शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः १६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः १६
वेदव्यासः
अध्यायः १७ →

ऋषय ऊचुः ।।
सूत सर्वं विजानासि वस्तु व्यास प्रसादतः ।।
ज्योतिषां च कथां श्रुत्वा तृप्तिर्नैव प्रजायते ।।१।।
तस्मात्त्वं हि विशेषेण कृपां कृत्वातुलां प्रभो ।।
ज्योतिर्लिंगं तृतीयं च कथय त्वं हि नोऽधुना ।। २ ।।
सूत उवाच ।। ।।
धन्योऽहं कृतकृत्योऽहं श्रीमतां भवतां यदि ।।
गतश्च संगमं विप्रा धन्या वै साधुसंगतिः ।। ३ ।।
अतो मत्वा स्वभाग्यं हि कथयिष्यामि पावनीम् ।।
पापप्रणाशिनीं दिव्यां कथां च शृणुतादरात् ।।४।।
अवंती नगरी रम्या मुक्तिदा सर्वदेहिनाम् ।।
शिवप्रिया महापुण्या वर्तते लोकपावनी ।। ५ ।।
तत्रासीद्बाह्मणश्रेष्ठश्शुभकर्मपरायणः ।।
वेदाध्ययनकर्त्ता च वेदकर्मरतस्सदा ।। ६ ।।
अग्न्याधानसमायुक्तश्शिवपूजारतस्सदा ।।
पार्थिवीं प्रत्यहं मूर्तिं पूजयामास वै द्विजः ।। ७ ।।
सर्वकर्मफलं प्राप्य द्विजो वेदप्रियस्सदा।।
सतां गतिं समालेभे सम्यग्ज्ञानपरायणः।।८।।
तत्पुत्रास्तादृशाश्चासंश्चत्वारो मुनिसत्तमाः ।।
शिवपूजारता नित्यं पित्रोरनवमास्सदा ।। ९ ।।
देवप्रियश्च तज्ज्येष्ठः प्रियमेधास्ततः परम्।।
तृतीयस्तु कृतो नाम धर्मवाही च सुव्रतः ।। 4.16.१० ।।
तेषां पुण्यप्रतापाच्च पृथिव्यां सुखमैधत ।।
शुक्लपक्षे यथा चन्द्रो वर्द्धते च निरंतरम् ।।११।।
तथा तेषां गुणास्तत्र वर्द्धन्ते स्म सुखावहाः ।।
ब्रह्मतेजोमयी सा वै नगरी चाभवत्तदा ।।१२।।
एतस्मिन्नन्तरे तत्र यज्जातं वृत्तमुत्तमम्।।
श्रूयतां तद्द्विजश्रेष्ठाः कथयामि यथाश्रुतम् ।।१३।।
पर्वते रत्नमाले च दूषणाख्यो महासुरः ।।
बलवान्दैत्यराजश्च धर्मद्वेषी निरन्तरम् ।।१४।।
ब्रह्मणो वरदानाच्च जगतुच्छीचकार ह।।
देवा पराजितास्तेन स्थानान्निस्सारितास्तथा।।१५।।
पृथिव्यां वेदधर्माश्च स्मृतिधर्माश्च सर्वशः ।।
स्फोटितास्तेन दुष्टेन सिंहेनेव शशा खलु ।। १६ ।।
यावंतो वेदधर्माश्च तावंतो दूरतः कृताः ।।
तीर्थेतीर्थे तथा क्षेत्रे धर्मो नीतश्च दूरतः ।।१७।।
अवंती नगरी रम्या तत्रैका दृश्यते पुनः ।।
इत्थं विचार्य तेनैव यत्कृतं श्रूयतां हि तत् ।। १८ ।।
बहुसैन्यसमायुक्तो दूषणस्स महासुरः ।।
तत्रस्थान्ब्रह्मणान्सर्वानुद्दिश्य समुपाययौ ।। १९ ।।
तत्रागत्य स दैत्येन्द्रश्चतुरो दैत्यसत्तमान् ।।
प्रोवाचाहूय वचनं विप्र द्रोही महाखलः ।। 4.16.२० ।।
दैत्य उवाच ।।
किमेते ब्राह्मणा दुष्टा न कुर्वंति वचो मम ।।
वेदधर्मरता एते सर्वे दंड्या मते मम ।।२१।।
सर्वे देवा मया लोके राजानश्च पराजिताः ।।
वशे किं ब्राह्मणाश्शक्या न कर्तुं दैत्यसत्तमाः ।।२२।।
यदि जीवितुमिच्छा स्यात्तदा धर्मं शिवस्य च ।।
वेदानां परमं धर्मं त्यक्त्वा सुखसुभागिनः ।। २३ ।।
अन्यथा जीवने तेषां संशयश्च भविष्यति ।।
इति सत्यं मया प्रोक्तं तत्कुरुध्वं विशंकिताः ।। २४ ।।
सूत उवाच ।।
इति निश्चित्य ते दैत्याश्चत्वारः पावका इव ।।
चतुर्दिक्षु तदा जाताः प्रलये च यथा पुरा । २५ ।।
ते ब्राह्मणास्तथा श्रुत्वा दैत्यानामुद्यमं तदा ।।
न दुःखं लेभिरे तत्र शिवध्यान परायणाः ।। २६ ।।
धैर्यं समाश्रितास्ते च रेखामात्रं तदा द्विजाः ।।
न चेलुः परमध्यानाद्वराकाः के शिवाग्रतः ।। २७ ।।
एतस्मिन्नन्तरे तैस्तु व्याप्तासीन्नगरी शुभा ।।
लोकाश्च पीडितास्तैस्तु ब्राह्मणान्समुपाययुः ।। २८ ।।
लोका ऊचुः ।।
स्वामिनः किं च कर्त्तव्यं दुष्टाश्च समुपागताः ।।
हिंसिता बहवो लोका आगताश्च समीपतः ।। २९ ।।
सूत उवाच ।।
तेषामिति वचश्श्रुत्वा वेदप्रियसुताश्च ते ।।
समूचुर्ब्राह्मणास्तान्वै विश्वस्ताश्शंकरे सदा ।।4.16.३०।।
ब्राह्मणा ऊचुः ।।
श्रूयतां विद्यते नैव बलं दुष्टभयावहम्।।
न शस्त्राणि तथा संति यच्च ते विमुखाः पुनः ।।३१।।
सामान्यस्यापमानो नो ह्याश्रयस्य भवेदिह ।।
पुनश्च किं समर्थस्य शिवस्येह भविष्यति ।।३२।।
शिवो रक्षां करोत्वद्यासुराणां भयतः प्रभुः ।।
नान्यथा शरणं लोके भक्तवत्सलतश्शिवात् ।।३३।।
सूत उवाच ।।
इति धैर्यं समास्थाय समर्चां पार्थिवस्य च ।।
कृत्वा ते च द्विजाः सम्यक्स्थिता ध्यानपरायणाः ।।
दृष्टा दैत्येन तावच्च ते विप्रास्सबलेन हि ।। ३४ ।।
दूषणेन वचः प्रोक्तं हन्यतां वध्यतामिति ।।
तच्छ्रुतं तैस्तदा नैव दैत्यप्रोक्तं वचो द्विजैः ।।
वेदप्रियसुतैश्शंभोर्ध्यानमार्गपरायणैः ।। ३५ ।।
अथ यावत्स दुष्टात्मा हन्तुमैच्छद्द्विजांश्च तान्।।
तावच्च प्रार्थिवस्थाने गर्त्तं आसीत्सशब्दकः।।३६।।
गर्तात्ततस्समुत्पन्नः शिवो विकटरूपधृक् ।।
महाकाल इति ख्यातो दुष्टहंता सतां गतिः ।।३७।।
महाकालस्समुत्पन्नो दुष्टानां त्वादृशामहम्।।
खल त्वं ब्राह्मणानां हि समीपाद्दूरतो व्रज।।३८।।
इत्युक्त्वा हुंकृतेनैव भस्मसात्कृतवांस्तदा।।
दूषणं च महाकालः शंकरस्सबलं द्रुतम् ।। ३९ ।।
कियत्सैन्यं हतं तेन किंचित्सैन्यं पलायितम्।।
दूषणश्च हतस्तेन शिवेनेह परात्मना ।।4.16.४०।।
सूर्यं दृष्ट्वा यथा याति संक्षयं सर्वशस्तमः ।।
तथैव च शिवं दृष्ट्वा तत्सैन्यं विननाश ह।।४१।।
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह।।
देवास्समाययुस्सर्वे हरिब्रह्मादयस्तथा ।। ४२ ।।
भक्त्या प्रणम्य तं देवं शंकरं लोकशंकरम् ।।
तुष्टुवुर्विविधैः स्तोत्रैः कृतांजलिपुटा द्विजाः ।। ४३ ।।
ब्राह्मणांश्च समाश्वास्य सुप्रसन्नश्शिवस्स्वयम् ।।
वरं ब्रूतेति चोवाच महाकालो महेश्वरः ।।४४।।
तच्छ्रुत्वा ते द्विजास्सर्वे कृताञ्जलिपुटास्तदा ।।
सुप्रणम्य शिवं भक्त्या प्रोचुस्संनतमस्तकाः ।। ४५ ।।
।। द्विजा ऊचुः ।।
महाकाल महादेव दुष्टदण्डकर प्रभो ।।
मुक्तिं प्रयच्छ नश्शंभो संसारांबुधितश्शिव ।। ४६ ।।
अत्रैव लोकरक्षार्थं स्थातव्यं हि त्वया शिव ।।
स्वदर्शकान्नराञ्छम्भो तारय त्वं सदा प्रभो ।। ४७ ।।
सूत उवाच ।।
इत्युक्तस्तैश्शिवस्तत्र तस्थौ गर्ते सुशोभने ।।
भक्तानां चैव रक्षार्थं दत्त्वा तेभ्यश्च सद्गतिम् ।।४८।।
द्विजास्ते मुक्तिमापन्नाश्चतुर्द्दिक्षु शिवास्पदम् ।।
क्रोशमात्रं तदा जातं लिंगरूपिण एव च ।।४९।।
महाकालेश्वरो नाम शिवः ख्यातश्च भूतले ।।
तं दृष्ट्वा न भवेत्स्वप्ने किंचिद्दुःखमपि द्विजाः ।। 4.16.५० ।।
यंयं काममपेक्ष्यैव तल्लिंगं भजते तु यः ।।
तंतं काममवाप्नोति लभेन्मोक्षं परत्र च ।। ५१ ।।
एतत्सर्वं समाख्यातं महाकालस्य सुव्रताः ।।
समुद्भवश्च माहात्म्यं किमन्यच्छ्रोतुमिच्छथ ।। ५२ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाकालज्योतिर्लिंगमाहात्म्यवर्णनं नाम षोडशोऽध्यायः ।।१६।।