शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ११ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः १२
वेदव्यासः
अध्यायः १३ →

।। सनत्कुमार उवाच ।।
पानीयदानं परमं दानानामुत्तमं सदा ।।
सर्वेषां जीवपुंजानां तर्पणं जीवनं स्मृतम् ।। १ ।।
प्रपादानमतः कुर्यात्सुस्नेहादनिवारितम् ।।
जलाश्रयविनिर्माणं महानन्दकरं भवेत् ।।२।।
इह लोके परे वापि सत्यं सत्यं न संशयः।।
तस्माद्वापीश्च कूपांश्च तडागान्कारयेन्नरः ।।३।।
अर्द्धं पापस्य हरति पुरुषस्य विकर्मणः ।।
कूपः प्रवृत्तपानीयः सुप्रवृत्तस्य नित्यशः ।। ४ ।।
सर्वं तारयते वंशं यस्य खाते जलाशये ।।
गावः पिबंति विप्राश्च साधवश्च नरास्सदा ।। ५ ।।
निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् ।।
सुदुर्गं विषमं कृच्छ्रं न कदाचिदवाप्यते ।। ६ ।।
तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृता ।।
त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ।। ७ ।।
अथवा मित्रसदने मैत्रं मित्रार्तिवर्जितम् ।।
कीर्तिसंजननं श्रेष्ठं तडागानां निवेशनम् ।।८।।
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः ।।
तडागं सुकृते येन तस्य पुण्यमनन्तकम् ।। ९ ।।
चतुर्विधानां भूतानां तडागः परमाश्रयः ।।
तडागादीनि सर्वाणि दिशन्ति श्रियमुत्तमाम् ।। 5.12.१० ।।
देवा मनुष्या गन्धर्वाः पितरो नागराक्षसाः ।।
स्थावराणि च भूतानि संश्रयंति जलाशयम् ।। ११ ।।
प्रावृडृतौ तडागे तु सलिलं यस्य तिष्ठति ।।
अग्निहोत्रफलं तस्य भवतीत्याह चात्मभूः ।। १२ ।।
शरत्काले तु सलिलं तडागे यस्य तिष्ठति ।।
गोसहस्रफलं तस्य भवेन्नैवात्र संशयः ।। १३ ।।
हेमन्ते शिशिरे चैव सलिलं यस्य तिष्ठति ।।
स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ।। १४ ।।
वसंते च तथा ग्रीष्मे सलिलं यस्य तिष्ठति ।।
अतिरात्राश्वमेधानां फलमाहुर्मनीषिणः ।। १५ ।।
मुने व्यासाथ वृक्षाणां रोपणे च गुणाञ्छृणु ।।
प्रोक्तं जलाशयफलं जीवप्रीणनमुत्तमम् ।।।१६।।
अतीतानागतान्सर्वान्पितृवंशांस्तु तारयेत् ।।
कांतारे वृक्षरोपी यस्तस्माद्वृक्षांस्तु रोपयेत् ।।१७।।
तत्र पुत्रा भवंत्येते पादपा नात्र संशयः ।।
परं लोकं गतस्सोऽपि लोकानाप्नोति चाक्षयान् ।। १८ ।।
पुष्पैस्सुरगणान्सर्वान्फलैश्चापि तथा पितॄन् ।।
छायया चातिथीन्सर्वान्पूजयंति महीरुहाः ।। १९ ।।
किन्नरोरगरक्षांसि देवगंधर्वमानवाः ।।
तथैवर्षिगणाश्चैव संश्रयंति महीरुहान् ।।5.12.२०।।
पुष्पिताः फलवंतश्च तर्पयंतीह मानवान् ।।
इह लोके परे चैव पुत्रास्ते धर्मतः स्मृताः ।। २१ ।।
तडागकृद्वृक्षरोपी चेष्टयज्ञश्च यो द्विजः ।।
एते स्वर्गान्न हीयंते ये चान्ये सत्यवादिनः ।।२२।।
सत्यमेव परं ब्रह्म सत्यमेव परं तपः ।।
सत्यमेव परो यज्ञस्सत्यमेव परं श्रुतम् ।।२३।।
सत्यं सुप्तेषु जागर्ति सत्यं च परमं पदम् ।।
सत्येनैव धृता पृथ्वी सत्ये सर्वं प्रतिष्ठितम् ।।२४।।
ततो यज्ञश्च पुण्यं च देवर्षिपितृपूजने ।।
आपो विद्या च ते सर्वे सर्वं सत्ये प्रतिष्ठितम् ।।२५।।
सत्यं यज्ञस्तपो दानं मंत्रा देवी सरस्वती।।
ब्रह्मचर्य्यं तथा सत्यमोंकारस्सत्यमेव च ।।२६।।
सत्येन वायुरभ्येति सत्येन तपते रविः ।।
सत्येनाग्निर्निर्दहति स्वर्गस्सत्येन तिष्ठति ।।२७।।
पालनं सर्ववेदानां सर्वतीर्थावगाहनम् ।।
सत्येन वहते लोके सर्वमाप्नोत्यसंशयम्।।२८।।
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।।
लक्षाणि क्रतवश्चैव सत्यमेव विशिष्यते ।। २९ ।।
सत्येन देवाः पितरो मानवोरगराक्षसाः ।।
प्रीयंते सत्यतस्सर्वे लोकाश्च सचराचराः ।। ।। 5.12.३० ।।
सत्यमाहुः परं धर्मं सत्यमाहुः परं पदम् ।।
सत्यमाहुः परं ब्रह्म तस्मात्सत्यं सदा वदेत् ।। ३१ ।।
मुनयस्सत्यनिरतास्तपस्तप्त्वा सुदुश्चरम् ।।
सत्यधर्मरतास्सिद्धास्ततस्स्वर्गं च ते गताः ।।३२।।
अप्सरोगणसंविष्टैर्विमानैःपरिमातृभिः ।।
वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम् ।।३३।।
अगाधे विपुले सिद्धे सत्यतीर्थे शुचिह्रदे ।।
स्नातव्यं मनसा युक्तं स्थानं तत्परमं स्मृतम् ।।३४।।
आत्मार्थे वा परार्थे वा पुत्रार्थे वापि मानवाः ।।
अनृतं ये न भाषंते ते नरास्स्वर्गगामिनः ।।३५।।
वेदा यज्ञास्तथा मंत्रास्संति विप्रेषु नित्यशः ।।
नोभांत्यपि ह्यसत्येषु तस्मात्सत्यं समाचरेत् ।। ३६ ।।
।। व्यास उवाच ।।
तपसो मे फलं ब्रूहि पुनरेव विशेषतः ।।
सर्वेषां चैव वर्णानां ब्राह्मणानां तपोधन ।। ३७ ।।
सनत्कुमार उवाच ।।
प्रवक्ष्यामि तपोऽध्यायं सर्व कामार्थसाधकम् ।।
सुदुश्चरं द्विजातीनां तन्मे निगदतः शृणु ।। ३८ ।।
तपो हि परमं प्रोक्तं तपसा विद्यते फलम् ।।
तपोरता हि ये नित्यं मोदंते सह दैवतैः ।। ३९ ।।
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ।।
तपसा प्राप्यते कामस्तपस्सर्वार्थसाधनम् ।। 5.12.४० ।।
तपसा मोक्षमाप्नोति तपसा विंदते महत् ।।
ज्ञानविज्ञानसंपत्तिः सौभाग्यं रूपमेव च ।। ४१ ।।
नानाविधानि वस्तूनि तपसा लभते नरः ।।
तपसा लभते सर्वं मनसा यद्यदिच्छति ।। ४२ ।।
नातप्ततपसो यांति ब्रह्मलोकं कदाचन ।।
नातप्ततपसां प्राप्यश्शंकरः परमेश्वरः ।।४३।।
यत्कार्यं किंचिदास्थाय पुरुषस्तपते तपः ।।
तत्सर्वं समवाप्नोति परत्रेह च मानवः ।।४४।।
सुरापः पारदारी च ब्रह्महा गुरुतल्पगः ।।
तपसा तरते सर्वं सर्वतश्च विमुंचति।।४५।।
अपि सर्वेश्वरः स्थाणुर्विष्णु श्चैव सनातनः ।।
ब्रह्मा हुताशनः शक्रो ये चान्ये तपसान्विताः ।।४६।।
अष्टाशीतिसहस्राणि मुनीनामूर्द्ध्वरेतसाम् ।।
तपसा दिवि मोदंते समेता दैवतैस्सह ।।४७।।
तपसा लभ्यते राज्यं स च शक्रस्सुरेश्वरः ।।
तपसाऽपालयत्सर्वमहन्यहनि वृत्रहा ।।४८।।
सूर्य्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ ।।
तपसैव प्रकाशंते नक्षत्राणि ग्रहास्तथा ।।४९।।
न चास्ति तत्सुखं लोके यद्विना तपसा किल।।
तपसैव सुखं सर्वमिति वेदविदो विदुः ।। 5.12.५० ।।
ज्ञानं विज्ञानमारोग्यं रूपवत्त्वं तथैव च ।।
सौभाग्यं चैव तपसा प्राप्यते सर्वदा सुखम् ।। ५१ ।।
तपसा सृज्यते विश्वं ब्रह्मा विश्वं विनाश्रमम् ।।
पाति विष्णुर्हरोऽप्यत्ति धत्ते शेषोऽखिलां महीम् ।। ५२ ।।
विश्वामित्रो गाधिसुतस्तपसैव महामुने ।।
क्षत्रियोऽथाभवद्विप्रः प्रसिद्धं त्रिभवेत्विदम् ।। ५३ ।।
इत्युक्तं ते महाप्राज्ञ तपोमाहात्म्यमुत्तमम् ।।
शृण्वध्ययनमाहात्म्यं तपसोऽधिकमुत्तमम् ।। ५४ ।।
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां तपोमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः ।। १२ ।।