शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ४९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४८ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ४९
वेदव्यासः
अध्यायः ५० →

मुनय ऊचुः ।।
उमाया भुवनेशान्यास्सूत सर्वार्थवित्तम ।।
अवतारं समाचक्ष्व यतो जाता सरस्वती ।।१।।
या गीयते परब्रह्ममूलप्रकृतिरीश्वरी ।।
निराकारापि साकारा नित्या नन्दमथी सती ।।२।।
सूत उवाच ।।
तापसाः शृणुत प्रेम्णा चरित्रं परमं महत् ।।
यस्य विज्ञानमात्रेण नरो याति परां गतिम् ।। ३ ।।
देवदानवयोर्युद्धमेकदासीत्परस्परम् ।।
महामायाप्रभावेणामराणां विजयोऽभवत्।।४।।
ततोऽवलिप्ता अमरास्स्वप्रशंसां वितेनिरे।।
वयं धन्या वयं धन्या किं करिष्यंति नोऽसुराः ।।५।।
ये प्रभावं समालोक्यास्माकं परमदुःसहम् ।।
भीता नागालयं याता यातयातेति वादिनः ।। ६ ।।
अहो बलमहो तेजो दैत्यवंशक्षयंकरम् ।।
अहो भाग्यं सुमनसामेवं सर्वेऽभ्यवर्णयन् ।। ७ ।।
तत आविरभूत्तेजः कूटरूपन्तदैव हि ।।
अदृष्टपूर्वं तद्दृष्ट्वा विस्मिता अभवन्सुराः ।।८।।
किमिदं किमिदं चेति रुद्धकण्ठास्समब्रुवन ।।
अजानन्तः परं श्यामानु भावं मानभञ्जनम् ।।९।।
तत आज्ञापयद्देवान्देवानामधिनायकः ।।
यात यूयं परीक्षध्वं याथातथ्येन किन्विति ।।5.49.१०।।
सुरेन्द्रप्रेरितो वायुर्महसः सन्निधिं गतः ।।
कस्त्वं भोरिति सम्बोध्यावोचदेनं च तन्महः ।। ११ ।।
इति पृष्टस्तदा वायुर्महसातिगरीयसा ।।
वायुरस्मि जगत्प्राणस्साभिमानोऽब्रवीदिदम् ।। १२ ।।
जंगमाजंगमं सर्वमोतप्रोतमिदं जगत् ।।
मय्येव निखिलाधारे चालयाम्यखिलं जगत् ।। ।। १३ ।।
तदोवाच महातेजः शक्तोऽसि यदि चालने ।।
धृतमेतत्तृणं वायो चालयस्व निजेच्छया ।। १४ ।।।
ततः सर्वप्रयत्नेनाकरोद्यत्नं सदागतिः ।।
न चचाल यदा स्थानात्तदासौ लज्जितोऽभवत ।।१५।।
तूष्णीं भूत्वा ततो वायुर्जगामेन्द्रं सभां प्रति ।।
कथयामास तद् वृत्तं स्वकीयाभिभवान्वितम् ।।१६।।
सर्वेशत्वं वयं सर्वे मृषैवात्मनि मन्महे ।।
न पारयामहे किंचिद्वि धातुं क्षुद्रवस्त्वपि ।। १७ ।।
ततश्च प्रेषयामास मरुत्वान्सकलान्सुरान् ।।
न शेकुस्ते यदा ज्ञातुं तदेन्द्रः स्वयमभ्यगात् ।। १८ ।।
मघवन्तमथायान्तं दृष्ट्वा तेजोतिदुःसहम्।।
बभूवान्तर्हितं सद्यो विस्मितोऽभूच्च वासवः।।१९।।
चरित्रमीदृशं यस्य तमेव शरणं श्रये ।।
इति संचिन्तयामास सहस्राक्षः पुनःपुनः ।। 5.49.२० ।।
एतस्मिन्नंतरे तत्र निर्व्याजकरुणातनुः ।।
तेषामनुग्रहं कर्तुं हर्तुं गर्वं शिवांगना। ।। २१ ।।
चैत्रशुक्लनवम्यां तु मध्याह्नस्थे दिवाकरे ।।
प्रादुरासीदुमा देवी सच्चिदानन्दरूपिणी ।। २२ ।।
महोमध्ये विराजन्ती भासयन्ती दिशो रुचा ।।
बोधयन्ती सुरान्सर्वान्ब्रह्मैवाहमिति स्फुटम् ।। २३ ।।
चतुर्भिर्दधती हस्तैर्वरपाशांकुशाभयान् ।।
श्रुतिभिस्सेविता रम्या नवयौवनगर्विता ।।२४।।
रक्ताम्बरपरीधाना रक्तमाल्यानुलेपना ।।
कोटिकंदर्प्पसंकाशा चन्द्रकोटिसमप्रभा। ।। २५ ।।
व्याजहार महामाया सर्वान्तर्य्यामिरूपिणी ।।
साक्षिणी सर्वभूतानां परब्रह्मस्वरूपिणी ।। २६ ।।
उमोवाच ।।
न ब्रह्मा न सुरारातिर्न पुरारातिरीश्वरः ।।
मदग्रे गर्वितुं किंचित्का कथान्यसुपर्वणाम् ।। २७ ।।
परं ब्रह्म परं ज्योतिः प्रणवद्वन्द्वरूपिणी ।।
अहमेवास्मि सकलं मदन्यो नास्ति कश्चन ।। २८ ।।
निराकारापि साकारा सर्वतत्त्वस्वरूपिणी ।।
अप्रतर्क्यगुणा नित्या कार्यकारणरूपिणी ।। २९ ।।
कदाचिद्दयिताकारा कदाचित्पुरुषाकृतिः ।।
कदाचिदुभयाकारा सर्वाकाराहमीश्वरी ।। 5.49.३० ।।
विरञ्चिः सृष्टिकर्ताहं जगत्पाताहमच्युतः ।।
रुद्रः संहारकर्ताहं सर्वविश्वविमोहिनी ।। ३१ ।।
कालिका कमलावाणी मुखास्सर्वा हि शक्तयः ।।
मदंशादेव संजातास्तथेमास्सकलाः कलाः ।। ३२ ।।
मत्प्रभावाज्जितास्सर्वे युष्माभिर्द्दितिनन्दनाः ।।
तामविज्ञाय मां यूयं वृथा सर्वेशमानिनः ।। ३३ ।।
यथा दारुमयीं योषां नर्तयत्यैन्द्रजालिकः ।।
तथैव सर्वभूतानि नर्तयाम्यहमीश्वरी ।। ३४ ।।
मद्भयाद्वाति पवनः सर्वं दहति हव्यभुक्।।
लोकपालाः प्रकुर्वंति स्वस्वकर्माण्यनारतम् ।।३५।।
कदाचिद्देववर्गाणां कदाचिद्दितिजन्म नाम् ।।
करोमि विजयं सम्यक्स्वतन्त्रा निजलीलया ।। ३६ ।।
अविनाशि परं धाम मायातीतं परात्परम् ।।
श्रुतयो वर्णयन्ते यत्त द्रूपन्तु ममैव हि।।३७।।
सगुणं निर्गुणं चेति मद्रूपं द्विविधं मतम् ।।
मायाशबलितं चैकं द्वितीयन्तदनाश्रितम् ।। ३८ ।।
एवं विज्ञाय मां देवास्स्वं स्वं गर्वं विहाय च ।।
भजत प्रणयोपेताः प्रकृतिं मां सनातनीम् ।।३९।।
इति देव्या वचः श्रुत्वा करुणागर्भितं सुराः ।।
तुष्टुवुः परमेशानीं भक्तिसंनतकन्धराः ।। 5.49.४० ।।
क्षमस्व जगदीशानि प्रसीद परमेश्वरि ।।
मैवं भूयात्कदाचिन्नो गर्वो मातर्द्दयां कुरु ।।४१।।
ततःप्रभृति ते दैवा हित्वा गर्वं समाहिताः।।
उमामाराधयामासुर्यथापूर्वं यथाविधि।।४२।।
इति वः कथितो विप्रा उमाप्रादुर्भवो मया ।।
यस्य श्रवणमात्रेण परमं पदमश्नुते।।४३।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायामुमाप्रादुर्भाववर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ।। ४९ ।।