाचारसमायुक्तो भूदेवो वेदनिष्ठितः ।।३८।।
विषयेषु विरक्तः सन्नैहिकामुष्मिकेषु च ।।
देवानां ब्राह्मणोऽपीह लोकजेषु शिवव्रती ।। ३९ ।।
सर्वशास्त्रार्थ तत्त्वज्ञं वेदान्तज्ञानपारगम् ।।
आचार्य्यमुपसंगम्य यतिं मतिमतां वरम् ।। 6.3.४० ।।
दीर्घदण्डप्रणामाद्यैस्तोषयेद्यत्नतस्सुधीः ।।
शान्त्यादिगुणसंयुक्तः शिष्यस्सौशील्यवान्वरः ।।४१।।
यो गुरुः स शिवः प्रोक्तो यश्शिवस्स गुरुः स्मृतः ।।
इति निश्चित्य मनसा स्वविचारं निवेदयेत् ।।४२।।
लब्धानुज्ञस्तु गुरुणा द्वादशाहं पयोवती ।।
समुद्रतीरे नद्यां च पर्वते वा शिवालये ।। ४३ ।।
शुक्लपक्षे तु पंचम्यामेकादश्यां तथापि वा ।।
प्रातः स्नात्वा तु शुद्धात्मा कृतनित्य क्रियस्सुधीः ।।४४।।
गुरुमाहूय विधिना नान्दीश्राद्धं विधाय च ।।
क्षौरं च कारयित्वाथ कक्षोपस्थविवर्जितम् ।।४५।।
केशश्मश्रुनखानां वै स्नात्वा नियतमानसः ।।
सक्तुं प्राश्याथ सायाह्ने स्नात्वा सन्ध्यामुपास्य च ।। ४६ ।।
सायमौपासनं कृत्वा गुरुणा सहितो द्विजः ।।
शास्त्रोक्तदक्षिणान्दत्त्वा शिवाय गुरुरूपिणे ।। ४७ ।।
होमद्रव्याणि संपाद्य स्वसूत्रोक्तविधानतः ।।
अग्निमाधाय विधिवल्लौकिकादिविभेदतः ।।४८।।
आहिताग्निस्तु यः कुर्यात्प्राजापत्ये ष्टिनाहिते ।।
श्रौते वैश्वानरे सम्यक् सर्ववेदसदक्षिणम् ।। ४९ ।।
अथाग्निमात्मन्यारोप्य ब्राह्मणः प्रव्रजेद्गृहात् ।।
श्रपयित्वा चरुं तस्मिन्समिदन्नाज्यभेदतः ।।6.3.५०।।
पौरुषेणैव सूक्तेन हुत्वा प्रत्यृचमात्मवान् ।।
हुत्वा च सौविष्टकृतीं स्वसूत्रोक्तविधानतः ।। ५१ ।।
हुत्वोपरिष्टात्तन्त्रं च तेनाग्नेरुत्तरे बुधः ।।
स्थित्वासने जपेन्मौनी चैलाजिनकुशोत्तरे ।।
यावद्ब्राह्ममुहूर्त्तं तु गायत्रीं दृढमानसः ।।५२।।
ततः स्नात्वा यथा पूर्वं श्रपयित्वा चरुं ततः ।।
पौरुषं सूक्तमारभ्य विरजान्तं हुनेद्बुधः ।। ५३ ।।
वामदेवमतेनापि शौनकादिमतेन वा ।।
तत्र मुख्यं वामदेव्यं गर्भयुक्तो यतो मुनिः ।।५४।।
होमशेषं समाप्याथ हुनेत् ।।
ततोग्निमात्मन्यारोप्य प्रातस्सन्ध्यमुपास्य च ।। ५५ ।।
सवितर्युदिते पश्चात्सावित्रीं प्राविशेत्क्रमात् ।।
एषणानां त्रयं त्यक्त्वा प्रेषमुच्चार्य च क्रमात् ।।५६ ।।
शिखोपवीते संत्यज्य कटिसूत्रादिकं ततः ।।
विसृज्य प्राङ्मुखो गच्छेदुत्तराशामुखोपि वा ।। ५७ ।।
गृह्णीयाद्दण्डकौपीनाद्युचितं लोकवर्तने ।।
विरक्तश्चेन गृह्णीयाल्लोकवृत्तिविचारणे ।। ५८ ।।
गुरोः समीपं गत्वाथ दण्डवत्प्रणमेत्त्रयम् ।।
समुत्थाय ततस्तिष्ठेद्गुरुपादसमीपतः ।। ५९ ।।
ततो गुरुः समादाय विरजानलजं शितम् ।।
भस्म तेनैव तं शिष्यं समुद्धृत्य यथाविधि ।। 6.3.६० ।।
अग्निरित्यादिभिर्मन्त्रैस्त्रिपुण्ड्रं धारयेत्ततः ।।
हृत्पंकजे समासीनं मां त्वया सह चिन्तयेत् ।। ६१ ।।
हस्तं निधाय शिरसि शिष्यस्य प्रीतमानसः ।।
ऋष्यादिसहितं तस्य दक्षकर्णे समुच्चरेत् ।। ६२।।
प्रणवं त्रिःप्रकारं तु ततस्तस्यार्थमादिशेत् ।।
षड्विधार्थं परिज्ञानसहितं गुरुसत्तमः ।।६३।।
द्विषट्प्रकारं स गुरुं प्रणम्य भुवि दण्डवत् ।।
तदधीनो भवेन्नित्यं वेदान्तं सम्यगभ्यसेत् ।।६४।।
मामेव चिंतयेन्नित्यं परमात्मानमात्मनि।।
विशुद्धे निर्विकारे वै ब्रह्मसाक्षिणमव्ययम् ।।६५।।
शमादिधर्मनिरतो वेदान्तज्ञानपारगः ।।
अत्राधिकारी स प्रोक्तो यतिर्विगतमत्सरः ।।६६।।
हृत्पुण्डरीकं विरजं विशोकं विशदम्परम् ।।
अष्टपत्रं केशराढ्यं कर्णिकोपरि शो भितम् ।।६७।।
आधारशक्तिमारभ्य त्रितत्वांतमयं पदम् ।।
विचिन्त्य मध्यतस्तस्य दहरं व्योम भावयेत् ।। ६८
ओमित्येकाक्षरं ब्रह्म व्याहरन्मां त्वया सह ।।
चिंतयेन्मध्यतस्तस्य नित्यमुद्युक्तमानसः ।। ६९ ।।
एवंविधोपासकस्य मल्लोकगतिमेव च ।।
मत्तो विज्ञानमासाद्य मत्सायुज्यफलं प्रिये ।। 6.3.७० ।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासपद्धतिवर्णनं नाम तृतीयोऽध्यायः।।