शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ५१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५० शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ५१
वेदव्यासः

मुनय ऊचुः ।।
व्यासशिष्य महाभाग सूत पौराणिकोत्तम ।।
अपरं श्रोतुमिच्छामः किमप्याख्यानमीशितुः।।१।।
उमाया जगदम्बायाः क्रियायोगमनुत्तमम् ।।
प्रोक्तं सनत्कुमारेण व्यासाय च महात्मने ।। २ ।।
सूत उवाच ।।
धन्या यूयं महात्मानो देवीभक्तिदृढव्रताः ।।
पराशक्तेः परं गुप्तं रहस्यं शृणुतादरात् ।। ३ ।।
व्यास उवाच ।।
सनत्कुमार सर्वज्ञ ब्रह्मपुत्र महामते ।।
उमायाश्श्रोतुमिच्छामि क्रियायोगं महाद्भुतम् ।। ४ ।।
कीदृक्च लक्षणं तस्य किं कृते च फलं भवेत् ।।
प्रियं यच्च पराम्बायास्तदशेषं वदस्व मे ।। ५ ।।
सनत्कुमार उवाच ।।
द्वैपायन यदेतत्त्वं रहस्यं परिपृच्छसि ।।
तच्छृणुष्व महाबुद्धे सर्वं मे वर्णयिष्यतः ।। ६ ।।
ज्ञानयोगः क्रियायोगो भक्तियोगस्तथैव च ।।
त्रयो मार्गास्समाख्याताः श्रीमातुर्मुक्तिमुक्तिदा ।। ७ ।।
ज्ञानयोगस्तु संयोगश्चित्तस्यैवात्मना तु यः ।।
यस्तु बाह्यार्थसंयोगः क्रियायोगः स उच्यते ।। ८ ।।
भक्तियोगो मतो देव्या आत्मनश्चैक्यभावनम् ।।
त्रयाणामपि योगानां क्रियायोगस्स उच्यते ।। ९ ।।
कर्मणा जायते भक्तिर्भक्त्या ज्ञानं प्रजायते ।।
ज्ञानात्प्रजायते मुक्तिरिति शास्त्रेषु निश्चयः।।5.51.१०।।
प्रधानं कारणं योगो विमुक्तेर्मुनिसत्तम ।।
क्रियायोगस्तु योगस्य परमन्ध्येयसाधनम् ।।१ १।।
मायान्तु प्रकृतिं विद्यान्मायावि ब्रह्म शाश्वतम् ।।
अभिन्नं तद्वपुर्ज्ञात्वा मुच्यते भवबन्धनात् ।। १२ ।।
यस्तु देव्यालयं कुर्यात्पाषाणन्दारवन्तथा ।।
मृन्मयं वाथ कालेय तस्य पुण्यफलं शृणु ।।
अहन्यहनियोगेन जयतो यन्महाफलम्।। ।।१३।।
प्राप्नोति तत्फलन्देव्या यः कारयति मन्दिरम्।।
सहस्रकुलमागामि व्यतीतं च सहस्रकम् ।।
तारयति धर्मात्मा श्रीमातुर्धाम कारयन् ।।१४।।
कोटिजन्मकृतं पापं स्वल्पं वा यदि वा बहु ।।
श्रीमातुर्मन्दिरारम्भक्षणादेव प्रणश्यति ।। १५ ।।
नदीषु च यथा गंगा शोणः सर्वनदेषु च ।।
क्षमायां च यथा पृथ्वी गांभीर्ये च यथोदधिः ।।१६।।
ग्रहाणां च समस्तानां यथा सूर्यो विशिष्यते।।।
तथा सर्वेषु देवेषु श्रीपराम्बा विशिष्यते ।। १७ ।।
सर्वदेवेषु सा मुख्या यस्तस्याः कारयेद्गृहम् ।।
प्रतिष्ठां समवाप्नोति स च जन्म निजन्मनि ।। १८ ।।
वाराणस्यां कुरुक्षेत्रे प्रयागे पुष्करे तथा ।।
गंगासमुद्रतीरे च नैमिषेऽमरकण्टके ।। १९ ।।
श्रीपर्वते महापुण्ये गोकर्णे ज्ञानपर्वते ।।
मथुरायामयोध्यायां द्वारावत्यां तथैव च ।। 5.51.२० ।।
इत्यादि पुण्यदेशेषु यत्र कुत्र स्थलेऽपि वा ।।
कारयन्मातुरावासं मुक्तो भवति बन्धनात् ।। २१ ।।
इष्टकानां तु विन्यासो यावद्वर्षाणि तिष्ठति ।।
तावद्वर्षसहस्राणि मणिद्वीपे महीयते ।। २२ ।।
प्रतिमाः कारयेद्यस्तु सर्वलक्षणलक्षिताः ।।
स उमायाः परं लोकं निर्भयो व्रजति धुवम् ।। २३ ।।
देवीमूर्तिं प्रतिष्ठाप्य शुभर्तुं ग्रहतारके ।।
कृतकृत्यो भवेन्मर्त्यो योगमायाप्रसादतः ।। २४ ।।
ये भविष्यन्ति येऽतीता आकल्पात्पुरुषाः कुले ।।
तांस्तांस्तारयते देव्या मूर्तिं संस्थाप्य शोभनाम् ।। २५ ।।
त्रिलोकीस्थापनात्पुण्यं यद्भवेन्मुनिपुंगव ।।
तत्कोटिगुणितं पुण्यं श्रीदेवीस्थापनाद्भवेत् ।।२६।।
मध्ये देवीं स्थापयित्वा पञ्चायतनदेवताः ।।
चतुर्द्दिक्षु स्थापयेद्यस्तस्य पुण्यं न गण्यते ।।२७।।।
विष्णोर्नाम्नां कोटिजपाद्ग्रहणेचन्द्रसूर्ययोः ।।
यत्फलं लभ्यते तस्माच्छतकोटिगुणोत्तरम् ।।२८।।
शिवनाम्नो जपादेव तस्मात्कोटि गुणोत्तरम् ।।
श्रीदेवीनामजापात्तु ततः कोटिगुणोत्तरम् ।।२९।।
देव्याः प्रासादकरणात्पुण्यन्तु समवाप्यते ।।
स्थापिता येन सा देवी जगन्माता त्रयीमयी ।।5.51.३०।।
न तस्य दुर्लभं किंचिच्छ्रीमातुः करुणावशात् ।।
वर्द्धते पुत्रपौत्राद्या नश्यत्यखिलकश्मलम् ।।३१।।
मनसा ये चिकीर्षंति मूर्तिस्थापनमुत्तमम् ।।
तेत्युमायाः परं लोकं प्रयान्ति मुनिदुर्लभम् ।।३२।।
क्रियमाणन्तु यः प्रेक्ष्य चेतसा ह्यनुचिन्तयेत् ।।
कारयिष्याम्यहं यर्हि संपन्मे संभविष्यति ।।३३।।
एवन्तस्य कुलं सद्यो याति स्वर्गं न संशयः ।।
महामायाप्रभावेण दुर्लभं किं जगत्त्रये ।।३४।।
श्रीपराम्बाजगद्योनिं केवलं ये समाश्रिताः ।।
ते मनुष्या न मन्तव्यास्साक्षाद्देवीगणाश्च ते ।।३५।।
ये व्रजन्तः स्वपन्तश्च तिष्ठन्तो वाप्यहर्निशम् ।।
उमेति द्व्यक्षरं नाम ब्रुवते ते शिवागणाः ।।३६।।
नित्ये नैमित्तिके देवीं ये यजन्ति परां शिवाम्।।
पुष्पैर्धूपैस्तथादीपैस्ते प्रयास्यन्त्युमालयम् ।।३७।।
ये देवीमण्डपं नित्यं गोमयेन मृदाथवा ।।
उपलिंपन्ति मार्जन्ति ते प्रयास्यन्त्युमालयम् ।।३८।।
यैर्देव्या मन्दिरं रम्यं निर्मापि तमनुत्तमम् ।।
तत्कुलीनाञ्जनान्माता ह्याशिषः संप्रयच्छति ।।३९।।
मदीयाः शतवर्षाणि जीवन्तु प्रेमभाग्जनाः।।
नापदामयनानीत्थं श्रीमाता वक्त्यहर्निशम्।।5.51.४०।।
येन मूर्तिर्म्महादेब्या उमायाः कारिता शुभा।।
नरायुतन्तत्कुलजं मणिद्वीपे महीयते।।४१।।
स्थापयित्वा महामायामूर्तिं सम्यक्प्रपूज्य च।।
यंयं प्रार्थयते कामं तंतं प्राप्नोति साधकः ।।४२।।
यः स्नापयति श्रीमातुः स्थापितां मूर्तिमुत्तमाम् ।।
घृतेन मधुनाक्तेन तत्फलं गणयेत्तु कः।।४३।।
चन्दनागुरुकर्पूर मांसीमुस्तादियुग्जलैः ।।
एकवर्णगवां क्षीरैः स्नापयेत्परमेश्वरीम्।।४४।।
धूपेनाष्टादशांगेन दद्यादाहुतिमुत्तमाम् ।।
नीराजनं चरेद्देव्या स्साज्यकर्पूरवर्तिभिः ।। ४५ ।।
कृष्णाष्टम्यां नवम्यां वामायां वा पंचदिक्तिथौ ।।
पूजयेज्जगतां धात्रीं गंधपुष्पैर्विशेषतः ।। ४६ ।।
संपठञ्जननीसूक्तं श्रीसूक्तमथ वा पठन्।।
देवीसूक्तमथो वापि मूकमन्त्रमथापि वा ।।४७।।
विष्णुक्रान्तां च तुलसीं वर्जयित्वाखिलं सुमम् ।।
देवीप्रीतिकरं ज्ञेयं कमलन्तु विशेषतः ।।४८।।
अर्पयेत्स्वर्णपुष्पं यो देव्यै राजतमेव वा ।।
स याति परमं धाम सिद्धकोटि भिरन्वितम् ।।४९।।
पूजनान्ते सदा कार्यं दासैरेनः क्षमापनम्।।
प्रसीद परमेशानि जगदानन्ददायिनि।।5.51.५०।।
इति वाक्यैस्स्तुवन्मन्त्री देवीभक्तिपरायणः ।।
ध्यायेत्कण्ठीरवारूढां वरदाभयपाणिकाम् ।।५१।।
इत्थं ध्यात्वा महेशानीं भक्ताभीष्टफलप्रदाम् ।।
नानाफलानि पक्वानि नैवेद्यत्वे प्रकल्पयेत् ।।५२।।
नैवेद्यं भक्षयेद्यस्तु शंभुशक्तेः परात्मनः ।।
स निर्भूयाखिलं पङ्कं निर्मलो मानवो भवेत् ।।५३।।
चैत्रशुक्लतृतीयायां यो भवानीव्रतं चरेत् ।।
भववन्धननिर्मुक्तः प्राप्नुयात्परमं पदम् ।। ५४ ।।
अस्यामेव तृतीयायां कुर्याद्दोलोत्सवं बुधः ।।
पूजयेज्जगतां धात्रीमुमां शंकरसंयुताम्।।५५।।
कुसुमैः कुंकुमैर्वस्त्रैः कर्पूरागुरुचन्दनैः ।।
धूपैर्द्दीपैस्सनैवेद्यैः स्रग्गन्धैरपरैरपि।। ।। ५६ ।।
आन्दोलयेत्ततो देवीं महामायां महेश्वरीम् ।।
श्रीगौरीं शिवसंयुक्तां सर्वकल्याणकारिणीम् ।। ५७ ।।
प्रत्यब्दं कुरुते योस्यां बतमान्दोलनं तथा ।।
नियमेन शिवा तस्मै सर्वमिष्टं प्रयच्छति ।। ५८ ।।
माधवस्य सिते पक्षे तृतीया याऽक्षयाभिधा।।
तस्यां यो जगदम्बाया व्रतं कुर्यादतन्द्रितः।।५९।।
मल्लिकामालतीचंपाजपाबन्धूकपंकजैः।।
कुसुमैः पूजयेद्गौरीं शंकरेण समन्विताम् ।। ।।। 5.51.६० ।।
कोटिजन्मकृतं पापं मनोवाक्कायसम्भवम् ।।
निर्धूय चतुरो वर्गानक्षयानिह सोऽश्नुते ।। ६१ ।।
ज्येष्ठे शुक्लतृतीयायां व्रतं कृत्वा महेश्वरीम् ।।
योऽर्चयेत्परमप्रीत्या तस्यासाध्यं न किंचन ।। ६२ ।।
आषाढशुक्लपक्षीयतृतीयायां रथोत्सवम ।।
देव्याः प्रियतमं कुर्याद्यथावित्तानुसारतः ।। ६३ ।।
रथं पृथ्वीं विजानीयाद्रथांगे चन्द्रभास्करौ ।।
वेदानश्वान्विजानीयात्सारथिं पद्मसं भवम् ।। ६४ ।।
नानामणिगणाकीर्णं पुष्पमालाविराजितम् ।।
एवं रथं कल्पयित्वा तस्मिन्त्संस्थापयेच्छिवाम् ।। ६५ ।।
लोकसंरक्षणार्थाय लोकं द्रष्टुं पराम्बिका ।।
रथमध्ये संस्थितेति भावयेन्मतिमान्नरः ।।६६।।
रथे प्रचलिते मन्दं जयशब्दमुदीरयेत्।।
पाहि देवि जनानस्मान्प्रपन्नान्दीनवत्सले ।। ६७ ।।
इति वाक्यैस्तोषयेच्च नानावादित्रनिस्वनैः ।।
सीमान्ते तु रथं नीत्वा तत्र संपूजये द्रथे ।। ६८ ।।
नानास्तोत्रैस्ततः स्तुत्वाप्यानयेत्तां स्ववेश्मनि ।।
प्रणिपातशतं कृत्वा प्रार्थयेज्जगदम्बिकाम् ।। ६९ ।।
एवं यः कुरुते विद्वान्पूजाव्रतरथोत्सवम् ।।
इह भुक्त्वाखिलान्भोगान्सोन्ते देवीपदं व्रजेत् ।। 5.51.७० ।।
शुक्लायान्तु तृतीयायामेवं श्रावणभाद्रयोः।।
यो व्रतं कुरुतेऽम्बायाः पूजनं च यथाविधि ।। ७१ ।।
मोदते पुत्रपौत्राद्यैर्धनाद्यैरिह सन्ततम् ।।
सोऽन्ते गच्छेदुमालोकं सर्वलोकोपरि स्थितम्।। ७२ ।।
आश्विने धवले पक्षे नवरात्रव्रतं चरेत् ।।
यत्कृते सकलाः कामास्सिद्ध्यन्त्येव न संशयः ।। ७३ ।।
नवरात्रव्रतस्यास्य प्रभावं वक्तुमीश्वरः ।।
चतुरास्यो न पंचास्यो न षडास्यो न कोऽपरः ।।७४।।
नवरात्रव्रतं कृत्वा भूपालो विरथात्मजः।।
हृतं राज्यं निजं लेभे सुरथो मुनिसत्तमाः ।। ७५ ।।
ध्रुवसंधिसुतो धीमानयोध्याधिपतिर्नृपः ।।
सुदर्शनो हृतं राज्यं प्रापदस्य प्रभावतः।।।।७६।।
व्रतराजमिमं कृत्वा समाराध्य महेश्वरीम्।।
संसारबन्धनान्मुक्तः समाधिर्मुक्तिभागभूत्।।७७।।
तृतीयायां च पञ्चम्यां सप्तम्याम ष्टमीतिथौ ।।
नवम्यां वा चतुर्दश्यां यो देवी पूजयेन्नरः ।।७८।।
आश्विनस्य सिते पक्षे व्रतं कृत्वा विधानतः ।।
तस्य सर्वं मनोभीष्टं पूरयत्यनिशं शिवा ।।७९।।
यः कार्त्तिकस्य मार्गस्य पौषस्य तपसस्तथा ।।
तपस्यस्य सिते पक्षे तृतीयायां व्रतं चरेत्।।5.51.८०।।
लोहितैः करवीराद्यैः पुष्पैर्धूपैस्सुगन्धितैः ।।
पूजयेन्मङ्गलान्देवीं स सर्वं मंगलं लभेत्।।८१।।
सौभाग्याय सदा स्त्रीभिः कार्य्यमेतन्महाव्रतम्।।
विद्याधनसुताप्त्यर्थं विधेयं पुरुषैरपि ।। ८२ ।।
उमामहेश्वरादीनि व्रतान्यन्यानि यान्यपि ।।
देवीप्रियाणि कार्याणि स्वभक्त्यैवं मुमुक्षुभिः।।८३।।
संहितेयं महापुण्या शिवभक्तिविवर्द्धिनी।।
नानाख्यानसमायुक्ता भुक्तिमुक्तिप्रदा शिवा।।८४।।
य एनां शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।।
पठेद्वा पाठयेद्वापि स याति परमां गतिम् ।।८५।।
यस्य गेहे स्थिता चेयं लिखिता ललिताक्षरैः ।।
संपूजिता च विधिवत्सर्वान्कामान्स आप्नुयात् ।।८६।।
भूतप्रेतपिशाचादिदुष्टेभ्यो न भयं क्वचित।।
पुत्रपौत्रादिसम्पत्तिं लभत्येव न संशयः।।। ।। ८७ ।।
तस्मादियं महापुण्या रम्योमासंहिता सदा ।।
श्रोतव्या पठितव्या च शिवभक्तिमभीप्सुभिः ।। ८८ ।। ।।
इति श्रीशिव महापुराणे पञ्चम्यामुमासंहितायां क्रियायोगनिरूपणं नामैकपञ्चाशत्तमोऽध्यायः ।। ५१ ।।


।। समाप्तेयं पञ्चम्युमासंहिता ।।।