शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः ०२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः ०२
वेदव्यासः
अध्यायः ०३ →

व्यास उवाच ।।
साधु पृष्टमिदं विप्रा भवद्भिर्भाग्यवत्तमैः ।।
दुर्लभं हि शिवज्ञानं प्रणवार्थप्रकाशकम् ।। १ ।।
येषां प्रसन्नो भगवान्साक्षाच्छूलवरायुधः ।।
तेषामेव शिवज्ञानं प्रणवार्थप्रकाशकम ।। २ ।।
जायते न हि सन्देहो नेतरेषामिति श्रुतिः ।।।
शिवभक्तिविहीनानामिति तत्त्वार्थनिश्चयः ।। ३ ।।
दीर्घसत्रेण युष्माभिर्भगवानम्बिकापतिः ।।
उपासित इतीदं मे दृष्टमद्य विनिश्चितम् ।।४।।
तस्माद्वक्ष्यामि युष्माकमितिहासम्पुरातनम् ।।
उमामहेशसम्वादरूपमद्भुतमास्तिकाः ।।५।।
पुराखिलजगन्माता सती दाक्षायणी तनुम् ।।
शिवनिन्दाप्रसङ्गेन त्यक्त्वा च जनकाध्वरे ।।६।।
ततः प्रभावात्सा देवी सुताऽभूद्धिमवद्गिरेः ।।
शिवार्थमतपत्सा वै नारदस्योपदेशतः ।।७।।
तस्मिन्भूधरवर्य्ये तु स्वयंवरविधानतः।।
देवेशे च कृतोद्वाहे पार्वती सुखमाप सा ।।८।।
तथैकस्मिन्महादेवी समये पतिना सह ।।
सूपविष्टा महाशैले गौरी देवमभाषत।।९।।
महादेव्युवाच ।।
भगवन्परमेशान पञ्चकृत्यविधायक ।।
सर्वज्ञ भक्तिसुलभ परमामृतविग्रह ।। 6.2.१० ।।
दाक्षायणीन्तनुं त्यक्त्वा तव निन्दाप्रसंगतः ।।
आसमद्य महेशान पुत्री हिमवतो गिरेः।।।
कृपया परमेशान मंत्रदीक्षाविधानतः ।।
मां विशुद्धात्मतत्त्वस्थां कुरु नित्यं महेश्वर ।।१२।।
इति सम्प्रार्थितो देव्या देवः शीतांशु भूषणः ।।
प्रत्युवाच ततो देवीं प्रहृष्टेनान्तरात्मना ।।१३।।
महादेव उवाच ।।
धन्या त्वं देवदेवशि यदि जातेदृशी मतिः ।।
कैलास शिखरं गत्वा करिष्ये त्वां च तादृशीम् ।। १४ ।।
ततो हिमवतो गत्वा कैलासम्भूधरेश्वरम्।।
जगौ दीक्षाविधानेन प्रणवादीन्मनून् क्रमात् ।। १५ ।।
उक्त्वा मंत्रांश्च तान्देवीं कृत्वा शुद्धात्मनि स्थिताम् ।।
सार्द्धं देव्या महादेवो देवोद्यानं गतोऽभवत् ।। १६ ।।
ततः सुमालिनीमुख्यैर्दैव्याः प्रियसखीजनैः।।
समाहृतैः प्रफुल्लैस्तैः पुष्पैः कल्पतरूद्भवैः।।१७।।
अलंकृत्य महादेवीं स्वांकमारोप्य शंकरः।।
प्रहृष्टवदनस्तस्थौ विलोक्य च तदाननम् ।। १८ ।।
ततः प्रियकथा जाताः पार्वतीपरमेशयोः ।।
हिताय सर्वलोकानां साक्षाच्छ्रुत्यर्थं सम्मिता ।।१९।।
तदा सर्वजगन्माता भर्तुरंकं समाश्रिता ।।
विलोक्य वदनं भर्तुरिदमाहः तपोधनाः ।।6.2.२० ।।
।। श्रीदेव्युवाच ।।
उपदिष्टास्त्वया देव मंत्रास्सप्रणवा मताः ।।
तत्रादौ श्रोतुमिच्छामि प्रणवार्थं विनिश्चितम् ।।२३।।
कथम्प्रणव उत्पन्नः कथं प्रणव उच्यते ।।
मात्राः कति समाख्याताः कथं वेदादिरुच्यते ।।२२।।
देवताः कति च प्रोक्ताः कथं वेदादिभावना।।
क्रियाः कतिविधाः प्रोक्ता व्याप्यव्यापकता कथम्।।२३।।
ब्रह्माणि पंच मंत्रेऽस्मिन्कथं तिष्ठंत्यनुक्रमात्।।
कलाः कति समाख्याताः प्रपंचात्मकता कथम् ।।।२४।।
वाच्यवाचकसम्बन्धस्थानानि च कथं शिव ।।
कोऽत्राधिकारी विज्ञेयो विषयः क उदाहृतः ।।२५।।
सम्बन्धः कोत्र विज्ञेयः किंप्रयोजनमुच्यते ।।
उपासकस्तु किंरूपः किं वा स्थानमुपासनम् ।।२६।।
उपास्यं वस्तु किंरूपं किं वा फलमुपासितुः ।।
अनुष्ठान विधिः कोवा पूजास्थानं च किं प्रभो ।। २७ ।।
पूजायां मण्डलं किं वा किं वा ऋष्यादिकं हर ।।
न्यासजातविधिः को वा को वा पूजाविधिक्रमः ।। २८ ।।
एतत्सर्वं महेशान समाचक्ष्व विशेषतः ।।
श्रोतुमिच्छामि तत्त्वेन यद्यस्ति मयि ते कृपा ।। २९ ।।
इति देव्या समापृष्टो भगवानिन्दुभूषणः ।।
सम्प्रशस्य महेशानीं वक्तुं समुपचक्रमे ।। 6.2.३० ।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलास संहितायां देवीदेवसंवादे देवीकृतप्रश्नवर्णनं नाम द्वितीयोऽध्यायः ।। २ ।।