शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ५०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४९ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ५०
वेदव्यासः
अध्यायः ५१ →

मुनय ऊचुः ।।
श्रोतुकामा वयं सर्वे दुर्गाचरितमन्वहम् ।।
अपरं च महाप्राज्ञ तत्त्वं वर्णय नोऽद्भुतम् ।।१।।
शृण्वतान्त्वन्मुखाम्भोजात्कथा नाना सुधोपमाः ।।
न तृप्यति मनोऽस्माकं सूत सर्वार्थवित्तम ।। २ ।।
।। सूत उवाच ।।
दुर्गमः प्रथितो नाम्ना रुरुपुत्रो महाबलः ।।
ब्रह्मणो वरदानेन चतस्रोऽलभत श्रुतीः ।। ३ ।।
देवाजेयबलं चापि संप्राप्य जगतीतले ।।
करोति स्म बहूत्पातान्दिवि देवाश्चकम्पिरे ।।४।।
सर्वा नष्टेषु वेदेषु क्रिया नष्टा बभूव ह ।।
ब्राह्मणाश्च दुराचारा बभूबुस्ससुरास्तदा ।। ५ ।।
न दानं न तपोऽत्युग्रं न यागो हवनं न हि ।।
अनावृष्टिस्ततो जाता पृथिव्यां शतवार्षिकी ।।६।।
हाहाकारो महानासीत्त्रिषु लोकेषु दुःखिताः ।।
अभवंश्च जनास्सर्वे क्षुत्तृड्भ्यां पीडिता भृशम् ।। ७ ।।
सरितः सागराश्चैव वापीकूपसरांसि च ।।
निर्जला अभवन्सर्वे संशुष्का वृक्षवीरुधः ।। ८ ।।
ततो दृष्ट्वा मदाद्दुःखं प्रजानां दीनचेतसाम् ।।
त्रिदशाश्शरणं याता योगमायां महेश्वरीम् ।। ९ ।।
देवा ऊचुः ।।
रक्षरक्ष महामाये स्वकीयास्सकलाः प्रजाः ।।
कोपं संहर नूनन्त्वं लोका नंक्ष्यंति वान्यथा ।। 5.50.१० ।।
कथा शुंभोहतो दैत्यो निशुंभश्च महाबलः ।।
धूम्राक्षश्चण्डमुण्डौ च रक्तबीजो महाबलः ।। ११ ।।
स मधुः कैटभो दैत्यो महिषासुर एव च ।।
तथैवामुं कृपासिन्धो दीनबन्धो जहि द्रुतम् ।। १२ ।।
अपराधो भवत्येव बालकानां पदे पदे ।।
सहते को जनो लोके केवलं मातरं विना ।। १३ ।।
यदायदाभवद्दुःख देवानां ब्रह्मणान्तथा ।।
तदातदावतीर्याशु कुरुषे सुखिनो जनान् ।। १४ ।।
इति विक्लवितन्तेषां समाकर्ण्य कृपामयी ।।
अनन्ताक्षमयं रूपन्दर्शयामास साम्प्रतम् ।। १५ ।।
धनुर्बाणौ तथा पद्म नानामूलफलानि च ।।
चतुर्भिर्दधती हस्तैः प्रसन्नमुखपङ्कजा।।१६।।
ततो दृष्ट्वा प्रजास्तप्ताः करुणापूरितेक्षणा।।
रुरोद नव घस्राणि नव रात्रीस्समाकुला ।। १७ ।।
मोचयामास दृष्टिभ्यो वारिधाराः सहस्रशः ।।
ताभिः प्रतर्प्पिता लोका औषध्यः सकला अपि ।। १८ ।।
अगाधतोयास्सरितो बभूवुः सागरा अपि ।।
रुरुहुर्धरणीपृष्ठे शाकमूलफलानि च ।। १९ ।।
विततार करस्थानि सुमनोभ्यः फलानि च ।।
गोभ्यस्तृणानि रम्याणि तथान्येभ्यो यथार्हतः ।।5.50.२०।।
सन्तुष्टा अभवन्सर्वे सदैव द्विजमानुषाः ।।
ततो जगाद सा देवी किमन्यत्करवाणि वः ।।२१।।
समेत्योचुस्तदा देवा भवत्या तोषिता जनाः ।।
वेदान्देहि कृपां कृत्वा दुर्गमेण समाहृताम् ।।२२।।
तथास्त्विति प्रभाष्याह यातयात निजालयम् ।।
वितरिष्यामि वो वेदानचिरेणैव कालतः ।।२३।।
ततः प्रमुदिता देवास्स्वं स्वं धाम समाययुः ।।
सुप्रणम्य जगद्योनिं फुल्लेन्दीवरलोचनाम् ।। २४ ।।
ततः कोलाहलो जातो दिवि भूम्यन्तरिक्षके ।।
तच्छ्रुत्वा रौरवः सद्यो न्यरुणत्सर्वतः पुरीम् ।।२५।।
ततस्तेजोमयं चक्रं विधाय परितः शिवा ।।
रक्षणार्थं देवतानां स्वयं तस्माद्बहिर्गता ।। २६ ।।
ततः समभवयुद्धं देव्या दैत्यस्य चोभयोः ।।
ववृषुः समरे बाणान्निशितान्कंकटच्छिदः ।। २७ ।।
एतस्मिन्नंतरे तस्याः शरीराद्रम्यमूर्त्तयः ।।
काली तारा च्छिन्नमस्ता श्रीविद्या भुवनेश्वरी ।। २८ ।।
भैरवी बगला धूम्र श्रीमत्त्रिपुरसुदरी ।।
मातंगी च महाविद्या निर्गता दश सायुधाः।।२९।।
असंख्यातास्ततो जाता मातरो दिव्यमूर्त्तयः ।।
चन्द्रलेखाधरास्सर्वास्सर्वा विद्युतत्समप्रभाः ।।5.50.३०।।
ततो मातृगणैर्युद्धं प्रावर्तत भयंकरम् ।।
रौरवीयं हतन्ताभिर्दलमक्षौहिणीशतम् ।। ३१ ।।
जघान सा तदा दैत्यं दुर्गमं शूलधारया ।।
पपात धरणीपृष्ठे खातमूलद्रुमो यथा ।। ३२ ।।
इत्थं हत्वा तदा दैत्यं दुर्गमासुरनाम कम् ।।
आदाय चतुरो वेदान्ददौ देवेभ्य ईश्वरी ।।३३।।
देवा ऊचुः ।।
अस्मदर्थं त्वया रूपमनन्ताक्षिमयं धृतम् ।।
मुनयः कीर्तयिष्यन्ति शताक्षीन्त्वामतोऽम्बिके ।। ३४ ।।
आत्मदेहसमुद्भूतैः शाकैर्लोका मृता यतः ।।
शाकंभरीति विख्यातन्तत्ते नाम भविष्यति ।। ३५ ।।
दुर्गमाख्यो महादैत्यो हतो यस्मात्ततः शिवे ।।
दुर्गां भगवतीं भद्रां व्याहरिष्यंति मानवाः ।। ३६ ।।
योगनिद्रे नमस्तुभ्यं नमस्तेऽस्तु महाबले ।।
नमो ज्ञानप्रदे तुभ्यं विश्वमात्रे नमो नमः ।। ३७ ।।
तत्त्वमस्यादिवाक्यैर्या बोध्यते परमेश्वरी ।।
अनन्तकोटिब्रह्माण्डनायिकायै नमो नमः ।। ३८ ।।
वाङ्मनःकायदुष्प्रापां सूर्यचन्द्राग्निलोचनाम् ।।
स्तोतुं न शक्नुमो मातस्त्व त्प्रभावाबुधा वयम् ।। ३९ ।।
मादृशानमरान्दृष्ट्वा कः कुर्यादीदृशीन्दयाम् ।।
वर्जयित्वा सुरेशानीं शताक्षी मातरं विना ।। 5.50.४० ।।
त्रिलोकी नाभिभूयेत बाधाभिश्च निरन्तरम् ।।
एवं कार्यस्त्वया यत्नोऽस्माकं वैरिविनाशनम् ।। ४१ ।।
देव्युवाच ।। ।।
वत्सान्दृष्ट्वा यथा गावो व्यग्रा धावन्ति सत्वरम् ।।
तथैव भवतो दृष्ट्वा धावामि व्याकुला सती ।। ४२ ।।
मम युष्मानपश्यन्त्या पश्यन्त्या बालकानिव ।।
अपि प्राणान्प्रयच्छन्त्याः क्षण एको युगायते ।।४३।।
कापि चिन्ता न कर्त्तव्या युष्माभिर्भ क्तिशालिभिः ।।
भवत्यां मयि तिष्ठन्त्यां संहरन्त्यां निजापदः ।।४४।।
यथा पूर्वं हता दैत्या हनिष्यामि तथाऽसुरान्।।
संशयो नात्र कर्त्तव्यस्सत्यंसत्यं ब्रवीम्यहम् ।। ४५ ।।
यदा शुंभो निशुंभश्चापरौ दैत्यौ भविष्यतः ।।
तदाहं नन्दभार्यायां यशोदायां यशोमयी ।। ४६ ।।
योनिजं रूपमास्थाय जनिष्ये गोपगोकुले ।।
हनिष्याम्यसुरौ तन्मां व्याहरिष्यन्ति नन्दजाम् ।। ४७ ।।
भ्रामरं रूपमास्थाय वधिष्याम्यरुणं यतः ।।
भ्रामरीति च मां लोके कीर्तयिष्यन्ति मानवाः ।। ४८ ।।
कृत्वा भीमं पुना रूपं रक्षांस्यत्स्याम्यहं यदा ।।
भीमा देवीति विख्यातं तन्मे नाम भविष्यति ।। ४९ ।।
यदायदाऽसुरोत्थैव बाधा भुवि भविष्यति ।।
तदातदावतीर्याहं शं करिष्याम्यसंशयम् ।। 5.50.५० ।।
या शताक्षी स्मृता देवी सैव शाकंभरी मता ।।
सैव प्रकीर्तिता दुर्गा व्यक्तिरेकैव त्रिष्वपि ।। ५१ ।।
न शताक्षीसमा काचिद्दयालुर्भुवि देवता ।।
दृष्ट्वाऽरुदत्प्रजास्तप्ता या नवाहं महेश्वरी ।।५२।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां शताक्ष्याद्यवतारवर्णनं नाम पंचाशत्तमोऽध्यायः ।।५०।।