शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ३७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३६ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ३७
वेदव्यासः
अध्यायः ३८ →

सूत उवाच।।
पूर्वतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतस्सुतः।।
तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम्।।१।।
तेषां पुरस्तादभवन्नार्य्यावर्ते नृपा द्विजाः।।
तेषां विकुक्षिर्ज्येष्ठस्तु सोऽयोध्यायां नृपोऽभवत्।।२।।
तत्कर्म शृणु तत्प्रीत्या यज्जातं वंशतो विधेः।
श्राद्धकर्म्मणि चोद्दिष्टो ह्यकृते श्राद्धकर्मणि ।।३।।
भक्षयित्वा शशं शीघ्रं शशादत्वमतो गतः।।
इक्ष्वाकुणा परित्यक्तश्शशादो वनमाविशत ।। ४ ।।
इक्ष्वाकौ संस्थिते राजा वसिष्ठवचनादभूत्।।
शकुनिप्रमुखास्तस्य पुत्राः पञ्चदश स्मृताः।।५।।
उत्तरापथदेशस्य रक्षितारो महीक्षितः ।।
अयोधस्य तु दायादः ककुत्स्थो नाम वीर्य्यवान् ।।६।।
अरिनाभः ककुत्स्थस्य पृथुरेतस्य वै सुतः ।।
विष्टराश्वः पृथोः पुत्रस्तस्मादिंद्रः प्रजापतिः ।।७।।
इंद्रस्य युवनाश्वस्तु श्रावस्तस्य प्रजापतिः।।
जज्ञे श्रावस्तकः प्राज्ञः श्रावस्ती येन निर्मिता।।
श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ।। ८ ।।
युवनाश्वस्सुतस्तस्य कुवलाश्वश्च तत्सुतः ।।
स हि धुंधुवधाद्भूतो धुंधुमारो नृपोत्तमः।।९।।
कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् ।।
बभूवात्र पिता राज्ये कुवलाश्वं न्ययोजयत् ।। 5.37.१० ।।
पुत्रसंक्रामितश्रीको वनं राजा समाविशत् ।।
तमुत्तंकोऽथ राजर्षि प्रयांतं प्रत्यवारयत् ।। ११ ।।
उत्तंक उवाच।।
भवता रक्षणं कार्यं पृथिव्या धर्मतः शृणु।।
त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना ।। १२ ।।
भविष्यति निरुद्विग्ना नारण्यं गंतुमर्हसि ।।
ममाश्रमसमीपे तु हिमेषु मरुधन्वसु ।। १३ ।।
समुद्रवालुकापूर्णो दानवो बलदर्पितः ।।
देवतानामवध्यो हि महाकायो महाबलः ।।१४।।
अंतर्भूभिगतस्तत्र वालुकांतर्हितः स्थितः ।।
राक्षसस्य मधोः पुत्रो धुंधुनामा सुदारुणः ।। १५ ।।
शेते लोकविनाशाय तप आस्थाय दारुणम् ।।
संवत्सरस्य पर्यन्ते स निश्वासं विमुंचति।।१६।।
यदा तदा भूश्चलति सशैलवनकानना।।
सविस्फुलिंगं सांगारं सधूममपि वारुणम्।।१७।।
तेन रायन्न शक्नोमि तस्मिंस्स्थातुं स्व आश्रमे ।।
तं वारय महाबाहो लोकानां हितकाम्यया ।। १८ ।।
लोकास्स्वस्था भवंत्वद्य तस्मिन्विनिहते त्वया ।।
त्वं हि तस्य वधायैव समर्थः पृथवीपते ।।१९।।
विष्णुना च वरो दत्तो महान्पूर्व युगेऽनघ ।।
तेजसा स्वेन ते विष्णुस्तेज आप्याययिष्यति ।। 5.37.२० ।।
पालने हि महाधर्मः प्रजानामिह दृश्यते ।।
न तथा दृश्यतेऽरण्ये मा तेऽभूद्बुद्धिरीदृशी ।।२१।।
ईदृशो नहि राजेन्द्र क्वचिद्धर्मः प्रविद्यते ।।
प्रजानां पालने यादृक् पुरा राजर्षिभिः कृतः ।।२२।।
स एवमुक्तो राजर्षिरुत्तंकेन महात्मना ।।
कुवलाश्वः सुतं प्रादात्तस्मै धुन्धुनिवारणे ।। २३ ।।
भगवन्न्यस्तशस्त्रोहमयं तु तनयो मम ।।
भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ।। २४ ।।
इत्युक्त्वा पुत्रमादिश्य ययौ स तपसे नृपः ।।
कुवलाश्वश्च सोत्तङ्को ययौ धुन्धुविनिग्रहे ।।२५।।
तमाविशत्तदा विष्णुर्भगवांस्तेजसा प्रभुः ।।
उत्तंकस्य नियोगाद्वै लोकानां हितकाम्यया ।। २६ ।।
तस्मिन्प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत् ।।
एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ।। २७ ।।
दिव्यैर्माल्यैश्च तं देवास्समंतात्समवारयन् ।।
प्रशंसां चक्रिरे तस्य जय जीवेति वादिनः ।।२८।।
स गत्वा जयतां श्रेष्ठस्तनयैस्सह पार्थिवः ।।
समुद्रं खनयामास वालुकार्णवमध्यतः ।।२९।।
नारायणस्य विप्रर्षेस्तेजसाप्यायितस्तु सः।।
बभूव सुमहातेजा भूयो बलसमन्वितः।।5.37.३०।।
तस्य पुत्रैः खनद्भिस्तु वालुकांतर्गतस्तु सः।।
धुन्धुरासादितो ब्रह्मन्दिशमाश्रित्य पश्चि माम् ।। ३१ ।।
मुखजेनाग्निना क्रोधाल्लोकान्संवर्तयन्निव ।।
वारि सुस्राव वेगेन विधोः कधिरिवोदये।। ३२ ।।
ततोऽनलैरभिहतं दग्धं पुत्रशतं हि तत् ।।
त्रय एवावशिष्टाश्च तेषु मध्ये मुनीश्वर ।।३३।।
ततस्स राजा विप्रेन्द्र राक्षसं तं महाबलम् ।।
आससाद महातेजा धुन्धुं विप्रविनाशनम् ।।३४।।
तस्य वारिमयं वेगमापीय स नराधिपः ।।
वह्निबाणेन वह्निं तु शमयामास वारिणा ।।३५।।
तं निहत्य महाकायं बलेनोदकराक्षसम्।।
उत्तंकस्येक्षयामास कृतं कर्म नराधिपः ।।३६।।
उत्तंकस्तु वरं प्रादात्तस्मै राज्ञे महामुने।।
अददच्चाक्षयं वित्तं शत्रुभिश्चापराजयम् ।।३७।।
धर्मे मतिं च सततं स्वर्गे वासं तथाक्षयम् ।।
पुत्राणां चाक्षयं लोकं रक्षसा ये तु संहताः।।३८।।
तस्य पुत्रास्त्रयश्शिष्टाः दृढाश्वः श्रेष्ठ उच्यते ।।
हंसाश्वकपिलाश्वौ च कुमारौ तत्कनीयसौ।।३९।।
धौंधुमारिर्दृढाश्वो यो हर्य्यश्वस्तस्य चात्मजः ।।
हर्यश्वस्य निकुंभोभूत्पुत्रो धर्मरतस्सदा ।।5.37.४०।।
संहताश्वो निकुंभस्य पुत्रो रणविशारदः।।
अक्षाश्वश्च कृताश्वश्च संहताश्वसुतोऽभवत।।४१।।
तस्य हैमवती कन्या सतां मान्या वृषद्वती।।
विख्याता त्रिषु लोकेषु पुत्रस्तस्याः प्रसेनजित् ।। ४२ ।।
लेभे प्रसेनजिद्भार्यां गौरीं नाम पतिव्रताम् ।।
अभिशप्ता तु सा भर्त्रा नदी सा बाहुदा कृता ।। ४३ ।।
तस्य पुत्रो महानासीद्युवनाश्वो महीपतिः ।।
मांधाता युवनाश्वस्य त्रिषु लोकेषु विश्रुतः ।। ४४ ।।
तस्य चैत्ररथी भार्या शशबिंदुसुता ऽभवत् ।।
पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतं च सः ।। ४५ ।।
तस्यामुत्पादयामास मान्धाता द्वौ सुतौ तदा ।।
पुरुकुत्सं च धर्मज्ञं मुचुकुंदं च धार्मिकम् ।। ४६ ।।
पुरुकुत्ससुतस्त्वासीद्विद्वांस्त्रय्यारुणिः कविः ।।
तस्य सत्यव्रतो नाम कुमारोऽभून्महाबली ।। ४७ ।।
पाणिग्रहणमंत्राणां विघ्रं चक्रे महात्मभिः ।।
येन भार्य्या हृता पूर्वं कृतोद्वाहः परस्य वै ।। ४८ ।।
बलात्कामाच्च मोहाच्च संहर्षाच्च यदोत्कटात् ।।
जहार कन्यां कामाच्च कस्यचित्पुरवासिनः ।। ४९ ।।
अधर्मसंगिनं तं तु राजा त्रय्यारुणिस्त्यजन् ।।
अपध्वंसेति बहुशोऽवदत्क्रोधसमन्वितः ।। 5.37.५० ।।
पितरं सोऽब्रवीन्मुक्तः क्व गच्छामीति वै तदा ।।
वस श्वपाकनिकटे राजा प्राहेति तं तदा ।। ५१ ।।
स हि सत्यव्रतस्तेन श्वपाकवसथांतिके ।।
पित्रा त्यक्तोऽवसद्वीरो धर्मपालेन भूभुजा ।। ५२ ।।
ततस्त्रय्यारुणी राजा विरक्तः पुत्रकर्मणा ।।
स शंकरतपः कर्त्तुं सर्वं त्यक्त्वा वनं ययौ ।।५३।।
ततस्तस्य स्व विषये नावर्षत्पाकशासनः ।।
समा द्वादश विप्रर्षे तेनाधर्मेण वै तदा ।।५४।।
दारां तस्य तु विषये विश्वामित्रो महातपाः ।।
संत्यज्य सागरानूपे चचार विपुलं तपः ।।५५।।
तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम्।।
शेषस्य भरणार्थाय व्यक्रीणाद्गोशतेन च।।५६।।
तां तु दृष्ट्वा गले बद्धं विक्रीणंती स्वमात्मजम् ।।
महर्षिपुत्रं धर्म्मात्मा मोचयामास तं तदा ।। ५७ ।।
सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् ।।
विश्वामित्रस्य तुष्ट्यर्थमनुक्रोशार्थमेव च ।।५७८।।
तदारभ्य स पुत्रस्तु विश्वामित्रस्य वै मुनेः ।।
अभवद्गालवो नाम गलबंधान्महातपाः ।।५९।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुवंशवर्णनंनाम सप्तत्रिंशोऽध्यायः ।।३७।।