शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः २६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २५ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः २६
वेदव्यासः
अध्यायः २७ →

सूत उवाच ।।
एवं कृते तु ऋषिणा सस्त्रीकेन द्विजाश्शिवः ।।
आविर्बभूव स शिवः प्रसन्नस्सगणस्तदा ।।१।।
अथ प्रसन्नस्स शिवो वरं ब्रूहि महामुने ।।
प्रसन्नोऽहं सुभक्त्या त इत्युवाच कृपानिधिः ।।२।।
तदा तत्सुंदरं रूपं दृष्ट्वा शंभोर्महात्मनः ।।
प्रणम्य शंकरं भक्त्या स्तुतिं चक्रे मुदान्वितः ।। ३ ।।
स्तुत्वा बहु प्रणम्येशं बद्धाञ्जलिपुटः स्थितः ।।
निष्पापं कुरु मां देवाब्रवीदिति स गौतमः ।।४।।
सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य गौतमस्य महात्मनः ।।
सुप्रसन्नतरो भूत्वा शिवो वाक्यमुपाददे ।।५।।
शिव उवाच ।।
धन्योऽसि कृतकृत्योऽसि निष्पापोऽसि सदा मुने ।।
एतैर्दुष्टैः किल त्वं च च्छलितोऽसि खिलात्मभिः ।। ६ ।।
त्वदीयदर्शनाल्लोका निष्पापाश्च भवंति हि ।।
किं पुनस्त्वं सपापोऽसि मद्भक्तिनिरतस्सदा ।। ७ ।।
उपद्रवस्त्वयि मुने यैः कृतस्तु दुरात्मभिः ।।
ते पापाश्च दुराचारा हत्यावंतस्त एव हि ।।८।।
एतेषां दर्शनादन्ये पापिष्ठाः संभवंतु च ।।
कृतघ्नाश्च तथा जाता नैतेषां निष्कृतिः क्वचित् ।। ९ ।।
सूत उवाच ।।
इत्युक्त्वा शंकरस्तस्मै तेषां दुश्चरितं तदा ।।
बहूवाच प्रभुर्विप्राः सत्कदोऽसत्सु दंडदः ।। 4.26.१० ।।
शर्वोक्तमिति स श्रुत्वा सुविस्मितमना ऋषिः ।।
सुप्रणम्य शिवं भक्त्या सांजलिः पुनरब्रवीत् ।।११।।
गौतम उवाच ।।
ऋषिभिस्तैर्महेशान ह्युपकारः कृतो महान् ।।
यद्येवं न कृतं तैस्तु दर्शनं ते कुतो भवेत् ।। १२ ।।
धन्यास्ते ऋषयो यैस्तु मह्यं शुभतरं कृतम् ।।
तद्दुराचरणादेव मम स्वार्थो महानभूत् ।। १३ ।।
सूत उवाच ।।
इत्येवं तद्वचश्श्रुत्वा सुप्रसन्नो महेश्वरः।।
गौतमं प्रत्युवाचाशु कृपादृष्ट्या विलोक्य च ।। १४ ।।
शिव उवाच ।।
ऋषि धन्योसि विप्रेंद्र ऋषे श्रेष्ठतरोऽसि वै ।।
ज्ञात्वा मां सुप्रसन्नं हि वृणु त्वं वरमुत्तमम् ।।१५ ।।
सूत उवाच ।।
गौतमोऽपि विचार्यैव लोके विश्रुतमित्युत।।
अन्यथा न भवेदेव तस्मादुक्तं समाचरेत्।।१६।।
निश्चित्यैवं मुनिश्रेष्ठो गौतमश्शिवभक्तिमान् ।।
सांजलिर्नतशीर्षो हि शंकरं वाक्यमब्रवीत् ।। १७ ।।
गौतम उवाच ।।
सत्यं नाथ ब्रवीषि त्वं तथापि पंचभिः कृतम् ।।
नान्यथा भवतीत्यत्र यज्जातं जायतां तु तत्।।१८।।
यदि प्रसन्नो देवेश गंगा च दीयतां मम।।
कुरु लोकोपकारं हि नमस्तेऽस्तु नमोऽस्तु ते ।। १९ ।।
सूत उवाच ।।
इत्युक्त्वा वचनं तस्य धृत्वा वै पादपंकजम् ।।
नमश्चकार देवेशं गौतमो लोककाम्यया ।। 4.26.२० ।।
ततस्तु शंकरो देवः पृथिव्याश्च दिवश्च सः ।।
सारं चैव समुद्धृत्य रक्षितं पूर्वमेव तत् । २१ ।।
विवाहे ब्रह्मणा दत्तमवशिष्टं च किंचन ।।
तत्तस्मै दत्तवाञ्च्छंभुर्मुनये भक्तवत्सलः ।। २२ ।।
गंगाजलं तदा तत्र स्त्रीरूपमभवत्परम् ।।
तस्याश्चैव ऋषिश्रेष्ठः स्तुतिं कृत्वा नतिं व्यधात् ।। ।। २३ ।।
गौतम उवाच ।।
धन्यासि कृतकृत्यासि पावितं भुवनं त्वया ।।
मां च पावय गंगे त्वं पततं निरये ध्रुवम् ।। २४ ।।
सूत उवाच ।।
शंभुश्चापि तदोवाच सर्वेषां हितकृच्छृणु ।।
गंगे गौतममेनं त्वं पावयस्व मदाज्ञया ।। २५ ।।
।। सूत उवाच ।।
इति श्रुत्वा वचस्तस्य शंभोश्च गौतमस्य च ।।
उवाचैव शिवं गंगा शिवभक्तिर्हि पावनी ।।२६।।
गंगोवाच ।।
ऋषिं तु पावयित्वाहं परिवारयुतं प्रभो ।।
गमिष्यामि निजस्थानं वचस्सत्यं ब्रवीमि ह ।। २७ ।।
सूत उवाच ।। ।।
इत्युक्तो गंगया तत्र महेशो भक्तवत्सलः ।।
लोकोपकरणार्थाय पुनर्गगां वचोऽब्रवीत् ।। २८ ।।
शिव उवाच ।।
त्वया स्थातव्यमत्रैव व्रजेद्यावत्कलिर्युगः ।।
वैवस्वतो मनुर्देवि ह्यष्टाविंशत्तमो भवेत् ।।२९।।
सूत उवाच।।
इति श्रुत्वा वचस्तस्य स्वामिनश्शंकरस्य तत् ।।
प्रत्युवाच पुनर्गंगा पावनी सा सरिद्वरा ।। 4.26.३० ।।
गंगोवाच ।।
माहात्म्यमधिकं चेत्स्यान्मम स्वामिन्महेश्वर ।।
सर्वेभ्यश्च तदा स्थास्ये धरायां त्रिपुरान्तकः ।।३१।।
किं चान्यच्च शृणु स्वामिन्वपुषा सुन्दरेण ह ।।
तिष्ठ त्वं मत्समीपे वै सगणसांबिकः प्रभो ।।३२।।
सूत उवाच ।।
एवं तस्या वचः श्रुत्वा शंकरो भक्तवत्सलः ।।
लोकोपकरणार्थाय पुनर्गंगां वचोब्रवीत् ।।३३।।
शिव उवाच ।।
धन्यासि श्रूयतां गंगे ह्यहं भिन्नस्त्वया न हि ।।
तथापि स्थीयते ह्यत्र स्थीयतां च त्वयापि हि ।।३४।।
सूत उवाच ।।
इत्येवं वचनं श्रुत्वा स्वामिनः परमेशितुः ।।
प्रसन्नमानसा भूत्वा गंगा च प्रत्यपूजयत् ।।३५।।
एतस्मिन्नंतरे देवा ऋषयश्च पुरातनाः ।।
सुतार्थान्यप्यनेकानि क्षेत्राणि विविधानि च ।। ३६ ।।
आगत्य गौतमं सर्वे गंगां च गिरिशं तथा ।।
जयजयेति भाषंतः पूजयामासुरादरात् ।।३७।।
ततस्ते निर्जरा सर्वे तेषां चक्रुः स्तुतिं मुदा ।।
करान् बद्ध्वा नतस्कंधा हरिब्रह्मादयस्तदा ।।३८।।।
गंगा प्रसन्ना तेभ्यश्च गिरिशश्चोचतुस्तदा।।
वरं ब्रूत सुरश्रेष्ठा दद्वो वः प्रियकाम्यया ।।३९।।
देवा ऊचुः ।।
यदि प्रसन्नो देवेश प्रसन्ना त्वं सरिद्वरे ।।
स्थातव्यमत्र कृपया नः प्रियार्थं तथा नृणाम् ।। 4.26.४० ।।
।। गंगोवाच ।।
यूयं सर्वप्रियार्थं च तिष्ठथात्र न किं पुनः ।।
गौतमं क्षालयित्वाहं गमिष्यामि यथागतम्।।४१।।
भवत्सु मे विशेषोत्र ज्ञेयश्चैव कथं सुराः ।।
तत्प्रमाणं कृतं चेत्स्यात्तदा तिष्ठाम्यसंशयम् ।।४२।।
।। सर्वे ऊचुः ।।
सिंहराशौ यदा स्याद्वै गुरुस्सर्वसुहृत्तमः ।।
तदा वयं च सर्वे त्वागमिष्यामो न संशयः ।। ४३ ।।
एकादश च वर्षाणि लोकानां पातकं त्विह ।।
क्षालितं यद्भवेदेवं मलिनास्स्मः सरिद्वरे ।।४४।।
तस्यैव क्षालनाय त्वायास्यामस्सर्वथा प्रिये ।।
त्वत्सकाशं महादेवि प्रोच्यते सत्यमादरात् ।।४५।।
अनुग्रहाय लोकानामस्माकं प्रियकाम्यया।।
स्थातव्यं शंकरेणापि त्वया चैव सरिद्वरे ।। ४६ ।।
यावत्सिंहे गुरुश्चैव स्थास्यामस्तावदेव हि ।।
त्वयि स्नानं त्रिकालं च शंकरस्य च दर्शनम् ।। ४७ ।।
कृत्वा स्वपापं निखिलं विमोक्ष्यामो न संशयः ।।
स्वदेशांश्च गमिष्यामो भवच्छासनतो वयम् ।।४८।।
सूत उवाच ।।
इत्येवं प्रार्थितस्तैस्तु गौतमेन महर्षिणा ।।
स्थितोऽसौ शंकरः प्रीत्या स्थिता सा च सरिद्वरा ।।४९।।
सा गंगा गौतमी नाम्ना लिंगं त्र्यंबकमीरितम् ।।
ख्याता ख्यातं बभूवाथ महापातकनाशनम् ।।4.26.५०।।
तद्दिनं हि समारभ्य सिंहस्थे च बृहस्पतौ ।।
आयांति सर्वतीर्थानि क्षेत्राणि देवतानि च ।। ५१ ।।
सरांसि पुष्करादीनि गंगाद्यास्सरितस्तथा ।।
वासुदेवादयो देवाः संति वै गोतमीतटे ।। ५२ ।।
यावत्तत्र स्थितानीह तावत्तेषां फलं न हि ।।
स्वप्रदेशे समायातास्तर्ह्येतेषां फलं भवेत् ।।५३।।
ज्योतिर्लिंगमिदं प्रोक्तं त्र्यंबकं नाम विश्रुतम्।।
स्थितं तटे हि गौतम्या महापातकनाशनम् ।। ५४ ।।
यः पश्येद्भक्तितो ज्योतिर्लिंगं त्र्यंबकनामकम् ।।
पूजयेत्प्रणमेत्स्तुत्वा सर्वपापैः प्रमुच्यते ।। ५५ ।।
ज्योतिर्लिंगं त्र्यंबकं हि पूजितं गौतमेन ह ।।
सर्वकामप्रदं चात्र परत्र परमुक्तिदम् ।। ५६ ।।
इति वश्च समाख्यातं यत्पृष्टोऽहं मुनीश्वराः ।।
किमन्यदिच्छथ श्रोतुं तद् ब्रूयां वो न संशयः ।।५७।।
इति श्री शिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां
त्र्यंबकेश्वरमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ।। २६।।