शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ४५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४४ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ४५
वेदव्यासः
अध्यायः ४६ →

मुनय ऊचुः ।।
श्रुत्वा शंभोः कथा रम्या नानाख्यानसमन्विता।।
नानावतार संयुक्ता भुक्तिमुक्तिप्रदा नृणाम् ।।१।।
इदानीं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदां वर।।
चरित्रं जगदंबाया भगवत्या मनोहरम्।।२।।
परब्रह्म महेशस्य शक्तिराद्या सनातनी ।।
उमा या समभिख्याता त्रैलोक्यजननी परा ।।३।।
सती हेमवती तस्या अवतारद्वयं श्रुतम्।।
अपरानवतारांस्त्वं ब्रूहि सूत् महामते ।।४।।
को विरज्येत मतिमान् गुणश्रवणकर्मणि ।।
श्रीमातुर्ज्ञानिनो यानि न त्यजन्ति कदाचन।५।।।
सूत उवाच ।।
धन्या यूयं महात्मानः कृतकृत्याः स्थ सर्वदा ।।
यत्पृच्छथ पराम्बाया उमायाश्चरितं महत् ।।६।।
शृण्वतां पृच्छतां चैव तथा वाचयतां च तत् ।।
पादाम्बुजरजांस्येव तीर्थानि मुनयो विदुः ।।७।।
ते धन्या कृतकृत्याः स्युर्धन्या तेषां प्रसूः कुलम् ।।
येषां चित्तं भवेल्लीनं श्रीदेव्यां परसंविदि ।। ८ ।।
ये न स्तुवन्ति देवेशीं सर्वकारणकारणाम् ।।
मायागुणैर्मोहितास्स्युर्हतभाग्या न संशयः ।। ९ ।।
न भजन्ति महादेवीं करुणारससागराम् ।।
अन्धकूपे पतन्त्येते घोरे संसाररूपिणि ।।5.45.१०।।
गंगां विहाय तृप्त्यर्थं मरुवारि यथा व्रजेत् ।।
विहाय देवीं तद्भिन्नं तथा देवान्तरं व्रजेत्।।११।।
यस्याः स्मरणमात्रेण पुरुषार्थचतुष्टयम्।।
अनायासेन लभते कस्त्यजेत्तां नरोत्तमः ।। १२ ।।
एतत्पृष्टः पुरा मेधास्सुरथेन महात्मना ।।
यदुक्तं मेधसा पूर्वं तच्छृणुष्व वदामि ते ।। १३ ।।
स्वारोचिषेन्तरे पूर्वं विरथो नाम पार्थिवः ।।
सुरथस्तस्य पुत्रोऽभून्महाबलपराक्रमः ।। १४ ।।
दानशौण्डः सत्यवादी स्वधर्म्म कुशलः कृती ।।
देवीभक्तो दयासिन्धुः प्रजानां परिपालकः ।। १५ ।।
पृथिवीं शासतस्तस्य पाकशासनतेजसः ।।
बभूबुर्नव ये भूपाः पृथ्वीग्रहणतत्पराः।।१६।।
कोलानाम्नीं राजधानीं रुरुधुस्तस्य भूपतेः ।।
तैस्समन्तुमुलं युद्धं समपद्यत दारुणम्।।१७।।
युद्धे स निर्जितो भूपः प्रबलैस्तैर्द्विषद्गणैः ।।
उज्जासितच्च कोलाया हृत्वा राज्यमशेषतः।।१८।।
स राजा स्वपुरीमेत्याकरोद्राज्यं स्वमंत्रिभिः ।।
तत्रापि च महःपक्षैर्विपक्षैस्स पराजितः।।१९।।
दैवाच्छत्रुत्वमापन्नै रमात्यप्रमुखैर्गणैः ।।
कोशस्थितं च यद्वित्तं तत्सर्वं चात्मसात्कृतम् ।।5.45.२०।।
ततस्स निर्गतो राजा नगरान्मृगया छलात् ।।
असहायोऽश्वमारुह्य जगाम गहनं वनम् ।। २१ ।।
इतस्ततस्तत्र गच्छन्राजा मुनिवराश्रमम् ।।
ददर्श कुसुमारामभ्राजितं सर्वतोदिशम् ।।२२।।
वेदध्वनिसमाकीर्णं शान्तजन्तुसमाश्रितम् ।।
शिष्यैः प्रशिष्यैस्तच्छिष्यैस्समन्तात्परिवेष्टितम् ।।२३।।
व्याघ्रादयो महावीर्या अल्पवीर्यान्महामते ।।
तदाश्रमे न बाधन्ते द्विजवर्य्यप्रभावतः ।।२४।।
उवास तत्र नृपतिर्महाकारुणिको बुधः ।।
सत्कृतो मुनिनाथेन सुवचो भोजनासनैः ।। २५ ।।
एकदा स महाराजश्चिंतामाप दुरत्ययाम् ।।
अहो मे हीनभाग्यस्य दुर्बुद्धेर्हीनतेजसः ।। २६ ।।
हृतं राज्यमशेषेण शत्रुवर्गैर्मदोद्धतैः ।।
मत्पूर्वै रक्षितं राज्यं शत्रुभिर्भुज्यतेऽधुना ।। २७ ।।
मादृशश्चैत्रवंशेस्मिन्न कोप्यासीन्महीपतिः ।।
किं करोमि क्व गच्छामि कथं राज्यं लभेमहि ।। २८ ।।
अमात्या मंत्रिणश्चैव मामका ये सनातनाः ।।
न जाने कं च नृपतिं समासाद्याधुनासते ।। २९ ।।
विनाश्य राज्यमधुना न जाने कां गतिं गताः ।।
रणभूमिमहोत्साहा अरिवर्गनिकर्तनाः ।। 5.45.३० ।।
मामका ये महाशूरा नृपमन्यं भजन्ति ते ।।
पर्वताभा गजा अश्वा वातवद्वेगगामिनः ।।३१।।
पूर्वपूर्वार्जितः कोशः पाल्यते तैर्नवाधुना ।।
एवं मोहवशं यातो राजा परमधार्मिकः ।। ३२ ।।
एतस्मिन्नंतरे तत्र वैश्यः कश्चित्समागतः।।
राजा पप्रच्छ कस्त्वं भोः किमर्थमिह चागतः।।३३।।
दुर्मना लक्ष्यसे कस्मादेतन्मे ब्रूहि साम्प्रतम् ।।
इत्याकर्ण्य वचो रम्यं नरपालेन भाषितम् ।। ३४ ।।
दृग्भ्यां विमुंचन्नश्रूणि समाधिर्वैश्यपुंगवः ।।
प्रत्युवाच महीपालं प्रणयावनतो गिरम् ।। ३५ ।।
।। वैश्य उवाच ।।
समाधिर्नाम वैश्योहं धनिवंशसमुद्भवः ।।
पुत्रदारादिभिस्त्यक्तो धनलोभान्महीपते ।। ३६ ।।
स वनमभ्यागतो राजन्दुःखितः स्वेन कर्मणा ।।
सोहं पुत्रप्रपौत्राणां कलत्राणां तथैव च ।। ३७ ।।
भ्रातॄणां भ्रातृपुत्राणां परेषां सुहृदां तथा ।।
न वेद्मि कुशलं सम्यक्करुणासागर प्रभो ।।३८।।
राजोवाच ।।
निष्कासितो यैः पुत्राद्यैर्दुर्वृत्तैर्धनगर्धिभिः ।।
तेषु किं भवता प्रीतिः क्रियते मूर्खजन्तुवत्।।३९।।
वैश्य उवाच ।।
सम्यगुक्तं त्वया राजन्वचः सारार्थबृंहितम् ।।
तथापि स्नेहपाशेन मोह्यतेऽतीव मे मनः।।5.45.४०।।
एवं मोहाकुलौ वैश्यपार्थिवौ मुनिसत्तम ।।
जग्मतुर्मुनिवर्यस्य मेधसः सन्निधिन्तदा ।।४१।।
स वैश्यराजसहितो नरराजः प्रतापवान् ।।
प्रणनाम महावीरः शिरसा योगिनां वरम् ।।४२।।
बद्ध्वाञ्जलिमिमां वाचमुवाच नृपतिर्मुनिम् ।।
भगवन्नावयोर्मोहं छेत्तुमर्हसि साम्प्रतम् ।। ४३ ।।
अहं राजश्रिया त्यक्तो गहनं वनमाश्रितः ।।
तथापि हृतराज्यस्य तोषो नैवाभिजायते ।। ४४ ।।।
अयं च वैश्यस्स्वजनैर्दाराद्यैर्निष्कृतो गृहात् ।।
तथाप्येतस्य ममता न निवृत्तिं समश्नुते ।। ४५ ।।
किमत्र कारणं ब्रूहि ज्ञानिनोरपि नो मनः ।।
मोहेन व्याकुलं जातं महत्येषां हि मूर्खता ।। ४६ ।।
ऋषि उवाच ।।
महामाया जगद्धात्री शक्तिरूपा सनातनी ।।
सा मोहयति सर्वेषां समाकृष्य मनांसि वै।।४७।।
ब्रह्मादयस्सुरास्सर्वे यन्मायामोहिताः प्रभो ।।
न जानन्ति परन्तत्त्वं मनुष्याणां च का कथा ।। ४८ ।।
सा सृजत्यखिलं विश्वं सैव पालयतीति च ।।
सैव संहरते काले त्रिगुणा परमेश्वरी ।।४९।।
यस्योपरि प्रसन्ना सा वरदा कामरूपिणी।।
स एव मोहमत्येति नान्यथा नृपसत्तम ।।5.45.५०।।
राजोवाच ।।
का सा देवी महामाया या च मोहयतेऽखिलान्।।
कथं जाता च सा देवी कृपया वद मे मुने ।। ५१ ।।
ऋषिरुवाच ।।
जगत्येकार्णवे जाते शेषमास्तीर्य योगराट् ।।
योगनिद्रामुपाश्रित्य यदा सुष्वाप केशवः ।। ५२ ।।
तदा द्वावसुरौ जातौ विष्णौ कर्णमलेन वै ।।
मधुकैटभनामानौ विख्यातौ पृथिवीतले ।। ५३ ।।
प्रलयार्कप्रभौ घोरौ महाकायौ महाहनू ।।
दंष्द्राकरालवदनौ भक्षयन्तौ जगन्ति वा।।५४।।
तौ दृष्ट्वा भगवन्नाभिपङ्कजे कमलासनम् ।।
हननायोद्यतावास्तां कस्त्वं भोरिति वादिनौ ।।५५।।
समालोक्यं तु तौ दैत्यौ सुरज्येष्ठो जनार्दनम् ।।
शयानं च पयोम्भोधौ तुष्टाव परमेश्वरीम् ।।५६।।
ब्रह्मोवाच।।
रक्षरक्ष महामाये शरणागतवत्सले।।
एताभ्यां घोररूपाभ्यां दैत्याभ्यां जगदम्बिके।।५७।।
प्रणमामि महामायां योगनिद्रामुमां सतीम् ।।
कालरात्रिं महारात्रिं मोहरात्रिं परात्पराम् ५८।।
त्रिदेवजननीं नित्यां भक्ताभीष्टफलप्रदाम् ।।
पालिनीं सर्वदेवानां करुणावरुणालयम् ।। ५९ ।।
त्वत्प्रभावादहं ब्रह्मा माधवो गिरिजापतिः ।।
सृजत्यवति संसारं काले संहरतीति च ।।5.45.६०।।
त्वं स्वाहा त्वं स्वधा त्वं ह्रीस्त्वं बुद्धिर्विमला मता ।।
तुष्टिः पुष्टिस्त्वमेवाम्ब शान्तिः क्षान्तिः क्षुधा दया ।।६१।।
विष्णु माया त्वमेवाम्ब त्वमेव चेतना मता।।
त्वं शक्तिः परमा प्रोक्ता लज्जा तृष्णा त्वमेव च ।।६२।।
भ्रान्तिस्त्वं स्मृतिरूपा त्वं मातृरूपेण संस्थिता ।।
त्वं लक्ष्मीर्भवने पुंसां पुण्याक्षरप्रवर्तिनाम् ।।६३।।
त्वं जातिस्त्वं मता वृत्तिर्व्याप्तिरूपा त्वमेव हि।।
त्वमेव चित्तिरूपेण व्याप्य कृत्स्नं प्रतिष्ठिता ।। ६४ ।।
सा त्वमेतौ दुराधर्षावसुरौ मोहयाम्बिके ।
प्रबोधय जगद्योने नारायणमजं विभुम् ।। ६५ ।।
ऋषिरुवाच ।। ।।
ब्रह्मणा प्रार्थिता सेयं मधुकैटभनाशने ।।
महाविद्याजगद्धात्री सर्वविद्याधिदेवता ।।६६।।
द्वादश्यां फाल्गुनस्यैव शुक्लायां समभून्नृप ।।
महाकालीति विख्याता शक्तिस्त्रैलोक्यमोहिनी ।।६७।।
ततोऽभवद्वियद्वाणी मा भैषीः कमलासन।।
कण्टकं नाशयाम्यद्य हत्वाजौ मधुकैटभौ ।।६८।।
इत्युक्त्वा सा महामाया नेत्रवक्त्रादितो हरेः।।
निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ।। ६९ ।।
उत्तस्थौ च हृषीकेशो देवदेवो जनार्दनः ।।
स ददर्श पुरो दैत्यो मधुकैटभसंज्ञकौ ।।5.45.७०।।
ताभ्यां प्रववृत्ते युद्धं विष्णोरतुलतेजसः ।।
पञ्चवर्षसहस्राणि बाहुयुद्धमभूत्तदा ।।७१।।
महामायाप्रभावेण मोहितो दानवोत्तमौ ।।
जजल्पतू रमाकान्तं गृहाण वरमीप्सितम् । ७२ ।।
नारायण उवाच ।।
मयि प्रसन्नौ यदि वां दीयतामेष मे वरः ।।
मम वध्यावुभौ नान्यं युवाभ्यां प्रार्थये वरम् ।। ७३ ।।
ऋथिरुवाच ।।
एकार्णवां महीं दृष्ट्वा प्रोचतुः केशवं वचः ।।
आवां जहि न यत्रासौ धरणी पयसाऽ ऽप्लुता ।। ७४ ।।
तथास्तु प्रोच्य भगवांश्चक्रमुत्थाप्य सूज्ज्वलम् ।।
चिच्छेद शिरसी कृत्वा स्वकीयजघने तयोः।।७५।।
एवन्ते कथितो राजन्कालिकायास्समुद्भवः ।।
महालक्ष्म्यास्तथोत्पत्तिं निशामय महामते ।। ७६ ।।
निर्विकारादि साकारा निराकारापि देव्युमा ।।
देवानां तापनाशार्थं प्रादुरासीद्युगेयुगे ।। ७५ ।।
यदिच्छावैभवं सर्वं तस्या देहग्रहः स्मृतः ।।
लीलया सापि भक्तानां गुणवर्णनहेतवे ।। ७८ ।। ।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मधुकैटभवधे महाकालिकावतारवर्णनं नाम पंचचत्वारिंशोऽध्यायः ।। ४५ ।।