शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ३९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३८ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ३९
वेदव्यासः
अध्यायः ४० →

शौनक उवाच ।।
सगरस्यात्मजा वीराः कथं जाता महाबलाः ।।
विक्रांताः षष्टिसाहस्रा विधना केन वा वद ।।१।।
सूत उवाच।।
द्वे पत्न्यो सगरस्यास्तां तपसा दग्धकिल्विषे।।
और्वस्तयोर्वरं प्रादात्तोषितो मुनिसत्तमः ।। २ ।।
षष्टिपुत्रसहस्राणि एका वव्रे तरस्विनाम्।।
एकं वंशकरं त्वेका यथेष्टं वरशालिनी।।३।।
तत्रैवागत्य तां लब्ध्वा पुत्राञ्शूरान्बहूंस्तदा ।।
सा चैव सुषुवे तुम्बं बीजपूर्वं पृथक्कृतम् ।। ४ ।।
ते सर्वे हि स्वधात्रीभिर्ववृधुश्च यथाक्रमम् ।।
घृतपूर्णेषु कुम्भेषु कुमाराः प्रीतिवर्द्धनाः ।। ५ ।।
कपिलाग्निप्रदग्धानां तेषां तत्र महात्मनाम् ।।
एकः पंचजनो नाम पुत्रो राजा बभूव ह ।। ६ ।।
ततः पंचजनस्यासीदंशुमान्नाम वीर्यवान् ।।
दिलीपस्तनयस्तस्य पुत्रो यस्य भगीरथः ।। ७ ।।
यस्तु गंगा सरिच्छ्रेष्ठामवातारयतः प्रभु ।।
समुद्रमानयच्चेमां दुहितृत्वमकल्पयत्।।८।।
भगीरथसुतो राजा श्रुतसेनः इति श्रुतः।।
नाभागस्तु सुतस्तस्य पुत्रः परमधार्मिकः।।९।।
अंबरीषस्तु नाभागिस्सिंधुद्वीपस्ततोऽभवत्।।
अयुताजित्तु दायादस्सिंधुद्वीपस्य वीर्यवान्।।5.39.१०।।
आयुताजित्सुतस्त्वासीदृतुपर्णो महायशाः ।।
दिव्याक्षहृदयज्ञोऽसौ राजा नलसखोऽभवत् ।।११।।
ऋतुपर्णसुतस्त्वासीदनुपर्णो महाद्युतिः ।।
तस्य कल्माषपादो वै नाम्ना मित्रसहस्तथा ।। १२ ।।
कल्माषपादस्य सुतस्सर्वकर्मेति विश्रुतः ।।
अनरण्यस्तु पुत्रोऽभूद्विश्रुतस्सर्वशर्मणः ।।१३।।
अनरण्यसुतो राजा विद्वान्मुंडिद्रुहोऽभवत्।।
निषधस्तस्य तनयो रतिः खट्वाङ्ग इत्यपि।।११४।।
येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् ।।
त्रयोऽपि संचिता लोका बुद्ध्या सत्येन चानघ।।१५।।
दीर्घबाहुस्सुतस्तस्य रघुस्तस्याभवत्सुतः ।।
अजस्तस्य तु पुत्रोऽभूत्तस्माद्दशरथोऽभवत् ।। १६ ।।
रामो दशरथाज्जज्ञे धर्मात्मा यो महायशाः ।।
स विष्ण्वंशो महाशैवः पौलस्त्यो येन घातितः ।।१७।।
तच्चरितं च बहुधा पुराणेषु प्रवर्णितम् ।।
रामायणे प्रसिद्धं हि नातः प्रोक्तं तु विस्तरात् ।। १८ ।।
रामस्य तनयो जज्ञे कुश इत्यपि विश्रुतः ।।
अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ।।१९।।
निषधस्य नलः पुत्रो नभाः पुत्रो नलस्य तु ।।
नभसः पुंडरीकश्च क्षेमधन्वा ततस्मृतः ।। 5.39.२० ।।
क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान् ।।
आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः ।।२१।।
अहीनगोस्तु दायादस्सहस्वान्नाम वीर्यवान् ।।
वीरसेनात्मजस्तस्य यश्चैक्ष्वाकुकुलोद्भवः।।२२।।
वीरसेनस्य दायादः पारियात्रो बभूव ह।।
ततो बलाख्यस्तनयस्स्थलस्तस्मादभूत्सुतः ।।२३।।
अर्कांशसंभवस्तस्मात्पुत्रो यक्षः प्रतापवान्।।
तत्सुतस्त्वगुणस्त्वासीत्तस्माद्विधृतिरात्मजः ।। २४ ।।
हिरण्यनाभस्तत्पुत्रो योगाचार्य्यो बभूव ह।।
स शिष्यो जैमिनिमुनेर्ह्यात्मविद्याविशारदः।।२५।।
कौशिल्यो याज्ञवल्क्योथ योगमध्यात्म्यसंज्ञकम्।।
यतोऽध्यगान्नृपवराद्धृदयग्रंथिभेदनम्।।२६।।
तत्सुतो पुष्पनामा हि ध्रुवसंज्ञस्तदात्मजः।।
अग्निवर्णस्सुतस्तस्य शीघ्रनामा सुतस्ततः ।।२७।।
मरुन्नामा सुतस्तस्य योगसिद्धो बभूव ह।।
असावास्तेऽद्यापि प्रभुः कलापग्रामसंज्ञके ।। २८ ।।
तद्वासिभिश्च मुनिभिः कलेरंते स एव हि ।।
पुनर्भावयिता नष्टं सूर्यवंशं विशेषतः ।। २९ ।।
पृथुश्रुतश्च तत्पुत्रस्संधिस्तस्य सुतः स्मृतः ।।
अमर्षणस्सुतस्तस्य मरुत्वांस्तत्सुतोऽभवत् ।।5.39.३०।।
विश्वसाह्वस्सुतस्तस्य तत्सुतोऽ भूत्प्रसेनजित् ।।
तक्षकस्तस्य तनयस्तत्सुतो हि बृहद्बलः ।। ३१ ।।
एत इक्ष्वाकुवंशीया अतीताः संप्रकीर्तिताः ।।
शृणु तानागतान्भूतांस्तद्वंश्यान्धर्मवित्तमान् ।।३२।।
बृहद्बलस्य तनयो भविता हि बृहद्रणः ।।
बृहद्रणसुतस्तस्योरुक्रियो हि भविष्यति ।। ३३ ।।
वत्सवृद्धस्सुतस्तस्य प्रतिव्योमसुतस्ततः ।।
भानुस्तत्तनयो भावी दिवाको वाहिनीपतिः ।।३४।।
सहदेवस्सुतस्तस्य महावीरो भवि ष्यति ।।
तत्सुतो बृहदश्वो हि भानुमांस्तत्सुतो बली ।। ३५ ।।
सुतो भानुमतो भावी प्रतीकाश्वश्च वीर्यवान् ।।
सुप्रतीकस्सुतस्तस्य भविष्यति नृपोत्तमः ।। ३६ ।।
मरुदेवस्सुतस्तस्य सुनक्षत्रो भविष्यति ।।
तत्सुतः पुष्करस्तस्यांतरिक्षस्तत्सुतो द्विजाः ।। ३७ ।।
सुतपास्तत्सुतो वीरो मित्रचित्तस्य चात्मजः ।।
बृहद्भाजस्सुतस्तस्य बर्हिनामा तदात्मजः ।। ३८ ।।
कृतंजयस्सुतस्तस्य तत्सुतो हि रणंजयः ।।
संजयस्तु मयस्तस्य तस्य शाक्यो हि चात्मजः ।। ३९ ।।
शुद्धोदस्तनयस्तस्य लांगलस्तु तदात्मजः ।।
तस्य प्रसेनजित्पुत्रस्तत्सुतः शूद्रकाह्वयः ।।5.39.४०।।
रुणको भविता तस्य सुरथस्तत्सुतः स्मृतः ।।
सुमित्रस्तत्सुतो भावी वंशनिष्ठांत एव हि ।।४१।।
सुमित्रांतोन्वयोऽयं वै इक्ष्वाकूणां भविष्यति ।।
राज्ञां वैचित्रवीर्य्याणां धर्म्मिष्ठानां सुकर्म्मणाम्।।४२।।
सुमित्रं प्राप्य राजानं तद्वंशश्शुभः कलौ ।।
संस्थां प्राप्स्यति तद्ब्राह्मे वर्द्धिष्यति पुनः कृते ।। ४३ ।।
एतद्वैवस्वते वंशे राजानो भूरिदक्षिणाः ।।
इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः ।।४४।।
पुण्येयं परमा सृष्टिरादित्यस्य विवस्वतः।।
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ।।४५।।
पठञ्छृण्वन्निमां सृष्टिमादित्यस्य च मानवः ।।
प्रजावानेति सायुज्यमिह भुक्त्वा सुखं परम् ।। ४६ ।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां वैवस्वतवंशोद्भवराजवर्णनं नामैकोनचत्वारिंशोऽध्यायः ।।३९।।