शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ०७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०६ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ०७
वेदव्यासः
अध्यायः ०८ →

सनत्कुमार उवाच ।।
अथ पापैर्नरा यांति यमलोकं चतुर्विधैः ।।
संत्रासजननं घोरं विवशास्सर्वदेहिनः ।।१।।
गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः ।।
स्त्रीपुन्नपुंसकैर्जीवैर्ज्ञातव्यं सर्वजंतुषु।।२।।
शुभाशुभफलं चात्र देहिनां संविचार्यते ।।
चित्रगुप्तादिभिस्सर्वैर्वसिष्ठप्रमुखैस्तथा ।। ३ ।।
न केचित्प्राणिनस्संति ये न यांति यमक्षयम् ।।
अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचार्य्यताम् ।। ४ ।।
तत्र ये शुभकर्माणस्सौम्यचित्ता दयान्विताः ।।
ते नरा यांति सौम्येन पूर्वं यमनिकेतनम् ।।५।।
ये पुनः पापकर्म्माणः पापा दानविवर्जिताः ।।
ते घोरेण पथा यांति दक्षिणेन यमालयम् ।।६।।
षडशीतिसहस्राणि योजनानामतीत्य तत् ।।
वैवस्वतपुरं ज्ञेयं नानारूपमवस्थितम् ।। ७ ।।
समीपस्थमिवाभाति नराणां पुण्यकर्मणाम्।।
पापिनामतिदूरस्थं पथा रौद्रेण गच्छताम् ।।८।।
तीक्ष्णकंटकयुक्तेन शर्कराविचितेन च ।।
क्षुरधारानिभैस्तीक्ष्णैः पाषाणै रचितेन च।।९।।
क्वचित्पंकेन महता उरुतोकैश्च पातकैः ।।
लोहसूचीनिभैर्दर्भैस्सम्पन्नेन पथा क्वचित्।।5.7.१०।।
तटप्रायातिविषमैः पर्वतैर्वृक्षसंकुलैः ।।
प्रतप्तांगारयुक्तेन यांति मार्गेण दुःखिताः ।।११।।
क्वचिद्विषमगर्तैश्च क्वचिल्लोष्टैस्सुदुष्करैः ।।
सुतप्तवालुकाभिश्च तथा तीक्ष्णैश्च शंकुभिः।।१२।।
अनेक शाखाविततैर्व्याप्तं वंशवनैः क्वचित्।।
कष्टेन तमसा मार्गे नानालम्बेन कुत्रचित्।।१३।।
अयश्शृंगाटकैस्तीक्ष्णैः क्वचिद्दावाग्निना पुनः ।।
क्वचित्तप्तशिलाभिश्च क्वचिद्व्याप्तं हिमेन च ।।१४।।
क्वचिद्वालुकया व्याप्तमाकंठांतः प्रवेशया ।।
क्वचिद्दुष्टाम्बुना व्याप्तं क्वचिच्च करिषाग्निना ।। १५ ।। क्वचित्सिंहैर्वृकैर्व्याघ्रैर्मशकैश्च सुदारुणैः ।।
क्वचिन्महाजलौकाभिः क्वचिच्चाजगरैस्तथा।।१६।।
मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्बणैः ।।
मत्तमातंगयूथैश्च बलोन्मत्तैः प्रमाथिभिः ।। १७ ।।
पंथानमुल्लिखद्भिश्च सूकरैस्तीक्ष्णदंष्ट्रिभिः।।
तीक्ष्णशृंगैश्च महिषैस्सर्वभूतैश्च श्वापदैः ।। १८ ।।
डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ।।
व्याधिभिश्च महाघोरैः पीड्यमाना व्रजंति हि ।।१९।।
महाधूलिविमिश्रेण महाचण्डेन वायुना ।।
महापाषाणवर्षेण हन्यमाना निराश्रयाः ।। 5.7.२० ।।
क्वचिद्विद्युत्प्रपातेन दह्यमाना व्रजन्ति च ।।
महता बाणवर्षेण विध्यमानाश्च सर्वतः ।। २१ ।।
पतद्भिर्वज्रपातैश्च उल्कापातैश्च दारुणैः ।।
प्रदीप्तांगारवर्षेण दह्यमानाश्च संति हि ।।२२।।
महता पांसुवर्षेण पूर्यमाणा रुदंति च।।
महामेघरवैर्घोरैस्त्रस्यंते च मुहुर्मुहुः।।२३।।
निशितायुधवर्षेण भिद्यमानाश्च सर्वतः ।।
महाक्षाराम्बुधाराभिस्सिच्यमाना व्रजंति च ।। २४ ।।
महीशीतेन मरुता रूक्षेण परुषेण च ।।
समंताद्बाध्यमानाश्च शुष्यंते संकुचन्ति च ।। २५ ।।
इत्थं मार्गेण रौद्रेण पाथेयरहितेन च ।।
निरालम्बेन दुर्गेण निर्जलेन समंततः ।। २६ ।।
विषमेणैव महता निर्जनापाश्रयेण च ।।
तमोरूपेण कष्टेन सर्वदुष्टाश्रयेण च।।२७।।
नीयंते देहिनस्सर्वे ये मूढाः पापकर्मिणः ।।
यमदूतैर्महाघोरैस्तदाज्ञाकारिभिर्बलात् ।। २८ ।।
एकाकिनः पराधीना मित्रबन्धुविवर्जिताः ।।
शोचंतस्स्वानि कर्म्माणि रुदंतश्च मुहुर्मुहुः ।। २९ ।।
प्रेता भूत्वा विवस्त्राश्च शुष्ककंठौष्ठतालुकाः ।।
असौम्या भयभीताश्च दह्यमानाः क्षुधान्विताः ।।5.7.३०।।
बद्धाश्शृंखलया केचिदुत्ता नपादका नराः ।।
कृष्यंते कृष्यमाणाश्च यमदूतैर्बलोत्कटैः ।। ३१ ।।
उरसाधोमुखाश्चान्ये घृष्यमाणास्सुदुःखिताः ।।
केशपाशनि बंधेन संस्कृष्यंते च रज्जुना ।। ३२ ।।
ललाटे चांकुशेनान्ये भिन्ना दुष्यंति देहिनः ।।
उत्तानाः कंटकपथा क्वचिदंगारवर्त्मना ।। ३३ ।।
पश्चाद्बाहुनिबद्धाश्च जठरेण प्रपीडिताः ।।
पूरिताश्शृंखलाभिश्च हस्तयोश्च सुकीलिताः ।। ४४ ।।
ग्रीवापाशेन कृष्यंते प्रयांत्यन्ये सुदुःखिताः ।।
जिह्वांकुशप्रवेशेन रज्ज्वाकृष्यन्त एव ते ।। ३५ ।।
नासाभेदेन रज्ज्वा च त्वाकृश्यन्ते तथापरे ।।
भिन्नाः कपोलयो रज्ज्वाकृष्यंतेऽन्ये तथौष्ठयोः ।। ३६ ।।
छिन्नाग्रपादहस्ताश्च च्छिन्नकर्णोष्ठनासिकाः ।।
संछिन्नशिश्नवृषणाः छिन्नभिन्नांगसंधयः ।। ३७ ।।
आभिद्यमानाः कुंतैश्च भिद्यमानाश्च सायकैः ।।
इतश्चेतश्च धावंतः क्रंदमाना निराश्रयाः ।। ३८ ।।
मुद्गरैर्लोहदण्डैश्च हन्यमाना मुहुर्मुहुः ।।
कंटकैर्विविधैर्घोरैर्ज्वलनार्कसमप्रभैः ।।३९।।
भिन्दिपालैर्विभियंते स्रवतः पूयशोणितम् ।।
शकृता कृमिदिग्धाश्च नीयंते विवशा नराः ।। 5.7.४० ।।
याचमानाश्च सलिलमन्नं वापि बुभुक्षिताः ।।
छायां प्रार्थयमानाश्च शीतार्ताश्चानलं पुनः ।।४१।।
दानहीनाः प्रयांत्येवं प्रार्थयंतस्सुखं नराः ।।
गृहीतदान पाथेयास्सुखं यांति यमालयम् ।। ४२ ।।
एवं न्यायेन कष्टेन प्राप्ताः प्रेतपुरं यदा ।।
प्रज्ञापितास्ततो दूतैर्निवेश्यंते यमाग्रतः ।। ।। ४३ ।।
तत्र ये शुभकर्म्माणस्तांस्तु सम्मानयेद्यमः ।।
स्वागतासनदानेन पाद्यार्घ्येण प्रियेण च ।।४४।।
धन्या यूयं महात्मानो निगमोदितकारिणः ।।
यैश्च दिव्यसुखार्थाय भवद्भिस्सुकृतं कृतम् ।।४५।।
दिव्यं विमानमारुह्य दिव्यस्त्रीभोगभूषितम् ।।
स्वर्गं गच्छध्वममलं सर्वकामसमन्वितम्।।४६।।
तत्र भुक्त्वा महाभोगानंते पुण्यस्य संक्षयात् ।।
यत्किंचिदल्पमशुभं पुनस्तदिह भोक्ष्यथ।।४७।।
धर्म्मात्मानो नरा ये च मित्रभूत्वा इवात्मनः ।।
सौम्यं सुखं प्रपश्यंति धर्मराजत्वमेव च ।।४८।।
ये पुनः क्रूरकर्म्माणस्ते पश्यंति भयानकम् ।।
दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ।।४९।।
ऊर्ध्वकेशं महाश्मश्रुमूर्ध्वप्रस्फुरिताधरम् ।।
अष्टादशभुजं क्रुद्धं नीलांजनचयोपमम्।।5.7.५०।।
सर्वायुधोद्धतकरं सर्वदण्डेन तर्जयन् ।।
महामहिषमारूढं दीप्ताग्निसमलोचनम्।।५१।।
रक्तमाल्यांबरधरं महामेरुमिवोच्छ्रितम्।।
प्रलयाम्बुदनिर्घोषं पिबन्निव महोदधिम् ।। ।।५२।।
ग्रसंतमिव शैलेन्द्रमुद्गिरंतमिवानलम् ।।
मृत्युश्चैव समीपस्थः कालानलसमप्रभुः ।।५३।।
कालश्चांजनसंकाशः कृतांतश्च भयानकः ।।
मारीचोग्रमहामारी कालरात्रिश्च दारुणा ।।५४।।
विविधा व्याधयः कुष्ठा नानारूपा भयावहाः ।।
शक्तिशूलांकुशधराः पाशचक्रासिपाणयः ।।५५।।
वजतुंडधरा रुद्रा क्षुरतूणधनुर्द्धराः।।
नानायुधधरास्सर्वे महावीरा भयंकराः।।५६।।
असंख्याता महावीराः कालाञ्जनसमप्रभाः ।।
सर्वायुधोद्यतकरा यमदूता भयानकाः ।। ५७ ।।
अनेन परिचारेण वृतं तं घोरदर्शनम् ।।
यमं पश्यंति पापिष्ठाश्चित्रगुप्तं च भीषणम् ।। ५८ ।।
निर्भर्त्सयति चात्यंतं यमस्तान्पापकर्म्मणः ।।
चित्रगुप्तश्च भगवान्धर्म्मवाक्यैः प्रबोधयेत् ।। ५९ ।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकलोकमार्गयमदूतस्वरूपवर्णनं नाम सप्तमोऽध्यायः ।। ७ ।।