शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः २९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २८ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः २९
वेदव्यासः
अध्यायः ३० →

सूत उवाच ।।
अथातः संप्रवक्ष्यामि नागेशाख्यं परात्मनः ।।
ज्योतीरूपं यथा जातं परमं लिंगमुत्तमम् ।। १ ।।
दारुका राक्षसी काचित्पार्वती वरदर्पिता ।।
दारुकश्च पतिस्तस्या बभूव बलवत्तरः ।। २ ।।
बहुभी राक्षसैस्तत्र चकार कदनं सताम् ।।
यज्ञध्वंसं च लोकानां धर्मध्वंसं तदाकरोत् ।। ३ ।।
पश्चिमे सागरे तस्य वनं सर्वसमृद्धिमत् ।।
योजनानां षोडशभिर्विस्तृतं सर्वतो दिशम् ।। ४ ।।
दारुका स्वविलासार्थं यत्र गच्छति तद्वनम् ।।
भूम्या च तरुभिस्तत्र सर्वोपकरणैर्युतम् ।। ५ ।।।
दारुकायै ददौ देवी तद्वनस्यावलोकनम्।।
प्रयाति तद्वनं सा हि पत्या सह यदृच्छया।।६।।
तत्र स्थित्वा तदा सोपि सर्वेषां च भयं ददौ ।।
दारुको राक्षसः पत्न्या तया दारुकया सह ।।७।।
ते सर्वे पीडिता लोका और्वस्य शरणं ययुः ।।
नत्वा प्रीत्या विशेषेण तमूचुर्नतमस्तकाः ।। ८ ।।
लोका ऊचुः ।।
महर्षे शरणं देहि नो चेद्दुष्टैश्च मारिताः ।।
सर्वं कर्तुं समर्थोसि तेजसा दीप्तिमानसि ।। ९ ।।
पृथ्व्यां न वर्तते कश्चित्त्वां विना शरणं च नः ।।
यामो यस्य समीपे तु स्थित्वा सुखमवाप्नुमः ।। 4.29.१० ।।
त्वां दृष्ट्वा राश्रसास्सर्वे पला यंते विदूरतः ।।
त्वयि शैवं सदा तेजो विभाति ज्वलनो यथा ।। ११ ।।
सूत उवाच ।।
इत्येवं प्रार्थितो लोकैरौर्वो हि मुनिसत्तमः।।
शोचमानः शरण्यश्च रक्षायै हि वचोऽब्रवीत् ।। १२ ।।
और्व उवाच ।।
पृथिव्यां यदि रक्षांसि हिंस्युर्वै प्राणिनस्तदा ।।
स्वयं प्राणैर्वियुज्येयू राक्षसा बलवत्तराः ।। १३ ।।
यदा यज्ञा न हन्येरंस्तदा प्राणैर्वियोजिताः ।।
भवंतु राक्षसास्सर्वे सत्यमेतन्मयोच्यते ।। १४ ।।
सूत उवाच ।।
इत्युक्त्वा वचनं तेभ्यस्समाश्वास्य प्रजाः पुनः ।।
तपश्चकार विविधमौर्वो लोकसुखावहः ।।१५।।
देवास्तदा ते विज्ञाय शापस्य कारणं हि तत् ।।
युद्धाय च समुद्योगं चक्रुर्देवारिभिस्सह ।।१६।।
सर्वैश्चैव प्रयत्नैश्च नानायुधधरास्सुराः।।
सर्वे शक्रादयस्तत्र युद्धार्थं समुपागताः ।।१७।।
तान्दृष्ट्वा राक्षसास्तत्र विचारे तत्पराः पुनः ।।
बभूवुस्तेऽखिला दुष्टा मिथो ये यत्र संस्थिताः । १८ ।।
राक्षसा ऊचुः ।।
किं कर्तव्यं क्व गंतव्यं संकटं समुपागताः ।।
युद्ध्यते म्रियते चैव युद्ध्यते न विहन्यते ।।१९।।
तथैव स्थीयते चेद्वै भक्ष्यते किं परस्परम् ।।
दुःखं हि सर्वथा जातं क एनं विनिवारयेत् ।।4.29.२०।।
सूत उवाच।।
विचार्येति च ते तत्र दारुकाद्याश्च राक्षसाः ।।
उपायं न विजानन्तो दुःखं प्राप्तास्सदा हि वै ।। २१ ।।
दारुका राक्षसी चापि ज्ञात्वा दुःखं समागतम् ।।
भवान्याश्च वरं तञ्च कथयामास सा तदा ।। २२ ।।
दारुकोवाच ।।
मया ह्याराधिता पूर्वं भवपत्नी वरं ददौ ।।
वनं गच्छ निजैः सार्धं यत्र गंतुं त्वमिच्छसि ।। २३ ।।
तद्वरश्च मया प्राप्तः कथं दुःखं विषह्यते ।।
जलं वनं च नीत्वा वै सुखं स्थेयं तु राक्षसैः ।। २४ ।।
भूत उवाच ।।
तस्यास्तद्वचनं श्रुत्वा राक्षस्या हर्षमागताः ।।
उचुस्सर्वे मिथस्ते हि राक्षसा निर्भयास्तदा ।। २५ ।।
धन्येयं कृतकृत्येयं राज्ञ्या वै जीवितास्स्वयम् ।।
नत्वा तस्यै च तत्सर्वं कथयामासुरादरात् ।।२६।।
यदि गंतुं भवेच्छक्तिर्गम्यतां किं विचार्यते।।
तत्र गत्वा जले देवि सुखं स्थास्याम नित्यशः ।।२७।।
एतस्मिन्नंतरे लोका देवैस्सार्द्धं समागताः ।।
युद्धाय विविधैर्दुःखैः पीडिता राक्षसैः पुरा । २८ ।।
पीडिताश्च तदा तस्या भवान्या बलमाश्रिताः ।।
समग्रं नगरं नीत्वा जलस्थलसमन्वितम् ।।२९।।
जयजयेति देव्यास्तु स्तुतिमुच्चार्य राक्षसी ।।
तत उड्डीयनं कृत्वा सपक्षो गिरिराड्यथा ।। 4.29.३० ।।
समुद्रस्य च मध्ये सा संस्थिता निर्भया तदा ।।
सकलैः परिवारैश्च मुमुदेति शिवानुगा ।। ३१ ।।
तत्र सिंधौ च ते स्थित्वा नगरे च विलासिनः ।।
राक्षसाश्च सुखं प्रापु्र्निर्भयाश्च विजह्रिरे।।३२।।
राक्षसाश्च पृथिव्यां वै नाजग्मुश्च कदाचन ।।
मुनेश्शापभयादेव बभ्रमुस्ते चले तदा ।। ३३ ।।
नौषु स्थिताञ्जनान्नीत्वा नगरे तत्र तांस्तदा ।।
चिक्षिपुर्बन्धनागारे कांश्चिज्जघ्नुस्तदा हि ते ।।३४।।
यथायथा पुनः पीडां चक्रुस्ते राक्षसास्तदा।।
तत्रस्थिता भवान्याश्च वरदानाच्च निर्भयाः।।३५।।
यथापूर्वं स्थले लोके भयं चासीन्निरन्तरम्।।
तथा भयं जले तेषामासीन्नित्यं मुनीश्वराः।।३६।।
कदाचिद्राक्षसी सा च निस्सृता नगराज्जले।।
रुद्ध्वा मार्गं स्थिता लोकपीडार्थं धरणौ च हि।।३७।।
एतस्मिन्नंतरे तत्र नावो बहुतराः शुभाः।।
आगता बहुधा तत्र सर्वतो लोकसंवृताः।।३८।।
ता नावश्च तदा दृष्ट्वा हर्षं संप्राप्य राक्षसाः।।
द्रुतं गत्वा हि तत्रस्थान्वेगात्संदध्रिरे खलाः।।३९।।
आजग्मुर्नगरं ते च तानादाय महाबलाः।।
चिक्षिपुर्बन्धनागारे बद्ध्वा हि निगडैर्दृढैः।।4.29.४०।।
बद्धास्ते निगडैर्लोका संस्थिता बंधनालये।।
अतीव दुःखमाजग्मुर्भर्त्सितास्ते मुहुर्मुहुः।।४१।।
तेषां मध्ये च योऽधीशस्स वैश्यस्सुप्रियाभिधः।।
शिवप्रियश्शुभाचारश्शैवश्चासीत्सदातनः ।। ४२ ।।
विना च शिवपूजां वै न तिष्ठति कदाचन ।।
सर्वथा शिवधर्मा हि भस्मरुद्राक्षभूषणः ।। ४३ ।।
यदि पूजा न जाता चेन्न भुनक्ति तदा तु सः ।।
अतस्तत्रापि वैश्योऽसौ चकार शिवपूजनम् ।। ४४ ।।
कारागृहगतस्सोपि बहूंश्चाशिक्षयत्तदा ।।
शिवमंत्रं च पूजां च पार्थिवीमृषिसत्तमाः ।। ४५ ।।
ते सर्वे च तदा तत्र शिवपूजां स्वकामदाम् ।।
चक्रिरे विधिवत्तत्र यथादृष्टं यथाश्रुतम् ।। ४६ ।।
केचित्तत्र स्थिता ध्याने बद्ध्वासनमनुत्तमम् ।।
मानसीं शिवपूजां च केचिच्चक्रुर्मुदान्विताः ।। ४७ ।।
तदधीशेन तत्रैव प्रत्यक्षं शिवपूजनम् ।।
कृतं च पार्थिवस्यैव विधानेन मुनीश्वराः ।। ४८ ।।
अन्ये च ये न जानन्ति विधानं स्मरणं परम् ।।
नमश्शिवाय मंत्रेण ध्यायंतश्शंकरं स्थिताः ।। ४९ ।।
सुप्रियो नाम यश्चासीद्वैश्यवर्यश्शिवप्रियः ।।
ध्यायंश्च मनसा तत्र चकार शिवपूजनम् ।। 4.29.५० ।।
यथोक्तरूपी शंभुश्च प्रत्यक्षं सर्वमाददे ।।
सोपि स्वयं न जानाति गृह्यते न शिवेन वै ।। ५१ ।।
एवं च क्रियमाणस्य वैश्यस्य शिवपूजनम् ।।
व्यतीयुस्तत्र षण्मासा निर्विघ्नेन मुनीश्वराः ।। ५२ ।।
अतः परं च यज्जातं चरितं शशिमौलिनः।।
तच्छृणुध्वमृषिश्रेष्ठाः सावधानेन चेतसा।।५३।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्र संहितायां नागेश्वरज्योतिर्लिंगमाहात्म्ये दारुकावनराक्षसोपद्रववर्णनंनामैकोनत्रिंशोऽध्यायः ।।२९।।