शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ४६

विकिस्रोतः तः
← अध्यायः ४५ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ४६
वेदव्यासः
अध्यायः ४७ →

ऋषिरुवाच ।।
आसीद्रंभासुरो नाम दैत्यवंशशिरोमणिः ।।
तस्माज्जातो महातेजा महिषो नाम दानवः ।। १ ।।
स संग्रामे सुरान्सर्वान्निर्जित्य दनुजाधिपः ।।
चकार राज्यं स्वर्लोके महेन्द्रासनसंस्थितः ।।२।।
पराजितास्ततो देवा ब्रह्माणं शरणं ययुः ।।
ब्रह्मापि तान्समादाय ययौ यत्र वृषाकपी ।।३।।
तत्र गत्वा सुरास्सर्वे नत्वा शंकरकेशवौ ।।
स्ववृत्तं कथायामासुर्यथावदनुपूर्वशः ।। ४ ।।
भगवन्तौ वयं सर्वे महिषेण दुरात्मना ।।
उज्जासिताश्च स्वर्लोकान्निर्जित्य समरांगणे।। ५ ।।
भ्रमामो मर्त्यलोकेऽस्मिन्न लभेमहि शं क्वचित् ।।
कां कां न दुर्दशां नीता देवा इन्द्रपुरोगमाः ।। ६ ।।
सूर्याचन्द्रमसौ पाशी कुबेरो यम एव च ।।
इन्द्राग्निवातगन्धर्वा विद्याधरसुचारणाः ।। ७ ।।
एतेषामपरेषां च विधेयं कर्म सोसुरः ।।
स्वयं करोति पापात्मा दैत्यपक्ष भयंकर ।। ८ ।।
तस्माच्छरणमापन्नान्देवान्नस्त्रातुमर्हथः ।।
वधोपायं च तस्याशु चिन्तयेथां युवां प्रभू ।। ९ ।।
इति देववचः श्रुत्वा दामोदरसतीश्वरौ ।।
चक्रतुः परमं कोपं रोषाघूर्णितलोचनौ ।। 5.46.१० ।।
ततोतिकोपपूर्णस्य विष्णोश्शंभोश्च वक्त्रतः ।।
तथान्येषां च देवानां शरीरान्निर्गतं महः ।। ११ ।।
अतीव महसः पुंजं ज्वलन्तं दशदिक्षु च ।।
अपश्यंस्त्रिदशास्सर्वे दुर्गा ध्यानपरायणाः ।। १२ ।।
सर्वदेवशरीरोत्थं तेजस्तदतिभीषणम् ।।
संघीभूयाभवन्नारी साक्षान्महिषमर्दिनी ।।१३।।
शंभुतेजस उत्पन्नं मुखमस्याः सुभास्वरम् ।।
याम्येन बाला अभवन्वैष्णवेन च बाहवः ।।१४।।
चन्द्रमस्तेजसा तस्याः स्तनयुग्मं व्यजायत।।
मध्यमे न्द्रेण जंघोरू वारुणेन बभूवतुः ।। १५ ।।
भूतेजसा नितंबोभूद्ब्राह्मेण चरणद्वयम् ।।
आर्केण चरणांगुल्यः करांगुल्यश्च वासवात्।।१६।।
कुबेरतेजसा नासा रदनाश्च प्रजापतेः ।।
पावकीयेन नयनत्रयं सान्ध्येन भ्रूद्वयम् ।।१७।।
आनिलेन श्रवोद्वन्द्वं तथान्येषां स्वरोकसाम् ।।
तेजसां संभवः पद्मालया सा परमेश्वरी ।। १८।।
ततो निखिलदेवानां तेजोराशिसमुद्भवाम् ।।
तामालोक्य सुरास्सर्वे परं हर्षं प्रपेदिरे ।।१९।।
निरायुधां च तां दृष्ट्वा ब्रह्माद्यास्त्रिदिवेश्वराः ।।
सायुधान्तां शिवां कर्तुं मनः सन्दधिरे सुराः ।। 5.46.२० ।।
ततः शूलं महेशानो महेशान्यै समर्पयत ।।
चक्रं च कृष्णो भगवाञ्च्छंखं पाशं च पाशभृत ।। २१ ।।
शक्तिं हुताशनोऽयच्छन्मारुतश्चापमेव च ।।।।।
बाणपूर्णेषुधी चैव वज्रघण्टे शचीपतिः ।। २२ ।।
यमो ददौ कालदण्डमक्षमालां प्रजापतिः ।।
ब्रह्मा कमण्डलुं प्रादाद्रोमरश्मीन्दिवाकरः ।।२३।।
कालः खड्गन्ददौ तस्यै फलकं च समुज्वलम् ।।
क्षीराब्धी रुचिरं हारमजरे च तथाम्बरे ।। २४ ।।
चूडामणिं कुण्डले च कटकानि तथैव च ।।
अर्द्धचन्द्रं च केयूरान्नूपुरौ च मनोहरो।।२५।।
ग्रैवेयकमंगुलीषु समस्तास्वंगुलीयकम्।।
विश्वकर्मा च परशुं ददौ तस्यै मनोहरम् ।। २६ ।।
अस्त्राण्यनेकानि तथाभेद्यं चैव तनुच्छदम् ।।
सुरम्यसरसां मालां पङ्कजं चाम्बुधिर्ददौ ।। २७ ।।
ददौ सिंहं च हिमवान्रत्नानि विविधानि च ।।
सुरया पूरितं पात्रं कुबेरोऽस्यै समर्पयत् ।। २८ ।।
शेषश्च भोगिनां नेता विचित्रर चनाञ्चितम् ।।
ददौ तस्यै नागहारं नानास्त्रमणिगुंफितम् ।। २९ ।।
एतैश्चान्यैस्सुरैर्देवी भूषणैरायुधैस्तथा ।।
सत्कृतोच्चैर्ननादासौ साट्टहासं पुनःपुनः ।।5.46.३०।।
तस्या भीषणनादेन पूरिता च नभःस्थली ।।
प्रतिशब्दो महानासीच्चुक्षुभे भुवनत्रयम् ।।३१।।
चेलुः समुद्राश्चत्वारो वसुधा च चचाल ह ।।
जयशब्दस्ततो देवैरकारि महिषार्दितैः ।।३२।।
ततोऽम्बिकां परां शक्तिं महालक्ष्मीस्वरूपिणीम् ।।
तुष्टुवुस्ते सुरास्सर्वे भक्तिगद्गदया गिरा ।। ३३ ।।
लोकं संक्षुब्धमालोक्य देवतापरिपन्थिनः ।।
सन्नद्धसैनिकास्ते च समुत्तस्थुरुदायुधाः ।। ३४ ।।
महिषोऽपि च तं शब्दमभ्यधावद्रुषान्वितः ।।
स ददर्श ततो देवीं व्याप्तलोकत्रयां रुचा ।। ३५ ।।।
एतस्मिन्नन्तरे तत्र महिषासुरपालिताः ।।
समाजग्मुर्महावीराः कोटिशो धृतहेतयः।।३६।।
चिक्षुरश्चामरोदग्रौ करालोद्धतबाष्कलाः ।।
ताम्रोग्रास्योग्रवीर्याश्च बिडालोऽन्धक एव च ।। ३७ ।।
दुर्धरो दुर्मुखश्चैव त्रिनेत्रश्च महाहनुः ।।
एते चान्ये च बहवः शूरा युद्धविशा रदाः ।। ३८ ।।
युयुधुः समरे देव्या सह शस्त्रास्त्रपारगाः ।।
इत्थं कालो व्यतीयाय युध्यतोर्भीषणस्तयोः ।।३९।।
अरिवर्गकरक्षिप्ता नानाशस्त्रास्त्रराशयः ।।
महामायाप्रभावेण विफला अभवन् क्षणात् ।। 5.46.४० ।।
ततो जघान सा देवी चिक्षुरप्रमुखानरीन् ।।
सगणान्गदया बाणैः शूलशक्तिपरश्वधैः ।।४१।।
एवं स्वीयेषु सैन्येषु हतेषु महिषासुरः ।।
देवीनिःश्वाससंभूतान्भावयामास तान्गणान् ।। ४२ ।।
अताडयत्सरैः काश्चित्काश्चिच्छृङ्गद्वयेन च ।।
लांगूलेन च तुण्डेन भिनत्ति स्म मुहुर्मुहुः ।। ४३ ।।
इत्थं देवीगणा न्हत्वाभ्यधावत्सोऽसुराधिपः ।।
सिंहं मारयितुन्देव्यास्ततोऽसौ कुपिताऽभवत् ।।४४।।
कोपात्सोपि महावीर्यः खुरकुट्टितभूतलः ।।
शृङ्गाभ्यां शैलमुत्पाट्य चिक्षेप प्रणनाद च ।। ४५ ।।
वेगेन विष्वग् भ्रमता प्रक्षिप्ता गुरवोऽद्रयः ।।
आकाशतो महीमध्ये निपेतुर्नृपसत्तम ।। ४६ ।।
शृंगभिन्नाः पयोवाहाः खण्डं खण्डमयासिषुः ।।
लांगूलेनाहतश्चाब्धिर्विष्वगुद्वेलमस्पदत् ।। ४७ ।।
एवं क्रुद्धं समालोक्य महिषासुरमम्बिका ।।
विदधे तद्वधोपायं देवानामभयंकरी ।। ४८ ।।
ततः पाशं समुत्थाय क्षिप्त्वा तस्योपरी श्वरी ।।
बबन्ध महिषं सोऽपि रूपन्तत्याज माहिषम् ।। ४९ ।।
ततः सिंहो बभूवाशु मायावी तच्छिरोम्बिका ।।
यावद्भिनत्ति तावत्स खङ्गपाणिर्बभूव ह ।।5.46.५०।।
सचर्म्मासिकरं तं च देवी बाणैरताडयत् ।।
ततो गजवपुर्भूत्वा सिंहं चिच्छेद शुण्डया ।। ५१ ।।
ततोऽस्य च करं देवी चकर्त स्वमहासिना ।।
अधारि च पुना रूपं स्वकीयं तेन रक्षसा ।। ५२ ।।
तदैव क्षोभयामास त्रैलोक्यं सचराचरम् ।।
ततः क्रुद्धा महामाया चण्डिका मानविक्रमा।।५३।।
पपौ पुनःपुनः पानं जहासोद्भ्रान्तलोचना ।।
जगर्ज चासुरः सोऽपि बलवीर्यमदो द्धतः ।।५४।।
तस्या उपरि चिक्षेप शैलानुत्पाट्य सोऽसुरः ।।
सा च बाणावलीघातैश्चूर्णयामास सत्वरम् ।। ५५ ।।
वारुणीमद्रसं जातमुखरागाऽऽकुलेन्द्रिया ।।
प्रोवाच परमेशानी मेघगंभीरया गिरा ।। ५६ ।।
।। देव्युवाच ।।
रे मूढ रे हतप्रज्ञ व्यर्थ किं कुरुषे हठम् ।।
न मदग्रेऽसुराः केपि स्थास्नवो जगतीत्रये ।। ५७ ।।
ऋषि रुवाच ।।
एकमाभाष्य कूर्दित्वा देवी सर्वकलामयी ।।
पदाक्रम्यासुरं कण्ठे शूलेनोग्रेण साऽभिनत् ।। ५८ ।।
ततस्तच्चरणाक्रान्तस्स स्वकीयमुखात्ततः ।।
अर्द्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ।। ५९ ।।
अर्द्धनिष्क्रान्त एवासौ युध्यमानो महाधमः ।।
महासिना शिरो भित्त्वा न्यपाति धरणीतले ।। 5.46.६० ।।
हाहाशब्दं समुच्चार्य्यावाङ्मुखास्तद्गणास्ततः ।।
पलायन्त रणाद्भीतास्त्राहित्राहीति वादिनः ।। ६१ ।।
तुष्टुवुश्च तदा देवीमिन्द्राद्याः सकलाः सुराः ।।
गन्धर्वा गीतमुच्चेरुर्ननृतुर्नर्तकीजनाः ।। ६२ ।।
एवन्ते कथितो राजन्महालक्ष्म्याः समुद्भवः ।।
सरस्वत्यास्तथोत्पत्तिं शृणु सुस्थेन चेतसा ।। ६३ ।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां महिषासुरवधोपाख्याने महालक्ष्म्यवतारवर्णनं नाम षट्चत्वारिंशोऽध्यायः ।। ४६ ।।