शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ४१

विकिस्रोतः तः
← अध्यायः ४० शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ४१
वेदव्यासः
अध्यायः ४२ →

सनत्कुमार उवाच।।
सप्त ते तपतां श्रेष्ठ स्वर्गे पितृगणास्स्मृताः ।।
चत्वारो मूर्त्तिमंतो वै त्रयश्चैव ह्यमूर्तयः ।।१।।
तान्यजंते देवगणा आद्या विप्रादयस्तथा।।
आप्याययंति ते पूर्वं सोमं योगबलेन वै ।।२।।
तस्माच्छ्राद्धानि देयानि योगिनां तु विशेषतः।।
सर्वेषां राजतं पात्रमथ वा रजतान्वितम्।।३।।
दत्तं स्वधां पुरोधाय श्राद्धे प्रीणाति वै पितॄन्।।
वह्नेराप्यायनं कृत्वा सोमस्य तु यमस्य वै।।४।।
उदगायनमप्यग्नावग्न्यभावेऽप्सु वा पुनः ।।
पितॄन्प्रीणाति यो भक्त्या पितरः प्रीणयंति तम् ।।५।।
यच्छंति पितरः पुष्टिं प्रजाश्च विपुलास्तथा ।।
स्वर्गमारोग्यवृद्धिं च यदन्यदपि चेप्सितम् ।। ६ ।।
देवकार्यादपि मुने पितृकार्य्यं विशिष्यते ।।
पितृभक्तोऽसि विप्रर्षे तेन त्वमजरामरः ।। ७ ।।
न योगेन गतिस्सा तु पितृभक्तस्य या मुने ।।
पितृभक्तिर्विशेषेण तस्मात्कार्या महामुने ।। ८ ।।
मार्कण्डेय उवाच ।।
एवमुक्त्वाऽऽशु देवेशो देवानामपि दुर्लभम्।।
चक्षुर्दत्त्वा सविज्ञानं जगाम यौगिकीं गतिम् ।। ९ ।।
शृणु भीष्म पुरा भूयो भारद्वाजात्मजा द्विजाः ।।
योगधर्ममनुप्राप्य भ्रष्टा दुश्चरितेन वै ।। 5.41.१० ।।
वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च ।।
स्वसृषः पितृवर्ती च नामभिः कर्मभिस्तथा ।। ११ ।।
कौशिकस्य सुतास्तात शिष्या गर्गस्य चाभवन् ।।
पितर्युपरते सर्वे प्रवसंतस्तदाभवन् ।।१२।।
विनियोगाद्गुरोस्तस्य गां दोग्ध्रीं समकालयन् ।।
समानवत्सां कपिलां सर्वेऽन्यायागतास्तदा ।। ।। १३ ।।
तेषां पथि क्षुधार्तानां बाल्यान्मोहाच्च भारत ।।
क्रूरा बुद्धिस्समुत्पन्ना तां गां तै हिंसितुं तदा ।। १४ ।।।
तां कविसस्वसृपश्चैव याचेते नैति वै तदा ।।
न चाशक्यास्तु ताभ्यां वा तदा वारयितुं निजाः ।। १५ ।।
पितृवर्ती तु यस्तेषां नित्यं श्राद्धाह्निको द्विजः ।।
स सर्वानब्रवीत्कोपात्पितृभक्तिसमन्वितः ।।१६।।
यद्यशक्यं प्रकर्तव्यं पितॄनुद्दिश्य साध्यताम् ।।
प्रकुर्वंतो हि श्राद्धं तु सर्व एव समाहिताः।।१७।।
एवमेषा च गौर्धर्मं प्राप्स्यते नात्र संशयः ।।
पितॄनभ्यर्च्य धर्मेण नाधर्मो नो भविष्यति ।।१८।।
एवमुक्ताश्च ते सर्वे प्रोक्षयित्वा च गां तदा ।।
पितृभ्यः कल्पयित्वा तु ह्युपायुंजत भारत ।।१९।।
उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन् ।।
शार्दूलेन हता धेनुर्वत्सा वै गृह्यतामिति ।।5.41.२०।।
आर्तवत्स तु तं वत्सं प्रतिजग्राह वै द्विजः।।
मिथ्योपचारतः पापमभूत्तेषां च गोघ्नताम् ।।२१।।
ततः कालेन कियता कालधर्ममुपागताः।।
ते सप्त भ्रातरस्तात बभूवुस्स्वायुषःक्षये।।२२।।
ते वै क्रूरतया हैंस्त्र्यात्स्वानार्य्यत्वाद्गुरोस्तथा ।।
उग्रहिंसाविहाराश्च जातास्सप्त सहोदराः ।। २३ ।।
लुब्धकस्य सुतास्तावद्बलवंतो मनस्विनः ।।
जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः ।।२४।।
स्वधर्मनिरतास्सर्वे मृगा मोहविवर्जिताः ।।
आसन्नुद्वेगसंविग्ना रम्ये कालंजरे गिरौ ।। २५ ।।
तमेवार्थमनुध्याय ज्ञानं मरणसंभवम् ।।
आसन्वनचराः क्षांता निर्द्वंद्वा निष्परिग्रहाः ।। २६ ।।
ते सर्वे शुभकर्माणस्सद्धर्माणो वनेचराः ।।
विधर्माचरणैर्हीना जातिस्मरणसिद्धयः ।।२७।।
पूर्वजातिषु यो धर्मः श्रुतो गुरुकुलेषु वै ।।
तथैव चास्थिता बुद्धौ संसारेऽप्य निवर्तने ।।२८।।
गिरिमध्ये जहुः प्राणाँल्लब्धाहारास्तपस्विनः ।।
तेषां तु पतितानां च यानि स्थानानि भारत ।। २९ ।।
तथैवाद्यापि दृश्यंते गिरौ कालञ्जरे नृप ।।
कर्मणा तेन ते जाताः शुभाशुभविवर्जकाः ।।5.41.३०।।
शुभाऽशुभतरां योनिं चक्रवाकत्वमागताः ।।
शुभे देशे शरद्वीपे सप्तैवासञ्जलौकसः ।। ३१ ।।
त्यक्त्वा सहचरीधर्मं मुनयो धर्मधारिणः ।।
निस्संगा निर्ममाश्शांता निर्द्वंद्वा निष्परिग्रहाः ।। ३२ ।।
निवृत्तिनिर्वृताश्चैव शकुना नामतः स्मृताः ।।
ते ब्रह्मचारिणस्सर्वे शकुना धर्मधारिणः ।।३३।।
जातिस्मरास्सुसंवृद्धास्सप्तैव ब्रह्मचारिणः।।
स्थिता एकत्र सद्धर्मा विकाररहितास्सदा।।३४।।
विप्रयोनौ तु यन्मोहान्मिथ्यापचरितं गुरौ।।
तिर्य्यग्योनौ तथा जन्म श्राद्धाज्ज्ञानं च लेभिरे।।३५।।
तथा तु पितृकार्य्यार्थं कृतं श्राद्धं व्यवस्थितैः।।
तदा ज्ञानं च जातिं च क्रमात्प्राप्तं गुणोत्तरम्।।३६।।
पूर्वजादिषु यद्ब्रह्म श्रुतं गुरुकुलेषु वै ।।
तथैव संस्थितज्ञानं तस्माज्ज्ञानं समभ्यसेत् ।। ३७ ।।
सुमनाश्च सुवाक्छुद्धः पञ्चमश्छिद्रदर्शकः ।।
स्वतंत्रश्च सुयज्ञश्च कुलीना नामतः स्मृताः ।।३८।।
तेषां तत्र विहंगानां चरतां धर्मचारिणाम् ।।
सुवृत्तमभवत्तत्र तच्छृणुष्व महामुने।।३९।।
नीपानामीश्वरो राजा प्रभावेण समन्वितः।।
श्रीमानन्तःपुरवृतो वनं तत्राविवेश ह ।। 5.41.४० ।।
स्वतंत्रश्चक्रवाकस्सस्पृहयामास तं नृपम्।।
दृष्ट्वा यांतं सुखोपेतं राज्यशोभासमन्वितम् ।।४१।।
यद्यस्ति सुकृतं किंचित्तपो वा नियमोऽपि वा।।
खिन्नोहमुपवासेन तपसा निश्चलेन च ।। ४२ ।।
तस्य सर्वस्य पूर्णेन फलेनापि कृतेन हि ।।
सर्वसौभाग्यपात्रश्च भवेयमहमीदृशः ।।४३।।।
मार्कण्डेय उवाच ।।
ततस्तु चक्रवाकौ द्वावासतुस्सहचारिणौ।।
आवां वै सचिवौ स्याव तव प्रियहितैषिणौ ।।४४।।
तथेत्युक्त्वा तु तस्यासीत्तदा योगात्मनो गतिः ।।
एवं तौ चक्रवाकौ च स्ववाक्यं प्रत्यभाषताम् ।। ४५ ।।
यस्मात्कर्मब्रुवाणस्वं योगधर्ममवाप्य तम्।।
एवं वरं प्रार्थयसे तस्माद्वाक्यं निबोध मे।।४६।।
राजा त्वं भविता तात कांपिल्ये नगरोत्तमे।।
एतौ ते सचिवौ स्यातां व्यभिचारप्रधर्षितौ।।४७।।
न तानूचुस्त्रयो राज्यं चतुरस्सहचारिणः।।
सप्रसादं पुनश्चक्रे तन्मध्ये सुमनाब्रवीत्।।४८।।
अंतर्वो भविता शापः पुनर्योगमवाप्स्यथ।।
सर्वसत्त्वः सुयज्ञश्च स्वतंत्रोऽयं भविष्यति।।४९।।
पितृप्रसादाद्युष्माभिस्संप्राप्तं सुकृतं भवेत्।।
गां प्रोक्षयित्वा धर्मेण पितृभ्यश्चोपकल्पिताः।।5.41.५०।।
अस्माकं ज्ञानसंयोगस्सर्वेषां योगसाधनम्।।
इदं च कार्यं संरब्धं श्लोकमेकमुदाहृतम्।।५१।।
पुरुषान्तरितं श्रुत्वा ततो योगमवाप्स्यथ।।
इत्युक्त्वा स तु मौनोभूद्विहंगस्सुमना बुधः।।५२।।
मार्कण्डेय उवाच।।
लोकानां स्वस्तये तात शन्तनुप्रवरात्मज।।
इत्युक्तं तच्चरित्रं मे किं भूयश्श्रोतुमिच्छसि।।५३।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पितृसर्गवर्णनं सप्तव्याधगति वर्णनंनामैकचत्वारिंशोऽध्यायः ।।४१।।