शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः १३
वेदव्यासः
अध्यायः १४ →

।। सनत्कुमार उवाच ।।
तपस्तपति योऽरण्ये वन्यमूलफलाशनः ।।
योऽधीते ऋचमेकां हि फलं स्यात्तत्समं मुने ।। १ ।।
श्रुतेरध्ययनात्पुण्यं यदाप्नोति द्विजोत्तमः ।।
तदध्यापनतश्चापि द्विगुणं फलमश्नुते ।। २ ।।
जगद्यथा निरालोकं जायतेऽशशिभास्करम् ।।
विना तथा पुराणं ह्यध्येयमस्मान्मुने सदा ।।३।।
तप्यमानं सदाज्ञानान्निरये योऽपि शास्त्रतः ।।
सम्बोधयति लोकं तं तस्मात्पूज्यः पुराणगः ।। ४ ।।
सर्वेषां चैव पात्राणां मध्ये श्रेष्ठः पुराणवित् ।।
पतनात्त्रायते यस्मात्तस्मात्पात्रमुदाहृतम् ।। ५ ।।
मर्त्यबुद्धिर्न कर्तव्या पुराणज्ञे कदाचन ।।
पुराणज्ञस्सर्ववेत्ता ब्रह्मा विष्णुर्हरो गुरुः ।। ६ ।।
धनं धान्यं हिरण्यं च वासांसि विविधानि च ।।
देयं पुराणविज्ञाय परत्रेह च शर्म्मणे ।।७।।
यो ददाति महाप्रीत्या पुराणज्ञाय सज्जनः ।।
पात्राय शुभवस्तूनि स याति परमां गतिम्।।८।।
महीं गां वा स्यंदनांश्च गजानश्वांश्च शोभनान् ।।
यः प्रयच्छति पात्राय तस्य पुण्यफलं शृणु ।। ९ ।।
अक्षयान्सर्वकामांश्च परत्रेह च जन्मनि ।।
अश्वमेधमखस्यापि स फलं लभते पुमान् ।।5.13.१०।।
मही ददाति यस्तस्मै कृष्टां फलवतीं शुभाम् ।।
स तारयति वै वंश्यान्दश पूर्वान्दशापरान् ।।११।।
इह भुक्त्वाखिलान्कामानंते दिव्यशरीरवान् ।।
विमानेन च दिव्येन शिवलोकं स गच्छति ।।१२।।
न यज्ञैस्तुष्टिमायांति देवाः प्रोक्षणकैरपि ।।
बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैः ।। १३ ।।
शंभोरायतने यस्तु कारयेद्धर्मपुस्तकम् ।।
विष्णोरर्कस्य कस्यापि शृणु तस्यापि तत्फलम् ।।१४।।
राजसूयाश्वमेधानां फलमाप्नोति मानवः ।।
सूर्यलोकं च भित्त्वाशु ब्रह्मलोकं स गच्छति ।। १५ ।।
स्थित्वा कल्पशतान्यत्र राजा भवति भूतले ।।
भुंक्ते निष्कंटकं भोगान्नात्र कार्या विचारणा ।।१६।।
अश्वमेधसहस्रस्य यत्फलं समुदाहृतम् ।।
तत्फलं समावाप्नोति देवाग्रे यो जपं चरेत् ।। १७ ।।
इतिहासपुराणाभ्यां शम्भोरायतने शुभे ।।
नान्यत्प्रीतिकरं शंभोस्तथान्येषां दिवौकसाम् ।। १८ ।।
तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम् ।।
तथास्य श्रवणं प्रेम्णा सर्वकामफलप्रदम् ।।१९।।
पुराणश्रवणाच्छंभोर्निष्पापो जायते नरः ।।
भुक्त्वा भोगान्सुविपुलाञ्छिवलोकमवाप्नुयात् ।।5.13.२०।।
राजसूयेन यत्पुण्यमग्निष्टोमशतेन च ।।
तत्पुण्यं लभते शंभोः कथाश्रवणमात्रतः ।। २१ ।।
सर्वतीर्थावगाहेन गां कोटिप्रदानतः ।।
तत् फलं लभते शंभोः कथाश्रवणतो मुने ।। २२ ।।
ये शृण्वंति कथां शंभोस्सदा भुवनपावनीम् ।।
ते मनुष्या न मंतव्या रुद्रा एव न संशयः ।। २३ ।।
शृण्वतां शिवसत्कीर्तिं सतां कीर्तयतां च ताम् ।।
पदाम्बुजरजांस्येव तीर्थानि मुनयो विदुः ।।२४।।
गंतुं निःश्रेयसं स्थानं येऽभिवांछन्ति देहिनः ।।
कथां पौराणिकीं शैवीं भक्त्या शृण्वंतु ते सदा ।।२५।।
कथां पौराणिकीं श्रोतुं यद्यशक्तस्सदा भवेत् ।।
नियतात्मा प्रतिदिनं शृणुयाद्वा मुहूर्तकम् ।।२६।।
यदि प्रतिदिनं श्रोतुमशक्तो मानवो भवेत् ।।
पुण्यमासादिषु मुने शृणुयाच्छांकरीं कथाम् ।।२७।।
शैवीं कथां हि शृण्वानः पुरुषो हि मुनीश्वर ।।
स निस्तरति संसारं दग्ध्वा कर्ममहाटवीम् ।।२८।।
कथां शैवीं मुहूर्तं वा तदर्द्धं क्षणं च वा ।।
ये शृण्वxति नरा भक्त्या न तेषां दुर्गतिर्भवेत् ।।२९।।
यत्पुण्यं सर्वदानेषु सर्वयज्ञेषु वा मुने ।।
शंभोः पुराणश्रवणात्तत्फलं निश्चलं भवेत् ।।5.13.३०।।
विशेषतः कलौ व्यास पुराणश्रवणादृते ।।
परो धर्मो न पुंसां हि मुक्तिध्यानपरः स्मृतः ।।३१।।
पुराणश्रवणं शम्भोर्नामसंकीर्तनं तथा ।।
कल्पद्रुमफलं रम्यं मनुष्याणां न संशयः ।। ३२ ।।
कलौ दुर्मेधसां पुंसां धर्माचारोझ्झितात्मनाम् ।।
हिताय विदधे शम्भुः पुराणाख्यं सुधारसम् ।।३३।।
एकोऽजरामरस्याद्वै पिबन्नेवामृतं पुमान् ।।
शम्भोः कथामृतापानात्कुलमेवाजरामरम् ।।३४।।
या गतिः पुण्यशीलानां यज्वनां च तपस्विनाम् ।।
सा गतिस्सहसा तात पुराणश्रवणात्खलु ।।३५।।
ज्ञानवाप्तिर्यदा न स्याद्योगशास्त्राणि यत्नतः ।।
अध्येतव्यानि पौराणं शास्त्रं श्रोतव्यमेव च।।३६।।
पापं संक्षीयते नित्यं धर्म्मश्चैव विवर्द्धते।।
पुराणश्रवणाज्ज्ञानी न संसारं प्रपद्यते।।३७।।
अतएव पुराणानि श्रोतव्यानि प्रयत्नतः ।।
धर्मार्थकामलाभाय मोक्षमार्गाप्तये तथा ।। ३८ ।।
यज्ञैर्दानैस्तपोभिस्तु यत्फलं तीर्थसेवया ।।
तत्फलम समवाप्नोति पुराणश्रवणान्नरः ।।३९।।
न भवेयुः पुराणानि धर्ममार्गे क्षणानि तु ।।
यद्यत्र यद्व्रती स्थाता चात्र पारत्रकी कथाम्।।5.13.४०।।
षड्विंशतिपुराणानां मध्येऽप्येकं शृणोति यः ।।
पठेद्वा भक्तियुक्तस्तु स मुक्तो नात्र संशयः।।४१।।
अन्यो न दृष्टस्सुखदो हि मार्गः पुराणमार्गो हि सदा वरिष्ठः ।।
शास्त्रं विना सर्वमिदं न भाति सूर्य्येण हीना इव जीवलोकाः।।४२।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पुराणमाहात्म्यवर्णनंनाम त्रयोदशोऽध्यायः ।।१३।।