सामग्री पर जाएँ

शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ४८

विकिस्रोतः तः
← अध्यायः ४७ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ४८
वेदव्यासः
अध्यायः ४९ →

राजोवाच ।।
धूम्राक्षं चण्डमुण्डं च रक्तबीजासुरन्तथा।।
भगवन्निहतन्देव्या श्रुत्वा शुम्भः सुरार्दनः ।।१।।
किमकार्षीत्ततो ब्रह्मन्नेतन्मे ब्रूहि साम्प्रतम् ।।
शुश्रूषवे जगद्योनेश्चरित्रं पापनाशनम् ।।२।।
ऋषिरुवाच ।।
हतानेमान्दैत्यवरान्महासुरो निशम्य राजन्महनीयविक्रमः ।।
अजिज्ञपत्स्वीयगणान्दुरासदान्रणाभिधोच्चारणज्जातसंमदान् ।।३।।
बलान्वितास्संमिलिता ममाज्ञया जयाशया कालकवंशसंभवाः ।।
सकालकेयासुरमौर्य्यदौर्हृदास्तथा परेप्याशु प्रयाणयन्तु ते।।४।।
निशुंभशुंभौ दितिजान्निदेश्य तान्रथाधिरूढौ निरयां बभूवतुः ।।
बलान्यनूखुर्बलिनोस्तयोर्धराद्विनाशवन्तः शलभा इवोत्थिताः।।५।।
प्रसादयामास मृदंगमर्दलं सभेरिकाडिण्डिमझर्झरानकम् ।।
रणस्थले संजहृषू रणप्रिया असुप्रियाः संगरतः पराययुः ।। ६ ।।
भटाश्च ते युद्धपटावृतास्तदा रणस्थलीं मापुरपापविग्रहाः ।।
गृहीतशस्त्रास्त्रचया जिगीषया परस्परं विग्रहयन्त उल्बणम्।।७।।
गजाधिरूढास्तुरगाधिरोहिणो रथाधिरूढाश्च तथापरेऽसुराः ।।
अलक्षयन्तः स्वपराञ्जनान्मुदाऽसुरेशसंगे समरेऽभिरेभिरे ।। ८ ।।
ध्वनिः शतघ्नी जनितो मुहुर्मुहुर्बभूव तेन त्रिदशाः समेजिताः ।।
महान्धकारः समपद्यताम्बरे विलोक्यते नो रथमण्डलं रवेः ।।९।।
पदातयो निर्व वजुर्हि कोटिशः प्रभूतमाना विजयाभिलाषिणः ।।
रथाश्वगा वारणगा अथापरेऽसुरा निरीयुः कति कोटिशो मुदा ।। 5.48.१० ।।
अशुक्ल शैला एव मत्तवारणा अतानिषुश्चीत्कृतिशब्दमाहवे ।।
क्रमेलकाश्चापि गलद्गलध्वनिं वितन्वते क्षुद्रमहीधरोपमाः।।११।।
हयाश्च ह्रेषन्त उदग्रभूमिजा विशालकण्ठाभरणा गतेर्विदः।।
पदानि दन्तावलमूर्ध्नि बिभ्रतः सुडिड्यिरे व्योमपथा यथाऽवयः।।१२।।
समीक्ष्य शत्रोर्बलमित्थमापतच्चकार सज्यं धनुरम्बिका तदा।।
ननाद घण्टां रिपुसाददायिनी जगर्ज सिंहोऽपि सटां विधूनयन् ।।१३।।
ततो निशुंभस्तुहिनाचलस्थितां विलोक्य रम्याभरणायुधां शिवाम् ।।
गिरं बभाषे रसनिर्भरां परां विलासनीभावविचक्षणो यथा ।।१४।।
भवादृशीनां रमणीयविग्रहे दुनोति कीर्णं खलु मालतीदलम् ।।
कथं करालाहवमातनोष्यसे महेशि तेनैव मनोज्ञवर्ष्मणा ।। १५ ।।
इतीरयित्वा वचनं महासुरो बभूव मौनी तमुवाच चंडिका ।।
वृथा किमात्थासुर मूढ संगरं कुरुष्व नागालयमन्यथा व्रज ।।१६।।
ततोतिरुष्टः समरे महारथश्चकार बाणावलिवृष्टिमद्भुताम् ।।
घनाघनाः संववृषुर्यथोदकं रणस्थले प्रावृडिवागता तदा ।। १७ ।।
शरैश्शितैश्शूलपरश्वधायुधैः सभिन्दिपालैः परिघैश्शरासनैः ।।
भुशुण्डिकाप्रासक्षुरप्रसंज्ञकैर्महासिभिः संयुयुधे मदोद्धतैः ।।१८।।
विवभ्रमुस्तत्समरे महागजा विभिन्नकुंभाअसिताद्रिसन्निभाः।।
चलद्बलाकाधवला विकेतवो विसेतवः शुंभनिशुंभकेतवः।।१९।।
विभिन्नदेहा दितिजा झषोपमा विकन्धरा वाजिगणा भयंकराः ।।
परासवः कालिकया कृता रणे मृगारिणा चाशिषतापरेऽसुरा।।5.48.२०।।
विसुस्रुवू रक्तवहास्तदन्तरे सरिच्च यास्तत्र विपुप्लुवे हतैः ।।
कचा भटानां जलनीलिकोपमास्तदुत्तरीयं सितफेनसंनिभम् ।। २१ ।।
तुरंगसादी तुरगाधिरोहिणं गजस्थितानभ्यपतन्गजारुहः ।।
रथी रथेशं खलु पत्तिरङ्घ्रिगान्समप्रतिद्वन्द्विकलिर्महानभूत् ।।२२।।
ततो निशुंभो हृदये व्यचिन्तयत्करालकालोयमुपागतोऽधुना ।।
भवेद्दरिद्रोऽपि महाधनो महाधनो दरिद्रो विपरीतकालतः ।।२३।।
जडो भवेत्स्फीतमतिर्महामतिर्जडो नृशंसो बहुमन्तु संस्तुतः ।।
पराजयं याति रणे महाबला जयंति संग्राममुखे च दुर्बलाः ।।२४।।
जयोऽजयो वा परमेश्वरेच्छया भवत्यनायासत एव देहिनाम् ।।
न कालमुल्लंघ्य शशाक जीवितुं महेश्वरः पद्मजनी रमापतिः।।२५।।
उपेत्य संग्राममुखं पलायनं न साधुवीरा हृदयेऽनुमन्वते।।
परंतु युद्धे कथमेतया जयो विनाशितं मे सकलं बलं यथा।।२६।।
इयं हि नूनं सुरकर्म साधितुं समागता दैत्यबलं च बाधितुम् ।।
पुराणमूर्तिः प्रकृतिः परा शिवा न लौकिकीयं वनिता कदापि वा ।। २७ ।।
वधोऽपि नारीविहितोऽयशस्करः प्रगीयते युद्धरसं लिलिक्षुभिः ।।
तथाप्यकृत्वा समरं कथं मुखं प्रदर्शयामोऽसुरराजसन्निधौ।।२८।।।
विचारयित्वेति महारथो रथं महान्तमध्यास्य नियन्तृचोदितम्।।
ययौ द्रुतं यत्र महेश्वरांगना सुरांगनाप्रार्थितयौवनोद्गमा।।२९।।
अवोचदेनां स महेशि किं भवेदेभिर्हतैर्वेतनजीविभिर्भटैः।।
तवास्ति कांक्षा यदि योद्धुमावयोस्तदा रणः स्याद्धृतयुद्धसत्पटैः।।5.48.३०।।
उवाच कालीं प्रति कौशिकी तदा समीक्ष्यतामेष दुराग्रहोऽनयोः ।।
करोति कालो विपदागमे मतिं विभिन्नवृत्तिं सदसत्प्रवर्तकः ।।३१ ।।
ततो निशुंभोऽभिजघान चण्डिकां शरैस्सहस्रैश्च तथैव कालिकाम् ।।
बिभेद बाणानसुरप्रचोदितान्सहस्रखण्डं स्वशरोत्करैः शिवा।। ।। ३२ ।।
ततः समुत्थाय कृपाणमुज्ज्वलं स चर्म्म कण्ठीरवमूर्ध्न्यताडयत् ।।
बिभेद तं चापि महासिनाम्बिका यथा कुठारेण तरुं तरुश्छिदः ।। ३३ ।।
स भिन्नखड्गो निचखान मार्गणं पराम्बिका वक्षसि सोऽपि चिच्छिदे ।।
पुनस्त्रिशूलं हृदयेऽक्षिपत्तदप्यचूर्ण यन्मुष्टिनिपातनेन सा ।। ३४ ।।
गदां समादाय पुनर्महारथोऽभ्यधावदम्बां मरणोन्मुखोऽसुरः।।
अचूर्णयत्तामपि शूलधारया पुनस्त्रि शूलं विददार सोऽन्यया ।। ३५ ।।
ततोम्बिका भीमभुजंगमोपमैस्सुरद्विषां शोणितचूषणोचितैः ।।
निशुम्भमात्मीयशिलीमुखै श्शितैर्निहत्य भूमीमनयद्विषोक्षितैः ।। ३६ ।।
निपातितेऽमानबलेऽसुरप्रभुः कनीयसि भ्रातरि रोषपूरितः ।।
रथस्थितो बाहुभिरष्ट भिर्वृतो जगाम यत्र प्रमदा महेशितुः ।। ३७ ।।
अवादयच्छंखमरिन्दमं तदा धनुस्स्वनं चापि चकार दुःसहम् ।।
ननाद सिंहोऽपि सटां विधूनयन्बभूव नादत्रयनादितन्नभः।।३८।।
ततोऽट्टहासं जगदम्बिका करोद्वितत्रसुस्तेन सुरारयोऽखिलाः।।
जयेति शब्दं जगदुस्तदा सुरा यदाम्बिकोवाच रणे स्थिरो भव ।। ३५।।।
दैत्यराजो महतीं ज्वलच्छिखां मुमोच शक्तिं निहता च सोल्कया।।
बिभेद शुंभप्रहिताञ्छराच्छिवा शिवेरितान्सोपि सहस्रधा शरान् ।। 5.48.४० ।।
त्रिशूलमुत्क्षिप्य जघान चण्डिका महासुरं तं स पपात मूर्च्छितः ।।
विभिन्नपक्षो हरिणा यथा नगः प्रकंपयन् द्यां वसुधां स वारिधिम् ।। ४१ ।।
ततो मृषित्वा त्रिशिखोद्भवां व्यथां विधाय बाहूनयुतं महाबलः ।।
स कालिकां सिंहयुतां महेश्वरीं जघान चक्रैरमरक्षयंकरैः।।४२।।
तदस्तचक्राणि विभिद्य लीलया त्रिशूलमुद्गूर्य्य जघान सासुरम् ।।
शिवा जगत्पावनपाणिपङ्कजादुपात्तमृत्यू परमं पदं गतौ।।४३।।
हते तस्मिन्महावीर्य्ये निशुंभे भीमविक्रमे।।
शुंभे च सकला दैत्या विविशुर्बलिसद्मनि ।। ४४ ।।
भक्षिता अपरे कालीसिंहाद्यैरमरद्विषः ।।
पलायितास्तथान्ये च दशदिक्षु भयाकुलाः ।। ४५ ।।
बभूवुर्मार्गवाहिन्यस्सरितः स्वच्छपाथसः ।।
ववुर्वाताः सुखस्पर्शा निर्मलत्वं ययौ नभः।।४६।।
पुनर्यागः समारेभे देवैर्ब्रह्मर्षिभिस्तथा ।।
सुखिनश्चाभवन्सर्वे महेन्द्राद्या दिवौकसः ।। ४७ ।।
पवित्रं परमं पुण्यमुमायाश्चरितं प्रभो ।।
दैत्यराजवधोपेतं श्रद्धया यः समभ्य सेत् ।। ४८ ।।
स भुक्त्वेहाखिलान्भोगांस्त्रिदशैरपि दुर्लभान् ।।
परत्रोमालयं गच्छेन्महामायाप्रसादतः ।। ४९ ।।
।। ऋषिरुवाच ।।
एवन्देवी समुत्पन्ना शुंभासुरनिबर्हिणी ।।
प्रोक्ता सरस्वती साक्षादुमांशाविर्भवा नृप ।।5.48.५०।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहि तायां निशुंभशुंभवधोपाख्याने सरस्वतीप्रादुर्भाववर्णनंनामाष्टश्चत्वारिंशोऽध्यायः ।।४८।।