शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः २४

विकिस्रोतः तः
← अध्यायः २३ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः २४
वेदव्यासः
अध्यायः २५ →

सूत उवाच ।।
श्रूयतामृषयः श्रेष्ठाः कथां पापप्रणाशिनीम्।।
कथयामि यथा व्यासात्सद्गुरोश्च श्रुता मया।।१।।
पुरा ऋषिवरश्चासीद्गौतमो नाम विश्रुतः ।।
अहल्या नाम तस्यासीत्पत्नी परमधार्मिकी ।। २ ।।
दक्षिणस्यां दिशि हि यो गिरिर्ब्रह्मेति संज्ञकः ।।
तत्र तेन तपस्तप्तं वर्षाणाम युतं तथा ।। ३ ।।
कदाचिच्च ह्यनावृष्टिरभवत्तत्र सुव्रताः ।।
वर्षाणां च शतं रौद्री लोका दुःखमुपागताः ।। ४ ।।
आर्द्रं च पल्लवं न स्म दृश्यते पृथिवीतले ।।
कुतो जलं विदृश्येत जीवानां प्राणधारकम् ।। ५ ।।
तदा ते मुनयश्चैव मनुष्याः पशवस्तथा ।।
पक्षिणश्च मृगास्तत्र गताश्चैव दिशो दश ।। ६ ।।
तां दृष्ट्वा चर्षयो विप्राः प्राणायामपरायणाः ।।
ध्यानेन च तदा केचित्कालं निन्युस्सुदारुणम् ।। ७ ।।
गौतमोऽपि स्वयं तत्र वरुणार्थे तपश्शुभम् ।।
चकार चैव षण्मासं प्राणायामपरायणः ।। ६ ।।
ततश्च वरुणस्तस्मै वरं दातुं समागताः ।।
प्रसन्नोऽस्मि वरं ब्रूहि ददामि च वचोऽब्रवीत् ।।९।।
ततश्च गौतमस्तं वै वृष्टिं च प्रार्थयत्तदा ।।
ततस्स वरुणस्तं वै प्रत्युवाच मुनिं द्विजाः ।। 4.24.१० ।।
वरुण उवाच ।।
देवाज्ञां च समुल्लंघ्य कथं कुर्यामहं च ताम् ।।
अन्यत्प्रार्थय सुज्ञोऽसि यदहं करवाणि ते ।। ११ ।।
सूत उवाच ।।
इत्येतद्वचनं तस्य वरुणस्य महात्मनः ।।
परोपकारी तच्छुत्वा गोतमो वाक्यमब्रवीत ।। १२ ।।
गौतम उवाच ।।
यदि प्रसन्नो देवेश यदि देयो वरो मम ।।
यदहं प्रार्थयाम्यद्य कर्तव्यं हि त्वया तथा ।। १३ ।।
यतस्त्वं जलराशीशस्तस्माद्देयं जलं मम ।।
अक्षयं सर्वदेवेश दिव्यं नित्यफलप्रदम् ।। १४ ।।
सूत उवाच ।।
इति संप्रार्थितस्तेन वरुणो गौतमेन वै ।।
उवाच वचनं तस्मै गर्तश्च क्रियतां त्वया ।। १५ ।।
इत्युक्ते च कृतस्तेन गर्त्तो हस्तप्रमाणतः ।।
जलेन पूरितस्तेन दिव्येन वरुणेन सः ।। १६ ।।
अथोवाच मुनिं देवो वरुणो हि जलाधिपः ।।
गौतमं मुनिशार्दूलं परोपकृतिशालिनम् ।। १७ ।।
वरुण उवाच ।।
अक्षय्यं च जलं तेऽस्तु तीर्थभूतं महामुने ।।
तव नाम्ना च विख्यातं क्षितावेतद्भविष्यति ।। १८ ।। ।
अत्र दत्तं हुतं तप्तं सुराणां यजनं कृतम् ।।
पितॄणां च कृतं श्राद्धं सर्वमेवाक्षयं भवेत्।।१९।।
सूत उवाच।।
इत्युक्तांतर्द्दधे देवस्स्तुतस्तेन महर्षिणा।।
गौतमोऽपि सुखं प्राप कृत्वान्योपकृतिं मुनिः ।। 4.24.२० ।।
मद्दत्तो ह्याश्रयः पुंसां महत्त्वायोपजायते ।।
महांतस्तत्स्वरूपं च पश्यंति नेतरेऽशुभाः।।२१।।
यादृङ्नरं च सेवेत तादृशं फलमश्नुते।।
महतस्सेवयोच्च त्वं क्षुद्रस्य क्षुद्रतां तथा ।।२२।।
सिंहस्य मंदिरे सेवा मुक्ताफलकरी मता ।।
शृगालमंदिरे सेवा त्वस्थिलाभकरी स्मृता।।२३।।
उत्तमानां स्वभावोयं परदुःखासहिष्णुता ।।
स्वयं दुखं च संप्राप्तं मन्यतेन्यस्य वार्यते।। २४ ।।
वृक्षाश्च हाटकं चैव चंदनं चेक्षुकस्तथा ।।
एते भुवि परार्थे च दक्षा एवं न केचन ।।२५।।
दयालुरमदस्पर्श उपकारी जितेन्द्रियः ।।
एतैश्च पुण्यस्तम्भैस्तु चतुर्भिर्धार्य्यते मही ।।२६।।
ततश्च गौतमस्तत्र जलं प्राप्य सुदुर्लभम् ।।
नित्यनैमित्तिकं कर्म चकार विधिवत्तदा।।२७।।
ततो व्रीहीन्यवांश्चैव नीवारानप्यनेकधा।।
वापयामास तत्रैव हवनार्थं मुनीश्वरः।।२८।।
धान्यानि विविधानीह वृक्षाश्च विविधास्तथा ।।
पुष्पाणि च फलान्येव ह्यासंस्तत्रायनेकशः ।।२९।।
तच्छुत्वा ऋषयश्चान्ये तत्राया तास्सहस्रशः ।।
पशवः पक्षिणश्चान्ये जीवाश्च बहवोऽगमन् ।।4.24.३०।।
तद्वनं सुन्दरं ह्यासीत्पृथिव्यां मंडले परम् ।।
तदक्षयकरायोगादनावृष्टिर्न दुःखदा ।। ३१ ।।
ऋषयोऽपि वने तत्र शुभकर्मपरायणाः ।।
वासं चक्रुरनेके च शिष्यभार्य्यासुतान्विताः।।३२।।
धान्या नि वापयामासुः कालक्रमणहेतवे।।
आनंदस्तद्वने ह्यासीत्प्रभावाद्गौतमस्य च ।। ३३ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसं हितायां त्र्यंबकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं नाम चतुर्विशोऽध्यायः ।। २४ ।।