सामग्री पर जाएँ

शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः १४

विकिस्रोतः तः
← अध्यायः १३ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः १४
वेदव्यासः
अध्यायः १५ →

ऋषय ऊचुः ।।।
ज्योतिषां चैव लिंगानां माहात्म्यं कथयाधुना ।।
उत्पत्तिं च तथा तेषां ब्रूहि सर्वं यथाश्रुतम् ।। १ ।।
सूत उवाच ।।
शृण्वन्तु विप्रा वक्ष्यामि तन्माहात्म्यं जनिं तथा ।।
संक्षेपतो यथाबुद्धि सद्गुरोश्च मया श्रुतम् ।। २ ।।
एतेषां चैव माहात्म्यं वक्तुं वर्षशतैरपि ।।
शक्यते न मुनिश्रेष्ठास्तथापि कथयामि वः ।। ३ ।।
सोमनाथश्च तेषां वै प्रथमः परिकीर्तितः ।।
तन्माहात्म्यं शृणु मुने प्रथमं सावधानतः ।। ४ ।।
सप्तविंशन्मिताः कन्या दक्षेण च महात्मना ।।
तेन चन्द्रमसे दत्ता अश्विन्याद्या मुनीश्वराः ।।५।।
चन्द्रं च स्वामिनं प्राप्य शोभमाना विशेषतः ।।
चन्द्रोऽपि चैव ताः प्राप्य शोभते स्म निरन्तरम् ।। ६ ।।
हेम्ना चैव मणिर्भाति मणिना हेम चैव हि ।।
एवं च समये तस्य यज्जातं श्रूयतामिति ।। ७ ।।
सर्वास्वपि च पत्नीषु रोहिणीनाम या स्मृता ।।
यथैका सा प्रिया चासीत्तथान्या न कदाचन ।। ८ ।।
अन्याश्च दुःखमापन्नाः पितरं शरणं ययुः ।।
गत्वा तस्मै च यद्दुःखं तथा ताभिर्निवेदितम् ।। ९ ।।
दक्षस्स च तथा श्रुत्वा दुःखं च प्राप्तावांस्तदा ।।
समागत्य द्विजाश्चन्द्रं शान्त्यावोचद्वचस्तदा ।। 4.14.१० ।।
दक्ष उवाच ।।
विमले च कुले त्वं हि समुत्पन्नः कलानिधे ।।
आश्रितेषु च सर्वेषु न्यूनाधिक्यं कथं तव ।। ११ ।।
कृतं चेत्तकृतं तच्च न कर्तव्यं त्वया पुनः ।।
वर्तनं विषमत्वेन नरकप्रदमीरितम् ।। १२ ।।
सूत उवाच ।।
दक्षश्चैव च संप्रार्थ्य चन्द्रं जामातरं स्वयम्।।
जगाम मन्दिरं स्वं वै निश्चयं परमं गतः ।।१३।।
चंद्रोऽपि वचनं तस्य न चकार विमोहितः ।।
शिवमायाप्रभावेण यया संमोहितं जगत् ।। १४ ।।
शुभं भावि यदा यस्य शुभं भवति तस्य वै ।।
अशुभं च यदा भावि कथं तस्य शुभं भवेत् ।। १५।।
चन्द्रोऽपि बलवद्भाविवशान्मेने न तद्वचः ।।
रोहिण्यां च समासक्तो नान्यां मेने कदाचन ।।१६।।
तच्छ्रुत्वा पुनरागत्य स्वयं दुःखसमन्वितः ।।
प्रार्थयामास चन्द्रं स दक्षो दक्षस्सुनीतितः ।। १७ ।।
दक्ष उवाच ।।
श्रूयतां चन्द्र यत्पूर्वं प्रार्थितो बहुधा मया ।।
न मानितं त्वया यस्मात्तस्मात्त्वं च क्षयी भव ।।१८।।
सूत उवाच।।
इत्युक्ते तेन चन्द्रो वै क्षयी जातः क्षणादिह ।।
हाहाकारो महानासीत्तदेन्दौ क्षीणतां गते ।। १९ ।।
देवर्षयस्तदा सर्वे किं कार्य्यं हा कथं भवेत् ।।
इति दुःखं समापन्ना विह्वला ह्यभवन्मुने ।। 4.14.२० ।।
विज्ञापिताश्च चन्द्रेण सर्वे शक्रादयस्सुराः ।।
ऋषयश्च वसिष्ठाद्या ब्रह्माणं शरणं ययु ।।२१।।
गत्वापि तु तदा प्रोचुस्तद्वृत्तं निखिलं मुने ।।
ब्रह्मणे ऋषयो देवा नत्वा नुत्वातिविह्वलाः ।। २२ ।।
ब्रह्मापि तद्वचः श्रुत्वा विस्मयं परमं ययौ ।।
शिवमायां सुप्रशस्य श्रावयंस्तानुवाच ह ।। २३ ।।
ब्रह्मोवाच ।।
अहो कष्टं महज्जातं सर्वलोकस्य दुःखदम् ।।
चन्द्रस्तु सर्वदा दुष्टो दक्षश्च शप्तवानमुम् ।। २४ ।।
सर्वं दुष्टेन चन्द्रेण कृतं कर्माप्यनेकशः ।।
श्रूयतामृषयो देवाश्चन्द्रकृत्यं पुरातनम् ।।२५।।
बृहस्पतेर्गृहं गत्वा तारा दुष्टेन वै हृता ।।
तस्य भार्या पुनश्चैव स दैत्यान्समुपस्थितः ।।२६।।
समाश्रितस्तदा दैत्यान्युद्धं देवैश्चकार ह ।।
मयाऽत्रिणा निषिद्धश्च तस्मै तारां ददौ शशी ।। २५७ ।।
तां च गर्भवतीं दृष्ट्वा न गृह्णामीति सोऽब्रवीत् ।।
अस्माभिर्वारितो जीवः कृच्छ्राज्जग्राह तां तदा ।। २८ ।।
यदि गर्भं जहातीह गृह्णामीत्यब्रवीत्पुनः ।।
गर्भे मया पुनस्तत्र त्याजिते मुनिसत्तमाः ।। २९ ।।
कस्यायं च पुनर्गर्भस्सोमस्येति च साऽब्रवीत् ।।
पश्चात्तेन गृहीता सा मया च वारितेन वै ।। 4.14.३० ।।
एवंविधानि चन्द्रस्य दुश्चारित्राण्यनेकशः ।।
वर्ण्यंते किं पुनस्तानि सोऽद्यापि कुरुते कथम् ।।३१।।
यज्जातं तत्सुसंजातं नान्यथा भवति ध्रुवम् ।।
अतः परमुपायं वो वक्ष्यामि शृणुतादरात् ।। ३२ ।।
प्रभासके शुभे क्षेत्रे व्रजेश्चन्द्रस्सदैवतैः ।।
शिवमाराधयेत्तत्र मृत्युञ्जयविधानतः ।। ३३ ।।
निधायेशं पुरस्तत्र चन्द्रस्तपतु नित्यशः ।।
प्रसन्नश्च शिवः पश्चादक्षयं तं करिष्यति ।।३४।।
सूत उवाच ।।
इति श्रुत्वा वचस्तस्य ब्रह्मणस्ते सुरर्षयः ।।
संनिवृत्याययुस्सर्वे यत्र दक्षविधू ततः ।। ३५ ।।
गृहीत्वा ते ततश्चन्द्रं दक्षं चाश्वास्य निर्जराः ।।
प्रभासे ऋषयश्चक्रुस्तत्र गत्वाखिलाश्च वै ।। ३६ ।।
आवाह्य तीर्थवर्याणि सरस्वत्यादिकानि च ।।
पार्थिवेन तदा पूजां मृत्युञ्जयविधानतः ।।३७।।
ते देवाश्च तदा सर्वे ऋषयो निर्मलाशयाः ।।
स्थाप्य चन्द्रं प्रभासे च स्वंस्वं धाम ययुर्मुदा ।।३८।।
चन्द्रेण च तपस्तप्तं पण्मासं च निरंतरम् ।।
मृत्युंजयेन मंत्रेण पूजितो वृषभध्वजः ।।३९।।
दशकोटिमितं मन्त्रं समावृत्य शशी च तम् ।।।
ध्यात्वा मृत्युञ्जयं मन्त्रं तस्थौ निश्चलमानसः ।। 4.14.४० ।।
तं दृष्ट्वा शंकरो देवः प्रसन्नोऽभूत्ततः प्रभुः ।।
आविर्भूय विधुं प्राह स्वभक्तं भक्तवत्सलः ।।४१।।
शंकर उवाच।।
वरं वृणीष्व भद्रं ते मनसा यत्समीप्सितम्।।
प्रसन्नोऽहं शशिन्सर्वं दास्ये वरमनुत्तमम् ।।४२।।
चंद्र उवाच ।।
यदि प्रसन्नो देवेश किमसाध्यं भवेन्मम ।।
तथापि मे शरीरस्य क्षयं वारय शंकर।।४३।।
क्षंतव्यो मेऽपराधश्च कल्याणं कुरु सर्वदा।।
इत्युक्ते च तदा तेन शिवो वचनमब्रवीत्।।४४।।
शिव उवाच।।
पक्षे च क्षीयतां चन्द्र कला ते च दिनेदिने।।
पुनश्च वर्द्धतां पक्षे सा कला च निरंतरम् ।। ४५ ।।
सूत उवाच ।।
एवं सति तदा देवा हर्षनिर्भरमानसाः ।।
ऋषयश्च तथा सर्वे समाजग्मुर्द्रुतं द्विजाः।।४६।।
आगत्य च तदा सर्वे चन्द्रायाशिषमब्रुवन् ।।
शिवं नत्वा करौ बद्ध्वा प्रार्थयामासुरादरात्।।४७।।
देवाः ऊचुः।।
देवदेव महादेव परमेश नमोऽस्तु ते ।।
उमया सहितश्शंभो स्वामिन्नत्र स्थिरो भव ।। ४८ ।।
सूत उवाच।।
ततश्चन्द्रेण सद्भक्त्या संस्तुतश्शंकरः पुरा ।।
निराकारश्च साकारः पुनश्चैवाभवत्प्रभुः ।। ४९ ।।
प्रसन्नश्च स देवानां क्षेत्रमाहात्म्यहेतवे ।।
चन्द्रस्य यशसे तत्र नाम्ना चन्द्रस्य शंकरः ।। 4.14.५० ।।
सोमेश्वरश्च नामासीद्विख्यातो भुवन त्रये ।।
क्षयकुष्ठादिरोगाणां नाशकः पूजनाद्द्विजाः ।।५१।।
धन्योऽयं कृतकृत्योयं यन्नाम्ना शंकरस्स्वयम्।।
स्थितश्च जगतां नाथः पावयञ्जगतीतलम्।।५२।।
तत्कुंडं तैश्च तत्रैव सर्वैर्देवैः प्रतिष्ठितम्।।
शिवेन ब्रह्मणा तत्र ह्यविभक्तं तु तत्पुनः।।५३।।
चन्द्रकुण्डं प्रसिद्धं च पृथिव्यां पापनाशनम्।।
तत्र स्नाति नरो यस्स सर्वैः पापैः प्रमुच्यते ।। ५४ ।।
रोगास्सर्वे क्षयाद्याश्च ह्यसाध्या ये भवंति वै।।
ते सर्वे च क्षयं यान्ति षण्मासं स्नानमात्रतः ।। ५५ ।।
प्रभासं च परिक्रम्य पृथिवीक्रमसंभवम् ।।
फलं प्राप्नोति शुद्धात्मा मृतः स्वर्गे महीयते ।।५६।।
सोमलिंगं नरो दृष्ट्वा सर्वपापात्प्रमुच्यते ।।
लब्ध्वा फलं मनोभीष्टं मृतस्स्वर्गं समीहते ।। ५७ ।।
यद्यत्फलं समुद्दिश्य कुरुते तीर्थमुत्तमम्।।
तत्तत्फलमवाप्नोति सर्वथा नात्र संशयः।।५८।।
इति ते ऋषयो देवाः फलं दृष्ट्वा तथाविधम् ।।
मुदा शिवं नमस्कृत्य गृहीत्वा चन्द्रमक्षयम् ।। ५९ ।।
परिक्रम्य च तत्तीर्थं प्रशंसन्तश्च ते ययुः ।।
चंद्रश्चापि स्वकीयं च कार्य्यं चक्रे पुरातनम् ।। 4.14.६० ।।
इति सर्वः समाख्यातः सोमेशस्य समुद्भवः ।।
एवं सोमेश्वरं लिंगं समुत्पन्नं मुनीश्वराः ।। ६१ ।।
यः शृणोति तदुत्पत्तिं श्रावयेद्वा परान्नरः ।।
सर्वान्कामानवाप्नोति सर्वपापैः प्रमुच्यते ।। ६२ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां सोमनाथज्योतिर्लिंगोत्पत्तिवर्णनं नाम चतुर्दशोऽध्यायः ।। १४ ।।।