शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः १३

विकिस्रोतः तः
← अध्यायः १२ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः १३
वेदव्यासः
अध्यायः १४ →

सूत उवाच।।
यथाभवल्लिंगरूपः संपूज्यस्त्रिभवे शिवः।।
तथोक्तं वा द्विजाः प्रीत्या किमन्यच्छ्रोतुमिच्छथ ।।१।।
ऋषय ऊचुः।अन्धकेश्वरलिंगस्य महिमानं वद प्रभो ।।
तथान्यच्छिवलिंगानां प्रीत्या वक्तुमिहार्हसि ।। २ ।।
सूत उवाच ।।
पुराब्धिगर्तमाश्रित्य वसन्दैत्योऽन्धकासुरः ।।
स्ववशं कारयामास त्रैलोक्यं सुरसूदनः ।। ३ ।
तस्माद्गर्ताच्च निस्सृत्य पीडयित्वा पुनः प्रजाः ।।
प्राविशच्च तदा दैत्यस्तं गर्तं सुपराक्रमः ।।४।।
देवाश्च दुःखितः सर्वे शिवं प्रार्थ्य पुनःपुनः ।।
सर्वं निवेदयामासुस्स्वदुःखं च मुनीश्वराः ।।५।।
सूत उवाच ।।
तदाकर्ण्य वचस्तेषां देवानां परमेश्वरः ।।
प्रत्युवाच प्रसन्नात्मा दुष्टहंता सतां गतिः ।। ६ ।।
शिव उवाच ।।
घातयिष्यामि तं दैत्यमन्धकं सुरसूदनम् ।।
सैन्यं च नीयतान्देवा ह्यायामि च गणैस्सह ।। ७ ।।
तस्माद्गर्तादंधके हि देवर्षिद्रुहि भीकरे ।।
निस्सृते च तदा तस्मिन्देवा गर्तमुपाश्रिताः ।।८।।
दैत्याश्च देवताश्चैव युद्धं चक्रुः सुदारुणम् ।।
शिवानुग्रहतो देवाः प्रबलाश्चाभवँस्तदा ।। ९ ।।
देवैश्च पीडितः सोपि यावद्गर्तमुपागतः ।।
तावच्छूलेन संप्रोतः शिवेन परमात्मना ।।4.13.१०।।
तत्रत्यश्च तदा शंभुं ध्यात्वा संप्रार्थयत्तदा ।।
अन्तकाले च त्वां दृष्ट्वा तादृशो भवति क्षणात् ।। ११ ।।
इत्येवं संस्तुतस्सोपि प्रसन्नः शंकरस्तदा ।।
उवाच वचनं तत्र वरं ब्रूहि ददामि ते ।। १२ ।।
इत्येवं वचनं श्रुत्वा स दैत्यः पुनरब्रवीत् ।।
सुप्रणम्य शिवं स्तुत्वा सत्त्वभावमुपाश्रितः ।। १३ ।।
अन्धक उवाच ।।
यदि प्रसन्नो देवेश स्वभक्तिं देहि मे शुभाम् ।।
कृपां कृत्वा विशेषेण संस्थितो भव चेह वै ।। १४ ।।
सूत उवाच ।।
इत्युक्तस्तेन दैत्यं तं तद्गर्ते चाक्षिपद्धरः ।।
स्वयं तत्र स्थितो लिंगरूपोऽसौ लोककाम्यया ।।१५।।
अन्धकेशं च तल्लिंगं नित्यं यः पूजयेन्नरः ।।
षण्मासाज्जायते तस्य वांछासिद्धिर्न संशयः ।। १६ ।।
वृत्त्यर्थं पूजयेल्लिंगं लोकस्य हितकारकम् ।।
षण्मासं यो द्विजश्चैव स वै देवलकः स्मृतः ।। १७ ।।
यथा देवलकश्चैव स भवेदिह वै तदा ।।
देवलकश्च यः प्रोक्तो नाधिकारो द्विजस्य हि ।।१८।।
।। ऋषय ऊचुः ।।
देवलकश्च कः प्रोक्तः किं कार्यं तस्य विद्यते ।।
तत्त्वं वद महाप्राज्ञ लोकानां हितहेतवे ।। १९ ।।
सूत उवाच ।।
दधीचिर्नाम विप्रो यो धर्मिष्ठो वेदपारगः ।।
शिवभक्तिरतो नित्यं शिवशास्त्रपरायणः ।। 4.13.२० ।।
तस्य पुत्रस्तथा ह्यासीत्स्मृतो नाम्ना सुदर्शनः ।।
तस्य भार्या दुकूला च नाम्ना दुष्टकुलोद्भवा ।। २१ ।।
तद्वशे स च भर्तासीत्तस्य पुत्रचतुष्टयम् ।।
सोऽपि नित्यं शिवस्यैव पूजां च स्म करोत्यसौ ।। २२ ।।
दधीचेस्तु तदा ह्यासीद्ग्रामान्तरनिवेशनम् ।।
ज्ञातिसंयोगतश्चैव ज्ञातिभिर्न स मोचितः ।। २३ ।।
कथयित्वा च पुत्रं स शिवभक्तिरतो भव।।
इत्युक्त्वा स गतो मुक्तो दाधीचिश्शैवसत्तमः ।। २४ ।।
सुदर्शनस्तत्पुत्रोऽपि शिवपूजां चकार ह ।।
एवं चिरतरः कालो व्यतीयाय मुनीश्वराः ।। २५ ।।
एवं च शिवरात्रिश्च समायाता कदाचन ।।
तस्यां चोपोषितास्सर्वे स्वयं संयोगतस्तदा ।। २६ ।।
पूजां कृत्वा गतस्सोऽपि सुदर्शन इति स्मृतः ।।
स्त्रीसंगं शिवरात्रौ तुं कृत्वा पुनरिहागतः ।। २७ ।।
न स्नानं तेन च कृतं तद्रात्र्यां शिवपूजनम् ।।
तेन तत्कर्मपाकेन क्रुद्धः प्रोवाच शङ्करः ।। २८ ।।
महेश्वर उवाच ।।
शिवरात्र्यां त्वया दुष्ट सेवनं च स्त्रियाः कृतम् ।।
अस्नातेन मदीया च कृता पूजाविवेकिना ।। २९ ।।
ज्ञात्वा चैवं कृतं यस्मात्तस्मात्त्वं जडतां व्रज।।
ममास्पृश्यो भव त्वं च दूरतो दर्शनं कुरु ।।4.13.३०।।
सूत उवाच ।।
इति शप्तो महेशेन दाधीचिस्स सुदर्शनः ।।
जडत्वं प्राप्तवान्सद्यश्शिवमायाविमोहितः।।३१।।
एतस्मिन्समये विप्रा दधीचिः शैवसत्तमः ।।
ग्रामान्तरात्समायातो वृत्तान्तं श्रुतवाँश्च सः ।। ३२ ।।
शिवेन भर्त्सितः सोऽपि दुःखितोऽभूदतीव हि ।।
रुरोद हा हतोऽश्मीति दुःखेन सुतकर्मणा ।। ३३ ।।
पुनःपुनरुवाचेति स दधीचिस्सतां मतः ।।
अनेनेदं कुपुत्रेण हतं मे कुलमुत्तमम् ।। ३४ ।।
स पुत्रोऽपि हतो भार्यां पुंश्चलीं कृतवान्द्रुतम् ।।
पश्चात्तापमनुप्राप्य स्वपित्रा परिभर्त्सितः ।। ३५ ।।
तत्पित्रा गिरिजा तत्र पूजिता विधिभिर्वरैः ।।
सुयत्नतो महाभक्त्या स्वपुत्रसुखहेतवे ।। ३६ ।।
सुदर्शनोऽपि गिरिजां पूजयामास च स्वयम् ।।
चण्डीपूजनमार्गेण महाभक्त्या शुभैः स्तवैः ।। ३७ ।।
एवं तौ पितृपुत्रौ हि नानोपायैः सुभक्तितः ।।
प्रसन्नां चक्रतुर्देवीं गिरिजां भक्तवत्सलाम् ।। ३८ ।।
तयोः सेवाप्रभावेण प्रसन्ना चण्डिका तदा ।।
सुदर्शनं च पुत्रत्वे चकार गिरिजा मुने ।। ३९ ।।
शिवं प्रसादयामास पुत्रार्थे चण्डिका स्वयम् ।।
क्रुद्धाऽक्रुद्धा पुनश्चण्डी तत्पुत्रस्य प्रसन्नधीः ।। 4.13.४० ।।
अथाज्ञाय प्रसन्नं तं महेशं वृषभध्वजम् ।।
नमस्कृत्य स्वयं तस्य ह्युत्संगे तं न्यवेशयत् ।। ४१ ।
घृतस्नानं ततः कृत्वा पुत्रस्य गिरिजा स्वयम् ।।
त्रिरावृत्तोपवीतं च ग्रन्थिनैकेन संयुतम् ।। ४२ ।।
सुदर्शनाय पुत्राय ददौ प्रीत्या तदाम्बिका ।।
उद्दिश्य शिवगायत्रीं षोडशाक्षरसंयुताम् ।। ४३ ।।
तदोंनमः शिवायेति श्रीशब्द पूर्वकाय च ।।
वारान्षोडश संकल्पपूजां कुर्यादयं बटुः।। ४४ ।।
आस्नानादिप्रणामान्तं पूजयन्वृषभध्वजम् ।।
मंत्रवादित्रपूजाभिस्सर्षीणां सन्निधौ तथा ।। ४५ ।।
नाममंत्राननेकांश्च पाठयामास वै तदा ।।
उवाच सुप्रसन्नात्मा चण्डिका च शिवस्तथा ।। ४६ ।।
मदर्पितं च यत्किंचिद्धनधान्यादिकन्तथा ।।
तत्सर्वं च त्वया ग्राह्यं न दोषाय भविष्यति ।। ४७ ।।
मम कृत्ये भवान्मुख्यो देवीकृत्ये विशेषतः ।।
घृततैलादिकं सर्वं त्वया ग्राह्यं मदर्पितम् ।। ४८ ।।
प्राजापत्यं भवेद्यर्हिं तर्ह्येको हि भवान्भवेत् ।।
तदा पूजा च सम्पूर्णान्यथा सर्वा च निष्फला ।। ४९ ।।
तिलकं वर्तुलं कार्यं स्नानं कार्यं सदा त्वया ।।
शिवसन्ध्या च कर्तव्या गायत्री च तदीयिका ।।4.13.५०।।
मत्सेवां प्रथमं कृत्वा कार्यमन्यत्कुलोचितम् ।।
एवं कृतेऽखिले भद्रं दोषाः क्षान्ता मया तव।।५१।।
।। सूत उवाच ।।
इत्युक्त्वा तस्य पुत्राश्च चत्वारो बटुकास्तदा ।।
अभिषिक्ताश्चतुर्दिक्षु शिवेन परमात्मना ।।५२।।
चण्डी चैवात्मनिकटे पुत्रं स्थाप्य सुदर्शनम् ।।
तत्पुत्रान्प्रेरयामास वरान्दत्त्वा ह्यनेकशः ।। ५३ ।।
देव्युवाच ।।
उभयोर्युवयोर्मध्ये वटुको यो भवेन्मम ।।
तस्य स्याद्विजयो नित्यं नात्र कार्या विचारणा ।। ५४ ।।
भवांश्च पूजितो येन तेनैवाहं प्रपूजिता ।।
कर्तव्यं हि भवद्भिश्च स्वीयं कर्म सदा सुत ।। ५५ ।।
सूत उवाच ।।
एवं तस्मै वरान्दत्तास्सपुत्राय महात्मने ।।
सुदर्शनाय कृपया शिवाभ्यां जगतां कृते ।।५६।।
शिवाभ्यां स्थापिता यस्मात्तस्मात्तं वटुकाः स्मृताः ।।
तपोभ्रष्टाश्च ये जाताः स्मृतास्तस्मात्तपोधमाः ।।५७।।
शिवयोः कृपया सर्वे विस्तारं बहुधा गताः ।।
तेषां च प्रथमा पूजा महापूजा महात्मनः ।।५८।।
तेन यावत्कृता नैव पूजा वै शंकरस्य च ।।
तावत्पूजा न कर्त्तव्या कृता चेन्न शुभापि सा ।। ५९ ।।
शुभं वाप्यशुभं वापि बटुकं न परित्यजेत् ।।
प्राजापत्ये च भोज्ये वै वटुरेको विशिष्यते ।। 4.13.६० ।
शिवयोश्च तथा कार्ये विशेषोऽत्र प्रदृश्यते ।।
तदेव शृणु सुप्राज्ञ यथाहं वच्मि तेऽनघ ।। ६१ ।'
तस्यैव नगरे राज्ञो भद्रस्य नित्यभोजने ।।
प्राजापत्यस्य नियमे ह्यन्धकेशसमीपतः ।।६२।।
यज्जातमद्भुतं वृत्तं शिवानुग्रहकारणात् ।।
श्रूयतां तच्च सुप्रीत्या कथयामि यथाश्रुतम्।।६३।।
ध्वज एकश्च तद्राज्ञे दत्तस्तुष्टेन शंभुना।।
प्रोक्तश्च कृपया राजा देवदेवेन तेन सः।।६४।।
प्रातश्च वर्ध्यतां राजन्ध्वजो रात्रौ पतिष्यति।।
मम त्वेवं च सम्पूर्णे प्राजापत्ये तथा पुनः।।६५।।
अन्यथायं ध्वजो मे हि रात्रावपि स्थिरो भवेत्।।
इत्युक्त्वान्तर्हितश्शंभू राज्ञे तुष्टः कृपानिधिः।।६६।।
तथेति नियमश्चासीत्तस्य राज्ञो महामुने।।
प्राजापत्यं कृतं नित्यं शिवपूजाविधानत ।५७।
स्वयं प्रातर्विवर्दे्धेत ध्वजः सायं पतेदिति।।
यदि कार्यं च सम्पूर्णं जातं चैव भवेदिह ।।६८।।
एकस्मिन्समये चात्र बटोः कार्यं पुरा ह्यभूत् ।।
ध्वजः स पतितो वै हि ब्रह्मभोजं विनापि हि ।। ६९।।
दृष्ट्वा तच्च तदा तत्र पृष्टा राज्ञा च पण्डिताः ।।
भुञ्जते ब्राह्मणा ह्यत्र नोत्थितो वै ध्वजस्त्विति।।4.13.७०।।
कथं च पतितः सोऽत्र ब्राह्मणा ब्रूत सत्यतः ।।
ते पृष्टाश्च तदा प्रोचुर्ब्राह्मणाः पण्डितोत्तमाः।।७१।।
ब्रह्मभोजे महाराज वटुको भोजितः पुरा।।
चण्डीपुत्रश्शिवस्तुष्टस्तस्माच्च पतितो ध्वजः।।७२।।
तच्छ्रुत्वा नृपतिस्सोऽथ जनाश्चान्ये ऽपि सर्वशः ।।
अभवन्विस्मितास्तत्र प्रशंसां चक्रिरे ततः ।। ७३ ।।
एवं च महिमा तेषां वर्द्धितः शङ्करेण हि ।।
तस्माच्च वटुकाः श्रेष्ठाः पुरा विद्भिः प्रकीर्तिताः ।। ७४ ।।
शिवपूजा तु तैः पूर्वमुत्तार्य्या नान्यथा पुनः ।।
अन्येषां नाधिकारोऽस्ति शिवस्य वचनादिह ।। ७५ ।।
उत्तारणं च कार्य्यं वै पूजा पूर्णा भवत्विति ।।
एतावदेव तेषां तु शृणु नान्यत्तथैव च ।। ७६ ।।
एतत्सर्वं समाख्यातं यत्पृष्टं च मुनीश्वराः ।।
यच्छ्रुत्वा शिवपूजायाः फलं प्राप्नोति वै नरः।।७७।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां वटुकोत्पत्तिवर्णनं नाम त्रयोदशोऽध्यायः ।। १३ ।।