शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ४०

विकिस्रोतः तः
← अध्यायः ३९ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ४०
वेदव्यासः
अध्यायः ४१ →

व्यास उवाच ।।
इत्याकर्ण्य श्राद्धदेवः सूर्यान्वयमनुत्तमम् ।।
पर्य्यपृच्छन्मुनिश्रेष्ठश्शौनकस्सूतमादरात् ।। १ ।।
शौनक उवाच ।।
सूतसूत चिरंजीव व्यासशिष्य नमोस्तु ते ।।
श्राविता परमा दिव्या कथा परमपावनी ।। २ ।।
त्वया प्रोक्तः श्राद्धदेवस्सूर्य्यः सद्वंशवर्द्धनः ।।
संशयस्तत्र मे जातस्तं ब्रवीमि त्वदग्रतः ।। ३ ।।
कुतो वै श्राद्धदेवत्वमादित्यस्य विवस्वतः ।।
श्रोतुमिच्छामि तत्प्रीत्या छिंधि मे संशयं त्विमम् ।। ४ ।।
श्राद्धस्यापि च माहात्म्यं तत्फलं च वद प्रभो ।।
प्रीताश्च पितरो येन श्रेयसा योजयंति तम् ।। ५ ।।
एतच्च श्रोतुमिच्छामि पितॄणां सर्गमुत्तमम् ।।
कथय त्वं विशेषेण कृपां कुरु महामते ।।६।।
सूत उवाच ।।
वच्मि तत्तेऽखिलं प्रीत्या पितृसर्गं तु शौनक ।।
मार्कण्डेयेन कथितं भीष्माय परिपृच्छते ।। ७ ।।
गीतं सनत्कुमारेण मार्कण्डेय धीमते ।।
तत्तेऽहं संप्रवक्ष्यामि सर्वकामफलपदम् ।। ८ ।।
युधिष्ठिरेण संपृष्टो भीष्मो धर्मभृतां वरः।।
शरशय्यास्थितः प्रोचे तच्छृणुष्व वदामि ते ।।९।।
युधिष्ठिर उवाच ।।
पुष्टिकामेन पुंसां वै कथं पुष्टिरवाप्यते ।।
एतच्छ्रोतुं समिच्छामि किं कुर्वाणो न सीदति ।। 5.40.१० ।।
।। सूत उवाच ।।
युधिष्ठिरेण संपृष्टं प्रश्नं श्रुत्वा स धर्मवित् ।।
भीष्मः प्रोवाच सुप्रीत्या सर्वेषां शृण्वतां वचः ।। ११ ।।
भीष्म उवाच ।।
ये कुर्वंति नराश्श्राद्धान्यपि प्रीत्या युधिष्ठिर ।।
श्राद्धैः प्रीणाति तत्सर्वं पितॄणां हि प्रसादतः ।। १२ ।।
श्राद्धानि चैव कुर्वन्ति फलकामास्सदा नरा ।।
अभिसंधाय पितरं पितुश्च पितरं तथा ।। १३ ।।
पितुः पितामहश्चैव त्रिषु पिंडेषु नित्यदा ।।
पितरो धर्मकामस्य प्रजाकामस्य च प्रजाम् ।। १४ ।।
पुष्टिकामस्य पुष्टिं च प्रयच्छन्ति युधिष्ठिर।।१५।।
युधिष्ठिर उवाच।।
वर्तंते पितरः स्वर्गे केषांचिन्नरके पुनः।।
प्राणिनां नियतं चापि कर्मजं फलमुच्यते ।।१६।।
तानि श्राद्धानि दत्तानि कथं गच्छन्ति वै पितॄन् ।।
कथं शक्तास्तमाहर्त्तुं नरकस्था फलं पुनः ।।१७।।
देवा अपि पितॄन्स्वर्गे यजंत इति मे श्रुतम् ।।
एतदिच्छाम्यहं श्रोतुं विस्तरेण ब्रवीहि मे ।।१८।।
भीष्म उवाच ।।
अत्र ते कीर्तयिष्यामि यथा श्रुतमरिन्दम ।।
पित्रा मम पुरा गीतं लोकान्तरगतेन वै ।।१९।।
श्राद्धकाले मम पितुर्मया पिंडस्समुद्यतः ।।
मत्पिता मम हस्तेन भित्त्वा भूमिमयाचत ।।5.40.२०।।
नैष कल्पविधिर्दृष्ट इति निश्चित्य चाप्यहम् ।।
कुशेष्वेव ततः पिंडं दत्तवानविचारयन् ।।२१।।
ततः पिता मे संतुष्टो वाचा मधुरया तदा ।।
उवाच भारतश्रेष्ठ प्रीयमाणो मयानघ ।।२२।।
त्वया दायादवानस्मि धर्मज्ञेन विपश्चिता ।।
तारितोहं तु जिज्ञासा कृता मे पुरुषोत्तम ।।२३।।
प्रमाणं यद्धि कुरुते धर्माचारेण पार्थिवः ।।
प्रजास्तदनु वर्तंते प्रमाणाचरितं सदा ।। २४ ।।
शृणु त्वं भारतश्रेष्ठ वेदधर्मांश्च शाश्वतान् ।।
प्रमाणं वेदधर्मस्य पुत्र निर्वर्त्तितं त्वया ।। २५ ।।
तस्मात्तवाहं सुप्रीतः प्रीत्या वरमनुत्तमम् ।।
ददामि त्वं प्रतीक्षस्व त्रिषु लोकेषु दुर्लभम् ।।२६।।
न ते प्रभविता मृत्युर्यावज्जीवितुमिच्छसि ।।
त्वत्तोभ्यनुज्ञां संप्राप्य मृत्युः प्रभविता पुनः ।।२७।।
किं वा ते प्रार्थितं भूयो ददामि वरमुत्तमम् ।।
तद् ब्रूहि भरतश्रेष्ठ यत्ते मनसि वर्तते ।।२८।।
इत्युक्तवति तस्मिंस्तु अभिवाद्य कृताञ्जलिः ।।
अवोचं कृतकृत्योऽहं प्रसन्ने त्वयि मानद।।
प्रश्नं पृच्छामि वै कंचिद्वाच्यस्स भवता स्वयम् ।।२९।।
स मामुवाच तद् ब्रूहि यदीच्छसि ददामि ते ।।
इत्युक्तेथ मया तत्र पृष्टः प्रोवाच तन्नृपः।।5.40.३०।।
शंतनुरुवाच ।।
शृणु तात प्रवक्ष्यामि प्रश्नं तेऽहं यथार्थतः ।।
पितृकल्पं च निखिलं मार्कण्डेयेन मे श्रुतम् ।।३१।।
यत्त्वं पृच्छसि मां तात तदेवाहं महामुनिम् ।।
मार्कण्डेयमपृच्छं हि स मां प्रोवाच धर्मवित् ।। ३२ ।।
मार्कण्डेय उवाच ।।
शृणु राजन्मया दृष्टं कदाचित्पश्यता दिवम् ।।
विमानं महादायांतमन्तरेण गिरेस्तदा ।।३३।।
तस्मिन्विमाने पर्यक्षं ज्वलितांगारवर्चसम् ।।
महातेजः प्रज्वलंतं निर्विशेषं मनोहरम् ।। ३४ ।।
अपश्यं चैव तत्राहं शयानं दीप्ततेजसम् ।।
अंगुष्ठमात्रं पुरुषमग्नावग्निमिवाहितम् ।।३५ ।।
सोऽहं तस्मै नमः कृत्वा प्रणम्य शिरसा प्रभुम् ।।
अपृच्छं चैव तमहं विद्यामस्त्वां कथं विभो ।। ३६ ।।
मामुवाच धर्मात्मा तेन तद्विद्यते तपः ।।
येन त्वं बुध्यसे मां हि मुने वै ब्रह्मणस्सुतम् ।।३७।।
सनत्कुमारमिति मां विद्धि किं करवाणि ते ।।
ये त्वन्ये ब्रह्मणः पुत्राः कनीयांसस्तु ते मम ।।३८।।
भ्रातरस्सप्त दुर्धर्षा येषां वंशाः प्रतिष्ठिताः ।।
वयं तु यतिधर्माणस्संयम्यात्मानमात्मनि।। ।। ३९ ।।
यथोत्पन्नस्तथैवाहं कुमार इति विश्रुतः ।।
तस्मात्सनत्कुमारं मे नामैतत्कथितं मुने ।। 5.40.४० ।।
यद्भक्त्या ते तपश्चीर्णं मम दर्शनकांक्षया ।।
एष दृष्टोऽस्मि भद्रं ते कं कामं करवाणि ते ।।४१।।
इत्युक्तवन्तं तं चाहं प्रावोचं त्वं शृणु प्रभो ।।
पितॄणामादिसर्गं च कथयस्व यथातथम् ।।४२।।
इत्युक्तस्स तु मां प्राह शृणु सर्वं यथातथम् ।।
वच्मि ते तत्त्वतस्तात पितृसर्गं शुभावहम् ।।४३।।
सनत्कुमार उवाच ।।
देवान्पुरासृजद्ब्रह्मा मां यक्षध्वं स चाह तान् ।।
तमुत्सृज्य तमात्मानमयजंस्ते फलार्थिनः ।।४४।।
ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा भविष्यथ ।।
तस्मात्किंचिदजानंतो नष्टसंज्ञाः पितामहम् ।।४५।।
प्रोचुस्तं प्रणतास्सर्वे कुरुष्वानुग्रहं हि नः ।।
इत्युक्तस्तानुवाचेदं प्रायश्चित्तार्थमेव हि।।४६।।
पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ।।
इत्युक्ता नष्टसंज्ञास्ते पुत्रान्पप्रच्छुरोजसा ।। ४७ ।।
प्रायश्चित्तार्थमेवाधिलब्धसंज्ञा दिवौकसः।।
गम्यतां पुत्रका एवं पुत्रैरुक्ताश्च तेऽनघ।।४८।।
अभिशप्तास्तु ते देवाः पुत्रकामेन वेधसम्।।
पप्रच्छुरुक्ताः पुत्रैस्ते गतास्ते पुत्रका इति ।।४९।।
ततस्तानब्रवीद्देवो देवान्ब्रह्मा ससंशयान् ।।
शृणुध्वं निर्जरास्सर्वे यूयं न ब्रह्मवादिनः ।।5.40.५०।।
तस्माद्यदुक्तं युष्माकं पुत्रैस्तैर्ज्ञानिसत्तमैः ।।
मंतव्यं संशयं त्यक्त्वा तथा न च तदन्यथा ।।५१।।
देवाश्च पितरश्चैव यजध्वं त्रिदिवौकसः ।।
परस्परं महाप्रीत्या सर्वकामफलप्रदा।।५२।।
सनत्कुमार उवाच ।।
ततस्ते छिन्नसंदेहाः प्रीतिमंतः परस्परम् ।।
बभूवुर्मुनिशार्दूल ब्रह्मवाक्यात्सुखप्रदाः ।। ५३ ।।
ततो देवा हि प्रोचुस्तान्यदुक्ताः पुत्रका वयम्।।
तस्माद्भवंतः पितरो भविष्यथ न संशयः ।।५४।।
पितृश्राद्धे क्रियां कश्चित्करिष्यति न संशयः ।।
श्राद्धैराप्यायितस्सोमो लोकानाप्याययिष्यति ।।५५।।
समुद्रं पर्वतवनं जंगमाजंगमैर्वृतम्।।
श्राद्धानि पुष्टिकामैश्च ये करिष्यंति मानवाः।।५६।।
तेभ्यः पुष्टिप्रदाश्चैव पितरः प्रीणितास्सदा ।।
श्राद्धे ये च प्रदास्यंति त्रीन्पिंडान्नामगोत्रतः ।। ५७ ।।
सर्वत्र वर्तमानास्ते पितरः प्रपितामहाः ।।
भावयिष्यंति सततं श्राद्धदानेन तर्पिताः ।। ५८ ।।
इति तद्वचनं सत्यं भवत्वथ दिवौकसः ।।
पुत्राश्च पितरश्चैव वयं सर्वे परस्परम् ।।५९।।
एवं ते पितरो देवा धर्मतः पुत्रतां गताः ।।
अन्योन्यं पितरो वै ते प्रथिताः क्षितिमण्डले।।5.40.६०।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां श्राद्धकल्पे पितृप्रभाववर्णनंनाम चत्वारिंशोऽध्यायः ।।४०।।