शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ३८

विकिस्रोतः तः
← अध्यायः ३७ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ३८
वेदव्यासः
अध्यायः ३९ →

सूत उवाच ।।
सत्यव्रतस्तु तद्भक्त्या कृपया च प्रतिज्ञया ।।
विश्वामित्रकलत्रं च पोषयामास वै तदा ।।१।।
हत्वा मृगान्वराहांश्च महिषांश्च वनेचरान् ।।
विश्वामित्राश्रमाभ्याशे तन्मांसं चाक्षिपन्मुने ।। २ ।।
तीर्थं गां चैव रात्रं च तथैवांतःपुरं मुनिः ।।
याज्योपाध्यायसंयोगाद्वसिष्ठः पर्य्यरक्षत ।।३।।
सत्यव्रतस्य वाक्याद्वा भाविनोर्थस्य वै बलात्।।
वसिष्ठोऽभ्यधिकं मन्युं धारयामास नित्यशः।।४।।
पित्रा तु तं तदा राष्ट्रात्परित्यक्तं स्वमात्मजम् ।।
न वारयामास मुनिर्वसिष्ठः कारणेन च ।।५।।
पाणिग्रहणमंत्राणां निष्ठा स्यात्सप्तमे पदे।।
न च सत्यव्रतस्थस्य तमुपांशुमबुद्ध्यत।।६।।
तस्मिन्स परितोषाय पितुरासीन्महात्मनः।।
कुलस्य निष्कृतिं विप्र कृतवान्वै भवेदिति।।७।।
न तं वसिष्ठो भगवान्पित्रा त्यक्तं न्यवारयत् ।।
अभिषेक्ष्याम्यहं पुत्रमस्यां नैवाब्रवीन्मुनिः ।।८।।
स तु द्वादश वर्षाणि दीक्षां तामुद्वहद्बली ।।
अविद्यामाने मांसे तु वसिष्ठस्य महात्मनः ।। ९ ।।
सर्वकामदुहां दोग्ध्रीं ददर्श स नृपात्मजः ।।
तां वै क्रोधाच्च लोभाच्च श्रमाद्वै च क्षुधान्वितः ।।5.38.१०।।
दाशधर्मगतो राजा तां जघान स वै मुने ।।
स तं मांसं स्वयं चैव विश्वामित्रस्य चात्मजम् ।। ११ ।।
भोजयामास तच्छ्रुत्वा वसिष्ठो ह्यस्य चुक्रुधे ।।
उवाच च मुनिश्रेष्ठस्तं तदा क्रोधसंयुतः ।।१२।।
वसिष्ठ उवाच ।।
पातयेयमहं क्रूरं तव शंकुमयोमयम् ।।
यदि ते द्वाविमौ शंकू नश्येतां वै कृतौ पुरा ।।१३।।
पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च ।।
अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ।।१४।।
त्रिशंकुरिति होवाच त्रिशंकुरिति स स्मृतः ।।
विश्वामित्रस्तु दाराणामागतो भरणे कृते ।। १५ ।।
तेन तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिशंकवे।।
छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः।।१६।।
अनावृष्टिभये चास्मिञ्जाते द्वादशवार्षिके ।।
अभिषिच्य पितृ राज्ये याजयामास तं मुनिः ।।१७।।
मिषतां देवतानां च वसिष्ठस्य च कौशिकः ।।
सशरीरं तदा तं तु दिवमारोह यत्प्रभुः ।।१८।।
तस्य सत्यरथा नाम भार्या केकयवंशजा ।।
कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ।।१९।।
स वै राजा हरिश्चन्द्रो त्रैशंकव इति स्मृतः ।।
आहर्ता राजसूयस्य सम्राडिति ह विश्रुतः ।। 5.38.२० ।।
हरिश्चन्द्रस्य हि सुतो रोहितो नाम विश्रुतः ।।
रोहितस्य वृकः पुत्रो वृकाद्बाहुस्तु जज्ञिवान्।।२१।।
हैहयास्तालजंघाश्च निरस्यंति स्म तं नृपम्।।
नात्मार्थे धार्मिको विप्रः स हि धर्मपरोऽभवत ।।२२।।
सगरं ससुतं बाहुर्जज्ञे सह गरेण वै ।।
और्वस्याश्रममासाद्य भार्गवेणाभिरक्षितः ।।२३।।
आग्नेयमस्त्रं लब्ध्वा च भार्गवात्सगरो नृपः।।
जिगाय पृथिवीं हत्वा तालजंघान्सहैहयान।।२४।।
शकान्बहूदकांश्चैव पारदांतगणान्खशान्।।
सुधर्मं स्थापयामास शशास वृषतः क्षितिम् ।।२५।।
शौनक उवाच ।।
स वै गरेण सहितः कथं जातस्तु क्षत्रियात् ।।
जितवानेतदाचक्ष्व विस्तरेण हि सूतज ।। २६ ।।
सूत उवाच।।
पारीक्षितेन संपृष्टो वैशंपायन एव च ।।
यदाचष्ट स्म तद्वक्ष्ये शृणुष्वैकमना मुने ।। २७ ।।
।। पारीक्षितो उवाच ।।
कथं स सगरो राजा गरेण सहितो मुने ।।
जातस्स जघ्निवान्भूयानेतदाख्यातुमर्हसि ।। २८ ।।
वैशम्पायन उवाच ।।
बाहोर्व्यसनिनस्तात हृतं राज्यमभूत्किल ।।
हैहयैस्तालजंघैश्च शकैस्सार्द्धं विशांपते ।। २९ ।।
यवनाः पारदाश्चैव काम्बोजाः पाह्नवास्तथा ।।
बहूदकाश्च पंचैव गणाः प्रोक्ताश्च रक्षसाम्।5.38.३०।
एते पंच गणा राजन्हैहयार्थेषु रक्षसाम्।।
कृत्वा पराक्रमान् बाहो राज्यं तेभ्यो ददुर्बलात्।।३१।।
हृतराज्यस्ततो विप्राः स वै बाहुर्वनं ययौ ।।
पत्न्या चानुगतो दुःखी स वै प्राणानवासृजत् ।। ३२ ।।
पत्नी या यादवी तस्य सगर्भा पृष्ठतो गता ।।
सपत्न्या च गरस्तस्यै दत्तः पूर्वं सुतेर्ष्यया ।। ३३ ।।
सा तु भर्तुश्चितां कृत्वा ज्वलनं चावरोहत ।।
और्वस्तां भार्गवो राजन्कारुण्यात्समवारयत् ।। ३४ ।।
तस्याश्रमे स्थिता राज्ञी गर्भरक्षणहेतवे ।।
सिषेवे मुनिवर्यं तं स्मरन्ती शंकरं हृदा ।। ३५ ।।
एकदा खलु तद्गर्भो गरेणैव सह च्युतः ।।
सुमुहूर्त्ते सुलग्ने च पंचोच्चग्रहसंयुते ।। ३६ ।।
तस्मिँल्लग्ने च बलिनि सर्वथा मुनिसत्तम ।।
व्यजायत महाबाहुस्सगरो नाम पार्थिवः ।।३७।।
और्वस्तु जातकर्मादि तस्य कृत्वा महात्मनः ।।
अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ।। ३८ ।।
आग्नेयं तं महाभागो ह्यमरैरपि दुस्सहम् ।।
जग्राह विधिना प्रीत्या सगरोसौ नृपोत्तमः ।। ३९ ।।
स तेनास्त्रबलेनैव बलेन च समन्वितः ।।
हैहयान्विजघानाशु संकुद्धोऽस्त्रबलेन च ।। 5.38.४० ।।
आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ।।
धर्मं संस्थापयामास सगरोऽसौ महीतले ।।४१।।
ततश्शकास्सयवनाः काम्बोजाः पाह्नवास्तथा ।।
हन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः।।४२।।
वसिष्ठो वंचनां कृत्वा समयेन महाद्युतिः।।
सगरं वारयामास तेषां दत्त्वाभयं नृपम्।।४३।।
सगरस्स्वां प्रतिज्ञां तु गुरोर्वाक्यं निशम्य च।।
धर्मं जघान तेषां वै केशान्यत्वं चकार ह ।। ४४ ।।
अर्द्धं शकानां शिरसो मुंडं कृत्वा व्यसर्जयत् ।।
यवनानां शिरस्सर्वं कांबोजानां तथैव च ।। ४५ ।।
पारदा मुंडकेशाश्च पाह्नवाश्श्मश्रुधारिणः ।।
निस्स्वाध्यायवषट्काराः कृतास्तेन महात्मना ।।४६।।
जिता च सकला पृथ्वी धर्मतस्तेन भूभुजा ।।
सर्वे ते क्षत्रियास्तात धर्महीनाः कृताः पुराः ।।४७।।
स धर्मविजयी राजा विजित्वेमां वसुंधराम्।।
अश्वं संस्कारयामास वाजिमेधाय पार्थिवः।।४८।।
तस्य चास्यतेस्सोऽश्वस्समुद्रे पूर्वदक्षिणे ।।
गतः षष्टिसहस्रैस्तु तत्पुत्रैरन्वितो मुने ।। ४९ ।।
देवराजेन शक्रेण सोऽश्वो हि स्वार्थसाधिना ।।
वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ।।5.38.५०।।
महाराजोऽथ सगरस्तद्धयान्वेषणाय च।।
स तं देशं तदा पुत्रैः खानयामास सर्वतः ।।५१।।
आसेदुस्ते ततस्तत्र खन्यमाने महार्णवे ।।
तमादिपुरुषं देवं कपिलं विश्वरूपिणम्।।५२।।
तस्य चक्षुस्समुत्थेन वह्निना प्रतिबुध्यतः ।।
दग्धाः षष्टिसहस्राणि चत्वारस्त्ववशेषिताः।।५३।।
हर्षकेतुस्सुकेतुश्च तथा धर्मरथोपरः।।
शूरः पंचजनश्चैव तस्य वंशकरा नृपाः।।५४।।
प्रादाच्च तस्मै भगवान् हरिः पंचवरान्स्वयम्।।
वंशं मेधां च कीर्तिञ्च समुद्रं तनयं धनम् ।।५५।।
सागरत्वं च लेभे स कर्मणा तस्य तेन वै।।
तं चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान्।।५६।।
आजहाराश्वमेधानां शतं स तु महायशाः ।।
ईजे शंभुविभूतीश्च देवतास्तत्र सुव्रताः ।। ५७ ।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सत्यव्रतादिसगरपर्यंत वंशवर्णनं नामाष्टत्रिंशोऽध्यायः ।। ३८ ।।