शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः २८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २७ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः २८
वेदव्यासः
अध्यायः २९ →

सूत उवाच ।।
रावणः राक्षसश्रेष्ठो मानी मानपरायणः ।।
आरराध हरं भक्त्या कैलासे पर्वतोत्तमे।।१।।
आराधितः कियत्कालं न प्रसन्नो हरो यदा।।
तदा चान्यत्तपश्चक्रे प्रासादार्थे शिवस्य सः।।२।।
नतश्चायं हिमवतस्सिद्धिस्थानस्य वै गिरेः।।
पौलस्त्यो रावणश्श्रीमान्दक्षिणे वृक्षखंडके।।३।
भूमौ गर्तं वर कृत्वा तत्राग्निं स्थाप्य स द्विजाः।।
तत्सन्निधौ शिवं स्थाप्य हवनं स चकार ह।।४।।
ग्रीष्मे पंचाग्निमध्यस्थो वर्षासु स्थंडिलेशयः ।।
शीते जलांतरस्थो हि त्रिधा चक्रे तपश्च सः।।५।।
चकारैवं बहुतपो न प्रसन्नस्तदापि हि ।।
परमात्मा महेशानो दुराराध्यो दुरात्मभिः ।। ६ ।।
ततश्शिरांसि छित्त्वा च पूजनं शंकरस्य वै ।।
प्रारब्धं दैत्यपतिना रावणेन महात्मना ।।७।।
एकैकं च शिरश्छिन्नं विधिना शिवपूजने ।।
एवं सत्क्रमतस्तेन च्छिन्नानि नव वै यदा ।। ६ ।।
एकस्मिन्नवशिष्टे तु प्रसन्नश्शंकरस्तदा ।।
आविर्बभूव तत्रैव संतुष्टो भक्तवत्सलः ।।९।।
शिरांसि पूर्ववत्कृत्वा नीरुजानि तथा प्रभुः ।।
मनोरथं ददौ तस्मादतुलं बलमुत्तमम् ।। 4.28.१० ।।
प्रसादं तस्य संप्राप्य रावणस्स च राक्षसः ।।
प्रत्युवाच शिवं शम्भुं नतस्कंधः कृतांजलिः ।।११।।
रावण उवाच ।।
प्रसन्नो भव देवेश लंकां च त्वां नयाम्यहम् ।।
सफलं कुरु मे कामं त्वामहं शरणं गतः ।।१२।।
सूत उवाच ।।
इत्युक्तश्च तदा तेन शंभुर्वै रावणेन सः ।।
प्रत्युवाच विचेतस्कः संकटं परमं गतः ।।१३।।
।। शिव उवाच ।।
श्रूयतां राक्षसश्रेष्ठ वचो मे सारवत्तया ।।
नीयतां स्वगृहे मे हि सद्भक्त्या लिंगमुत्तमम्।।१४।।
भूमौ लिंगं यदा त्वं च स्थापयिष्यसि तत्र वै ।।
स्थास्यत्यत्र न संदेहो यथेच्छसि तथा कुरु।।१५।।
सूत उवाच ।।
इत्युक्तश्शंभुना तेन रावणो राक्षसेश्वरः।
तथेति तत्समादाय जगाम भवनं निजम्।।१६।।
आसीन्मूत्रोत्सर्गकामो मार्गे हि शिवमायया।।
तत्स्तंभितुं न शक्तोभूत्पौलस्त्यो रावणः प्रभुः।।१७।।
दृष्ट्वैकं तत्र वै गोपं प्रार्थ्य लिंगं ददौ च तत्।।
मुहूर्तके ह्यतिक्रांते गोपोभूद्विकलस्तदा।।१८।।
भूमौ संस्थापयामास तद्भारेणातिपीडितः ।।
तत्रैव तत्स्थितं लिंगं वजसारसमुद्भवम् ।।
सर्वकामप्रदं चैव दर्शनात्पापहारकम् ।।१९।।
वैद्यनाथेश्वरं नाम्ना तल्लिंगमभवन्मुने ।।
प्रसिद्धं त्रिषु लोकेषु भुक्तिमुक्तिप्रदं सताम्।।4.28.२०।।
ज्योतिर्लिंगमिदं श्रेष्ठं दर्शनात्पूजनादपि ।।
सर्वपापहरं दिव्यं भुक्तिवर्द्धनमुत्तमम् ।। २१ ।।
तस्मिँलिंगे स्थिते तत्र सर्वलोकहिताय वै ।।
रावणः स्वगृहं गत्वा वरं प्राप्य महोत्तमम् ।।
प्रियायै सर्वमाचख्यौ सुखेनाति महासुरः ।। २२ ।।
तच्छ्रुत्वा सकला देवाश्शक्राद्या मुनयस्तथा ।।
परस्परं समामन्त्र्य शिवासक्तधियोऽमलाः ।। २३ ।।
तस्मिन्काले सुरास्सर्वे हरिब्रह्मादयो मुने ।।
आजग्मुस्तत्र सुप्रीत्या पूजां चक्रुर्विशेषतः ।। २४ ।।
प्रत्यक्षं तं तदा दृष्ट्वा प्रतिष्ठाप्य च ते सुराः ।।
वैद्यनाथेति संप्रोच्य नत्वा नुत्वा दिवं ययुः ।। २५ ।।
ऋषय ऊचुः ।।
तस्मिँल्लिंगे स्थिते तत्र रावणे च गृहं गते ।।
किं कि चरित्रमभूत्तात ततस्तद्वद विस्तरात् ।।२६।।
सूत उवाच ।।
रावणोपि गृहं गत्वा वरं प्राप्य महोत्तमम्।।
प्रियायै सर्वमाचख्यौ मुमोदाति महासुरः ।। २७ ।।
तच्छ्रुत्वा सकलं देवाश्शक्राद्या मुनयस्तथा ।।
परस्परं सुमूचुस्ते समुद्विग्ना मुनीश्वराः ।। २८ ।।
देवादय ऊचुः ।।
रावणोयं दुरात्मा हि देवद्रोही खलः कुधीः ।।
शिवाद्वरं च संप्राप्य दुःखं दास्यति नोऽपि सः ।। २९ ।।
किं कुर्मः क्व च गच्छामः किं भविष्यति वा पुनः ।।
दुष्टश्च दक्षतां प्राप्तः किंकिं नो साधयिष्यति ।।4.28.३०।।
इति दुःखं समापन्नाश्शक्राद्या मुनयस्सुराः।।
नारदं च समाहूय पप्रच्छुर्विकलास्तदा ।।३१।।
देवा ऊचुः ।।
सर्वं कार्य्यं समर्थोसि कर्तुं त्वं मुनिसत्तम ।।
उपायं कुरु देवर्षे देवानां दुःखनाशने ।। ३२ ।।
रावणोयं महादुष्टः किंकि नैव करिष्यति ।।
क्व यास्यामो वयं चात्र दुष्टेनापीडिता वयम् ।। ३३ ।।
नारद उवाच ।।
दुःखं त्यजत भो देवा युक्तिं कृत्वा च याम्यहम् ।।
देवकार्यं करिष्यामि कृपया शंकरस्य वै ।। ३४ ।।
सूत उवाच।।
इत्युक्त्वा स तु देवर्षिरगमद्रावणालयम् ।।
सत्कारं समनुप्राप्य प्रीत्योवाचाखिलं च तत् ।। ३५ ।।
नारद उवाच ।।
राक्षसोत्तम धन्यस्त्वं शैववर्य्यस्तपोमनाः ।।
त्वां दृष्ट्वा च मनो मेद्य प्रसन्नमति रावण ।।३६।।
स्ववृत्तं ब्रूह्यशेषेण शिवाराधनसंभवम्।।
इति पृष्टस्तदा तेन रावणो वाक्यमब्रवीत् ।।३७।।
रावण उवाच ।।
गत्वा मया तु कैलासे तपोर्थं च महामुने ।।
तत्रैव बहुकालं वै तपस्तप्तं सुदारुणम् ।। ३८ ।।
यदा न शंकरस्तुष्टस्ततश्च परिवर्तितम् ।।
आगत्य वृक्षखंडे वै पुनस्तप्तं मया मुने ।। ३९ ।।
ग्रीष्मे पंचाग्निमध्ये तु वर्षासु स्थंडिलेशयः ।।
शीते जलांतरस्थो हि कृतं चैव त्रिधा तपः ।। 4.28.४० ।।
एवं मया कृतं तत्र तपोत्युग्रं मुनीश्वर ।।
तथापि शंकरो मह्यं न प्रसन्नोऽभवन्मनाक् ।। ४१ ।।
तदा मया तु क्रुद्धेन भूमौ गर्तं विधाय च ।।
तत्राग्निं समाधाय पार्थिवं च प्रकल्प्य च ।। ४२ ।।
गंधैश्च चंदनैश्चैव धूपैश्च विविधैस्तदा ।।
नैवेद्यैः पूजितश्शम्भुरारार्तिकविधानतः ।। ४३ ।।
प्रणिपातैः स्तवैः पुण्यैस्तोषितश्शंकरो मया।।
गीतैर्नृत्यैश्च वाद्यैश्च मुखांगुलिसमर्पणैः ।। ४४ ।।
एतैश्च विविधैश्चान्यैरुपायैर्भूरिभिर्मुने ।।
शास्त्रोक्तेन विधानेन पूजितो भगवान् हरः ।।४५।।
न तुष्टः सन्मुखो जातो यदा च भगवान्हरः ।।
तदाहं दुःखितोभूवं तपसोऽप्राप्य सत्फलम् ।।४६।।
धिक् शरीरं बलं चैव धिक् तपः करणं मम ।।
इत्युक्त्वा तु मया तत्र स्थापितेग्नौ हुतं बहु ।।४७।।
पुनश्चेति विचार्यैव त्वक्षाम्यग्नौ निजां तनुम् ।।
संछिन्नानि शिरांस्येव तस्मिन् प्रज्वलिते शुचौ ।।४८।।
सुच्छित्वैकैकशस्तानि कृत्वा शुद्धानि सर्वशः ।।
शंकरायार्पितान्येव नवसंख्यानि वै मया ।। ४९ ।।
यावच्च दशमं छेत्तुं प्रारब्धमृषिसत्तम ।।
तावदाविरभूत्तत्र ज्योतीरूपो हरस्स्वयम् ।।4.28.५०।।
मामेति व्याहरत् प्रीत्या द्रुतं वै भक्तवत्सलः ।।
प्रसन्नश्च वरं ब्रूहि ददामि मनसेप्सितम् ।।५१।।
इत्युक्ते च तदा तेन मया दृष्टो महेश्वरः ।।
प्राणतस्संस्तुतश्चैव करौ बद्ध्वा सुभक्तितः ।। ५२।।
तदा वृतं मयैतच्च देहि मे ह्यतुलं बलम् ।।
यदि प्रसन्नो देवेश दुर्ल्लभं किं भवेन्मम ।। ५३ ।।
शिवेन परितुष्टेन सर्वं दत्तं कृपालुना ।।
मह्यं मनोभिलषितं गिरा प्रोच्य तथास्त्विति ।। ५४ ।।
अमोघया सुदृष्ट्या वै वैद्यवद्योजितानि मे ।।
शिरांसि संधयित्वा तु दृष्टानि परमात्मना ।। ५५ ।। ।
एवंकृते तदा तत्र शरीरं पूर्ववन्मम ।।
जातं तस्य प्रसादाच्च सर्वं प्राप्तं फलं मया।।५६।।
तदा च प्रार्थितो मे संस्थितोसौ वृषभध्वजः।।
वैद्यनाथेश्वरो नाम्ना प्रसिद्धोभूज्जगत्त्रये ।।५७।।
दर्शनात्पूजनाज्ज्योतिर्लिंगरूपो महेश्वरः ।।
भुक्तिमुक्तिप्रदो लोके सर्वेषां हितकारकः ।। ५८ ।।
ज्योतिर्लिंगमहं तद्वै पूजयित्वा विशेषतः ।।
प्रणिपत्यागतश्चात्र विजेतुं भुवनत्रयम्।। ५९ ।।
सूत उवाच ।।
तदीयं तद्वचः श्रुत्वा देवर्षिर्जातसंभ्रमः ।।
विहस्य च मनस्येव रावणं नारदोऽब्रवीत् ।। 4.28.६० ।।
नारद उवाच ।।
श्रूयतां राक्षसश्रेष्ठ कथयामि हितं तव ।।
त्वया तदेव कर्त्तव्यं मदुक्तं नान्यथा क्वचित् ।।६१।।
त्वयोक्तं यच्छिवेनैव हितं दत्तं ममाधुना ।।
तत्सर्वं च त्वया सत्यं न मन्तव्यं कदाचन ।। ६२ ।।
अयं वै विकृतिं प्राप्तः किं किं नैव ब्रवीति च ।।
सत्यं नैव भवेत्तद्वै कथं ज्ञेयं प्रियोस्ति मे ।। ६३ ।।
इति गत्वा पुनः कार्य्यं कुरु त्वं ह्यहिताय वै।।
कैलासोद्धरणे यत्नः कर्तव्यश्च त्वया पुनः ।। ६४ ।।
यदि चैवोद्धृतश्चायं कैलासो हि भविष्यति ।।
तदैव सफलं सर्वं भविष्यति न संशयः ।।६५।।
पूर्ववत्स्थापयित्वा त्वं पुनरागच्छ वै सुखम् ।।
निश्चयं परमं गत्वा यथेच्छसि तथा कुरु ।।६६।।
सूत उवाच ।।
इत्युक्तस्स हितं मेने रावणो विधिमोहित।।
सत्यं मत्वा मुनेर्वाक्यं कैलासमगमत्तदा ।।६७।।
गत्वा तत्र समुद्धारं चक्रे तस्य गिरेस्स च ।।
तत्रस्थं चैव तत्सर्वं विपर्यस्तं परस्परम्।।६८।।
गिरीशोपि तदा दृष्ट्वा किं जातमिति सोब्रवीत्।।
गिरिजा च तदा शंभुं प्रत्युवाच विहस्य तम् ।।६९।।
गिरिजोवाच।।
सच्छिश्यस्य फलं जातं सम्यग्जातं तु शिष्यतः।।
शान्तात्मने सुवीराय दत्तं यदतुलं बलम् ।।4.28.७०।।
सूत उवाच ।।
गिरिजायाश्च साकूतं वचः श्रुत्वा महेश्वरः ।।
कृतघ्नं रावणं मत्वा शशाप बलदर्पितम् ।। ७१ ।।
महादेव उवाच ।।
रे रे रावण दुर्भक्त मा गर्वं वह दुर्मते ।।
शीघ्रं च तव हस्तानां दर्पघ्नश्च भवेदिह ।। ७२ ।।
सूत उवाव ।।
इति तत्र च यज्जातं नारदः श्रुतवांस्तदा ।।
रावणोपि प्रसन्नात्माऽगात्स्वधाम यथागतम् ।।७३।।
निश्चयं परमं कृत्वा बली बलविमोहितः ।।
जगद्वशं हि कृतवान्रावणः परदर्पहा ।।७४।।
शिवाज्ञया च प्राप्तेन दिव्यास्त्रेण महौजसा।।
रावणस्य प्रति भटो नालं कश्चिदभूत्तदा ।।७५।।
इत्येतच्च समाख्यातं वैद्यनाथेश्वरस्य च ।।
माहात्म्यं शृण्वतां पापं नृणां भवति भस्मसात् ।।७६।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां वैद्यनाथेश्वरज्योतिर्लिंगमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः ।। २८ ।।