शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः १५
वेदव्यासः
अध्यायः १६ →

।। सूत उवाच ।।
अतः परं प्रवक्ष्यामि मल्लिकार्जुनसंभवम् ।।
यः श्रुत्वा भक्तिमान्धीमान्सर्वपापैः प्रमुच्यते ।। १ ।।
पूर्वं चा कथितं यच्च तत्पुनः कथयाम्यहम् ।।
कुमारचरितं दिव्यं सर्वपापविनाशनम् ।।२।।
यदा पृथ्वीं समाक्रम्य कैलासं पुनरागतः ।।
कुमारस्स शिवापुत्रस्तारकारिर्महाबलः ।। ३ ।।
तदा सुरर्षिरागत्य सर्वं वृत्तं जगाद ह ।।
गणेश्वरविवाहादि भ्रामयंस्तं स्वबुद्धितः ।। ४ ।।
तच्छुत्वा स कुमारो हि प्रणम्य पितरौ च तौ ।।
जगाम पर्वतं क्रौचं पितृभ्यां वारितोऽपि हि ।। ५ ।।
कुमारस्य वियोगेन तन्माता गिरिजा यदा ।।
दुःखितासीत्तदा शंभुस्तामुवाच सुबोधकृत् ।। ६ ।।
कथं प्रिये दुःखितासि न दुःखं कुरु पार्वति ।।
आयास्यति सुतः सुभ्रूस्त्यज्यतां दुःखमुत्कटम् ।। ७ ।।
सा यदा च न तन्मेने पार्वती दुःखिता भृशम् ।।
तदा च प्रेषितास्तत्र शंकरेण सुरर्षयः ।। ८ ।।
देवाश्च ऋषयस्सर्वे सगणा हि मुदान्विताः ।।
कुमारानयनार्थं वै तत्र जग्मुः सुबुद्धयः ।। ९ ।।
तत्र गत्वा च ते सर्वे कुमारं सुप्रणम्य च ।।
विज्ञाप्य बहुधाप्येनं प्रार्थनां चक्रुरादरात् ।। 4.15.१० ।।
देवादिप्रार्थनां तां च शिवाज्ञासंकुलां गुरुः ।।
न मेने स कुमारो हि महाहंकारविह्वलः ।। ११ ।।
ततश्च पुनरावृत्य सर्वे ते हि शिवांतिकम् ।।
स्वंस्वं स्थानं गता नत्वा प्राप्य शंकरशासनम् ।।१२।।
तदा च गिरिजादेवी विरहं पुत्रसंभवम् ।।
शंभुश्च परमं दुःखं प्राप तस्मिन्ननागते ।। १३ ।।
अथो सुदुःखितौ दीनौ लोकाचारकरौ तदा ।।
जग्मतुस्तत्र सुस्नेहात्स्वपुत्रो यत्र संस्थितः ।। १४ ।।
स पुत्रश्च कुमाराख्यः पित्रोरागमनं गिरेः ।।
ज्ञात्वा दूरं गतोऽस्नेहाद्योजनत्रयमेव च ।। १५ ।।
क्रौंचे च पर्वते दूरं गते तस्मिन्स्वपुत्रके ।।
तौ च तत्र समासीनौ ज्यो तीरूपं समाश्रितौ ।। १६ ।।
पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणिपर्वणि ।।
दर्शनार्थं कुमारस्य स्वपुत्रस्य हि गच्छतः ।। १७ ।।
अमावास्यादिने शंभुस्स्वयं गच्छति तत्र ह ।।
पौर्णमासीदिने तत्र पार्वती गच्छति ध्रुवम् ।। १८ ।।
तद्दिनं हि समारभ्य मल्लिकार्जुनसंभवम् ।।
लिंगं चैव शिवस्यैकं प्रसिद्धं भुवनत्रये ।। १९ ।।
तल्लिंगं यः समीक्षेत स सर्वैः किल्बिषैरपि ।।
मुच्यते नात्र सन्देहः सर्वान्कामानवाप्नुयात् ।। 4.15.२० ।।
दुःखं च दूरतो याति सुखमात्यंतिकं लभेत् ।।
जननीगर्भसंभूतं कष्टं नाप्नोति वै पुनः ।। २१ ।।
धनधान्यसमृद्धिश्च प्रतिष्ठारोग्यमेव च ।।
अभीष्टफलसिद्धिश्च जायते नात्र संशयः ।। २२ ।।
ज्योतिर्लिंगं द्वितीयं च प्रोक्तं मल्लिकसंज्ञितम् ।।
दर्शनात्सर्वसुखदं कथितं लोकहेतवे ।।२३ ।।
इति श्रीशिवपुराणे चतुर्थ्यां कोटि रुद्रसंहिताया मल्लिकार्जुनद्वितीयज्योतिर्लिंगवर्णनंनाम पंचदशोऽध्यायः ।। १५ ।।