शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १० शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ११
वेदव्यासः
अध्यायः १२ →

।। व्यास उवाच ।। ।।
कृतपापा नरा यांति दुःखेन महतान्विताः ।।
यममार्गे सुखं यैश्च तान्धर्मान्वद मे प्रभो ।। १ ।।
।। सनत्कुमार उवाच ।।
अवश्यं हि कृतं कर्म भोक्तव्यमविचारतः ।।
शुभाशुभमथो वक्ष्ये तान्धर्म्मान्सुखदायकान् ।२।।
अत्र ये शुभकर्म्माणः सौम्यचित्ता दयान्विताः ।।
सुखेन ते नरा यांति यममार्गं भयावहम् ।। ३ ।।
यः प्रदद्याद् द्विजेन्द्राणामुपानत्काष्ठपादुके ।।
स नरोऽश्वेन महता सुखं याति यमालयम् ।। ४ ।। ।।
छत्रदानेन गच्छंति यथा छत्रेण देहिनः ।।
शिबिकायाः प्रदानेन तद्रथेन सुखं व्रजेत् ।। ५ ।।
शय्यासनप्रदानेन सुखं याति सुविश्रमम् ।।
आरामच्छायाकर्तारो मार्गे वा वृक्षरोपकाः ।।
व्रजन्ति यमलोकं च आतपेऽति गतक्लमाः ।।६।।
यांति पुष्पगयानेन पुष्पारामकरा नराः ।।
देवायतनकर्तारः क्रीडंति च गृहोदरे ।। ७।।
कर्तारश्च तथा ये च यतीनामाश्रमस्य च ।।
अनाथमण्डपानां तु क्रीडंति च गृहोदरे ।। ८ ।।
देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकाः ।।
पूज्यमाना नरा यांति कामुकेन यथासुखम् ।। ९ ।।
द्योतयंतो दिशस्सर्वा यांति दीपप्रदायिनः ।।
प्रतिश्रयप्रदानेन सुखं यांति निरामयाः ।। 5.11.१० ।।
विश्राम्यमाणा गच्छंति गुरुशुश्रूषका नराः ।।
आतोद्यविप्रदातारस्सुखं यांति स्वके गृहे ।। ११ ।।
सर्वकामसमृद्धेन यथा गच्छंति गोप्रदाः ।।
अत्र दत्तान्नपानानि 'तान्याप्नोति नरः पथि ।। १२ ।।
पादशौचप्रदानेन सजलेन पथा व्रजेत् ।।
पादाभ्यंगं च यः कुर्यादश्वपृष्ठेन गच्छति ।। १३ ।।
पादशौचं तथाभ्यंगं दीपमन्नं प्रतिश्रयम् ।।
यो ददाति सदा व्यास नोपसर्पति तं यमः ।। १४ ।।
हेमरत्नप्रदानेन याति दुर्गाणि निस्तरन् ।।
रौप्यानडुत्स्रग्दानेन यमलोकं सुखेन सः ।। १५ ।।
इत्येवमादिभिर्दानैस्सुखं यांति यमालयम् ।।
स्वर्गे तु विविधान्भोगान्प्राप्नुवंति सदा नराः ।। १६ ।।
सर्वेषामेव दानानामन्नदानं परं स्मृतम् ।।
सद्यः प्रीतिकरं हृद्यं बलबुद्धिविवर्धनम् ।।१७।।
नान्नदानसमं दानं विद्यते मुनिसत्तम ।।
अन्नाद्भवंति भूतानि तदभावे म्रियंति च ।।१८।।
रक्तं मांसं वसा शुक्रं क्रमादन्नात्प्रवर्धते ।।
शुक्राद्भवंति भूतानि तस्मादन्नमयं जगत् ।। १९ ।।
हेमरत्नाश्वनागेन्द्रैर्नारीस्रक्चंदनादिभिः ।।
समस्तैरपि संप्राप्तैर्न रमंति बुभुक्षिताः ।।5.11.२०।।
गर्भस्था जायमानाश्च बालवृद्धाश्च मध्यमाः ।।
आहारमभिकांक्षंति देवदानवराक्षसाः।।२१।।
क्षुधा निश्शेषरोगाणां व्याधिः श्रेष्ठतमः स्मृतः ।।
स चान्नौषधिलेपेन नश्यतीह न संशयः ।। २२ ।।
नास्ति क्षुधासमं दुःखं नास्ति रोगः क्षुधासमः ।।
नास्त्यरोगसमं सौख्यं नास्ति क्रोधसमो रिपुः ।।२३।।
अतएव महत्पुण्यमन्नदाने प्रकीर्तितम्।।
तथा क्षुधाग्निना तप्ता म्रियंते सर्वदेहिनः।।२४।।
अन्नदः प्राणदः प्रोक्तः प्राणदश्चापि सर्वदः।।
तस्मादन्नप्रदानेन सर्वदानफलं लभेत् ।।२५।।
यस्यान्नपानपुष्टाङ्गः कुरुते पुण्यसंचयम्।।
अन्नप्रदातुस्तस्यार्द्धं कर्तुश्चार्द्धं न संशयः ।। २६ ।।
त्रैलोक्ये यानि रत्नानि भोगस्त्रीवाहनानि च ।।
अन्नदानप्रदस्सर्वमिहामुत्र च तल्लभेत् ।। २७ ।।
धर्म्मार्थकाममोक्षाणां देहः परमसाधनम् ।।
तस्मादन्नेन पानेन पालयेद्देहमात्मनः ।। २८ ।।
अन्नमेव प्रशंसंति सर्वमेव प्रतिष्ठितम् ।।
अन्नेन सदृशं दानं न भूतं न भविष्यति ।। २९ ।।
अन्नेन धार्य्यते सर्वं विश्वं जगदिदं मुने ।।
अन्नमूर्जस्करं लोके प्राणा ह्यन्ने प्रतिष्ठिताः ।। 5.11.३० ।।
दातव्यं भिक्षवे चान्नं ब्राह्मणाय महात्मने ।।
कुटुंबं पीडयित्वापि ह्यात्मनो भूतिमिच्छता ।।३१।।
विददाति निधिश्रेष्ठं यो दद्यादन्नमर्थिने।।
ब्राह्मणायार्तरूपाय पारलौकिकमात्मनः ।।३२।।
अर्चयेद्भूतिमन्विच्छन्काले द्विजमुपस्थितम् ।।
श्रांतमध्वनि वृत्त्यर्थं गृहस्थो गृहमागतम् ।। ।। ३३ ।।
अन्नदः पूजयेद्व्यासः सुशीलस्तु विमत्सरः ।।
क्रोधमुत्पतितं हित्वा दिवि चेह महत्सुखम् ।।३४।।
नाभिनिंदेदधिगतं न प्रणुद्यात्कथंचन ।।
अपि श्वपाके शुनि वा नान्नदानं प्रणश्यति।।३५।। ।
श्रांतायादृष्टपूर्वाय ह्यन्नमध्वनि वर्तते ।।
यो दद्यादपरिक्लिष्टं स समृद्धिमवाप्नुयात ।।३६।।
पितॄन्देवांस्तथा विप्रानतिथींश्च महामुने ।।
यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत् ।। ३७ ।।
अन्नं पानं च शूद्रेऽपि ब्राह्मणे च विशिष्यते ।।
न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव च ।। ३८ ।।
भिक्षितो ब्राह्मणेनेह दद्यादन्नं च यः पुमान् ।।
स याति परमं स्वर्गं यावदाभूतसंप्लवम् ।।३९।।
अन्नदस्य च वृक्षाश्च सर्वकामफलान्विताः ।।
भवंतीह यथा विप्रा हर्षयुक्तास्त्रिविष्टपे ।।5.11.४०।।
अन्नदानेन ये लोकास्स्वर्गे विरचिता मुने ।।
अन्नदातुर्महादिव्यास्ताञ्छृणुष्व महामुने ।। ४१ ।।
भवनानि प्रकाशंते दिवि तेषां महात्मनाम् ।।
नानासंस्थानरूपाणि नाना कामान्वितानि च ।। ४२ ।।
सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः ।।
हेमवाप्यः शुभाः कूपा दीर्घिकाश्चैव सर्वशः।।४३।।
घोषयंति च पानानि शुभान्यथ सहस्रशः ।।
भक्ष्यभोज्यमयाश्शैला वासांस्याभरणानि च ।। ४४ ।।
क्षीरं स्रवंत्यस्सरितस्तथैवाज्यस्य पर्वताः ।।
प्रासादाः पाण्डुराभासाश्शय्याश्च कनकोज्ज्वलाः ।।४५।।
तानन्नदाश्च गच्छंति तस्मादन्नप्रदो भवेत् ।।
यदीच्छेदात्मनो भव्यमिह लोके परत्र च ।। ४६ ।।
एते लोकाः पुण्यकृतामन्नदानां महाप्रभाः ।।
तस्मादन्नं विशेषेण दातव्यं मानवैर्ध्रुवम् ।। ४७ ।।
अन्नं प्रजापतिस्साक्षादन्नं विष्णुस्स्वयं हरः ।।
तस्मादन्नसमं दानं न भूतं न भविष्यति ।। ४८ ।।
कृत्वापि सुमहत्पापं यः पश्चादन्नदो भवेत् ।।
विमुक्तस्सर्वपापेभ्यस्स्वर्गलोकं स गच्छति ।। ४९ ।।
अन्नपानाश्वगोवस्त्रशय्याच्छत्रासनानि च ।।
प्रेतलोके प्रशस्तानि दानान्यष्टौ विशेषतः ।। 5.11.५० ।।
एवं दानविशेषेण धर्मराजपुरं नरः ।।
यस्माद्याति विमानेन तस्माद्दानं समाचरेत् ।। ५१ ।।
एतदाख्यानमनघमन्नदानप्रभावतः ।।
यः पठेत्पाठयेदन्यान्स समृद्धः प्रजायते ।। ५२ ।।
शृणुयाच्छ्रावयेच्छ्राद्धे ब्राह्मणान्यो महामुने ।।।
अक्षय्यमन्नदानं च पितॄणामुपतिष्ठति।।५३।।
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायामन्नदानमाहात्म्यवर्णनं नामैकादशोऽध्यायः। ।। ११ ।।