शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ३०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २९ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ३०
वेदव्यासः
अध्यायः ३१ →

सूत उवाच ।।
कदाचित्सेवकस्तस्य राक्षसस्य दुरात्मनः ।।
तदग्रे सुंदरं रूपं शंकरस्य ददर्श ह ।।१।।
तस्मै निवेदितं राज्ञे राक्षसानां यथार्थकम् ।।
सर्वं तच्चरितं तेन सकौतुकमथाद्भुतम् ।। २ ।।
राजापि तत्र चागत्य राक्षसानां स दारुकः ।।
विह्वलस्सबलश्शीघ्रं पर्यपृच्छच्च तं शिवम् ।। ३ ।।
दारुक उवाच ।।
किं ध्यायसि हि वैश्य त्वं सत्यं वद ममाग्रतः ।।
एवं सति न मृत्युस्ते मम वाक्यं च नान्यथा ।। ४ ।।
सूत उवाच ।।
तेनोक्तं च न जानामि तच्छ्रुत्वा कुपितस्य वै ।।
राक्षसान्प्रेरयामास हन्यतां राक्षसा अयम् ।।५।।
तदुक्तास्ते तदा हंतुं नानायुधधरा गताः ।।
द्रुतं तं वैश्यशार्दूलं शंकरासक्तचेतसम् ।।६।।
तानागतांस्तदा दृष्ट्वा भयवित्रस्तलोचनः ।।
शिवं सस्मार सुप्रीत्या तन्नामानि जगौ मुहुः ।। ७ ।।
वैश्यपतिरुवाच ।।
पाहि शंकर देवेश पाहि शंभो शिवेति च ।।
दुष्टादस्मात्त्रिलोकेश खलहन्भक्तवत्सल ।।८।।
सर्वस्वं च भवानद्य मम देव त्वमेव हि ।।
त्वदधीनस्त्वदीयोऽहं त्वत्प्राणस्सर्वदा प्रभो ।। ९ ।।
सूत उवाच ।।
इति संप्रार्थितश्शंभुर्विवरान्निर्गतस्तदा ।।
भवनेनोत्तमेनाथ चतुर्द्वारयुतेन च ।। 4.30.१० ।।
मध्यज्योतिस्स्वरूपं च शिवरूपं तदद्भुतम् ।।
परिवारसमायुक्तं दृष्ट्वा चापूजयत्स वै ।। ११ ।।
पूजितश्च तदा शंभुः प्रसन्नो ह्यभवत्स्वयम् ।।
अस्त्रं पाशुपतं नाम दत्त्वा राक्षसपुंगवान् ।। १२ ।।
जघान सोपकरणांस्तान्सर्वान्सगणान्द्रुतम् ।।
अरक्षच्च स्वभक्तं वै दुष्टहा स हि शंकरः ।।१३।।
सर्वांस्तांश्च तदा हत्वा वरं प्रादाद्वनस्य च ।।
अत्यद्भुतकरश्शंभुस्स्वलीलात्तसुविग्रहः ।।१४।।
अस्मिन्वने सदा वर्णधर्मा वै संभवंतु च ।।
ब्राह्मणक्षत्रियविशां शूद्राणां हि तथैव च ।। १५ ।।
भवत्वत्र मुनिश्रेष्ठास्तामसा न कदाचन ।।
शिवधर्मप्रवक्तारश्शिवधर्मप्रवर्तकाः ।।१६।।
सूत उवाच ।।
एतस्मिन्समये सा वै राक्षसी दारुकाह्वया ।।
देव्याः स्तुतिं चकारासौ पार्वत्या दीनमानसा ।। १७ ।।
प्रसन्ना च तदा देवी किं करोमीत्युवाच हि ।।
साप्युवाच पुनस्तत्र वंशो मे रक्ष्यतां त्वया ।। १८ ।।
रक्षयिष्यामि ते वंशं सत्यं च कथ्यते मया ।।
इत्युक्त्वा च शिवेनैव विग्रहं सा चकार ह ।। १९ ।।
शिवोपि कुपितां देवीं दृष्ट्वा वरवशः प्रभुः ।।
प्रत्युवाचेति सुप्रीत्या यथेच्छसि तथा कुरु ।। 4.30.२० ।।
सूत् उवाच ।।
इति श्रुत्वा वचस्तस्य स्वपतेश्शंकरस्य वै ।।
सुप्रसन्ना विहस्याशु पार्वती वाक्यमब्रवीत् ।। २१ ।।
पार्वत्युवाच ।।
भवदीयं वचस्तथ्यं युगांते संभविष्यति ।।
तावच्च तामसी सृष्टिर्भवत्विति मतं मम ।।२२।।
अन्यथा प्रलयस्स्याद्वै सत्यं मे व्याहृतं शिव ।।
प्रमाणीक्रियतां नाथ त्वदीयास्मि त्वदाश्रया ।।२३।।
इयं च दारुका देवी राक्षसी शक्तिका मम ।।
बलिष्ठा राक्षसीनां च रक्षोराज्यं प्रशास्तु च ।।२४।।
इमा राक्षसपत्न्यस्तु प्रसविष्यंति पुत्रकान् ।।
ते सर्वे मिलिताश्चैव वने वासाय मे मताः ।। २५ ।।
सूत उवाच ।।
इत्येवं वचनं श्रुत्वा पार्वत्यास्स्वस्त्रियाः प्रभुः ।।
प्रसन्नमानसो भूत्वा शंकरो वाक्यमब्रवीत् ।। २६ ।।
शङ्कर उवाच ।।
इति ब्रवीषि त्वं वै चेच्छृणु मद्वचनं प्रिये ।।
स्थास्याम्यस्मिन्वने प्रीत्या भक्तानां पालनाय च ।। २७ ।।
अत्र मे वर्णधर्मस्थो दर्शनं प्रीतिसंयुतम् ।।
करिष्यति च यो वै स चक्रवर्ती भविष्यति ।। २८ ।।
अन्यथा कलिपर्याये सत्यस्यादौ नृपेश्वर ।।
महासेनसुतो यो वै वीरसेनेति विश्रुतः ।। २९ ।।
स मे भक्त्यातिविक्रांतो दर्शनं मे करिष्यति ।।
दर्शनं मे स कृत्वैव चक्रवर्ती भविष्यति ।।4.30.३०।।
सूत उवाच ।। ।।
इत्येवं दंपती तौ च कृत्वा हास्यं परस्परम् ।
स्थितौ तत्र स्वयं साक्षान्महत्त्वकारकौ द्विजाः ।। ३१ ।।
ज्योतिर्लिंगस्वरूपो हि नाम्ना नागेश्वरश्शिवः ।।
नागेश्वरी शिवा देवी बभूव च सतां प्रियौ ।। ३५२ ।।
ऋषय ऊचुः ।।
वीरसेनः कथं तत्र यास्यते दारुकावने ।।
कथमर्चिष्यति शिवं त्वं तद्वद महामते ।। ३३ ।।
सूत उवाच ।।
निषधे सुंदरे देशे क्षत्रियाणां कुले च सः ।।
महासेनसुतो वीरसेनश्चैव शिवप्रियः ।। ३४ ।।
पार्थिवेशार्चनं कृत्वा तपः परमदुष्करम् ।।
चकार वीरसेनो वै वर्षाणां द्वादशावधिः ।।३५।।
ततः प्रसन्नो देवेशः प्रत्यक्षं प्राह शंकरः ।।
काष्ठस्य मत्स्यिकां कृत्वा त्रपुधातु विलेपनाम् ।। ३६ ।।
विधाय योगमायां च दास्यामि वीरसेनक ।।
तां गृहीत्वा प्रविश्यैतं नृभिस्सह व्रजाधुना ।। ३७ ।।
ततस्त्वं तत्र गत्वा च विवरे च कृते मया ।।
प्रविश्य च तदा पूजां कृत्वा नागेश्वरस्य च ।।३८।।
ततः पाशुपतं प्राप्य हत्वा च राक्षसीमुखान् ।।
मयि दृष्टे तदा किंचिन्न्यूनं ते न भविष्यति ।।३९।।
पार्वत्याश्च बलं चैव संपूर्णं वै भविष्यति।।
अन्ये च म्लेच्छरूपा ये भविष्यंति वने शुभाः ।। 4.30.४० ।।
सूत उवाच ।।
इत्युक्त्वा शंकरस्तत्र वीरसेनं हि दुःखह ।।
कृत्वा कृपां च महतीं तत्रैवांतर्द्दधे प्रभुः ।।४१।।
इति दत्तवरस्सोऽपि शिवेन परमात्मना ।।
शक्तस्स वै तदा कर्तुं संबभूव न संशयः ।।४२।।
एवं नागेश्वरो देव उत्पन्नो ज्योतिषां पतिः ।।
लिंगरूपस्त्रिलोकस्य सर्वकामप्रदस्सदा ।।४३।।
एतद्यश्शृणुयान्नित्यं नागेशोद्भवमादरात् ।।
सर्वान्कामानियाद्धीमान्महापातकनाशनान् ।।४४।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नागेश्वरज्योतिर्लिंगोद्भवमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ।। ३० ।।