शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः २५

विकिस्रोतः तः
← अध्यायः २४ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः २५
वेदव्यासः
अध्यायः २६ →

।। सूत उवाच ।।
कदाचिद्गौतमेनैव जलार्थं प्रेषिता निजाः ।।
शिष्यास्तत्र गता भक्त्या कमंडलुकरा द्विजाः ।।१।।
शिष्याञ्जलसमीपे तु गतान्दृष्ट्वा न्यषेधयन् ।।
जलार्थमगतांस्तत्र चर्षिपत्न्योप्यनेकशः ।। २ ।।
ऋषिपत्न्यो वयं पूर्वं ग्रहीष्यामो विदूरतः ।।
पश्चाच्चैव जलं ग्राह्यमित्येवं पर्यभर्त्सयन्।।३।।
परावृत्य तदा तैश्च ऋषिपत्न्यै निवेदितम् ।।
सा चापि तान्समादाय समाश्वास्य च तैः स्वयम्।। ४ ।।
जलं नीत्वा ददौ तस्मै गौतमाय तपस्विनी ।।
नित्यं निर्वाहयामास जलेन ऋषिसत्तमः ।।५।।
ताश्चैवमृषिपत्न्यस्तु क्रुद्धास्तां पर्यभर्त्सयन् ।।
परावृत्य गतास्सर्वास्तूटजान्कुटिलाशयाः ।। ६ ।।
स्वाम्यग्रे विपरीतं च तद्वृत्तं निखिलं ततः।।
दुष्टाशयाभिः स्त्रीभिश्च ताभिर्वै विनिवेदितम् ।।७।।
अथ तासां वचः श्रुत्वा भाविकर्मवशात्तदा ।।
गौतमाय च संकुद्धाश्चासंस्ते परमर्षयः ।।८।।
विघ्नार्थं गौतमस्यैव नानापूजोपहारकैः।।
गणेशं पूजयामासुस्संकुद्धास्ते कुबुद्धयः ।। ९ ।।
आविर्बभूव च तदा प्रसन्नो हि गणेश्वरः ।।
उवाच वचनं तत्र भक्ताधीनः फलप्रदः ।। 4.25.१० ।।
गणेश उवाच ।।
प्रसन्नोऽस्मि वरं ब्रूत यूयं किं करवाण्यहम् ।।
तदीयं तद्वचः श्रुत्वा ऋषयस्तेऽबुवंस्तदा ।। ११ ।।
ऋषय ऊचुः ।।
त्वया यदि वरो देयो गौतमस्स्वाश्रमाद्बहिः ।।
निष्कास्यं नो ऋषिभिः परिभर्त्स्य तथा कुरु ।। १२ ।।
सूत उवाच ।।
स एवं प्रार्थितस्तैस्तु विहस्य वचनं पुनः ।।
प्रोवाचेभमुखः प्रीत्या बोधयंस्तान्सतां गतिः ।। १३ ।।
गणेश उवाच ।।
श्रूयतामृषयस्सर्वे युक्तं न क्रियतेऽधुना ।।
अपराधं विना तस्मै क्रुध्यतां हानिरेव च ।। १४ ।।
उपस्कृतं पुरा यैस्तु तेभ्यो दुःखं हितं न हि ।।
यदा च दीयते दुःखं तदा नाशो भवेदिह ।। १५ ।।
ईदृशं च तपः कृत्वा साध्यते फलमुत्तमम् ।।
शुभं फलं स्वयं हित्वा साध्यते नाहितं पुनः ।। १६ ।।
सूत उवाच ।।
इत्येवं वचनं श्रुत्वा तस्य ते मुनिसत्तमाः ।।
बुद्धिमोहं तदा प्राप्ता इदमेव वचोऽब्रुवन् ।। १७ ।।
ऋषय ऊचुः ।।
कर्तव्यं हि त्वया स्वामिन्निदमेव न चान्यथा ।।
इत्युक्तस्तु तदा देवो गणेशो वाक्यमब्रवीत् ।। १८ ।।
गणेश उवाच ।।
असाधुस्साधुतां चैव साधुश्चासाधुतां तथा ।।
कदाचिदपि नाप्नोति ब्रह्मोक्तमिति निश्चितम् ।। १९ ।।
यदा च भवतां दुःखं जातं चानशनात्पुरा ।।
तदा सुखं प्रदत्तं वै गौतमेन महर्षिणा ।। 4.25.२० ।।
इदानीं वै भवद्भिश्च तस्मै दुःखं प्रदीयते ।।
नेतद्युक्ततमं लोके सर्वथा सुविचार्यताम् ।।२१।।
स्त्रीबलान्मोहिता यूयं न मे वाक्यं करिष्यथ ।।
एतद्धिततमं तस्य भविष्यति न संशयः ।।२२।।
पुनश्चायमृषिश्रेष्ठो दास्यते वस्सुखं ध्रुवम् ।।
तारणं न च युक्तं स्याद्वरमन्यं वृणीत वै ।। २३ ।।
सूत उवाच ।।
इत्येवं वचनं तेन गणेशेन महात्मना ।।
यद्यप्युक्तमृषिभ्यश्च तदप्येते न मेनिरे ।। २४ ।।
भक्ताधीनतया सोथ शिवपुत्रोब्रवीत्तदा ।।
उदासीनेन मनसा तानृषीन्दुष्टशेमुषीन् ।। २५ ।।
गणेश उवाच ।।
भवद्भिः प्रार्थ्यते यच्च करिष्येऽहं तथा खलु ।।
पश्चाद्भावि भवेदेव इत्युक्त्वांतर्दधे पुनः ।। २६ ।।
गौतमस्स न जानाति मुनीनां वै दुराशयम् ।।
आनन्दमनसा नित्यं पत्न्या कर्म चकार तत् ।। २७ ।।
तदन्तरे च यज्जातं चरितं वरयोगतः ।।
तद्दुष्टर्षिप्रभावात्तु श्रूयतां तन्मुनीश्वराः ।। २८ ।।
गौतमस्य च केदारे तत्रासन्व्रीहयो यवाः ।।
गणेशस्तत्र गौर्भूत्वा जगाम किल दुर्बला ।।२९।।
कंपमाना च सा गत्वा तत्र तद्वरयोगतः ।।
व्रीहीन्संभक्षयामास यवांश्च मुनिसत्तमाः ।।4.25.३०।।
एतस्मिन्नन्तरे दैवाद्गौतमस्तत्र चागतः ।।
स दयालुस्तृणस्तंम्बैर्वारयामास तां तदा ।।३१।।
तृणस्तंबेन सा स्पृष्टा पपात पृथिवीतले ।।
मृता च तत्क्षणादेव तदृषेः पश्यतस्तदा ।।३२ ।।
ऋषयश्छन्नरूपास्ते ऋषिपत्न्यस्तथाशुभाः ।।
ऊचुस्तत्र तदा सर्वे किं कृतं गौतमेन च ।। ३३ ।।
गौतमोऽपि तथाहल्यामाहूयासीत्सुविस्मितः ।।
उवाच दुःखतो विप्रा दूयमानेन चेतसा ।।३४।।
गौतम उवाच ।।
किं जातं च कथं देवि कुपितः परमेश्वरः ।।
किं कर्तव्यं क्व गन्तव्यं हत्या च समुपस्थिता ।। ३५।।
सूत उवाच ।।एतस्मिन्नन्तरे विप्रो गौतमं पर्यभर्त्सयन् ।।
विप्रपत्न्यस्तथाऽहल्यां दुर्वचोभिर्व्यथां ददुः ।। ३६ ।।
दुर्बुद्धयश्च तच्छिष्यास्सुतास्तेषां तथैव च ।।
गौतम परिभर्त्स्यैव प्रत्यूचुर्धिग्वचो मुहुः ।।३७।।
ऋषय ऊचुः ।।
मुखं न दर्शनीयं ते गम्यतां गम्यतामिति ।।
दृष्ट्वा गोघ्नमुखं सद्यस्सचैलं स्नानमाचरेत् ।। ३८ ।।
यावदाश्रममध्ये त्वं तावदेव हविर्भुजः ।।
पितरश्च न गृह्णंति ह्यस्मद्दत्तं हि किञ्चन ।।३९।।
तस्माद्गच्छान्यतस्त्वं च परिवारसमन्वितः ।।
विलम्बं कुरु नैव त्वं धेनुहन्पापकारक ।।4.25.४०।।
सूत उवाच ।।
इत्युक्त्वा ते च तं सर्वे पाषाणैस्समताडयन् ।।
व्यथां ददुरतीवास्मै त्वहल्यां च दुरुक्तिभिः ।।४१।।
ताडितो भर्त्सितो दुष्टैर्गौतमो गिरमब्रवीत् ।।
इतो गच्छामि मुनयो ह्यन्यत्र निवसाम्यहम् ।।४२।।
इत्युक्त्वा गौतमस्तस्मात्स्थानाच्च निर्गतस्तदा।।
गत्वा क्रोशं तदा चक्रे ह्याश्रमं तदनुज्ञया।।४३।।
यावच्चैवाभिशापो वै तावत्कार्य्यं न किंचन।।
न कर्मण्यधिकारोऽस्ति दैवे पित्र्येऽथ वैदिके ।।।४४।।
मासार्धं च ततो नीत्वा मुनीन्संप्रार्थयत्तदा ।।
गौतमो मुनिवर्य्यस्स तेन दुःखेन दुखितः ।।४५।।
गौतम उवाच ।।
अनुकंप्यो भवद्भिश्च कथ्यतां क्रियते मया।।
यथा मदीयं पापं च गच्छत्विति निवेद्यताम् ।।४६।।
सूत उवाच ।।
इत्युक्तास्ते तदा विप्रा नोचुश्चैव परस्परम् ।।
अत्यंतं सेवया पृष्टा मिलिता ह्येकतस्स्थिताः ।।४७।।
गौतमो दूरतः स्थित्वा नत्वा तानृषिसत्तमान्।।
पप्रच्छ विनयाविष्टः किं कार्यं हि मयाधुना ।।४८।।
इत्युक्ते मुनिना तेन गौतमेन महात्मना ।।
मिलितास्सकलास्ते वै मुनयो वाक्यमब्रुवन् ।। ४९ ।।
ऋषय ऊचुः ।।
निष्कृतिं हि विना शुद्धिर्जायते न कदाचन ।।
तस्मात्त्वं देहशुद्ध्यर्थं प्रायश्चित्तं समाचर ।। 4.25.५० ।।
त्रिवारं पृथिवीं सर्वां क्रम पापं प्रकाशयन् ।।
पुनरागत्य चात्रैव चर मासव्रतं तथा ।। ५१ ।।
शतमेकोत्तरं चैव ब्रह्मणोऽस्य गिरेस्तथा ।।
प्रक्रमणं विधायैवं शुद्धिस्ते च भविष्यति ।। ५२ ।।
अथवा त्वं समानीय गंगास्नानं समाचर ।।
पार्थिवानां तथा कोटिं कृत्वा देवं निषेवय ।। ५३ ।।
गंगायां च ततः स्नात्वा पुनश्चैव भविष्यति ।।
पुरा दश तथा चैकं गिरेस्त्वं क्रमणं कुरु ।। ५४ ।।
शत कुंभैस्तथा स्नात्वा पार्थिवं निष्कृतिर्भवेत् ।।
इति तैर्षिभिः प्रोक्तस्तथेत्योमिति तद्वचः ।। ५५ ।।
पार्थिवानां तथा पूजां गिरेः प्रक्रमणं तथा ।।
करिष्यामि मुनिश्रेष्ठा आज्ञया श्रीमतामिह ।। ५६ ।।
इत्युक्त्वा सर्षिवर्यश्च कृत्वा प्रक्रमणं गिरेः ।।
पूजयामास निर्माय पार्थिवान्मुनिसत्तमः ।। ५७ ।।
अहल्या च ततस्साध्वी तच्च सर्वं चकार सा ।।
शिष्याश्च प्रतिशिष्याश्च चक्रुस्सेवां तयोस्तदा ।। ५८ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं नाम पंचविंशोऽध्यायः ।। २५ ।