शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ४७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४६ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ४७
वेदव्यासः
अध्यायः ४८ →

।। ऋषिरुवाच ।।
आसीच्छुम्भासुरो दैत्यो निशुंभश्च प्रतापवान् ।।
त्रैलोक्यमोजसा क्रान्तं भ्रातृभ्यां सचराचरम् ।। १ ।।
ताभ्याम्प्रपीडिता देवा हिमवन्तं समाययुः ।।
जननीं सर्वभूतानां कामदात्रीं ववन्दिरे ।। २ ।।
देवा ऊचुः ।।
जय दुर्गे महेशानि जयात्मीयजनप्रिये ।।
त्रैलोक्यत्राणकारिण्यै शिवायै ते नमोनमः ।।३।।
नमो मुक्तिप्रदायिन्यै पराम्बायै नमोनमः ।।
नमः समस्तसंसारोत्पत्तिस्थित्यन्तकारिके ।। ४ ।।
कालिकारूपसंपन्नो नमस्काराकृते नमः ।।
छिन्नमस्तास्वरूपायै श्रीविद्यायै नमोस्तु ते ।। ५ ।।
भुवनेशि नमस्तुभ्यं नमस्ते भैरवाकृते ।।
नमोस्तु बगलामुख्यै धूमावत्यै नमोनमः ।।६।।
नमस्त्रिपुरसुन्दर्य्यै मातङ्गयै ते नमोनमः ।।
अजितायै नमस्तुभ्यं विजयायै नमोनमः ।। ७ ।।
जयायै मंगलायै ते विलासिन्यै नमोनमः ।।
दोग्ध्रीरूपे नमस्तुभ्यं नमो घोराकृतेऽस्तु ते ।। ८ ।।
मनोऽपराजिताकारे नित्याकारे नमोनमः ।।
शरणागतपालिन्यै रुद्राण्यै ते नमोनमः ।। ९ ।।
नमो वेदान्तवेद्यायै नमस्ते परमात्मने ।।
अनन्तकोटिब्रह्माण्डनायिकायै नमोनमः ।। 5.47.१० ।।
इति देवैः स्तुता गौरी प्रसन्ना वरदा शिवा ।।
प्रोवाच त्रिदशान्सर्वान्युष्माभिः स्तूयतेऽत्र का ।। ११ ।।
ततो गौरीतनोरेका प्रादुरासीत्कुमारिका।।
सोवाच मिषतां तेषां शिवशक्तिं परादरात्।।१२।।
स्तोत्रं मे क्रियते मातः समस्तैः स्वर्गवासिभिः।।
निशुंभशुंभदैत्याभ्यां प्रबलाभ्यां प्रपीडितैः।।१३।।
शरीरकोशाद्यत्तस्या निर्गता तेन कौशिकी।।
नाम्ना सा गीयते साक्षाच्छुंभासुरनिबर्हिणी।।१४।।
चैवोग्रतारिका प्रोक्ता महोग्रतारिकापि च।।
प्रादुर्भूता यतः सा वै मातंगीत्युच्यते भुवि।।१५।।
बभाषे निखिलान्देवान्यूयं तिष्ठत निर्भयाः।।
कार्यं वः साधयिष्यामि स्वतन्त्राहं विनाश्रयम् ।।१६।।
इत्युक्त्वा सा तदा देवी तरसान्तर्हिताऽभवत्।।
चाण्डमुण्डौ तु तान्देवीमद्राष्टां सेवकौ तयोः।।१७।।
दृष्ट्वा मनोहरं तस्या रूपं नेत्रसुखावहम्।।
पेततुस्तौ धरामध्ये नष्टसंज्ञौ विमोहितौ।।१८।।
गत्वा व्याजह्रतुः सर्वं राज्ञे वृत्तान्तमादितः ।।
दृष्टा काचिन्मया पूर्वा नारी राजन्मनोरमा ।।१९।।
हिमवच्छिखरे रम्ये संस्थिता सिंहवाहिनी।।
समन्ताद्देवकन्याभिः सेविता बद्धपाणिभिः।।5.47.२०।।
कुरुते पादसंवाहं काचित्संस्कुरुते कचान्।।
पाणिसंवाहनं काचित्काचिन्नेत्राञ्जनं न्यधात्।।२१।।
काचिद् गृहीत्वा हस्तेनादर्शं दर्शयते मुखम्।।
नागवल्लीं ददात्येका लवंगैलादिसंयुताम्।।२२।।
पतद्ग्रहं करे कृत्वा स्थिता काचित्सखी पुरः।।
भूषयत्यखिलांगानि काचिद्भूषाम्बरादिभिः।।२३।।
कदलीस्तंभजंघोरुः कीरनासाऽहिदौर्लता।।
रणन्मञ्जीरचरणा रम्यमेखलया युता।२४।
लसत्कस्तूरिकामोदमुक्ताहारचलस्तनी।।
ग्रैवेयकलसद्ग्रीवा ललन्तीदाममण्डिता।२५।
अर्द्धचन्द्रधरा देवी मणिकुण्डलधारिणी।।
रम्यवेणिर्विंशालाक्षी लोचनत्रयभूषिता ।। २६ ।।
साक्षरा मालिकोपेता पणिराजितकंकणा ।।
स्वर्णोर्मिकांगुलिर्भ्राजत्पारिहार्य्यलसत्करा ।। २७ ।।
शुभवस्त्रावृता गौरी पद्मासनविराजिता ।।
काश्मीरबिन्दुतिलका चन्द्रालंकृतमस्तका।।२८।।
तडिद्द्युतिर्महामूल्याम्बर चोलोन्नमत्कुचा ।।
भुजैरष्टाभिरुत्तुंगैर्धारयन्ती वरायुधान् ।।२९।।
तादृशी नासुरी नागी न गन्धर्वी न दानवी ।।
विद्यते त्रिषु लोकेषु यादृशी सा मनोरमा ।। 5.47.३० ।।
तस्मात्संभोगयोग्यत्वं तस्यास्त्वय्येव शोभते ।।
नारीरत्नं यतः सा वै पुंरत्नं च भवान्प्रभो ।।३१।।
इत्युक्तं चण्डमुण्डाभ्यां निशम्य स महासुरः ।।
दूतं सुग्रीवनामानं प्रेषयामास तां प्रति ।। ३२ ।।
गच्छ दूत तुषाराद्रौ तत्रास्ते कापि सुन्दरी ।।
सा नेतव्या प्रयत्नेन कथयित्वा वचो मम ।। ३३ ।।
इति विज्ञापितस्तेन सुग्रीवो दानवोत्तमः ।।
गत्वा हिमाचलं प्राह जगदम्बां महेश्वरीम् ।। ३४ ।।
दूत उवाच ।।
देवि शुंभासुरो दैत्यो निशुंभस्तस्य चानुजः ।।
विख्यातस्त्रिषु लोकेषु महा बलपराक्रमः ।।३५।।
चारोहं प्रेषितस्तेन सन्निधिन्ते समागमम् ।।
स यज्जगौ सुरेशानि तत्समाकर्णयाधुना ।।३६।।
इन्द्रादीन्समरे जित्वा तेषां रत्नान्यपाहरम् ।।
देवभागं स्वयं भुञ्जे यागे दत्तं सुरादिभिः ।। ३७ ।।
स्त्रीरत्नं त्वामहं मन्ये सर्वरत्नोपरि स्थितम् ।।
सा त्वं ममानुजं मां वा भजतात्कामजै रसैः ।। ३८ ।।
इति दूतोक्तमाकर्ण्य वचनं शुंभभाषितम् ।।
जगाद सा महामाया भूतेशप्राणवल्लभा ।। ३९ ।।
।। देव्युवाच ।।
सत्यं वदसि भो दूत नानृतं किंचिदुच्यते ।।
परन्त्वेका कृता पूर्वं प्रतिज्ञा तान्निबोध मे ।। 5.47.४० ।।
यो मे दर्पं विधुनुते यो मां जयति संगरे ।।
उत्सहे तमहं कर्तुं पतिं नान्यमिति ध्रुवम् ।। ४१ ।।
स त्वं कथय शुंभाय निशुंभाय वचो मम ।।
यथा युक्तं भवेदेवं विदधातु तथाऽत्र सः ।। ४२ ।।
इत्थं देवीवचः श्रुत्वा सुग्रीवो नाम दानवः ।।
राज्ञे विज्ञापयामास गत्वा तत्र सविस्तरम्।।४३।।
अथ दूतोक्तमाकर्ण्य शुंभो भैरवशासनः ।।
धूम्राक्षं प्राह सक्रोधः सेनान्यं बलिनां वरम् ।।४४।।
हे धूम्राक्ष तुषाराद्रौ वर्तते कापि सुन्दरी ।।
तामानय द्रुतं गत्वा यथा यास्यति सात्र वै ।। ४५ ।।
तस्या आनयने भीतिर्न कार्य्याऽसुरसत्तम ।।
युद्धं कार्यं प्रयत्नेन यदि सा योद्धुमिच्छति ।। ४६ ।।
एवं विज्ञापितो दैत्यो धूम्रलोचनसंज्ञकः ।।
गत्वा हिमाचलं प्राह भुवनेशीमुमांशजाम्।।४७।।
भर्तुर्ममान्तिकं गच्छ नोचेत्त्वां घातयाम्यहम् ।।
पुष्ट्याऽसुराणां सहितः सहस्राणां नितंबिनि ।।४८।।
देव्युवाच ।।
दैत्यराट्प्रेषितो वीर हंसि चेत्किं करोमि ते ।।
परन्त्वसाध्यं गमनं मन्ये संग्राममन्तरा ।।४९।।
इत्युक्तस्तामन्वधावद्दानवो धूम्रलोचनः।।
हुंकारोच्चारणेनैव तन्ददाह महेश्वरी।।5.47.५०।।
ततः प्रभृति सा देवी धूमावत्युच्यते भुवि।।
आराधिता स्वभक्तानां शत्रुवर्गनिकर्तिनी ।।५१।।
धूम्राक्षे निहते देव्या वाहनेनातिकोपिना ।।
चर्वितास्तद्गणास्सर्वेऽपलायन्तावशेषिताः ।।५२।।
इत्थं देव्या हतं दैत्यं श्रुत्वा शुंभः प्रतापवान् ।।
चकार बहुलं कोपं सन्दष्टोष्ठपुटद्वयः ।। ५३ ।।
चण्डं मुंडं रक्तबीजं प्रैषयत्क्रमतोऽ सुरान् ।।
तेपि चाज्ञापिता दैत्या ययुर्यत्राम्बिका स्थिता ।।५४।।
सिंहारूढा भगवतीमणिमादिभिराश्रिताम्।।
भासयंती दिशो भासा दृष्ट्वोचुर्द्दानवर्षभाः ।। ५५ ।।
हे देवि तरसा मूलं याहि शुंभनिशुंभयोः ।।
अन्यथा घातयिष्यामः सगणां त्वां सवाहनाम् ।।५६।।
वृणीष्व तं पतिं वामे लोकपालादिभिः स्तुतम् ।।
प्रपत्स्यसे महानंदं देवानामपि दुर्लभम् ।।५७।।
इत्युक्तमाकलय्याम्बा स्मयित्वा परमेश्वरी ।।
उदाजहार सा देवी सूनृतं रसवद्वचः ।।५८।।
देव्युवाच ।।
अद्वितीयो महेशानः परब्रह्म सदाशिवः ।।
यत्तत्त्वन्न विदुर्वेदा विष्ण्वादीनां च का कथा ।। ५९ ।।
तस्याहं प्रकृतिः सक्ष्मा कथमन्यं पतिम्वृणे ।।
सिंही कामातुरा नैव जम्बुकं वृणुते क्वचित् ।।।। 5.47.६० ।।
करेणुर्गर्दभं नैव द्वीपिनी शशकं न वा ।।
मृषा वदत भो दैत्यो मृत्युव्यालनियंत्रिताः ।।६१ ।।
यूयं प्रयात पातालं युध्यध्वं शक्तिरस्ति चेत् ।।
इति क्रोधकरं वाक्यं श्रुत्वोचुस्ते परस्परम् ।। ६२ ।।
अबलां मनसि ज्ञात्वा न हन्मो भवतीं वयम् ।।
अथो स्थिरैहि पञ्चास्ये युद्धेच्छा मानसेऽस्ति चेत् ।। ६३ ।।
तेषामेवं विवदतां कलहः समवर्द्धत।।
ववृषु समरे बाणा उभयोर्द्दलयोश्शिताः ।।६४।।
एवं तैः समरं कृत्वा लीलया परमेश्वरी।।
जघान चण्डमुण्डाभ्यां रक्तबीजं महासुरम्।।६५।।
द्वेषबुद्धिं विधायापि त्रिदशस्थितयोऽप्यमी ।।
अन्तेऽप्रापन्परं लोकं यँल्लोकं यान्ति तज्जनाः ।। ६६ ।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां धूम्रलोचन चण्डमुण्डरक्तबीजवधो नाम सप्तचत्वारिंशोऽध्यायः।।४७।।