शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः ०१

विकिस्रोतः तः
Jump to navigation Jump to search
शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः ०१
वेदव्यासः
अध्यायः ०२ →

श्रीगणेशाय नमः

ॐ नमः शिवाय।।

अथ षष्ठी कैलाससंहिता प्रारभ्यते ।।

नमः शिवाय साम्बाय सगणाय ससूनवे।।
प्रधानपुरुषेशाय सर्गस्थितत्यन्तहेतवे ।। १ ।।
ऋषय ऊचुः ।।
श्रुतोमासंहिता रम्या नानाख्यानसमन्विता ।।
कैलाससंहिताम्ब्रूहि शिवतत्त्वविवर्द्धिनीम्।।२ ।।
व्यास उवाच ।। ।।
शृणुत प्रीतितो वत्साः कैलासाख्यां हि संहिताम् ।।
शिवतत्त्वपरान्दिव्यां वक्ष्ये वः स्नेहतः पराम्।।३।।
हिमवच्छिखरे पूर्व्वं तपस्यन्तो महौजसः ।।
वाराणसीङ्गन्तुकामा मुनयः कृतसम्विदः ।। ४ ।।
निर्गत्य तस्मात्सम्प्राप्य गिरेः काशीं समाहिताः ।।
स्नातव्यमेवेति तदा ददृशुर्मणिकर्णिकाम्।।५।।
तत्र स्नात्वा सुसन्तप्य देवादीनथ जाह्नवीम् ।।
दृष्ट्वा स्नात्वा मुनीशास्ते विश्वेशं त्रिदशेश्वरम् ।। ६ ।।
नमस्कृत्याथ सम्पूज्य भक्त्या परमयान्विताः ।।
शतरुद्रादिभिः स्तुत्वा स्तुतिभिर्व्वेदपारगाः ।।७।।
आत्मानं मेनिरे सर्वे कृतार्था वयमित्युत ।।
शिवप्रीत्या सुपूर्णार्थाश्शिवभक्तिरतास्सदा।।८।।
तस्मिन्नवसरे सूतं पञ्चक्रोशदिदृक्षया ।।
गत्वा समागतं वीक्ष्य मुदा ते तं ववन्दिरे।।।।।
सोपि विश्वेश्वरं साक्षाद्देवदेवमुमापतिम् ।।
नमस्कृत्याथ तैस्साकम्मुक्तिमण्डपमाविशत् ।।6.1.१०।।
तत्रासीनम्महात्मानं सूतम्पौराणिकोत्तमम् ।।
अर्घ्यादिभिस्तदा सर्व्वे मुनयस्समुपाचरन् ।।११।।
ततः सूतः प्रसन्नात्मा मुनीनालोक्य सुव्रतान् ।।
पप्रच्छ कुशलान्तेपि प्रोचुः कुशलमात्मनः।।१२।।
ते तु संहृष्टहृदयं ज्ञात्वा तं वै मुनीश्वराः ।।
प्रणवार्थावगत्यर्थमूचुः प्रास्ताविकं वचः ।।१३।।
मुनय ऊचुः ।।
व्यासशिष्य महाभाग सूत पौराणिकोत्तम।।
धन्यस्त्वं शिवभक्तो हि सर्वविज्ञान सागरः ।।१४।।
भवन्तमेव भगवान्व्यासस्सर्वजगद्गुरुः ।।
अभिषिच्य पुराणानां गुरुत्वे समयोजयत्।।१५।।
तस्मात्पौराणिकी विद्या भवतो हृदि संस्थिता।।
पुराणानि च सर्वाणि वेदार्थम्प्रवदन्ति हि ।।१६।।
वेदाः प्रणवसम्भूताः प्रणवार्थो महेश्वरः।।
अतो महेश्वरस्थानं त्वयि धिष्ण्यम्प्रतिष्ठितम् ।।१७।।
त्वन्मुखाब्जपरिस्यन्दन्मकरंदे मनोहरम् ।।
प्रणवार्थामृतं पीत्वा भविष्यामो गतज्वराः ।। १८ ।।
विशेषतो गुरुस्त्वं हि नान्योऽस्माकं महामते।।
परं भावं महेशस्य परया कृपया वद।।१९।।
इति तेषां वचः श्रुत्वा सूतो व्यासप्रियस्सुधीः।।
गणेशं षण्मुखं साक्षान्महेशानं महेश्वरीम् ।।6.1.२०।।
शिलादतनयं देवं नन्दीशं सुयशापतिम् ।।
सनत्कुमारं व्यासं च प्रणिपत्येदमब्रवीत्।।२१।।
सूत उवाच।।
साधुसाधु महाभागा मुनयः क्षीणकल्मषाः।।
मतिर्दृढतरा जाता दुर्लभा सापि दुष्कृताम्।।२२।।
पाराशर्येण गुरुणा नैमिषारण्यवासिनाम्।।
मुनीनामुपदिष्टं यद्वक्ष्ये तन्मुनिपुंगवाः।।२३।।
यस्य श्रवणमात्रेण शिवभक्तिर्भवेन्नृणाम्।।
सावधाना भवन्तोद्य शृण्वन्तु परया मुदा।।२४।।
स्वारोचिषेन्तरे पूर्वं तपस्यंतो दृढव्रताः।।
ऋषयो नैमिषारण्ये सर्वसिद्धनिषेविते।।२५।।
दीर्घसत्रं वितन्वन्तो रुद्रमध्वरनायकम् ।।
प्रीणयन्तः परं भावमैश्वर्य्यं ज्ञातुमिच्छवः।।२६।।
निवसन्ति स्म ते सर्वे व्यासदर्शनकांक्षिणः ।।
शिवभक्तिरता नित्यं भस्मरुद्राक्षधारिणः ।। २७ ।।
तेषां भावं समालोक्य भगवान्बादरायणः ।।
प्रादुर्बभूव सर्वात्मा पराशरतपःफलम् ।। २८ ।।
तं दृष्ट्वा मुनयस्सर्वे प्रहृष्टवदनेक्षणाः ।।
अभ्युत्थानादिभिस्सर्वैरुपचारैरुपाचरन् ।। २९ ।।
सत्कृत्य प्रददुस्तस्मै सौवर्णं विष्टरं शुभम् ।।
सुखोपविष्टः स तदा तस्मिन्सौवर्णविष्टरे ।।
प्राह गंभीरया वाचा पाराशर्य्यो महामुनिः ।। 6.1.३० ।।
व्यास उवाच ।।
कुशलं किं नु युष्माकम्प्रब्रूतास्मिन्महामखे ।।
अर्चितं किं नु युष्माभिस्सम्यगध्वरनायकः ।।३१।।
किमर्थमत्र युष्माभिरध्वरे परमेश्वरः।।
स्वर्चितो भक्तिभावेन साम्बस्संसारमोचकः ।।३२।।
युष्मत्प्रवृत्तिर्मे भाति शुश्रूषा पूर्वमेव हि ।।
परभावे महेशस्य मुक्तिहेतोश्शिवस्य च ।। ३३ ।।
एवमुक्ता मुनीन्द्रेण व्यासेनामिततेजसा ।।
मुनयो नैमिषारण्यवासिनः परमौजसः ।। ३४ ।।
प्रणिपत्य महात्मानं पाराशशर्य्यं महामुनिम् ।।
शिवानुरागसंहृष्टमानसं च तमब्रुवन् ।।३५।।
मुनय ऊचुः ।। ।।
भगवन्मुनिशार्दूल साक्षान्नारायणांशज।।
कृपानिधे महाप्राज्ञ सर्वविद्याधिप प्रभो ।। ३६ ।।
त्वं हि सर्वजगद्भर्तुर्महा देवस्य वेधसः ।।
साम्बस्य सगणस्यास्य प्रसादानां निधिस्स्वयम् ।। ३७ ।।
त्वत्पादाब्जरसास्वादमधुपायितमानसाः ।।
कृतार्था वयमद्यैव भवत्पादाब्जदर्शनात् ।। ३८ ।।
त्वदीयचरणाम्भोजदर्शनं खलु पापिनाम् ।।
दुर्लभं लब्धमस्माभिस्त्वस्मात्सुकृतिनो वयम् ।। ३९ ।।
अस्मिन्देशे महाभाग नैमिषारण्यसंज्ञके ।।
दीर्घसत्रान्वितास्सर्वे प्रणवार्थप्रकाशकाः ।। 6.1.४० ।।
श्रोतव्यः परमेशान इति कृत्वा विनिश्चिताः ।।
परस्परं चिन्तयन्तः परं भावं महेशितु ।। ४१ ।।
अज्ञातवन्त एवैते वयं तस्माद्भवान्प्रभो ।।
छेत्तुमर्हति तान्सर्वान्संशयानल्पचेतसाम् ।। ४२ ।।
त्वदन्यः संशयस्यास्यच्छेत्ता न हि जगत्त्रये ।।
तस्मादपारगंभीरव्यामोहाब्धौ निमज्जतः ।।४३।।
तारयस्व शिवज्ञानपोतेनास्मान्दयानिधे।।
शिवसद्भक्तितत्त्वार्थं ज्ञातुं श्रद्धालवो वयम् ।। ४४ ।।
एवमभ्यर्थितस्त मुनिभिर्वेदपारगैः ।।
सर्ववेदार्थविन्मुख्यः शुकतातो महामुनिः ।।
वेदान्तसारसर्वस्वं प्रणवं परमेश्वरम् ।। ४५ ।।
ध्यात्वा हृत्कर्णिकामध्ये साम्बं संसारमोचकम् ।।
प्रहृष्टमानसो भूत्वा व्याजहार महामुनि ।। ४६ ।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां व्यासशौनकादिसंवादो नाम प्रथमोऽध्यायः। । १ ।।